இல்லற தர்மம்
ஸ்கந்தம் 7: அத்யாயம் 14
युधिष्ठिर उवाच –
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा।
याति देव-ऋषे ब्रूहि मादृशः गृहमूढ-धीः ॥ १ ॥
श्रीनारद उवाच –
गृहेषु अवस्थितः राजन् क्रियाः कुरु गृहोचिताः।
वासुदेव-आर्पणं साक्षात् उपासीत महा-मुनीन् ॥ २ ॥
श्रृण्वन् भगवतोऽभीक्ष्णम् अवतार-कथा-अमृतम्।
श्रद्धा-धानो यथा-कालम् उपशान्त-जनावृतः ॥ ३ ॥
सत्-सङ्गा छनकैः सङ्ग-मात्मजायात्मजादिषु।
विमुञ्चेन्मुच्यमानेषु स्वयं स्वप्न-वदुत्थितः ॥ ४ ॥
यावद् अर्थम् उपासीनो देहे गेहे च पण्डितः।
विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥
ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे।
यद् वदन्ति यदिच्छन्ति च अनुमोदेत निर्ममः ॥ ६ ॥
दिव्यं भौमं च अन्तरिक्षं वित्तम् अच्युत-निर्मितम्।
तत् सर्वम् उपभुञ्जान एतत् कुर्यात् स्वतः बुधः ॥ ७ ॥
यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम्।
अधिकं योऽभिमन्येत स स्तेनो दण्डम् अर्हति ॥ ८ ॥
मृग-ओष्ट्र-खर-मर्क-आखुस-रीसृप-खग-मक्षिकाः।
आत्मनः पुत्रवत् पश्येत् तैरेषाम् अन्तरं कियत् ॥ ९ ॥
त्रिवर्गं नाति-कृच्छ्रेण भजेत् गृहमेध्यपि।
यथा-देशं यथा-कालं यावद् दैवोपपादितम् ॥ १० ॥
आश्वाघान्तेऽवसायिभ्यः कामान् संविभजेद् यथा।
अपि एकाम् आत्मनो दारां नृणां स्वत्व-ग्रहः यतः ॥ ११ ॥
जह्याद् यत् अर्थे स्वप्राणान् हन्याद् वा पितरं गुरुम्।
तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः ॥ १२ ॥
कृमि-विड् भस्म-निष्ठान्तं क्वेदं तुच्छं कलेवरम्।
क्व तदीय-रतिर्भार्या क्वाayamात्मा नभ-छदिः ॥ १३ ॥
सिद्धैः यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिम् आत्मनः।
शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महताम् इयात् ॥ १४ ॥
देव-ऋषीन् नृभूतानि पितॄन् आत्मानम् अन्वहम्।
स्व-वृत्त्यागत-वित्तेन यजेत् पुरुषं पृथक् ॥ १५ ॥
यर्ह् आत्मनोऽधिकार-आद्याः सर्वाः स्युर् यज्ञ-सम्पदः।
वै-तानिकेन विधिना अग्नि-होत्रा-दि-ना यजेत् ॥ १६ ॥
न ह्य् अग्नि-मुखतः अयं वै भगवान् सर्व-यज्ञ-भुक्।
इज्येत् हविषा राजन् यथा विप्र-मुखे हुतैः ॥ १७ ॥
तस्माद् ब्राह्मण-देवेषु मर्त्यादिषु यथा-र्हतः।
तैस्तैः कामैः यजस्वै नं क्षेत्रज्ञं ब्राह्मणान् अनु ॥ १८ ॥
कुर्याद् अपर-पक्षीयं मासि प्रौष्ठ-पदे द्विजः।
श्राद्धं पितॄर् यथा-वित्तं तद्-बंधनां च वित्तवान् ॥ १९ ॥
अयने विषुवे कुर्याद् व्यती-पाते दिन-क्षये।
चन्द्रादित्य-उपरागे च द्वादशी-श्रवणेषु च ॥ २० ॥
तृतीयायां शुक्ल-पक्षे नवम्याम् अथ कार्तिके।
चतसृष्व् अप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥
माघे च सित-सप्तम्यां मघा-राकास-आगमे।
राकया चानुमत्या वा मास-र्क्षाणि युतानि अपि ॥ २२ ॥
द्वादश्याम् अनुराधा स्याद् श्रवणः तिस्र उत्तराः।
तिसृष्व् एकादशी वाऽऽसु जन्म-र्क्ष-श्रोण-योग-युक्त ॥ २३ ॥
त एते श्रेयसः कालाः नॄणां श्रेयो-विवर्धनाः।
कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तद् आयुषः ॥ २४ ॥
एषु स्नानं जपो होमो व्रतं देव-द्विज-आर्चनम्।
पितृ-देव-नृभूतेभ्यः यद् दत्तं तद्ध्य-नश्वरम् ॥ २५ ॥
संस्कार-कालो जायायाः अपत्यस्य आत्मनस्तथा।
प्रेत-संस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥
अथ देशान् प्रवक्ष्यामि धर्मादि-श्रेय आवहान्।
स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ २७ ॥
बिम्बं भगवतो यत्र सर्वम् एतत् चराचरम्।
यत्र ह ब्राह्मण-कुलं तपो-विध्या-दयान्वितम् ॥ २८ ॥
यत्र यत्र हरेः अर्चा स देशः श्रेयसां पदम्।
यत्र गङ्गा-ादयो नद्यः पुराणेषु च विश्रुताः ॥ २९ ॥
सरांसि पुष्करादीनि क्षेत्राणिर्ह-आश्रितानि युत।
कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ ३० ॥
नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली।
वाराणसी मधुपुरी पम्पा बिन्दु-सरस् तथा ॥ ३१ ॥
नारायणाश्रमो नन्दा सीता-रामाश्रमादयः।
सर्वे कुलाचला राजन् महेन्द्र-मलयादयः ॥ ३२ ॥
एते पुण्यतमा देशा हरेः अर्चा-श्रिताश्च ये।
एतान् देशान् निषेवेत् श्रेयस्-कामो ह्यभीक्ष्णशः।
धर्मो ह्यत्र एहितः पुंसां सहस्राधि-फल-उदयः ॥ ३३ ॥
पात्रं त्वत्र निरुक्तं वै कविभिः पात्र-वित्त-मैः।
हरी-एवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥
देवर्ष्य-र्हत्सु वै सत्सु तत्र ब्रह्मात्मजा-दिṣu।
राजन् यद् अग्र-पूजायां मतः पात्र-तया आच्युतः ॥ ३५ ॥
जीवराशिभिः आकीर्ण अण्डकोशाङ्-घ्रि-पो महान्।
तन्मूल-त्वाद् अच्युतेज्या सर्व-जीवात्म-तर्पणम् ॥ ३६ ॥
पुराण्यनेन सृष्टानि नृतिर् यगृषि-देवताः।
शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥
तेषु एषु भगवान् राजन् तारतम्येन वर्तते।
तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥
दृष्ट्वा तेषां मिथो नृणाम् अव-ज्ञानात्मतां नृप।
त्रेतादिषु हरेः अर्चा क्रियायै कविभिः कृता ॥ ३९ ॥
ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया।
उपासत उपास्तापि नार्थ-दा पुरुष-द्विषाम् ॥ ४० ॥
पुरुषेषु अपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः।
तपसा विद्यया तुष्ट्या धत्ते वेदं हरेः तनुम् ॥ ४१ ॥
नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः।
पुनन्तः पाद-रजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे सदाचार-निर्णयो नाम चतुर्दशोऽध्यायः ॥ १४ ॥

No comments:
Post a Comment