Followers

Search Here...

Saturday, 13 December 2025

ஸ்கந்தம் 6: அத்யாயம் 15 (சித்ரகேதுவிற்கு அங்கிரஸரும் நாரதரும் உபதேசித்தார்கள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

சித்ரகேதுவிற்கு அங்கிரஸரும் நாரதரும் உபதேசித்தார்கள்

ஸ்கந்தம் 6: அத்யாயம் 15

 

श्री-शुक उवाच

ऊचतुः मृतक-उपान्ते पतितम् मृतक-उपमम्।
शोक-अभिभूतम् राजानम् बोधयन्तौ सत्-उक्तिभिः ॥ १ ॥

कः अयम् स्यात् तव राज-इन्द्र भवान् यम् अनुशोचति।
त्वम् च अस्य कतमः सृष्टौ पुरा इदानीम् अतः परम् ॥ २ ॥

यथा प्रयान्ति संयान्ति स्रोतो-वेगेन वालुकाः।
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३ ॥

यथा धानासु वै धानाः भवन्ति न भवन्ति च।
एवम् भूतेषु भूतानि चोदितानि ईश-मायया ॥ ४ ॥

वयम् च त्वम् च ये च इमे तुल्य-कालाः चर-अचराः।
जन्म-मृत्योः यथा पश्चात् प्राक् न एवम् अधुना अपि भोः ॥ ५ ॥

भूतैः भूतानि भूतेशः सृजति अवति हन्ति अजः।
आत्म-सृष्टैः अस्वतन्त्रैः अनपेक्षः अपि बालवत् ॥ ६ ॥

देहेन देहिनः राजन् देहात् देहः अभिजायते।
बीजात् एव यथा बीजम् देही-अर्थः इव शाश्वतः ॥ ७ ॥

देह-देहि-विभागः अयम् अविवेक-कृतः पुरा।
जाति-व्यक्ति-विभागः अयम् यथा वस्तुनि कल्पितः ॥ ८ ॥

श्री-शुक उवाच

एवम् आश्वासितः राजा चित्रकेतुः द्विज-उक्तिभिः।
प्रमृज्य पाणिना वक्त्रम् आधि-म्लानम् अभाषत ॥ ९ ॥

श्री-राजा उवाच

कौ युवाम् ज्ञान-सम्पन्नौ महिष्ठौ च महीयसाम्।
अवधूतेन वेषेण गूढौ इह समागतौ ॥ १० ॥

चरन्ति हि अवनौ कामम् ब्राह्मणाः भगवत्-प्रियाः।
मादृशाम् ग्राम्य-बुद्धीनाम् बोधाय उन्मत्त-लिङ्गिनः ॥ ११ ॥

कुमारः नारदः ऋभुः अङ्गिराः देवलः असितः।
अपान्तरतमः व्यासः मार्कण्डेयः अथ गौतमः ॥ १२ ॥

वसिष्ठः भगवान् रामः कपिलः बादरायणिः।
दुर्वासाः याज्ञवल्क्यः च जातुकर्णः तथा अरुणिः ॥ १३ ॥

रोमशः च्यवनः दत्तः आसुरिः स-पतञ्जलिः।
ऋषिः वेद-शिराः बोध्यः मुनिः पञ्च-शिखः तथा ॥ १४ ॥

हिरण्य-नाभः कौसल्यः श्रुत-देवः ऋत-ध्वजः।
एते परे च सिद्ध-ईशाः चरन्ति ज्ञान-हेतवः ॥ १५ ॥

तस्मात् युवाम् ग्राम्य-पशोः मम मूढ-धियः प्रभू।
अन्धे तमसि मग्नस्य ज्ञान-दीपः उदीर्यताम् ॥ १६ ॥

श्री-अङ्गिरा उवाच

अहम् ते पुत्र-कामस्य पुत्र-दः अस्मि अङ्गिराः नृप।
एषः ब्रह्म-सुतः साक्षात् नारदः भगवान् ऋषिः ॥ १७ ॥

इत्थम् त्वाम् पुत्र-शोकेन मग्नम् तमसि दुस्तरे।
अतत्-अर्हम् अनुस्मृत्य महा-पुरुष-गोचरम् ॥ १८ ॥

अनुग्रहाय भवतः प्राप्तौ आवाम् इह प्रभो।
ब्रह्मण्यः भगवत्-भक्तः न अवसीदितुम् अर्हसि ॥ १९ ॥

तदा एव ते परम् ज्ञानम् ददामि गृहम् आगतः।
ज्ञात्वा अन्य-अभिनिवेशम् ते पुत्रम् एव ददौ अहम् ॥ २० ॥

अधुना पुत्रिणाम् तापः भवता एव अनुभूयते।
एवम् दाराः गृहाः रायः विविध-ऐश्वर्य-सम्पदः ॥ २१ ॥

शब्द-आदयः च विषयाः चलाः राज्य-विभूतयः।
मही राज्यं बलं कोशः भृत्य-अमात्याः सुहृत्-जनाः ॥ २२ ॥

सर्वे अपि शूर-सेने इमे शोक-मोह-भय-आर्तिदाः।
गन्धर्व-नगर-प्रख्याः स्वप्न-माया-मनोरथाः ॥ २३ ॥

दृश्यमानाः विनार्थेन न दृश्यन्ते मनो-भवाः।
कर्मभिः ध्यायतः नाना कर्माणि मनसः अभवन् ॥ २४ ॥

अयम् हि देहिनः देहः द्रव्य-ज्ञान-क्रिया-आत्मकः।
देहिनः विविध-क्लेश-सन्ताप-कृत् उदाहृतः ॥ २५ ॥

तस्मात् स्वस्थेन मनसा विमृश्य गतिम् आत्मनः।
द्वैते ध्रुव-अर्थ-विश्रम्भम् त्यज उपशमम् आविश ॥ २६ ॥

श्री-नारद उवाच

एताम् मन्त्र-उपनिषदम् प्रतीच्छ प्रयतः मम।
याम् धारयन् सप्त-रात्रात् द्रष्टा सङ्कर्षणम् प्रभुम् ॥ २७ ॥

यत्-पाद-मूलम् उपसृत्य नरेन्द्र पूर्वे
शर्व-आदयः भ्रमम् इमम् द्वितयम् विसृज्य।
सद्यः तदीयम् अतुलम् अधिकम् महित्वम्
प्रापुः भवान् अपि परम् न चिरात् उपैति ॥ २८ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
षष्ठ-स्कन्धे चित्रकेतु-सान्त्वनम् नाम पञ्चदशः अध्यायः ॥ १५ ॥

No comments: