Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 8: அத்யாயம் 4 (கஜேந்திரன் மோக்ஷம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

கஜேந்திரன் மோக்ஷம்

ஸ்கந்தம் 8: அத்யாயம் 4

श्री-शुक उवाच

तदा देव-ऋषि-गन्धर्वाः ब्रह्म-ईशान-पुरोगमाः।
मुमुचुः कुसुम-आसारम् शंसन्तः कर्म तत् हरेः॥ १॥


नेदुः दुन्दुभयः दिव्याः गन्धर्वाः ननृतुः जगुः।
ऋषयः चारणाः सिद्धाः तुष्टुवुः पुरुषोत्तमम्॥ २॥


यः असौ ग्राहः सः वै सद्यः परम-आश्चर्य-रूप-धृक्।
मुक्तः देवल-शापेन हूहूः गन्धर्व-सत्तमः॥ ३॥


प्रणम्य शिरसा अधीशम् उत्तम-श्लोकम् अव्ययम्।
अगायत यशः-धाम कीर्तन्य-गुण-सत्-कथम्॥ ४॥


सः अनुकम्पितः ईशेन परिक्रम्य प्रणम्य तम्।
लोकस्य पश्यतः लोकम् स्वम् अगात् मुक्त-किल्बिषः॥ ५॥


गजेन्द्रः भगवत्-स्पर्शात् विमुक्तः अज्ञान-बन्धनात्।
प्राप्तः भगवतः रूपम् पीत-वासाः चतुर्भुजः॥ ६॥


सः वै पूर्वम् अभूत् राजा पाण्ड्यः द्रविड-सत्तमः।
इन्द्रद्युम्नः इति ख्यातः विष्णु-व्रत-परायणः॥ ७॥


सः एकदा आराधन-काले आत्मवान्
गृहीत-मौन-व्रतः ईश्वरम् हरिम्।
जटाधरः तापसः आप्लुतः अच्युतम्
समर्चयामास कुलाचल-आश्रमः॥ ८॥


यदृच्छया तत्र महा-यशाः मुनिः
समागमत् शिष्य-गणैः परिश्रितः।
तम् वीक्ष्य तूष्णीम् अकृत-अर्हण-आदिकम्
रहसि उपासीनम् ऋषिः चुकोप ह॥ ९॥


तस्मै इमम् शापम् अदात् असाधुः
अयम् दुरात्मा अकृत-बुद्धिः अद्य।
विप्र-अवमन्ता विशताम् तमः-अन्धम्
यथा गजः स्तब्ध-मतिः सः एव॥ १०॥


श्री-शुक उवाच

एवम् शप्त्वा गतः अगस्त्यः भगवान् नृप स-अनुगः।
इन्द्रद्युम्नः अपि राजर्षिः दिष्टम् तत् उपधारयन्॥ ११॥


आपन्नः कौञ्जरीम् योनिम् आत्म-स्मृति-विनाशिनीम्।
हरि-अर्चन-अनुभावेन यत् गजत्वे अपि अनु-स्मृतिः॥ १२॥


एवम् विमोक्ष्य गज-यूथपम् अब्ज-नाभः
तेन अपि पार्षद-गतिम् गमितेन युक्तः।
गन्धर्व-सिद्ध-विबुधैः उपगीय-मान-
कर्म-अद्भुतम् स्व-भवनम् गरुड-आसनः अगात्॥ १३॥


एतत् महा-राज तव ईरितः मया
कृष्ण-अनुभावः गज-राज-मोक्षणम्।
स्वर्ग्यम् यशस्यम् कलि-कल्मष-अपहम्
दुःस्वप्न-नाशम् कुरु-वर्य शृण्वताम्॥ १४॥


यथा अनुकीर्तयन्ति एतत् श्रेयः-कामाः द्विजातयः।
शुचयः प्रातः उत्थाय दुःस्वप्न-आदिउपशान्तये॥ १५॥


इदम् आह हरिः प्रीतः गजेन्द्रम् कुरु-सत्तम।
शृण्वताम् सर्व-भूतानाम् सर्व-भूत-मयः विभुः॥ १६॥


श्री-भगवान् उवाच

ये माम् त्वाम् च सरः च इदम् गिरि-कन्दर-काननम्।
वेत्र-कीचक-वेणूनाम् गुल्मानि सुर-पादपान्॥ १७॥


शृङ्गानि इमानि धिष्ण्यानि ब्रह्मणः मे शिवस्य च।
क्षीर-उदम् मे प्रियं धाम श्वेत-द्वीपम् च भास्वरम्॥ १८॥


श्रीवत्सम् कौस्तुभम् मालाम् गदाम् कौमोदकीम् मम।
सुदर्शनम् पाञ्चजन्यम् सुपर्णम् पतग-ईश्वरम्॥ १९॥


शेषम् च मत्-कलाम् सूक्ष्माम् श्रियम् देवीं मत्-आश्रयाम्।
ब्रह्माणम् नारदम् ऋषिम् भवम् प्रह्लादम् एव च॥ २०॥

श्री-भगवान् उवाच

मत्स्य-कूर्म-वराह-आद्यैः अवतारैः कृतानि मे।
कर्माणि अनन्त-पुण्यानि सूर्यं सोमं हुताशनम्॥ २१॥


प्रणवम् सत्यं अव्यक्तम् गो-विप्रान् धर्मम् अव्ययम्।
दाक्षायणीः धर्म-पत्न्यः सोम-कश्यपयोः अपि॥ २२॥


गङ्गाम् सरस्वतीं नन्दाम् कालिन्दीं सित-वारणम्।
ध्रुवम् ब्रह्म-ऋषीन् सप्त पुण्य-श्लोकान् च मानवान्॥ २३॥


उत्थाय अपर-रात्र-अन्ते प्रयताः सु-समाहिताः।
स्मरन्ति मम रूपाणि मुच्यन्ते हि एनसः अखिलात्॥ २४॥


ये माम् स्तुवन्ति अनेन अङ्ग प्रतिबुध्य निशा-अत्यये।
तेषाम् प्राण-अत्यये च अहम् ददामि विपुलाम् गतिम्॥ २५॥


श्री-शुक उवाच

इति आदिश्य हृषीकेशः प्राध्माय जलज-उत्तमम्।
हर्षयन् विबुध-आनीकम् आरुरोह खग-आधिपम्॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायाम् अष्टम-स्कन्धे गजेन्द्र-मोक्षणं नाम
चतुर्थः अध्यायः ॥

ஸ்கந்தம் 8: அத்யாயம் 3 (கஜேந்திரன் ஸ்துதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

கஜேந்திரன் ஸ்துதி

ஸ்கந்தம் 8: அத்யாயம் 3

श्री-बादरायणि-उवाच

एवम् व्यवसितः बुद्ध्या समाधाय मनः हृदि।
जजाप परमम् जाप्यम् प्राक्-जन्मनि अनुशिक्षितम्॥ १॥


श्री-गजेन्द्र उवाच

ॐ नमः भगवते तस्मै यतः एतत् चित्-आत्मकम्।
पुरुषाय आदि-बीजाय परेशाय अभिधीमहि॥ २॥


यस्मिन् इदं यतः च इदं येन इदं यः इदं स्वयं।
यः अस्मात् परस्मात् च परः तम् प्रपद्ये स्वयम्भुवम्॥ ३॥


यः स्व-आत्मनि इदं निज-मायया अर्पितम्
क्वचित् विभाति क्व च तत् तिरोहितम्।
अविद्ध-दृक् साक्षी उभयं तत् ईक्षते
सः आत्म-मूलः अवतु माम् परात्-परः॥ ४॥


कालेन पञ्चत्वम् इतेषु कृत्स्नशः
लोकेषु पालेषु च सर्व-हेतुषु।
तमः ततः आसीत् गहनम् गभीरम्
यः तस्य पारे अभिविराजते विभुः॥ ५॥


न यस्य देवाः ऋषयः पदम् विदुः
जन्तुः पुनः कः अर्हति गन्तुम् ईरितुम्।
यथा नटस्य आकृतिभिः विचेष्टतः
दुरत्यय-अनुक्रमणः सः माम् अवतु॥ ६॥


दिदृक्षवः यस्य पदम् सुमङ्गलम्
विमुक्त-सङ्गाः मुनयः सु-साधवः।
चरन्ति अलोक-व्रतम् अव्रणम् वने
भूत-आत्म-भूताः सुहृदः सः मे गतिः॥ ७॥


न विद्यते यस्य च जन्म कर्म वा
न नाम-रूपे गुण-दोषः एव वा।
तथापि लोक-अप्यय-सम्भवाय यः
स्व-मायया तानि अनु-कालम् ऋच्छति॥ ८॥


तस्मै नमः परेशाय ब्रह्मणे अनन्त-शक्तये।
अरूपाय ऊरु-रूपाय नमः आश्चर्य-कर्मणे॥ ९॥


नमः आत्म-प्रदीपाय साक्षिणे परम-आत्मने।
नमः गिराम् विदूराय मनसः चेतसाम् अपि॥ १०॥


सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता।
नमः कैवल्य-नाथाय निर्वाण-सुख-संविदे॥ ११॥


नमः शान्ताय घोराय मूढाय गुण-धर्मिणे।
निर्विशेषाय साम्याय नमः ज्ञान-घनाय च॥ १२॥


क्षेत्र-ज्ञाय नमः तुभ्यम् सर्व-अध्यक्षाय साक्षिणे।
पुरुषाय आत्म-मूलाय मूल-प्रकृतये नमः॥ १३॥


सर्व-इन्द्रिय-गुण-द्रष्ट्रे सर्व-प्रत्यय-हेतवे।
असत्-आच्छाय-युक्ताय सदा-आभासाय ते नमः॥ १४॥


नमः नमः ते अखिल-कारणाय
निष्कारणाय अद्भुत-कारणाय।
सर्व-आगम-आम्नाय-महा-अर्णवाय
नमः अपवर्गाय परायणाय॥ १५॥


गुण-अरणि-छन्न-चित्-उष्मपाय
तत्-क्षोभ-विस्फूर्जित-मानसाय।
नैष्कर्म्य-भावेन विवर्जित-आगम-
स्वयं-प्रकाशाय नमः करोमि॥ १६॥


मादृक्-प्रपन्न-पशु-पाश-विमोक्षणाय
मुक्ताय भू‍रि-करुणाय नमः अलयाय।
स्व-अंशेन सर्व-तनु-भृत् मनसि प्रतीत-
प्रत्यक्-दृशे भगवते बृहते नमः ते॥ १७॥


आत्म-आत्मज-आप्त-गृह-वित्त-जनेषु सक्तैः
दुःस्प्रापणाय गुण-सङ्ग-विवर्जिताय।
मुक्त-आत्मभिः स्व-हृदये परिभाविताय
ज्ञान-आत्मने भगवते नमः ईश्वराय॥ १८॥


यम् धर्म-काम-अर्थ-विमुक्ति-कामाः
भजन्ते इष्टाम् गतिम् आप्नुवन्ति।
किम् तु आशिषः राट् अपि देहम् अव्ययम्
करोतु मे अदभ्र-दयः विमोक्षणम्॥ १९॥


एकान्तिनः यस्य न कञ्चन अर्थम्
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः।
अत्यद्भुतम् तत् चरितम् सुमङ्गलम्
गायन्तः आनन्द-समुद्रम् अग्नाः॥ २०॥

श्री-गजेन्द्र उवाच

तम् अक्षरम् ब्रह्म परम् परेशम्
अव्यक्तम् आध्यात्मिक-योग-गम्यम्।
अतीन्द्रियम् सूक्ष्मम् इव अति-दूरम्
अनन्तम् आद्यम् परिपूर्णम् ईडे॥ २१॥


यस्य ब्रह्म-आदयः देवाः वेदाः लोकाः च चर-अचराः।
नाम-रूप-विभेदेन फल्ग्व्या च कलया कृताः॥ २२॥


यथा अर्चिषः अग्नेः सवितुः गभस्तयः
निर्यान्ति संयान्ति असकृत् स्व-रोचिषः।
तथा यतः अयम् गुण-सम्प्रवाहः
बुद्धिः मनः खानि शरीर-सर्गाः॥ २३॥


सः वै न देव-असुर-मर्त्य-तिर्यक्
न स्त्री न षण्ढः न पुमान् न जन्तुः।
न अयम् गुणः कर्म न सन् न च असत्
निषेध-शेषः जयताम् अशेषः॥ २४॥


जिजीविषे न अहम् इह अमुया किम्
अन्तः बहिः च आवृते इभ-योन्‍या।
इच्छामि कालेन न यस्य विप्लवः
तस्य आत्म-लोक-आवरणस्य मोक्षम्॥ २५॥


सः अहम् विश्व-सृजम् विश्वम् अ-वಿಶ्वम्
विश्व-वे-दसम्।
विश्व-आत्मानम् अ-जम् ब्रह्म प्रणतः अस्मि परम् पदम्॥ २६॥


योग-रन्धित-कर्माणः हृदि योग-विभाविते।
योगिनः यम् प्रपश्यन्ति योग-ईशम् तम् नतः अस्मि अहम्॥ २७॥


नमः नमः तुभ्यम् असह्य-वेग-
शक्ति-त्रयाय अखिल-धी-गुणाय।
प्रपन्न-पालाय दुरन्त-शक्तये
कदा इन्द्रियाणाम् अनवाप्य-वर्त्मने॥ २८॥


न अयम् वेद स्वम् आत्मानम् यत् शक्त्या अहम्-धिया हतम्।
तम् दुरत्ययम् आहात्म्यम् भगवन्तम् इतः अस्मि अहम्॥ २९॥



श्री-शुक उवाच

एवम् गजेन्द्रम् उपवर्णित-निर्विशेषम्
ब्रह्म-आदयः विविध-लिङ्ग-भिदा-अभिमानाः।
न एते यदा उपससृपुः निखिल-आत्मकत्वात्
तत्र अखिल-अमर-मयः हरिः आविरासीत्॥ ३०॥


तम् तत्-वद-आर्तम् उपलभ्य जगत्-निवासः
स्तोत्रम् निशम्य दिविजैः सह संस्तुवद्भिः।
छन्दः-मयेन गरुडेन समुह्यमानः
चक्र-आयुधः अभ्यगमत् आशु यतः गजेन्द्रः॥ ३१॥


सः अन्तः-सरसि उरु-बलेन गृहीतः आर्तः
दृष्ट्वा गरुत्मति हरिम् खलु उपात्त-चक्रम्।
उत्क्षिप्य सा अम्बुज-करम् गिरम् आह कृच्छ्रात्
नारायण अखिल-गुरो भगवन् नमस्ते॥ ३२॥


तम् वीक्ष्य पीडितम् अ-जः सहसा अवतीर्य
स-ग्राहम् आशु सरसः कृपया उज्जहार।
ग्राहात् विपाटित-मुखात् अरणा गजेन्द्रम्
संपश्यताम् हरिः अमूमुचत् उस्रियाणाम्॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्र मोक्षणे तृतीयोऽध्यायः ॥ 3 ॥

ஸ்கந்தம் 8: அத்யாயம் 2 (கஜேந்திரன் முதலையிடம் மாட்டிக்கொண்டது ) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 கஜேந்திரன் முதலையிடம் மாட்டிக்கொண்டது 

ஸ்கந்தம் 8: அத்யாயம் 2

श्रीशुक उवाच

आसीत् गिरि-वरः राजन् त्रिकूटः इति विश्रुतः।
क्षीर-उदेन आवृतः श्रीमान् योजन-आयुतम् उच्छ्रितः॥ १॥

तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयः-निधिम्।
दिशः खम् रोचयन् आस्ते रौप्य-आयस-हिरण्मयैः॥ २॥

अन्यैः च ककुभः सर्वाः रत्न-धातु-विचित्रितैः।
नाना-द्रु-मलता-गुल्मैः निर्घोषैः निर्झर-अम्भसाम्॥ ३॥

सः च अवनिज्यमान-अङ्घ्रिः समन्तात् पयः-ऊर्मिभिः।
करोति श्यामलाम् भूमिम् हरित्-मरकत-अश्मभिः॥ ४॥


सिद्ध-चारण-गन्धर्व-विद्याधर-महोरगैः।

किन्नरैः अप्सरोभिः च क्रीडद्भिः जुष्ट-कन्दरः॥ ५॥

यत्र सङ्गीत-सन्नादैः नदत् गुहम् अमर्षया।
अभिगर्जन्ति हरयः श्लाघिनः पर-शङ्कया॥ ६॥

नाना-अरण्य-पशु-व्रात-सङ्कुल-द्रोणि-अलंकृतः।
चित्र-द्रु-म-सुर-उद्यान-कल-कण्ठ-विहङ्गमः॥ ७॥

सरित्-सरोभिः अच्छ-उदैः पुलिनैः मणि-वालुकैः।
देव-स्त्री-मज्जन-आमोड-सौरभ-अम्भु-अनिलैः युतः॥ ८॥


तस्य द्रोण्याम् भगवतः वरुणस्य महात्मनः।

उद्यानम् ऋतुमत् नाम आक्रीडम् सुर-योषिताम्॥ ९॥

सर्वतः अलंकृतम् दिव्यैः नित्यम् पुष्प-फल-द्रुमैः।
मन्दारैः पारिजातैः च पाटल-अशोक-चम्पकैः॥ १०॥

चूतैः प्रियालैः पनसैः आम्रैः आम्रातकैः अपि।
क्रमुकैः नारिकेलैः च खर्जूरैः बीजपूरकैः॥ ११॥

मधुकैः शाल-तालैः च तमालैः असन-अर्जुनैः।
अरिष्ट-उदुम्बर-प्लक्षैः वटैः किंशुक-चन्दनैः॥ १२॥

पिचुमन्दैः कोविदारैः सरलैः सुर-दारुभिः।
द्राक्ष-ईक्षु-रम्भ-जम्बुभिः बदरि-क्ष-अभय-आमलैः॥ १३॥

बिल्वैः कपित्थैः जम्बीरैः वृतः भल्लातक-आदिभिः।
तस्मिन् सरः सु-विपुलम् लसत् काञ्चन-पङ्कजम्॥ १४॥


कुमुद-उत्पल-कह्लार-शत-पत्र-श्रिया उर्जितम्।

मत्त-षट्पद-निर्घुष्टम् शकुन्तैः च कल-स्वनैः॥ १५॥

हंस-कारण्डव-आकीर्णम् चक्र-अह्वैः सारसैः अपि।
जल-कुक्कुट-कोयष्टि-दात्यूह-कुल-कूजितम्॥ १६॥

मत्स्य-कच्छप-सञ्चार-चलत्-पद्म-रजः-पयः।
कदम्ब-वेतस-नल-नीप-वञ्जुलकैः वृतम्॥ १७॥

कुन्दैः कुरुबक-अशोकैः शिरीषैः कूटज-एङ्गुदैः।
कुब्जकैः स्वर्ण-यूथीभिः नाग-पुन्नाग-जातिभिः॥ १८॥

मल्लिका-शत-पत्रैः च माधवी-जालक-आदिभिः।
शोभितम् तीर-जैः च अन्यैः नित्य-ऋतुभिः अलम् द्रुमैः॥ १९॥


तत्र एकदा तत् गिरि-कानन-आश्रयः।

करेणुभिः वारण-यूथपः चरन्॥

स-कण्टकम् कीचक-वेणु-वेत्रवत्।
विशाल-गुल्मम् प्ररुजन् वनस्पतीन्॥ २०॥

यद्‌ गन्ध-मात्रात् हरयः गजेन्द्राः

व्याघ्र-आदयः व्याल-मृगाः स-खड्गाः।
महोरगाः च अपि भयात् द्रवन्ति
स-गौर-कृष्णाः शरभाः च म्रियः॥ २१॥**


वृकाः वराहाः महिष-ऋक्ष-शल्याः

गो-पुच्छ-शाला-वृक-मर्कटाः च।
अन्यत्र क्षुद्राः हरिणाः शश-आदयः
चरन्ति भीताः यद्-अनुग्रहेण॥ २२॥


सः घर्म-तप्तः करिभिः करेणुभिः

वृतः मद-अच्युत-कलभैः अनुद्रुतः।
गिरिम् गरिम्णा परितः प्रकम्पयन्
निषेव्यमाणः अलि-कुलैः मद-आशनैः॥ २३॥


सरः अनिलम् पङ्कज-रेणु-ऊषितम्

जिघ्रन् विदूरात् मद-विह्वल-ईक्षणः।
वृतः स्व-यूथेन तृषा-आर्दितेन तत्
सरः-अवर-अभ्याशम् अथ आगमत् द्रुतम्॥ २४॥


विगाह्य तस्मिन् अमृत-अम्बु निर्मलम्

हेम-अरविन्द-उत्पल-रेणु-वासितम्।
पपौ निकामम् निज-पुष्कर-उद्धृतम्
आत्मानम् अद्भिः स्नपयन् गत-क्लमः॥ २५॥


स्व-पुष्करेण उद्धृत-शीकर-अम्बुभिः

निपाययन् संस्नपयन् यथा गृही।
घृणी करेणूः कलभान् च दुर्मदः
न आचष्ट कृच्छ्रम् कृपणः अ-ज-मायया॥ २६॥


तम् तत्र कश्चित् नृप दैव-चोदितः

ग्राहः बलीयान् चरणे रुषा अग्रहीत्।
यदृच्छया एवम् व्यसनम् गतः गजः
यथा बलम् सः अति-बलः विचक्रमे॥ २७॥


तथा आतुरम् यूथ-पतिम् करेणवः

विकृष्यमाणम् तरसा बलीयसा।
विचुक्रुशुः दीन-धियः अपरे गजाः
पार्ष्णि-ग्रहाः तारयितुम् न च अशकन्॥ २८॥


नियुध्यतोः एवम् इभ-इन्द्र-नक्रयोः

विकर्षतोः अन्तरतः बहिः मिथः।
समाः सहस्रम् व्यगमन् मही-पते
स-प्राणयोः चित्रम् अमंसत आमराः॥ २९॥


ततः गजेन्द्रस्य मनः-बल-ओजसाम्

कालेन दीर्घेण महान् अभूत् व्ययः।
विकृष्यमाणस्य जले अवसीदतः
विपर्ययः अभूत् सकलम् जल-ओकसः॥ ३०॥


इत्थम् गजेन्द्रः सः यदा आप संकटम्

प्राणस्य देही विवशः यदृच्छया।
अपारयन् आत्म-विमोक्षणे चिरम्
दध्यौ इमाम् बुद्धिम् अथ अभ्यपद्यत॥ ३१॥


न माम् इमे ज्ञातयः आतुरम् गजाः

कुतः करिण्यः प्रभवन्ति मोचितुम्।
ग्राहेण पाशेन विधातुः आवृतः
अपि अहम् च तम् यामि परम् परायणम्॥ ३२॥


यः कश्चन ईशः बलिनः अन्तक-उरगात्

प्रचण्ड-वेगात् अभिधावतः भृशम्।
भीतम् प्रपन्नम् परिपाति यत् भयात्
मृत्युः प्रधावति अरणम् तम् ईमहि॥ ३३॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ॥ 2 ॥

ஸ்கந்தம் 8: அத்யாயம் 1 (ஸ்வாயம்பு மனு) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஸ்வாயம்பு மனு

ஸ்கந்தம் 8: அத்யாயம் 1

श्रीराजोवाच

स्वायम्भुवस्य इह गुरो वंशः अयम् विस्तरात् श्रुतः।
यत्र विश्वसृजाम् सर्गः मनून् अन्यान् वदस्व नः॥ १॥

यत्र यत्र हरेः जन्म कर्माणि च महीयसः।
गृणन्ति कवयः ब्रह्मन् तानि नः वद शृण्वताम्॥ २॥

यदि अस्मिन् अन्तरे ब्रह्मन् भगवान् विश्वभावनः।
कृतवान् कुरुते कर्ता हि अतीते अनागते अद्य वा॥ ३॥


श्रीऋषिः उवाच

मनवः अस्मिन् व्यतीताः षट् कल्पे स्वायम्भुव-आदयः।
आद्यः ते कथितः यत्र देव-आदीनाम् च सम्भवः॥ ४॥

आकूत्याम् देवहूत्याम् च दुहित्योः तस्य वै मनोः।
धर्म-ज्ञान-उपदेश-अर्थम् भगवान् पुत्रताम् गतः॥ ५॥

कृतम् पुरा भगवतः कपिलस्य अनु वर्णितम्।
आख्यास्ये भगवान् यज्ञः यत् चकार कुरूद्वह॥ ६॥

विरक्तः काम-भोगेषु शतरूपा-पतिः प्रभुः।
विसृज्य राज्यं तपसे सभार्यः वनम् आविशत्॥ ७॥

सुनन्दायाम् वर्ष-शतम् पद-एकेन भुवं स्पृशन्।
तप्यमानः तपः घोरम् इदम् अन्वाह भारत॥ ८॥


श्रीमनुः उवाच

येन चेतयते विश्वं विश्वं चेतयते न यम्।
यः जागर्ति शयाने अस्मिन् न अयम् तम् वेद वेद सः॥ ९॥

आत्मा-आवास्यम् इदं विश्वं यत् किञ्चित् जगत्याम् जगत्।
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्वित् धनम्॥ १०॥

यम् न पश्यति पश्यन्तम् चक्षुः यस्य न रिष्यति।
तम् भूत-निलयम् देवं सुपर्णम् उपधावत॥ ११॥

न यस्य आद्य-अन्तौ मध्यं च स्वः परः न अन्तरं बहिः।
विश्वस्य आमूनि यत् यस्मात् विश्वं च तत् ऋतम् महत्॥ १२॥

स विश्व-कायः पुरुहूत ईशः
सत्यः स्वयम्-ज्योतिः अजः पुराणः।
धत्ते अस्य जन्म आदि अजय आत्म-शक्त्या
ताम् विद्या-उदस्य निरीहः आस्ते॥ १३॥

अथ अग्रे ऋषयः कर्माणि ईहन्ते अ-कर्म-हेतवे।
ईहमानः हि पुरुषः प्रायः अनीहाम् प्रपद्यते॥ १४॥

ईहते भगवान् ईशः न हि तत्र विषज्जते।
आत्म-लाभेन पूर्ण-अर्थः न अवसीदन्ति ये अनु तम्॥ १५॥

तम् ईहमानम् निरहङ्कृतम् बुधम्
निराशिषम् पूर्णम् अनन्य-चोदितम्।
नॄन् शिक्षयन्तम् निज-वर्त्म-संस्थितम्
प्रभुम् प्रपद्ये अखिल-धर्म-भावनम्॥ १६॥


श्रीशुक उवाच

इति मन्त्र-उपनिषदम् व्याहरन्तम् समाहितम्।
दृष्ट्वा असुराः यातुधानाः जग्धुम् अभ्यद्रवन् क्षुधा॥ १७॥

तान् तथा अवसितान् वीक्ष्य यज्ञः सर्व-गतः हरिः।
यामैः परिवृतः देवैः हत्वा अशासत् त्रिविष्टपम्॥ १८॥

स्वारोचिषः द्वितीयः तु मनुः अग्नेः सुतः अभवत्।
द्युमत् सुषेण रोचिष्मत् प्रमुखाः तस्य च आत्मजाः॥ १९॥

तत्र इन्द्रः रोचनः आसीत् देवाः च तुषित-आदयः।
ऊर्ज-स्तम्भ-आदयः सप्त ऋषयः ब्रह्म-वादिनः॥ २०॥

ऋषेस्तु वेदशिरसः तुषिता नाम पत्नि अभूत्।

तस्याम् जज्ञे ततः देवः विभुः इति अभिविश्रुतः॥ २१॥

अष्ट-आशीति-सहस्राणि मुनयः ये धृत-व्रताः।
अन्वशिक्षन् व्रतम् तस्य कौमार-ब्रह्मचारिणः॥ २२॥

तृतीयः उत्तमः नाम प्रियव्रत-सुतः मनुः।
पवनः सृञ्जयः यज्ञहोत्र-आद्याः तत्-सुताः नृप॥ २३॥

वसिष्ठ-तनयाः सप्त ऋषयः प्रमद-आदयः।
सत्या वेदश्रुता भद्रा देवाः इन्द्रः तु सत्यजित्॥ २४॥

धर्मस्य सूनृतायाम् तु भगवान् पुरुष-उत्तमः।
सत्यसेनः इति ख्यातः जातः सत्यव्रतैः सह॥ २५॥

सः अनृत-व्रत-दुःशीलान् असतः यक्ष-राक्षसान्।
भूत-द्रुहः भूत-गणान् च अवधीद् सत्यजित्-सखः॥ २६॥


चतुर्थः उत्तम-भ्राता मनुः नाम्ना च तामसः।

पृथुः ख्यातिः नरः केतु-इति-आद्याः दश तत्-सुताः॥ २७॥

सत्यकाः हरयः वीराः देवाः त्रिशिख ईश्वरः।
ज्योतिर्धाम-आदयः सप्त ऋषयः तामसे अन्तरे॥ २८॥

देवाः वैधृतयः नाम विधृतेः तनयाः नृप।
नष्टाः कालेन यैः वेदाः विधृताः स्वेन तेजसा॥ २९॥

तत्र अपि जज्ञे भगवान् हरिण्याम् हरि-मेधसः।
हरिः इति आहृतः येन गज-इन्द्रः मोचितः ग्रहात्॥ ३०॥


श्रीराजोवाच

बादरायण एतत् ते श्रोतुम् इच्छामहे वयम्।
हरिः यथा गज-पतिम् ग्राह-ग्रस्तम् अमुमुचत्॥ ३१॥

तत्-कथा सुमहत् पुण्यम् धन्यम् स्वस्ति-अयनम् शुभम्।
यत्र यत्र उत्तम-श्लोकः भगवान् गीयते हरिः॥ ३२॥


श्रीसूत उवाच

परीक्षित् एवम् सः तु बादरायणिः।
प्राय-उपविष्टेन कथासु चोदितः॥

उवाच विप्राः प्रति-नन्द्य पार्थिवम्।
मुदा मुनीनाम् सदसि स्म शृण्वताम्॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः ॥ 1 ॥

ஸ்கந்தம் 9: அத்யாயம் 1 (பெண்ணாக மாறிய சுத்யும்னன்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 பெண்ணாக மாறிய சுத்யும்னன்

ஸ்கந்தம் 9: அத்யாயம் 1

श्री-राजा उवाच।
मन्वन्तराणि सर्वाणि त्वया उक्तानि श्रुतानि मे।
वीर्याणि अनन्त-वीर्यस्य हरेः तत्र कृतानि च ॥ १ ॥

यः असौ सत्यव्रतः नाम राजर्षिः द्रविड-ईश्वरः।
ज्ञानम् यः अतीत-कल्प-अन्ते लेभे पुरुष-सेवया ॥ २ ॥

सः वै विवस्वतः पुत्रः मनुः आसीत् इति श्रुतम्।
त्वत्तः तस्य सुताः च उक्ताः इक्ष्वाकु-प्रमुखाः नृपाः ॥ ३ ॥

तेषाम् वंशम् पृथक् ब्रह्मन् वंश्य-अनुचरितानि च।
कीर्तयस्व महा-भाग नित्यम् शुश्रूषताम् हि नः ॥ ४ ॥

ये भूताḥ ये भविष्याः च भवन्ति अद्यतनाः च ये।
तेषाम् नः पुण्य-कीर्तीनाम् सर्वेषाम् वद विक्रमान् ॥ ५ ॥


श्री-सूत उवाच।
एवम् परीक्षित-राज्ञा सदसि ब्रह्म-वादिनाम्।
पृष्टः प्रोवाच भगवान् शुकः परम-धर्म-वित् ॥ ६ ॥


श्री-शुक उवाच।
श्रूयताम् मानवः वंशः प्राचुर्येण परन्तप।
न शक्यते विस्तरतः वक्तुम् वर्ष-शतैः अपि ॥ ७ ॥

पर-अवरेषाम् भूतानाम् आत्मा यः पुरुषः परः।
सः एव आसीत् इदम् विश्वम् कल्प-अन्ते अन्यत् न किञ्चन ॥ ८ ॥

तस्य नाभेः समभवत् पद्म-कोशः हिरण्मयः।
तस्मिन् जज्ञे महाराज स्वयंभूः चतुर्-आननः ॥ ९ ॥

मरीचिः मनसः तस्य जज्ञे तस्य अपि कश्यपः।
दाक्षायण्याम् ततः अदित्याम् विवस्वान् अभवत् सुतः ॥ १० ॥

ततः मनुः श्राद्ध-देवः संज्ञायाम् आस भारत।
श्रद्धायाम् जनयामास दश पुत्रान् सः आत्मवान् ॥ ११ ॥

इक्ष्वाकुः नृगः शर्यातिः दिष्टः धृष्टः करूषकान्।
नरिष्यन्तम् पृषध्रम् च नभगम् च कविम् विभुः ॥ १२ ॥

अप्रजस्य मनोः पूर्वम् वसिष्ठः भगवान् किल।
मित्र-वरुणयोः इष्टिम् प्रजा-अर्थम् अकरोत् प्रभुः ॥ १३ ॥

तत्र श्रद्धा मनोः पत्नी होतारम् समयाचत।
दुहितुः अर्थम् उपागम्य प्रणिपत्य पयः-व्रता ॥ १४ ॥

प्रेषितः अध्वर्युना होता ध्यायन् तत् सु-समाहितः।
हविषि व्यचरत् तेन वषट्कारम् गृणन् द्विजः ॥ १५ ॥


होतः तत् व्यभिचारेण कन्या ऐला नाम सा अभवत्।
ताम् विलोक्य मनुः प्राह न अति-हृष्ट-मनाः गुरुम् ॥ १६ ॥

भगवन् किम् इदम् जातम् कर्म वः ब्रह्म-वादिनाम्।
विपर्ययम् अहो कष्टम् मा एवम् स्यात् ब्रह्म-विक्रिया ॥ १७ ॥

यूयम् मन्त्र-विदः युक्ताः तपसा दग्ध-किल्बिषाः।
कुतः संकल्प-वैषम्यम् अनृतम् विबुधेषु इव ॥ १८ ॥

तत् निशम्य वचः तस्य भगवान् प्रपितामहः।
होतः व्यतिक्रमम् ज्ञात्वा बभाषे रवि-नन्दनम् ॥ १९ ॥

एतत् संकल्प-वैषम्यम् होतुः ते व्यभिचारतः।
तथापि साधयिष्ये ते सुप्रजाः त्वम् स्व-तेजसा ॥ २० ॥

एवं व्यवसितो राजन् भगवान् स महा-यशाः।
अस्तौषीत् आदि-पुरुषम् इलायाः पुंस्त्व-काम्यया ॥ २१ ॥

तस्मै काम-वरं तुष्टः भगवान् हरिः ईश्वरः।
ददौ इलाम् अभवत् तेन सुद्युम्नः पुरुष-ऋषभः ॥ २२ ॥

सः एकदा महा-राज विचरन् मृगयाम् वने।
वृतः कतिपय-अमात्यैः अश्वम् आरुह्य सैन्धवम् ॥ २३ ॥

प्रगृह्य रुचिरं चापं शरान् च परम-अद्‍भुतान्।
दंशितः अनु-मृगं वीरः जगाम दिशम् उत्तराम् ॥ २४ ॥

सः कुमारः वनम् मेरोः अधः-ताट् प्रविवेश ह।
यत्र आस्ते भगवान् शर्वः रममाणः सह उर्मया ॥ २५ ॥

तस्मिन् प्रविष्टः एव असौ सुद्युम्नः पर-वीर-हा।
अपश्यत् स्त्रियम् आत्मानम् अश्वं च वडवाम् नृप ॥ २६ ॥

तथा तत्-अनुगाः सर्वे आत्म-लिङ्ग-विपर्ययम्।
दृष्ट्वा विमनसः अभूवन् विक्षमाणाः परस्-परम् ॥ २७ ॥


श्री-राजा उवाच।
कथम् एवम्-गुणः देशः केन वा भगवन् कृतः।
प्रश्नम् एनम् समाचक्ष्व परम् कौतूहलम् हि नः ॥ २८ ॥


श्री-शुक उवाच।
एकदा गिरिशम् द्रष्टुम् ऋषयः तत्र सुव्रताः।
दिशः वितिमिर-आभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥

तान् विलोक्य अम्बिका देवी विवासा व्रीडिता भृशम्।
भर्तुः अङ्कात् समुत्थाय नीवीम् आशु अथ पर्यधात् ॥ ३० ॥

ऋषयः अपि तयोः वीक्ष्य प्रसङ्गम् रममाणयोः।
निवृत्ताः प्रययुः तस्मात् नर-नारायण-आश्रमम् ॥ ३१ ॥

तत् इदं भगवान् आह प्रियायाः प्रिया-काम्यया।
स्थानम् यः प्रविशेत् एतत् सः वै योषित् भवेत् इति ॥ ३२ ॥

ततः ऊर्ध्वं वनम् तत् वै पुरुषाः वर्जयन्ति हि।
सा च अनुचर-संयुक्ता विचचार वनात् वनम् ॥ ३३ ॥


अथ ताम् आश्रम-अभ्याशे चरन्तीम् प्रमद-उत्तमाम्।
स्त्रीभिः परिवृताम् वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥

सा अपि तम् चकमे सुभ्रूः सोम-राज-सुतम् पतिम्।
सः तस्याम् जनयामास पुरूरवसम् आत्मजम् ॥ ३५ ॥


एवं स्त्रीत्वम् अनुप्राप्तः सुद्युम्नः मानवः नृपः।
सस्मार स्व-कुल-आचार्यम् वसिष्ठम् इति शुश्रुम ॥ ३६ ॥

सः तस्य ताम् दशाम् दृष्ट्वा कृपया भृश-पीडितः।
सुद्युम्नस्य आशयन् पुंस्त्वम् उपाधावत शङ्करम् ॥ ३७ ॥

तुष्टः तस्मै सः भगवान् ऋषये प्रियम् आवहन्।
स्वाम् च वाचम् ऋताम् कुर्वन् इदम् आह विशाम्-पते ॥ ३८ ॥

मासम् पुमान् सः भविता मासम् स्त्री तव गोत्रजः।
इत्थम् व्यवस्थया कामम् सुद्युम्नः अवतु मेदिनीम् ॥ ३९ ॥

आचार्य-अनुग्रहात् कामम् लब्ध्वा पुंस्त्वम् व्यवस्थया।
पालयामास जगतीम् न अभ्यनन्दन् स्म तम् प्रजाः ॥ ४० ॥

तस्य उत्कलः गयः राजन् विमलः च सुताः त्रयः।
दक्षिण-अपथ-राजानः बभूवुः धर्म-वत्सलाः ॥ ४१ ॥

ततः परिणते काले प्रतिष्ठान-पतिः प्रभुः।
पुरूरवसः उत्सृज्य गाम् पुत्राय गतः वनम् ॥ ४२ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे इलोपाख्याने प्रथमोध्याऽयः ॥ 1॥