வ்ருத்தாசுரன் மோக்ஷம்
ஸ்கந்தம் 6: அத்யாயம் 16
श्री-शुक उवाच
अथ देव-ऋषी राजन् सम्परेतम् नृप-आत्मजम्।
दर्शयित्वा इति होवाच ज्ञातीनाम् अनु-शोचताम् ॥ १ ॥
श्री-नारद उवाच
जीव-आत्मन् पश्य भद्रम् ते मातरम् पितरम् च ते।
सुहृदः बान्धवाः तप्ताः शुचा त्वत्-कृतया भृशम् ॥ २ ॥
कलेवरम् स्वम् आविश्य शेषम् आयुः सुहृत्-वृतः।
भुङ्क्ष्व भोगान् पितृ-प्रत्तान् अधितिष्ठ नृप-आसनम् ॥ ३ ॥
जीव उवाच
कस्मिन् जन्मनि अमी मह्यम् पितरः मातरः अभवन्।
कर्मभिः भ्राम्यमाणस्य देव-तिर्यक्-नृ-योनिषु ॥ ४ ॥
बन्धु-ज्ञाति-अरि-मध्यस्थ-मित्र-उदासीन-विद्विषः।
सर्वे एव हि सर्वेषाम् भवन्ति क्रमशः मिथः ॥ ५ ॥
यथा वस्तूनि पण्यानि हेम-आदीनि ततः ततः।
पर्यटन्ति नरेषु एवम् जीवः योनिषु कर्तृषु ॥ ६ ॥
नित्यस्य अर्थस्य सम्बन्धः हि अनित्यः दृश्यते नृषु।
यावत् यस्य हि सम्बन्धः ममत्वम् तावत् एव हि ॥ ७ ॥
एवम् योनि-गतः जीवः सः नित्यः निर्-अहङ्कृतः।
यावत् यत्र उपलभ्येत तावत् स्वत्वम् हि तस्य तत् ॥ ८ ॥
एषः नित्यः अव्ययः सूक्ष्मः एषः सर्व-आश्रयः स्व-दृक्।
आत्म-माया-गुणैः विश्वम् आत्मानम् सृजते प्रभुः ॥ ९ ॥
न हि अस्य अस्ति प्रियः कश्चित् न अप्रियः स्वः परः अपि वा।
एकः सर्व-धियाम् द्रष्टा कर्तॄणाम् गुण-दोषयोः ॥ १० ॥
न आदत्ते आत्मा हि गुणम् न दोषम् न क्रिया-फलम्।
उदासीन-वत् आसीनः पर-अवर-दृक् ईश्वरः ॥ ११ ॥
श्री-शुक उवाच
इति उदीर्य गतः जीवः ज्ञातयः तस्य ते तदा।
विस्मिताः मुमुचुः शोकम् छित्त्वा आत्म-स्नेह-शृङ्खलाम् ॥ १२ ॥
निर्हृत्य ज्ञातयः ज्ञातेः देहम् कृत्वा उचिताः क्रियाः।
तत्यजुः दुस्त्यजम् स्नेहम् शोक-मोह-भय-आर्तिदम् ॥ १३ ॥
बाल-घ्न्यः व्रीडिताः तत्र बाल-हत्या-हत-प्रभाः।
बाल-हत्या-व्रतम् चेरुः ब्राह्मणैः यत् निरूपितम्।
यमुनायाम् महा-राज स्मरन्त्यः द्विज-भाषितम् ॥ १४ ॥
सः इत्थम् प्रति-बुद्ध-आत्मा चित्रकेतुः द्विज-उक्तिभिः।
गृह-अन्ध-कूपात् निष्क्रान्तः सरः-पङ्कात् इव द्विपः ॥ १५ ॥
कालिन्द्याम् विधि-वत् स्नात्वा कृत-पुण्य-जल-क्रियः।
मौनेन संयत-प्राणः ब्रह्म-पुत्रौ अववन्दत ॥ १६ ॥
अथ तस्मै प्रपन्नाय भक्ताय प्रयत-आत्मने।
भगवान् नारदः प्रीतः विद्याम् एताम् उवाच ह ॥ १७ ॥
ॐ नमः तुभ्यम् भगवते वासुदेवाय धीमहि।
प्रद्युम्नाय अनिरुद्धाय नमः सङ्कर्षणाय च ॥ १८ ॥
नमः विज्ञान-मात्राय परम्-आनन्द-मूर्तये।
आत्म-आरामाय शान्ताय निवृत्त-द्वैत-दृष्टये ॥ १९ ॥
आत्म-आनन्द-अनुभूत्यै एव न्यस्त-शक्ति-ऊर्मये नमः।
हृषीकेशाय महते नमः ते विश्व-मूर्तये ॥ २० ॥
वचस् उपरतेऽप्राप्य य एकः मनसा सह।
अनाम-रूपः चिन्मात्रः सः अव्यन्नः सदसत् परः ॥ २१ ॥
यस्मिन् इदं यतश् चेदं तिष्ठत्यपि एति जायते।
मृण्मयेषु इव मृज्जाति तस्मै ते ब्रह्मणे नमः ॥ २२ ॥
यन् न स्पृशन्ति न विदुः मनो-बुद्धी-इन्द्रियासवः।
अन्तर्-बहिः च विततं व्योमवत् तन्नतोऽस्म्यहम् ॥ २३ ॥
देह-इन्द्रिय-प्राण-मनोधिः अमी
यद् अंश-विद्धाः प्रचरन्ति कर्मसु।
न एव यदा लोहमिव अप्रतप्तं
स्थानेषु तद् दृष्ट्र-प्रदेशमेति ॥ २४ ॥
ॐ नमो भगवते महापुरुषाय महानुभावाय महा-विभूति-पतये सकल-सात्वत-परिवृढ-निकर-करकमल-कुड्मल-उपलालित-चरणारविन्द-युगल-परम-परमेष्ठिन् नमस्ते ॥ २५ ॥
श्रीशुक उवाच –
भक्ताय एतां प्रपन्नाय विद्या आमादिश्य नारदः।
ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६ ॥
चित्रकेतुः तु विद्याम् तां यथा नारद-भाषिताम्।
धारयामास सप्ताहम् अभक्षः सुसमाहितः ॥ २७ ॥
ततः च सप्त-रात्रान्ते विद्या धार्यमाणया।
विद्या-धरा-अधिपत्यं स लेभे अप्रतिहतं नृप ॥ २८ ॥
ततः कतिपयाः अभिः विद्यया एधमान-ओगतिः।
जगाम देव-देवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥
मृणाल-गौरं शितिवास-सं स्फुरत्
किरीट-केयूर-कटि-त्रकङ्कणम्।
प्रसन्न-वक्त्र-अरुण-लोचनं वृतं
ददर्श सिद्धेश्वर-मण्डलैः प्रभुम् ॥ ३० ॥
तत् दर्शन-ध्वस्त-समस्त-किल्बिषः
सस्थ-अमल-अन्तःकरणोऽभ्ययान् मुनिः।
प्रवृद्ध-भक्त्या प्र-नय-आश्रुलोचनः
प्रहृष्ट-रोमानम् अदादि पुरुषम् ॥ ३१ ॥
स उत्तम-श्लोक-पद-आब्ज-विष्टरं
प्रेम-आश्रु-लेशैः उपमेहयन् मुहुः।
प्रेमो-परुद्धा अखिल-वर्ण-निर्गमो
नैव अशकत्तं प्र-समीडितुं चिरम् ॥ ३२ ॥
ततः समाधाय मनः मनीषया
बभाष एतत् प्र-तिलब्ध-वाग् सौ।
नियम्य सर्वे इन्द्रिय-बाह्य-वर्तनं
जगत् गुरुं सात्वत-शास्त्र-विग्रहम् ॥ ३३ ॥
चित्रकेतुः उवाच –
अजित्-अजित जितः सम-मति-भिः
साधुभिः भवन् जितात्मभिः भवता।
विजितास्ते अपि च भजतां
अ-काम-आत्मनां य आत्म-दः अति-करुणः ॥ ३४ ॥
तव विभवः खलु भगवन्
जगत् उदय-स्थिति-लयादीनि।
विश्व-सृजस्तेऽशांशाः तत्र
मृषा स्पर्धन्ते पृथक् अभिमत्या ॥ ३५ ॥
परमाणु-परम-महतोः
त्वम् आद्य-अन्त-आन्तर-वर्ती त्रय-विधुरः।
आदावन्ते अपि च सत्त्वानां
यद् ध्रुवं तदेव-आन्तराले अपि ॥ ३६ ॥
क्षित्या आदि-भिरेष किलावृतः
सप्तभिर्दश-गुणोत्तर-ऐरण्ड-कोशः।
यत्र पतति अणु-कल्पः
सह-आण्ड-कोटि-कोटिभिः तद् अनन्तः ॥ ३७ ॥
विषय-तृषो नर-पशवो
य उपासते विभूतीर्न परं त्वाम्।
तेषाम् आशिष् ईश तद् अनु
विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥
काम-धियः त्वयि रचिताः
न परम् रोहन्ति यथा करम्भ-बबीजानि।
ज्ञान-आत्मन्य गुण-मये
गुण-गणातोऽस्य द्वन्द्व-जालानि ॥ ३९ ॥
जितम्-अजित् तदा भवता
यदाह भागवतं धर्मम् अनवद्यम्।
निष्किञ्चना ये मुनयः
आत्म-आरामा यम् उपासते अपवर्गाय ॥ ४० ॥
विषम-मतिर्न यत्र नृणाम्
त्वम् अहम् इति मम त्वेति च यद् अन्यत्र।
विषम-धियाः रचितः यः
स हि अविशुद्धः क्षयिष्णुर्धर्म-बहुलः ॥ ४१ ॥
कः क्षेमो निज-परयोः
कियानर्थः स्व-पर-द्रुहा धर्मेण।
स्व-द्रोहात् तव कोपः
पर-सम्पीडया च तथा-अधर्मः ॥ ४२ ॥
न व्यभिचरति तव एक्षा
यया हि अभिहितः भागवतः धर्मः।
स्थिर-चर-सत्त्व-कदम्बेषु
पृथग्धियः यम् उपासते त्वा-आर्याः ॥ ४३ ॥
न हि भगवन् अगटितम् इदं
त्वद् दर्शनात् नृणाम् अखिल-पापक्षयः।
यन्नाम् असकृच्छ्रवणात्
पुल्कसकः अपि विमुच्यते संसारात् ॥ ४४ ॥
अथ भगवन् वयम् अधुना
त्वद् अवलोक-परिमृष्ट-आशयम् अलाः।
सुर-ऋषिणा यत् उदितम्
तावकेन कथम् अन्यथा भवति ॥ ४५ ॥
विदितम् अनन्त समस्तं
त्वत् जगद् आत्मनो जनैः इह आचरितम्।
विज्ञाप्यम् परम-गुरोः
कियद् इव सवितुः इव खद्योतैः ॥ ४६ ॥
नमस्तुभ्यं भगवते
सकल-जगत् स्थिति-लय-उदय-एशाय।
दुरवसि-तात् आत्म-गतये
कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥
यं वै श्वसन्तम् अनु विश्वसृजः श्वसन्ति
यं च एकितानम् अनु चित्तय उच्चकन्ति।
भूमण्डलं सर्षपा यति यस्य मूर्ध्नि
तस्मै नमो भगवतेऽस्तु सहस्र-मूर्ध्ने ॥ ४८ ॥
श्रीशुक उवाच –
संस्तुतः भगवानेव अमन्तस्तम् अभाषत।
विद्या-धरा-पतिं प्रीतः चित्रकेतुं कुरूद्वह ॥ ४९ ॥
श्री-भगवान् उवाच –
यन् नारद-आङ्गिरोभ्यां ते व्याहृतं मे अनु-शासनम्।
संसिद्धः असि तया राजन् विद्या-द्वारा दर्शनात् च मे ॥ ५० ॥
अहं वै सर्व-भूतानि भूत-आत्मा भूत-भावनः।
शब्द-ब्रह्म परं ब्रह्म मम अभे शाश्वती तनू ॥ ५१ ॥
लोके विततं आत्मानं लोकं चात्मनि सन्ततम्।
उभयम् च मया व्याप्तं मयि च एव उभयम् कृतम् ॥ ५२ ॥
यथा सुषुप्तः पुरुषः विश्वं पश्यति चात्मनि।
आत्मानं एक-देश-स्थं मन्यते स्वप्न-उत्थितः ॥ ५३ ॥
एवं जागरणादीनि जीव-स्थानानि चात्मनः।
माया मात्राणि विज्ञाय तद् द्रष्टारं परं स्मरेत् ॥ ५४ ॥
येन प्र-सुप्तः पुरुषः स्वापं वेदात्मनः तदा।
सुखं च निर्गुणं ब्रह्म तं आत्मानम् अवेहि माम् ॥ ५५ ॥
उभयम् स्मरतः पुंसः प्र-स्वाप-प्रतिबोधयोः।
अन्वेति व्यति-रिच्येत तज्ज्ञानं ब्रह्म तत् परम् ॥ ५६ ॥
यदेतद् विस्मृतं पुंसः मद् भावं भिन्नम् आत्मनः।
ततः संसार एतस्य देहा-द्देहो मृतेर्मृतिः ॥ ५७ ॥
लब्ध्वे ह मानुषीं योनिं ज्ञान-विज्ञान-संभवाम्।
आत्मानं यः न बुद्ध्येत न क्वचित् शमम् आप्नुयात् ॥ ५८ ॥
स्मृत्वे हायां परि-क्लेशं ततः फल-विपर्ययम्।
अभयम् च अपि निहायां सं-कल्पाद् विरमेत् कविः ॥ ५९ ॥
सुखाय दुःख-मोक्षाय कुर्वाते दम्पती क्रियाः।
ततः अनिवृत्ति-रप्राप्तिः दुःखस्य च सुखस्य च ॥ ६० ॥
एवं विपर्ययं बुद्ध्वा नृणाम् विज्ञा-भिमानिनाम्।
आत्मनश्च गतिं सूक्ष्मां स्थान-त्रय-विलक्षणाम् ॥ ६१ ॥
दृष्ट-श्रुता-भिः मात्राभिः निर्मुक्तः स्वेन तेजसा।
ज्ञान-विज्ञान-सन्तुष्टः मद्-भक्तः पुरुषो भवेत् ॥ ६२ ॥
एतावान् एव मनुजैः योग-नैपुण-बुद्धिभिः।
स्वार्थः सर्व-आत्मना ज्ञेयः यत् परात्म-एक-दर्शनम् ॥ ६३ ॥
त्वम् एतच्छ्रद्धया राजन् अप्रमत्तो वचः मम।
ज्ञान-विज्ञान-सम्पन्नः धारयन् आशु सिध्यसि ॥ ६४ ॥
श्री-शुक उवाच –
आश्वास्य भगवान् इत्यथं चित्रकेतुं जगद्-गुरुः।
पश्यतस्तस्य विश्व-आत्मा ततः चान्तर-दधे हरिः ॥ ६५ ॥
॥ इति श्री-मद्-भागवते महा-पुराणे पार-महंस्यां संहिता-यां
षष्ठ-स्कन्धे चित्रकेतोः परम-आत्म-दर्शनं नाम षोडश-ः अध्यायः ॥ १६ ॥

No comments:
Post a Comment