Followers

Search Here...

Tuesday, 22 April 2025

ஸ்கந்தம் 10: அத்யாயம் 57 (சத்ரார்ஜித் மரணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

சத்ரார்ஜித் மரணம்

ஸ்கந்தம் 10: அத்யாயம் 57

श्रीशुक उवाच
विज्ञात-अर्थः अपि गोविन्दः दग्धान् आकर्ण्य पाण्डवान्।
कुन्तीम् च कुल्य-करणे स-रामः ययौ कुरून्॥ १ ॥

भीष्मम् कृपम् स-विदुरम् गान्धारीम् द्रोणम् एव च।
तुल्य-दुःखौ च संगम्य हा कष्टम् इति होचतुः॥ २ ॥

लब्ध्वा एतत् अन्तरम् राजन् शतधन्वानम् ऊचतुः।
अक्रूर-कृतवर्माणौ मणिः कस्मात् न गृह्यते॥ ३ ॥

यः अस्मभ्यम् सम्प्रतिश्रुत्य कन्या-रत्नम् विगर्ह्य नः।
कृष्णाय आदात् न सत्राजित् कस्मात् भ्रातरम् अन्वियात्॥ ४ ॥

एवम् भिन्न-मतिः ताभ्याम् सत्राजितम् असत्तमः।
शयानम् अवधीत् लोभात् स पापः क्षीण-जीवितः॥ ५ ॥

स्त्रीणाम् विक्रोशमानानाम् क्रन्दन्तीनाम् अनाथवत्।
हत्वा पशून् सौनिकवत् मणिम् आदाय जग्मिवान्॥ ६ ॥

सत्यभामा च पितरम् हतम् वीक्ष्य शुच-अर्पिता।
व्यलपत् तात तात इति हा हता अस्मि इति मुह्यती॥ ७ ॥

तैल-द्रोण्याम् मृतम् प्रास्य जगाम गजसाह्वयम्।
कृष्णाय विदित-अर्थाय तप्ता आचख्यौ पितुः वधम्॥ ८ ॥

तत् आकर्ण्य ईश्वरौ राजन् अनुसृत्य नृ-लोकताम्।
अहो नः परमम् कष्टम् इति अस्र-अक्षौ विलेपतुः॥ ९ ॥

आगत्य भगवाः तत् स्मात् स-भार्यः स-अग्रजः पुरम्।
शतधन्वानम् आरेभे हन्तुम् हर्तुम् मणिम् ततः॥ १० ॥

सः अपि कृत-उद्यमम् ज्ञात्वा भीतः प्राण-परिप्सया।
साहाय्ये कृतवर्माणम् अयाचत सः च अब्रवीत्॥ ११ ॥

न अहम् ईश्वरयोः कुर्याम् हेलनम् राम-कृष्णयोः।
कः नु क्षेमाय कल्पेत तयोः वृजिनम् आचरन्॥ १२ ॥

कंसः सह-अनुगः अपि इतः यत् द्वेषात् त्याजितः श्रिया।
जरासन्धः सप्तदश संयुगान् विरथः गतः॥ १३ ॥

प्रत्याख्यातः सः च अक्रूरम् पार्ष्णि-ग्राहम् अयाचत।
सः अपि आह कः विरुध्येत विद्वान् ईश्वरयोः बलम्॥ १४ ॥

यः इदम् लीलया विश्वम् सृजति अवति हन्ति च।
चेष्टाम् विश्व-सृजः यस्य न विदुः मोहिता अजया॥ १५ ॥

यः सप्त-हायनः शैलम् उत्पाट्य एकेन पाणिना।
दधार लीलया बालः उच्छिलीन्ध्रम् इव अर्भकः॥ १६ ॥

नमः तस्मै भगवते कृष्णाय अद्भुत-कर्मणे।
अनन्ताय आदि-भूताय कूटस्थाय आत्मने नमः॥ १७ ॥

प्रत्याख्यातः सः तेन अपि शतधन्वा महा-मणिम्।
तस्मिन् न्यस्य अश्वम् आरुह्य शत-योजन-गम् ययौ॥ १८ ॥

गरुड-ध्वजम् आरुह्य रथम् राम-जनार्दनौ।
अन्वयाताम् महा-वेगैः अश्वैः राजन् गुरु-द्रुहम्॥ १९ ॥

मिथिलायाम् उपवने विसृज्य पतितम् हयम्।
पद्भ्याम् अधावत् सन्त्रस्तः कृष्णः अपि अन्वद्रवत् रुषा॥ २० ॥

पदातेः भगवाः तस्य पदातिः तिग्म-नेमिना।
चक्रेण शिरः उत्कृत्य वाससः व्यचिनोत् मणिम्॥ २१ ॥

अलब्ध-मणिः आगत्य कृष्णः आह अग्रज-अन्तिकम्।
वृथा हतः शतधनुः मणिः तत्र न विद्यते॥ २२ ॥

ततः आह बलः नूनम् सः मणिः शतधन्वना।
कस्मिंश्चित् पुरुषे न्यस्तः तम् अन्वेष पुरम् व्रज॥ २३ ॥

अहं वैदेहम् इच्छामि द्रष्टुम् प्रियतमम् मम।
इति उक्त्वा मिथिलाम् राजन् विवेश यदु-नन्दनः॥ २४ ॥

तम् दृष्ट्वा सहसा उत्थाय मैथिलः प्रीत-मानसः।
अर्हयामास विधिवत् अर्हणीयं समर्हणैः॥ २५ ॥

उवास तस्याम् कतिचित् मिथिलायाम् समाः विभुः।
मानितः प्रीति-युक्तेन जनकेन महात्मना॥ २६ ॥

ततः अशिक्षत् गदाम् काले धार्तराष्ट्रः सुयोधनः॥ २६ ॥

केशवः द्वारकाम् एत्य निधनम् शतधन्वनः।
अप्राप्तिं च मणेः प्राह प्रियायाः प्रिय-कृत् विभुः॥ २७ ॥

ततः सः कारयामास क्रियाः बन्धोः हतस्य वै।
साकम् सुहृद्भिः भगवान् या याः स्युः साम्परायिकाः॥ २८ ॥

अक्रूरः कृतवर्मा च श्रुत्वा शतधनुः-वधम्।
व्यूषतुः भय-वित्रस्तौ द्वारकायाः प्रयोजकौ॥ २९ ॥

अक्रूरे प्रोषिते अरिष्टान् आसन् वै द्वारका-उकसाम्।
शारीराः मानसाः तापाः मुहुः दैविक-भौतिकाः॥ ३० ॥

इति अङ्ग उपदिशन्ति एके विस्मृत्य प्राक्-उदाहृतम्।
मुनि-वास निवासे किं घटेत अरिष्ट-दर्शनम्॥ ३१ ॥

देवे अवर्षति काशी-ईशः श्वफल्काय आगताय वै।
स्वसुताम् गान्दिनीम् प्रादात् ततः अवर्षत् स्म काशिषु॥ ३२ ॥

तत्सुतः तत्-प्रभावः असौ अक्रूरः यत्र यत्र ह।
देवः अभिवर्षते तत्र न उपतापाः न मारिकाः॥ ३३ ॥

इति वृद्ध-वचः श्रुत्वा न एतावत् इह कारणम्।
इति मत्वा समानाय्य प्राह अक्रूरम् जनार्दनः॥ ३४ ॥

पूज्यित्वा अभिभाष्य एनम् कथयित्वा प्रियाः कथाः।
विज्ञत-अखिल-चित्त-ज्ञः स्मयमानः उवाच ह॥ ३५ ॥

ननु दान-पते न्यस्तः त्वयि आस्ते शतधन्वना।
स्यमन्तकः मणिः श्रीमान् विदितः पूर्वम् एव नः॥ ३६ ॥

सत्राजितः अनपत्यत्वात् गृह्णीयुः दुहितुः सुताः।
दायम् निनीय आपः पिण्डान् विमुच्य अर्णम् च शेषितम्॥ ३७ ॥

तथापि दुर्धरः त्वन्यैः त्वयि आस्ताम् सुव्रते मणिः।
किन्तु माम् अग्रजः सम्यक् न प्रत्येति मणिम् प्रति॥ ३८ ॥

दर्शयस्व महा-भाग बन्धूनाम् शान्तिम् आवह।
अव्युच्छिन्नाः मखाः ते अद्य वर्तन्ते रुक्म-वेदयः॥ ३९ ॥

एवम् सामभिः आलब्धः श्वफल्क-तनयः मणिम्।
आदाय वाससा आच्छन्नम् ददौ सूर्य-सम-प्रभम्॥ ४० ॥

स्यमन्तकम् दर्शयित्वा ज्ञातिभ्यः रज आत्मनः।
विमृज्य मणिना भूयः तस्मै प्रत्यर्पयत् प्रभुः॥ ४१ ॥

यस्त्वेतद् भगवत् ईश्वरस्य विष्णोः
वीर्याढ्यं वृजिन-हरं सुमङ्गलम् च।
आख्यानं पठति शृणोत्य अनुस्मरेद् वा
दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम्॥ ४२ ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने सप्तपञ्चाशत्तमोऽध्यायः ॥ 57


ஸ்கந்தம் 10: அத்யாயம் 56 (ச்யமந்தக மணி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ச்யமந்தக மணி

ஸ்கந்தம் 10: அத்யாயம் 56

श्री-शुकः उवाच –

सत्राजितः स्व-तनयाम् कृष्णाय कृत-किल्बिषः।
स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान्॥ १ ॥

श्री-राजा उवाच –
सत्राजितः किम् अकरोत् ब्रह्मन् कृष्णस्य किल्बिषम्।
स्यमन्तकः कुतः तस्य कस्मात् दत्ता सुता हरेः॥ २ ॥

श्री-शुकः उवाच –
आसीत् सत्राजितः सूर्यः भक्तस्य परमः सखा।
प्रीतः तस्मै मणिम् प्रादात् सूर्यः तुष्टः स्यमन्तकम्॥ ३ ॥

सः तम् बिभ्रत् मणिम् कण्ठे भ्राजमानः यथा रविः।
प्रविष्टः द्वारकाम् राजन् तेजसा न उपलक्षितः॥ ४ ॥

तम् विलोक्य जनाः दूरात् तेजसा मुष्ट-दृष्टयः।
दीव्यते अक्षैः भगवते शशंसुः सूर्य-शङ्किताः॥ ५ ॥

नारायण नमस्ते अस्तु शङ्ख-चक्र-गदा-धर।
दामोदर अरविन्दाक्ष गोविन्द यदु-नन्दन॥ ६ ॥

एषः आयाति सविता त्वाम् दिदृक्षुः जगत्-पते।
मुष्णन् गभस्ति-चक्रेण नृणाम् चक्षूंषि तिग्म-गुः॥ ७ ॥

नु अनु विच्छन्ति ते मार्गम् त्रिलोक्याम् विबुध-ऋषभाः।
ज्ञात्वा अद्य गूढम् यदुषु द्रष्टुम् त्वाम् याति अजः प्रभो॥ ८ ॥

श्री-शुकः उवाच –
निशम्य बाल-वचनम् प्रहस्य अम्बुज-लोचनः।
प्राह न असौ रविः देवः सत्राजिन् मणिना ज्वलन्॥ ९ ॥

सत्राजित् स्व-गृहम् श्रीमत् कृत-कौतुक-मङ्गलम्।
प्रविश्य देव-सदने मणिम् विप्रैः न्यवेशयत्॥ १० ॥

दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो।
दुर्भिक्षम् आर्य-अरिष्टानि सर्प-आधि-व्याधयः अशुभाः।
न सन्ति मायिनः तत्र यत्र आस्ते अभ्यर्चितः मणिः॥ ११ ॥

स याचितः मणिम् क्वापि यदु-राजाय शौरिणा।
न एव अर्थ-कामुकः प्रादात् याचन-भङ्गम् अ-तर्कयन्॥ १२ ॥

तम् एका-दा मणिम् कण्ठे प्रतिमुच्य महा-प्रभम्।
प्रसेनः हयम् आरुह्य मृगायाम् व्यचरत् वने॥ १३ ॥

प्रसेनम् सहयम् हत्वा मणिम् आच्छिद्य केशरी।
गिरिम् विशन् जाम्बवता निहतः मणिम् इच्छता॥ १४ ॥

सः अपि चक्रे कुमारस्य मणिम् क्रीडनकम् बिले।
अपश्यन् भ्रातरम् भ्राता सत्राजित् पर्यतप्यत॥ १५ ॥

प्रायः कृष्णेन निहतः मणि-ग्रीवः वनम् गतः।
भ्राता मम इति तत् श्रुत्वा कर्णे कर्णे अ-जपन् जनाः॥ १६ ॥

भगवान् तत् उपश्रुत्य दुर्यशः लिप्तम् आत्मनि।
मार्ष्टुम् प्रसेन-पदविम् अन्वपद्यत नागरैः॥ १७ ॥

हतम् प्रसेनम् अश्वम् च वीक्ष्य केसरिणा वने।
तम् च अद्रि-प्रिष्ठे निहतम् ऋक्षेण ददृशुः जनाः॥ १८ ॥

ऋक्ष-राज-बिलम् भीमम् अन्धेन तमसा आवृतम्।
एकः विवेश भगवान् अवस्थाप्य बहिः प्रजाः॥ १९ ॥

तत्र दृष्ट्वा मणि-प्रेष्ठम् बाल-क्रीडनकम् कृतम्।
हर्तुम् कृत-मतिः तस्मिन् अवतस्थे अर्भक-अन्तिके॥ २० ॥

तम् अपूर्वम् नरम् दृष्ट्वा धात्री चुक्रोश भीतवत्।
तत् श्रुत्वा अभ्यद्रवत् क्रुद्धः जाम्बवान् बलिनाम् वरः॥ २१ ॥

सः वै भगवता तेन युयुधे स्वामिना आत्मनः।
पुरुषम् प्राकृतम् मत्वा कुपितः न अनु-भाव-वित्॥ २२ ॥

द्वन्द्व-युद्धम् सुतुमुलम् उभयोः विजिगीषतोः।
आयुध-आश्म-द्रुमैः दोर्भिः क्रव्य-अर्थे श्येनयोः इव॥ २३ ॥

आसीत् तत् अष्टा-विंश-अहम् इतरेतरम् उष्टिभिः।
वज्र-निष्पेष-परुषैः अविश्रमम् अहः-निशम्॥ २४ ॥

कृष्ण-मुष्टि-विनिष्पात-निष्पिष्ट-अङ्ग-उरु-बन्धनः।
क्षीण-सत्त्वः स्विन्न-गात्रः तम् आह अतीव विस्मितः॥ २५ ॥

जाने त्वाम् सर्व-भूतानाम् प्राण-ओजः सहः बलम्।
विष्णुम् पुराण-पुरुषम् प्रभविष्णुम् अधीश्वरम्॥ २६ ॥

त्वम् हि विश्व-सृजाम् स्रष्टा सृज्यानाम् अपि यत् च सत्।
कालः कलयताम् ईशः पर-आत्मा तथा आत्मनाम्॥ २७ ॥

यस्य ईषत्-उत्कलित-रोष-कटाक्ष-मोक्षैः
वर्त्मा आदिशत् क्षुभित-नक्र-तिमिङ्गलः अब्धिः।
सेतुः कृतः स्व-यशः उज्ज्वलिता च लङ्का
रक्षः-शिरांसि भुवि पेतुः इषु-क्षतानि॥ २८ ॥

इति विज्ञात-विज्ञानम् ऋक्ष-राजानम् अच्युतः।
व्याजहार महाराज भगवान् देवकी-सुतः॥ २९ ॥

अभिमृश्य अरविन्द-आक्षः पाणिना शङ्करेण तम्।
कृपया परया भक्तम् प्रेम-गम्भीरया गिरा॥ ३० ॥

मणि-हेतोः इह प्राप्ताः वयम् ऋक्ष-पते बिलम्।
मिथ्या-अभिशापम् प्रमृजन् आत्मनः मणिना अमुना॥ ३१ ॥

इति उक्तः स्वाम् दुहितरम् कन्याम् जाम्बवतीम् मुदा।
अर्हण-अर्थम् स मणिना कृष्णाय उपजहार ह॥ ३२ ॥

अदृष्ट्वा निर्गमम् शौरेः प्रविष्टस्य बिलम् जनाः।
प्रतीक्ष्य द्वादश-अहानि दुःखिताः स्व-पुरम् ययुः॥ ३३ ॥

निशम्य देवकी देवी रुक्मिण्या अनक-दुन्दुभिः।
सुहृदः ज्ञातयः अशोचन् बिलात् कृष्णम् अनिर्गतम्॥ ३४ ॥

सत्राजितम् शपन्तः ते दुःखिताः द्वारका-उकसः।
उपतस्थुः महा-मायाम् दुर्गाम् कृष्ण-उपलब्धये॥ ३५ ॥

तेषाम् तु देवी-उपस्थानात् प्रत्यादिष्ट-आशिषा स च।
प्रादुर्बभूव सिद्ध-अर्थः स-दारः हर्षयन् हरिः॥ ३६ ॥

उपलभ्य हृषीकेशम् मृतम् पुनर्-इव आगतम्।
सह पत्न्या मणि-ग्रीवम् सर्वे जात-महोत्सवाः॥ ३७ ॥

सत्राजितम् समाहूय सभायाम् राजा-सन्निधौ।
प्राप्तिम् च आख्याय भगवान् मणिम् तस्मै न्यवेदयत्॥ ३८ ॥

सः च अति-व्रीडितः रत्नम् गृहीत्वा अवाङ्मुखः ततः।
अनुतप्यमानः भवनम् अगमत् स्वेन पाप्मना॥ ३९ ॥

सः अनु-ध्यायन् तत् एव अघम् बलवत्-विग्रह-आकुलः।
कथम् मृजामि आत्म-रजः प्रसीदेत् वा अच्युतः कथम्॥ ४० ॥

किं कृत्वा साधु मह्यम् स्यात् न शपेत् वा जनः यथा।
अदीर्घ-दर्शनम् क्षुद्रम् मूढम् द्रविण-लोलुपम्॥ ४१ ॥

दास्ये दुहितरम् तस्मै स्त्री-रत्नम् रत्नम् एव च।
उपायः अयम् समीचीनः तस्य शान्तिः न च अन्यथा॥ ४२ ॥

एवम् व्यवसितः बुद्ध्या सत्राजित् स्व-सुताम् शुभाम्।
मणिम् च स्वयम् उद्यम्य कृष्णाय उपजहार ह॥ ४३ ॥

ताम् सत्यभामाम् भगवान् उपयेमे यथा-विधि।
बहुभिः याचिताम् शील-रूप-औदार्य-गुण-अन्विताम्॥ ४४ ॥

भगवान् आह न मणिम् प्रतीच्छामः वयम् नृप।
तव अस्ताम् देव-भक्तस्य वयम् च फल-भागिनः॥ ४५ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने षट्पञ्चाशत्तमोऽध्यायः॥ 56


Tuesday, 15 April 2025

ஸ்கந்தம் 10: அத்யாயம் 54 (ருக்மிணி கல்யாணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணி கல்யாணம்

ஸ்கந்தம் 10: அத்யாயம் 54

श्री-शुकः उवाच –
इति सर्वे सुसंरब्धाः वाहान् आरुह्य दंशिताः
स्वैः स्वैः बलैः परिक्रान्ताः अन्वीयुः धृत-कार्मुकाः॥ १ ॥

तान् आपततः आलोक्य यादव-आनीक-यूथपाः
तस्थुः तत्-सम्मुखाः राजन् विस्फूर्ज्य स्व-धनूंषि ते॥ २ ॥

अश्व-पृष्ठे गज-स्कन्धे रथ-उपस्थे कोविदाः
मुमुचुः शर-वर्षाणि मेघाः अद्रिषु अपः यथा॥ ३ ॥

पत्युः बलम् शर-आसारैः छन्नम् वीक्ष्य सुमध्यमा।
स-व्रीडा अमैक्षत् तत्-वक्त्रं भय-विह्वल-लोचना॥ ४ ॥

प्रहस्य भगवान् आह मा स्म भैः वाम-लोचने।
विनङ्क्ष्यति अधुना एव एतत् तावकैः शात्रवम् बलम्॥ ५ ॥

तेषाम् तत्-विक्रमम् वीराः गद-सङ्कर्षण-आदयः
अमृष्यमाणाः नाराचैः जघ्नुः हय-गजान् रथान्॥ ६ ॥

पेतुः शिरांसि रथिनाम् अश्विनाम् गजिनाम् भुवि।
स-कुण्डल-किरीटानि स-उष्णीषाणि कोटिशः॥ ७ ॥

हस्ताः स-असि-गद-इषु-आसाः करभाः ऊरवः अङ्घ्रयः।
अश्व-अश्वतर-नाग-उष्ट्र-खर-मर्त्य-शिरांसि च॥ ८ ॥

हन्यमान-बल-आनीकाः वृष्णिभिः जय-काङ्क्षिभिः।
राजानः विमुखाः जग्मुः जरासन्ध-पुरःसराः॥ ९ ॥

शिशुपालम् समभ्येत्य हृत-दारम् इव आतुरम्।
नष्ट-त्विषम् गत-उत्साहम् शुष्यत्-वदनम् अब्रुवन्॥ १० ॥

भोः भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज।
प्रिय-अप्रिययोः राजन् निष्ठा देहिषु दृश्यते॥ ११ ॥

यथा दारुमयी योषित् नृत्यते कुहक-इच्छया।
एवम् ईश्वर-तन्त्रः अयम् ईहते सुख-दुःखयोः॥ १२ ॥

शौरेः सप्तदश अहम् वै संयुगानि पराजितः।
त्रयोविंशतिभिः सैन्यैः जिग्ये एकम् अहम् परम्॥ १३ ॥

तथापि अहम् शोचामि प्रहृष्यामि कर्हिचित्।
कालेन दैव-युक्तेन जानन् विद्रावितम् जगत्॥ १४ ॥

अधुना अपि वयम् सर्वे वीर-यूथप-यूथपाः।
पराजिताः फल्गु-तन्त्रैः यदुभिः कृष्ण-पालितैः॥ १५ ॥

रिपवः जिग्युः अधुना काले आत्म-अनुसारिणि।
तदा वयम् विजेष्यामः यदा कालः प्रदक्षिणः॥ १६ ॥

एवम् प्रबोधितः मित्रैः चैद्यः अगात् स-अनुगः पुरम्।
हत-शेषाः पुनः ते अपि ययुः स्वं स्वं पुरम् नृपाः॥ १७ ॥

रुक्मी तु राक्षस-उद्वाहम् कृष्ण-द्विषा असहन् स्वसुः।
पृष्ठतः अन्वगमत् कृष्णम् अक्षौहिण्या वृतः बली॥ १८ ॥

रुक्मिः अमर्षी सुसंरब्धः शृण्वताम् सर्व-भूभुजाम्।
प्रतिजज्ञे महाबाहुः दंशितः स-शर-आसनः॥ १९ ॥

अहत्वा समरे कृष्णम् अप्रत्यूह्य रुक्मिणीम्।
कुण्डिनम् प्रवेक्ष्यामि सत्यम् एतत् ब्रवीमि वः॥ २० ॥

इत्युक्त्वा रथम् आरुह्य सारथिम् प्राह सत्वरः।

चोदय अश्वान् यतः कृष्णः तस्य मे संयुगम् भवेत्॥ २१ ॥


अद्य अहम् निशितैः बाणैः गोपालस्य सुदुर्मतेः।

नेष्ये वीर्य-आदम् येन स्वसा मे प्रसभम् हृता॥ २२ ॥


विकत्थमानः कुमतिः ईश्वरस्य अप्रमाण-वित्।

रथेन एकेन गोविन्दम् तिष्ठ तिष्ठ इति अथ आह्वयत्॥ २३ ॥


धनुः विकृष्य सुदृढम् जघ्ने कृष्णम् त्रिभिः शरैः।

आह च अत्र क्षणम् तिष्ठ यदूनाम् कुल-पांसन॥ २४ ॥


कुत्र यासि स्वसारम् मे मुषित्वा ध्वाङ्क्षवत् धविः।

हरिष्ये अद्य मदम् मन्द मायिनः कूट-योधिनः॥ २५ ॥


यावत् न मे हतः बाणैः शयीथा मुञ्च दारिकाम्।

स्मयन् कृष्णः धनुः छित्त्वा षड्भिः विव्याध रुक्मिणम्॥ २६ ॥


अष्टभिः चतुरः वाहान् द्वाभ्याम् सूतम् ध्वजम् त्रिभिः।

सः च अन्यत् धनुः आधाय कृष्णम् विव्याध पञ्चभिः॥ २७ ॥


तैः तातितः शर-ओघैः तु चिच्छेद धनुः अच्युतः।

पुनः अन्यत् उपादत्त तत् अपि अच्छिनद् अव्ययः॥ २८ ॥


परिघम् पट्टिशम् शूलम् चर्म-आसिः शक्ति-तोमरौ।

यत् यत् आयुधम् आदत्त तत् सर्वम् सः अच्छिनद् हरिः॥ २९ ॥


ततः रथात् अवप्लुत्य खड्ग-पाणिः जिघांसया।

कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्गः इव पावकम्॥ ३० ॥


तस्य च आपततः खड्गम् तिलशः चर्म च इषुभिः।

छित्त्वा असिम् आददे तिग्मम् रुक्मिणम् हन्तुम् उद्यतः॥ ३१ ॥


दृष्ट्वा भ्रातृ-वध-उद्योगम् रुक्मिणी भय-विह्वला।

पतित्वा पादयोः भर्तुः उवाच करुणम् सती॥ ३२ ॥


योगेश्वर अप्रमेय-आत्मन् देव-देव जगत्-पते।

हन्तुम् न अर्हसि कल्याण भ्रातरम् मे महाभुज॥ ३३ ॥


श्री-शुकः उवाच –

तया परित्रास-विकम्पित-अङ्गया

 शुचा-उशुष्यन्-मुख-रुद्ध-कण्ठया।

कातर्य-विस्रंसित-हेम-मालया

 गृहीत-पादः करुणः न्यवर्तत॥ ३४ ॥


चैलेन बद्ध्वा तम् असाधु-कारिणम्

 स-श्मश्रु-केशम् प्रवपन् व्यरूपयत्।

तावत् ममर्दुः पर-सैन्यम् अद्भुतम्

 यदु-प्रवीराः नलिनीम् यथा गजाः॥ ३५ ॥


कृष्ण-अन्तिकम् उपव्रज्य ददृशुः तत्र रुक्मिणम्।

तथा-भूतम् हत-प्रायम् दृष्ट्वा सङ्कर्षणः विभुः।

विमुच्य बद्धम् करुणः भगवान् कृष्णम् अब्रवीत्॥ ३६ ॥


असाधु इदम् त्वया कृष्ण कृतम् अस्मत्-जुगुप्सितम्।

वपनम् श्मश्रु-केशानाम् वैरूप्यम् सुहृदः वधः॥ ३७ ॥


मा एव अस्मान् साध्वि असूयथा भ्रातुः वैरूप्य-चिन्तया।

सुख-दुःख-दः न च अन्यः अस्ति यतः स्व-कृत-भुक् पुमान्॥ ३८ ॥


बन्धुः वध-अर्ह-दोषः अपि न बन्धोः वधम् अर्हति।

त्याज्यः स्वेन एव दोषेण हतः किं हन्यते पुनः॥ ३९ ॥


क्षत्रियाणाम् अयम् धर्मः प्रजापति-विनिर्मितः।

भ्राता अपि भ्रातरम् हन्यात् येन घोरतमः ततः॥ ४० ॥


राज्यस्य भूमेः वित्तस्य स्त्रियो मानस्य तेजसः।

मानिनः अन्यस्य वा हेतोः श्रीमद-आन्धाः क्षिपन्ति हि॥ ४१ ॥


तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम्।

यत्-मन्यसे सदा-आभद्रं सुहृदां भद्रम्-अज्ञवत्॥ ४२ ॥


आत्म-मोहो नृणाम्-एष कल्पते देव-मायया।

सुहृद् दुर्हृद-उदासीन इति देह-आत्म-मानिनाम्॥ ४३ ॥


एकः एव परः ह्यात्मा सर्वेषाम्-अपि देहिनाम्।

नानेव गृह्यते मूढैः यथा ज्योति-र्यथा नभः॥ ४४ ॥


देह आद्यन्त-वानेष द्रव्य-प्राण-गुणात्मकः।

आत्म-न्य-विद्यया कॢप्तः संसारयति देहिनम्॥ ४५ ॥


नात्मनोऽन्येन संयोगो वियोगः चासतः सति।

तद्धेतुत्वात् तत्प्रसिद्धेः दृग्-रूपाभ्यां यथा रवेः॥ ४६ ॥


जन्म-आदयः तु देहस्य विक्रिया नात्मनः क्वचित्।

कलानामिव नैव एन्दोर्मृतिः ह्यस्य कुहूरिव॥ ४७ ॥


यथा शयान आत्मानं विषयान् फलम्-एव च।

अनुभुङ्क्ते अपि असत्य-अर्थे तथा आप्नोत्य-न-आबुधो भवम्॥ ४८ ॥


तस्मात्-ज्ञान-जं शोकम् आत्म-शोष-विमोहनम्।

तत्त्व-ज्ञान-एन निर्हृत्य स्व-स्था भव शुचिस्मिते॥ ४९ ॥


श्री-शुकः उवाच –

एवं भगवता तन्वी रामेण प्रतिबोधिता।

वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे॥ ५० ॥


प्राण-अवशेष उत्सृष्टः द्विड्भिः हतबल-प्रभः।

स्मरन् विरूपकरणं वितथात्म-मनोरथः॥ ५१ ॥


चक्रे भोज-कटं नाम निवासाय महत् पुरम्।

अहत्वा दुर्मतिं कृष्णम् प्रत्यूह्य यवीयसीम्।

कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्र आवसद् रुषा॥ ५२ ॥


भगवान् भीष्मकसुताम् एवं निर्जित्य भूमिपान्।

पुरमानीय विधिवदुपयेमे कुरूद्वह॥ ५३ ॥


तदा महोत्सवो नृणां यदुपुर्यां गृहे गृहे।

अभूद् अनन्यभावानां कृष्णे यदुपतौ नृप॥ ५४ ॥


नरा नार्यः च मुदिताः प्रमृष्ट-मणि-कुण्डलाः।

पारिबर्हम् उपाजह्रुः वरयोश्चित्र-वाससोः॥ ५५ ॥


सा वृष्णि-पुरि युत्तभितेन्द्र-केतुभि-

विचित्र-माल्या-अम्बर-रत्न-तोरणैः।

बभौ प्रतिद्वार्युपकॢप्त-मङ्गलै-

रापूर्ण-कुम्भागुरु-धूपदीपकैः॥ ५६ ॥


सिक्तमार्गा मदच्युद्भिराहूत-प्रेष्ठ-भूभुजाम्।

गजैः द्वास्सु परामृष्टरम्भा-पूगो-पशोभिता॥ ५७ ॥


कुरुसृञ्जय-केकेय-विदर्भ-यदुकुन्तयः।

मिथो मुमुदिरे तस्मिन सम्भ्रमात् परिधावताम्॥ ५८ ॥


रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः।

राजानः राजकन्याश्च बभूवुर्हृशविस्मिताः॥ ५९ ॥


द्वारकायामभूद् राजन् महामोदः पुरौकसाम्।

रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः-पतिम्॥ ६० ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहे चतुः पञ्चाशत्तमोऽध्यायः ॥ 54

ஸ்கந்தம் 10: அத்யாயம் 53 (கண்ணன் ருக்மிணியை தூக்கி சென்றான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன் ருக்மிணியை தூக்கி சென்றான்

ஸ்கந்தம் 10: அத்யாயம் 53

श्री-शुकः उवाच –
वैदर्भ्याः सः तु सन्देशम् निशम्य यदु-नन्दनः।
प्रगृह्य पाणिना पाणिम् प्रहसन् इदम् अब्रवीत्॥ १ ॥

श्री-भगवान् उवाच –
तथा अहम् अपि तत्-चित्तः निद्राम् च न लभे निशि।
वेद अहम् रुक्मिणा द्वेषात् मम उद्वाहः निवारितः॥ २ ॥

ताम् आनयिष्य उन्मथ्य राजन्‍य-अपसदान् मृधे।
मत्-पराम् अनवद्या-अङ्गीम् मेधसः अग्नि-शिखाम् इव॥ ३ ॥

श्री-शुकः उवाच –
उद्वाह-ऋक्षम् च विज्ञाय रुक्मिण्या मधु-सूदनः।
रथः संयुज्यताम् आशु "दारुक" इति आह सारथिम्॥ ४ ॥

सः च अश्वैः शैब्य-सुग्रीव-मेघ-पुष्प-बलाहकैः।
युक्तम् रथम् उपानीय तस्थौ प्राञ्जलिः अग्रतः॥ ५ ॥

आरुह्य स्यन्दनम् शौरिः द्विजम् आरोप्य तूर्ण-गैः।
आनर्तात् एक-रात्रेण विदर्भान् अगमत् धयैः॥ ६ ॥

राजा सः कुण्डिन-पतिः पुत्र-स्नेह-वशं गतः।
शिशुपालाय स्वाम् कन्याम् दास्यन् कर्माणि अकारयत्॥ ७ ॥

पुरम् सम्मृष्ट-संसिक्त मार्ग-रथ्या-चतुष्पथम्।
चित्र-ध्वज-पताका-भिः तोरणैः समलङ्कृतम्॥ ८ ॥

स्रक्-गन्ध-माल्य-आभरणैः विरजः अम्बर-भूषितैः।
जुष्टम् स्त्री-पुरुषैः श्रीमत्-गृहैः अगुरु-धूपितैः॥ ९ ॥

पितॄन् देवान् समभ्यर्च्य विप्रान् च विधिवत् नृप।
भोजयित्वा यथा-न्यायम् वाचयामास मङ्गलम्॥ १० ॥

सुस्नाताम् सुदतीम् कन्याम् कृत-कौतुक-मङ्गलाम्।
आहत-अंशुक-युग्मेन भूषिताम् भूषण-उत्तमैः॥ ११ ॥

चक्रुः साम-ऋक्-यजुः-मन्त्रैः वध्वाः रक्षाम् द्विज-उत्तमाः।
पुरोहितः अथर्व-वित् वै जुहाव ग्रह-शान्तये॥ १२ ॥

हिरण्य-रूप्य-वासाांसि तिलान् च गुड-मिश्रितान्।
प्रादात् धेनूः च विप्रेभ्यः राजा विधि-विदाम् वरः॥ १३ ॥

एवम् चेदि-पतिः राजा दम-घोषः सुताय वै।
कारयामास मन्त्र-ज्ञैः सर्वम् अभ्युदय-उचितम्॥ १४ ॥

मत-उद्भिः गज-अनीकैः स्यन्दनैः हेमा-मालिभिः।
पत्त्य-अश्व-सङ्कुलैः सैन्यैः परीतः कुण्डिनम् ययौ॥ १५ ॥

तम् वै विदर्भ-अधिपतिः समभ्येत्य अभिपूज्य च।
निवेशयामास मुदा कल्पितानि निवेशने॥ १६ ॥

तत्र शाल्वः जरासन्धः दन्तवक्त्रः विदूरथः।
आजग्मुः च ऐद्य-पक्षीयाः पौण्ड्रक-आद्याः सहस्रशः॥ १७ ॥

कृष्ण-राम-द्विषः यत्ताः कन्याम् चैद्याय साधितुम्।
यदि आगत्य हरेत् कृष्णः राम-आद्यैः यदुभिः वृत्तः॥ १८ ॥

योत्स्यामः संहताः तेन इति निश्चित-मानसाः।
आजग्मुः भूभुजः सर्वे समग्र-बल-वाहनाः॥ १९ ॥

श्रुत्वा एतत् भगवान् रामः विपक्षीय-नृप-उद्यमम्।
कृष्णम् च एकम् गतम् हर्तुम् कन्याम् कलह-शङ्कितः॥ २० ॥

बलेन महता सार्धम् भ्रातृ-स्नेह-परिप्लुतः।
त्वरितः कुण्डिनम् प्रागात् गज-अश्व-रथ-पत्तिभिः॥ २१ ॥

भीष्मक-कन्या वर-आरोहा काङ्क्षन्ती आगमनम् हरेः।
प्रत्यापत्तिम् अपश्यन्ती द्विजस्य अचिन्तयत् तदा॥ २२ ॥

अहो त्रियाम-अन्तरितः उद्वाहः मे अल्प-अराधसः।
आगच्छति अरविन्द-आक्षः न अहम् वेद्मि अत्र कारणम्।
सः अपि न आवर्तते अद्य अपि मत्-सन्देश-हरः द्विजः॥ २३ ॥

अपि मयि अनवद्य-आत्मा दृष्ट्वा किञ्चित् जुगुप्सितम्।
मत्-पाणि-ग्रहणे नूनम् न आयाति हि कृत-उद्यतः॥ २४ ॥

दुर्भगायाः न मे धाता न अनुकूलः महा-ईश्वरः।
देवी वा विमुखा गौरी रुद्राणी गिरिजा सती॥ २५ ॥

एवम् चिन्तयती बाला गोविन्द-हृत-मानसा।
न्यमीलयत् काल-ज्ञा नेत्रे च अश्रु-कलाकुले॥ २६ ॥

एवम् वध्वाः प्रतीक्षन्त्याः गोविन्द-आगमनम् नृप।
वामः ऊरुः भुजः नेत्रम् अस्फुरन् प्रिय-भाषिणः॥ २७ ॥

अथ कृष्ण-विनिर्दिष्टः सः एव द्विज-सत्तमः।
अन्तःपुर-चरीम् देवīm राज-पुत्रीम् ददर्श ह॥ २८ ॥

सा तम् प्रहृष्ट-वदनम् अव्यग्र-आत्म-गतिम् सती।
आलक्ष्य लक्षण-अभिज्ञा समपृच्छत् शुचि-स्मिता॥ २९ ॥

तस्यै आवेदयत् प्राप्तम् शशंस यदु-नन्दनम्।
उक्तम् च सत्य-वचनम् आत्म-उपनयनम् प्रति॥ ३० ॥

तम् आगतम् समाज्ञाय वैदर्भी हृष्ट-मानसा।
पश्यन्ती ब्राह्मणाय प्रियम् अन्यत् अननाम सा॥ ३१ ॥

प्राप्तौ श्रुत्वा स्व-दुहितुः उद्वाह-प्रेक्षण-उत्सुकौ।
अभ्ययात् तूर्य-घोषेण राम-कृष्णौ समर्हणैः॥ ३२ ॥

मधुपर्कम् उपानीय वासांसि विरजांसि सः।
उपायनानि अभीष्टानि विधिवत् समपूजयत्॥ ३३ ॥

तयोः निवेशनम् श्रीमत् उपाकल्प्य महा-मतिः।
स-सैन्ययोः स-अनुगयोः आतिथ्यम् विदधे यथा॥ ३४ ॥

एवम् राज्ञाम् समेतानाम् यथा-वीर्यम् यथा-आयः।
यथा-बलम् यथा-वित्तम् सर्वैः कामैः समर्हयत्॥ ३५ ॥

कृष्णम् आगतम् आकर्ण्य विदर्भ-पुर-वासिनः।
आगत्य नेत्र-अञ्जलिभिः अपु: तत्-मुख-पङ्कजम्॥ ३६ ॥

अस्यै एव भार्या भवितुम् रुक्मिण्या अर्हति न अपरा।
असौ अपि अनवद्य-आत्मा भैष्म्याः समुचितः पतिः॥ ३७ ॥

किञ्चित् सु-चरितम् यत् नः तेन तुष्टः त्रि-लोक-कृत्।
अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः॥ ३८ ॥

एवम् प्रेम-कलाभद्धाः वदन्ति स्म पुर-औकसः।
कन्या च अन्तःपुरात् प्रागात् भटैः गुप्ता अम्बिका-आलयम्॥ ३९ ॥

पद्भ्याम् विनिर्ययौ द्रष्टुम् भवान्याः पाद-पल्लवम्।
सा च अनुध्यायती सम्यक् मुकुन्द-चरण-अम्बुजम्॥ ४० ॥

यतवाक्-मातृभिः सार्धं सखीभिः परिवारिता।
गुप्ता राज-भटैः शूरैः सन्नद्धैः उद्यत-आयुधैः।
मृदङ्ग-शङ्ख-पणवाः तूर्य-भेर्यः च जघ्निरे॥ ४१ ॥

नानोपहार-बलिभिः वार-मुख्याः सहस्रशः।
स्रक्-गन्ध-वस्त्र-आभरणैः द्विज-पत्न्यः स्वलङ्कृताः॥ ४२ ॥

गायन्त्यः च स्तुवन्त्यः च गायका वाद्य-वादकाः।
परिवार्य वधूं जग्मुः सूत-मागध-वन्दिनः॥ ४३ ॥

आसाद्य देवी-सदनम् धौत-पाद-कर-अम्बुजा।
उपस्पृश्य शुचिः शान्ता प्रविवेश अम्बिका-अन्तिकम्॥ ४४ ॥

तां वै प्रवयसः बालाम् विधि-ज्ञाः विप्र-योषितः।
भवानीम् वन्दयाम् चक्रुः भव-पत्नीं भवान्विताम्॥ ४५ ॥

नमस्ये त्वाम् अम्बिके अभिक्ष्णम् स्व-सन्तान-युतां शिवाम्।
भूयात् पतिः मे भगवान् कृष्णः तत् अनु-मोदताम्॥ ४६ ॥

अद्भिः-गन्ध-क्षतैः-धूपैः वासः-स्रक्-माल्य-भूषणैः।
नानोपहार-बलिभिः प्रदीप-आवलिभिः पृथक्॥ ४७ ॥

विप्र-स्त्रियः पतिमतीः तथा ताः समपूजयत्।
**लवण-आपूप-ताम्बूल-कण्ठ-सूत्र-फल-इक्षुभिः॥ ४८ ॥

तस्यै स्त्रियः ताः प्रददुः शेषाम् युयुजुः आशिषः।
ताभ्यः देव्यै नमः चक्रे शेषां च जगृहे वधूः॥ ४९ ॥

मुनि-व्रतम् अथ त्यक्त्वा निष्क्रान्ता अम्बिका-गृहात्।
प्रगृह्य पाणिना भृत्यां रत्न-मुद्रा-उपशोभिना॥ ५० ॥

तां देव-मायाम् इव वीर-मोहिनीम्
सु-मध्यमाम् कुण्डल-मण्डित-आननाम्।
श्यामाम् नितम्ब-आर्पित-रत्न-मेखलाम्
व्यञ्जत्-स्तनीम् कुन्तल-शङ्कित-ईक्षणाम्॥ ५१ ॥

शुचि-स्मिताम् बिम्ब-फल-आधर-द्युति
शोणायमान-द्विज-कुन्द-कुड्मलाम्।
पदा
चलन्तीम् कल-हंस-गामिनीम्
**शिञ्जत्-कल-नूपुर-धाम-शोभिना॥ ५२ ॥

विलोक्य वीराः मुमुहुः समागताः
यशस्विनः तत्-कृत-हृच्छय-आर्दिताः॥

याम् वीक्ष्य ते नृपतयः तत्-उदार-हास
व्रीडा-आवलोक-हृत-चेतसः उज्झित-अस्त्राः।
पेतुः क्षितौ गज-रथ-अश्व-गताः विमूढाः
यात्रा-च्छलेन हरये अर्पयतीं स्व-शोभाम्॥ ५३ ॥

सा एवम् शनैः चलयती चल-पद्म-कोशौ
प्राप्तिम् तदा भगवतः प्रसमीक्षमाणा।
उत्सार्य वाम-कर-जैः अलकान् अपङ्गैः
प्राप्तान् ह्रियै ईक्षत नृपान् ददृशे अच्युतम् सा॥ ५४ ॥

तां राज-कन्याम् रथम् आरुरुक्षतीम्
जहार कृष्णः द्विषताम् समीक्षताम्।
रथम् समारोप्य सुपर्ण-लक्षणम्
राजन्य-चक्रम् परिभूय माधवः॥ ५५ ॥

ततः ययौ राम-पुरोगमैः शनैः
सृगाल-मध्यात् इव भाग-हृत् हरिः॥ ५६ ॥

तम् मानिनः स्व-अभिभवम् यशः-क्षयम्
परे जरासन्ध-वशाः न सेहिरे।
अहो धिक् अस्मान् यशः आत्त-धन्वनाम्
गोपैः हृतम् केसरिणाम् मृगैः इव॥ ५७ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिणीहरणं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३


Sunday, 13 April 2025

ஸ்கந்தம் 10: அத்யாயம் 52 (ருக்மிணி கண்ணனுக்கு எழுதிய கடிதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணி கண்ணனுக்கு எழுதிய கடிதம்

ஸ்கந்தம் 10: அத்யாயம் 52

श्री-शुकः उवाच –

इत्थम् सः अनुग्रहीतः अङ्ग कृष्णेन इक्ष्वाकु-नन्दनः।

तम् परिक्रम्य सन्नम्य निःचक्राम गुहा-मुखात्॥ १ ॥


सः वीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुत्-वनस्पतीन्।

मत्वा कलि-युगम् प्राप्तम् जगाम दिशम् उत्तराम्॥ २ ॥


तपः-श्रद्धा-युतः धीरो निःसङ्गः मुक्त-संशयः।

समाधाय मनः कृष्णे प्राविशत् गन्ध-मादनम्॥ ३ ॥


बदर्याश्रमम् आसाद्य नर-नारायण-आलयम्।

सर्व-द्वन्द्व-सहः शान्तः तपसा आराधयत् हरिम्॥ ४ ॥


भगवान् पुनः-आव्रज्य पुरीम् यवन-वेष्टिताम्।

हत्वा म्लेच्छ-बलम् निन्ये तदीयम् द्वारकाम् धनम्॥ ५ ॥


नीयमाने धने गोभिः नृभिः च अच्युत-चोदितैः।

आजगाम जरासन्धः त्रयो-विंशति-अनीकपः॥ ६ ॥


विलोक्य वेग-रभसम् रिपु-सैन्यस्य माधवौ।

मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुः द्रुतम्॥ ७ ॥


विहाय वित्तम् प्रचुरम् अभीतौ भीरु-भीत-वत्।

पद्भ्याम् पद्म-पलाशाभ्याम् चेलतुः बहु-योजनम्॥ ८ ॥


पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली।

अन्वधावत् रथ-अनीकैः ईशयोः अप्रमाण-वित्॥ ९ ॥


प्रद्रुत्य दूरम् संश्रान्तौ तुङ्गम् आरुहताम् गिरिम्।

प्रवर्षण-आख्यम् भगवान् नित्यदा यत्र वर्षति॥ १० ॥


गिरौ निलीनौ अविज्ञाय न अधिगम्य पदम् नृप।

ददाह गिरिम् एधोभिः समन्तात् अग्निम् उत्सृजन्॥ ११ ॥


ततः उत्पत्य तरसा दह्यमान-तटात् उभौ।

दश-एक-योजनात् तुङ्गात् निपेततुः अधः भुवि॥ १२ ॥


अलक्ष्य-माणौ रिपुणा स-अनुगेन यदु-उत्तमौ।

स्व-पुरम् पुनः-आयातौ समुद्र-परिखाम् नृप॥ १३ ॥


सः अपि दग्धौ इति मृषा मन्वानः बल-केशवौ।

बलम् आकृष्य सुमहम् मगधान् मागधः ययौ॥ १४ ॥


आनर्त-अधिपतिः श्रीमन् रैवतः रैवतीम् सुताम्।

ब्रह्मणा चोदितः प्रादात् बलाय इति पुरा-उदितम्॥ १५ ॥


भगवान् अपि गोविन्दः उपयेमे कुरु-उद्वह।

वैदर्भीम् भीष्मक-सुताम् श्रियः मात्राम् स्वयंवरे॥ १६ ॥


प्रमथ्य तरसा राज्ञः शाल्व-आदीन् च ऐद्य-पक्षगान्।

पश्यताम् सर्व-लोकानाम् तार्क्ष्य-पुत्रः सुधाम् इव॥ १७ ॥


श्री-राजा उवाच –

भगवान् भीष्मक-सुताम् रुक्मिणीम् रुचिर-आननाम्।

राक्षसेन विधानेन उपयेमे इति श्रुतम्॥ १८ ॥


भगवन् श्रोतुम् इच्छामि कृष्णस्य अमित-तेजसः।

यथा मागध-शाल्व-आदीन् जित्वा कन्याम् उपाहरत्॥ १९ ॥


ब्रह्मन् कृष्ण-कथाः पुण्याः माध्वीः लोक-मल-अपहाः।

कः नु तृप्येत शृण्वानः श्रुत-ज्ञः नित्य-नूतनाः॥ २० ॥


श्री शुक उवाच

राजा-आसीत् भीष्मकः नाम विदर्भाधिपतिर्महान्।

तस्य पञ्च-आभवन् पुत्राः कन्या-एका च वर-अनना ॥ २१


रुक्म्यग्रजः रुक्मरथः रुक्मबाहुः अनन्तरः।

रुक्मकेशः रुक्ममाली रुक्मिण्याः एषां स्वसा सती ॥ २२


सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः।

गृह-आगतानि गीयमानास्तं मेने सदृशं पतिम् ॥ २३


तां बुद्धि-लक्षण-औदार्य रूप-शील-गुण-आश्रयाम्।

कृष्णः च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ २४


बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप।

ततो निवार्य कृष्णद्विड् रुक्मी चैद्यम् अन्यम् अन्यत् ॥ २५


तदवेत्या-आसितापाङ्गी वैदर्भी दुर्मना भृशम्।

विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद्ध्रुतम् ॥ २६


द्वारकाम् स समभ्येत्य प्रतीहारैः प्रवेशितः।

अपश्यदाद्यं पुरुषं आसीनं काञ्चनासनात् ॥ २७


दृष्ट्वा ब्रह्मण्यदेवः तम् अवरुह्य निजासनात्।

उपवेश्यार्हयां चक्रे यथा-आत्मानं दिवौकसः ॥ २८


तम् भुक्तवंतं विश्रान्तम् उपगम्य सतां गतिः।

पाणिनाभिमृशन् पादौव्यग्रस्तम् अपृच्छत ॥ २९


कच्चिद् द्विजवर-श्रेष्ठ धर्मस्ते वृद्ध-सम्मतः।

वर्तते नाति-कृच्छ्रेण सन्तुष्ट-मनसः सदा ॥ ३०


सन्तुष्टो यः-र्हि वर्तेत ब्राह्मणो येन केनचित्।

अहीयमानः स्वाद्धर्मात् स ह्यस्याखिल-कामधुक् ॥ ३१


असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः।

अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः ॥ ३२


विप्रान् स्वलाभ-सन्तुष्टान् साधून् भूत-सुहृत्-तान्।

निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् ॥ ३३


कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः।

सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ ३४


यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया।

सर्वं नो ब्रूह्यगुह्यं चेत् किं कार्यं करवाम ते ॥ ३५


एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना।

लीलागृहीत-देहेन तस्मै सर्वमवर्णयत् ॥ ३६


श्री रुक्मिण्युवाच

श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते

निर्विश्य कर्णविवरैः हरतोऽङ्गतापम्।

रूपं दृशां दृशिमताम् अखिलार्थलाभं

त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ ३७


का त्वा मुकुन्द महती कुल-शील-रूप

विद्या-वयो-ध्रविण-धाम-भिरात्मतुल्यम्।

धीरा पतिं कुलवती न वृणीत कन्या

काले नृसिंह नर-लोक-मनोऽभिरामम् ॥ ३८


तन्मे भवान् खलु वृतः पतिरङ्ग जायाम्

आत्मार्पितश्च भवतोऽत्र विभो विधेहि।

मा वीर-भागमभिमर्शतु चैद्य आराद्

गोमायु-वन्मृग-पतेर्बलिमम्बुजाक्ष ॥ ३९


पूर्तेष्टदत्त-नियम-व्रत-देवविप्र

गुरु-वर्चनादिभिरलं भगवान् परेशः।

आराधितो यदि गदा-अग्रज एत्य पाणिं

गृह्णातु मे न दमघोषसुतादयोऽन्ये ॥ ४०


श्वो भाविनि त्वमजितोद्वहने विदर्भान्

गुप्तः समेत्य पृतनापतिभिः परीतः।

निर्मथ्य चैद्यमगधेन्द्र बलं प्रसह्य

मां राक्षसेन विधिनोद्वह वीर्यशुल्काम्॥ ४१


अन्तःपुरान्तरचरी मनिहत्य बन्धून्

त्वामुद्वहे कथमिति प्रवदाम्युपायम्।

पूर्वेद्युरस्ति महती कुलदेवयात्रा

यस्यां बहिर्नववधू: गिरिजामुपेयात् ॥ ४२


यस्य आङ्घ्रि पङ्कज रजः  स्नपनं महान्तो

वाञ्छन्ति उमापतिरिव आत्मतमोऽपहत्यै।

यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं

जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात्॥ ४३


ब्राह्मण उवाच

इत्येते गुह्यसन्देशा यदुदेव मया आहृताः ।

विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम्॥ ४४


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहप्रस्तावे द्विपञ्चाशत्तमोऽध्यायः ॥ ५२