Followers

Search Here...

Sunday, 13 April 2025

ஸ்கந்தம் 10: அத்யாயம் 51 (முசுகுந்தனுக்கு கிருஷ்ண தரிசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

முசுகுந்தனுக்கு கிருஷ்ண தரிசனம்

ஸ்கந்தம் 10: அத்யாயம் 51

श्री शुक उवाच –
तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इव उडुपम् ।
दर्शनीय-तमम् श्यामम् पीत-कौशेय-वाससम् ॥ १ ॥


श्रीवत्स-वक्षसम् भ्राजत्-कौस्तुभ-अमुक्त-कन्धरम् ।
पृथु-दीर्घ-चतुर्-बाहुम् नव-कञ्ज-अरुण-ईक्षणम् ॥ २ ॥


नित्य-प्रमुदितम् श्रीमत्-सुकपोलम् शुचि-स्मितम् ।
मुख-अरविन्दम् बिभ्राणम् स्फुरत्-मकर-कुण्डलम् ॥ ३ ॥


वासुदेवः हि अयम् इति पुमान् श्रीवत्स-लाञ्छनः ।
चतुर्-भुजः अरविन्द-आक्षः वन-माल्य-अति-सुन्दरः ॥ ४ ॥


लक्षणैः नारद-प्रोक्तैः न अन्यः भवितुम् अर्हति ।
निरायुधः चलन् पद्भ्याम् योत्स्ये अनेन निरायुधः ॥ ५ ॥


इति निश्चित्य यवनः प्राद्रवन्तम् पराङ्मुखम् ।
अन्वधावत् जिघृक्षुः तम् दुरापम् अपि योगिनाम् ॥ ६ ॥


हस्त-प्राप्तम् इव आत्मानम् हरिणा स पदे पदे ।
नीतः दर्शयता दूरम् यवन-ईशः अद्रि-कन्दरम् ॥ ७ ॥


पलायनम् यदु-कुले जातस्य तव न उचितम् ।
इति क्षिपन् अनुगतः न एनम् प्राप् आहत-अशुभः ॥ ८ ॥


एवम् क्षिप्तः अपि भगवान् प्राविशत् गिरि-कन्दरम् ।
सः अपि प्रविष्टः तत्र अन्यम् शयानम् ददृशे नरम् ॥ ९ ॥


नु असौ दूरम् आनीय शेते माम् इह साधु-वत् ।
इति मत्वा अच्युतम् मूढः तम् पदा समताडयत् ॥ १० ॥


सः उत्थाय चिरम् सुप्तः शनैः उन्मील्य लोचने ।
दिशः विलोकयन् पार्श्वे तम् अद्राक्षीत् अवस्थितम् ॥ ११ ॥


सः तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत ।
देहजेन अग्निना दग्धः भस्मसात् अभवत् क्षणात् ॥ १२ ॥


श्रीराज उवाच –
कः नाम सः पुमान् ब्रह्मन् कस्य किम्-वीर्यः एव च ।
कस्मात् गुहाम् गतः शिष्ये किम् तेजः यवन-अर्दनः ॥ १३ ॥


श्री शुक उवाच –
सः इक्ष्वाकु-कुले जातः मान्धातृ-तनयः महान् ।
मुचुकुन्दः इति ख्यातः ब्रह्मण्यः सत्य-सङ्गरः ॥ १४ ॥


सः याचितः सुर-गणैः इन्द्र-आद्यैः आत्म-रक्षणे ।
असुरेभ्यः परित्रस्तैः तत् रक्षाम् सः अकरोत् चिरम् ॥ १५ ॥


लब्ध्वा गुहम् ते स्वः-पालम् मुचुकुन्दम् अथ अब्रुवन् ।
राजन् विरमताम् कृच्छ्रात् भवान् नः परि-पालनात् ॥ १६ ॥


नर-लोके परित्यज्य राज्यम् निहत-कण्टकम् ।
अस्मान् पालयतः वीर कामाः ते सर्वे उज्झिताः ॥ १७ ॥


सुता महिष्यः भवतः ज्ञातयः अमात्य-मन्त्रिणः ।
प्रजाः च तुल्य-कालीयाः न अधुना सन्ति कालिताः ॥ १८ ॥


कालः बलीयान् बलिनाम् भगवान् ईश्वरः अव्ययः ।
प्रजाः कालयते क्रीडन् पशु-पालः यथा पशून् ॥ १९ ॥


वरम् वृणीष्व भद्रम् ते ऋते कैवल्यम् अद्य नः ।
एकः एव ईश्वरः तस्य भगवान् विष्णुः अव्ययः ॥ २० ॥


एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः ।
अशयिष्ट गुहा-आविष्टः निद्रया देव-दत्तया ॥ २१ ॥


स्वापम् यातम् यः तु मध्ये बोधयेत् त्वाम् अचेतनः ।
सः त्वया दृप्त-मात्रः तु भस्मी-भवतु तत्-क्षणात् ॥ २२ ॥


यवने भस्म-सात् नीते भगवान् सात्वत-ऋषभः ।
आत्मानम् दर्शयामास मुचुकुन्दाय धीमते ॥ २३ ॥


तम् आलोक्य घन-श्यामम् पीत-कौशेय-वाससम् ।
श्रीवत्स-वक्षसम् भ्राजत् कौस्तुभेन विराजितम् ॥ २४ ॥


चतुः-भुजम् रोचमानम् वैजयन्त्या च मालया ।
चारु-प्रसन्न-वदनम् स्फुरत्-मकर-कुण्डलम् ॥ २५ ॥


प्रेक्षणीयम् नृ-लोकस्य स-अनुराग-स्मित-ईक्षणम् ।
अपीच्य-वयसम् मत्त-मृग-इन्द्र-उदार-विक्रमम् ॥ २६ ॥


पर्यपृच्छत् महा-बुद्धिः तेजसा तस्य धर्षितः ।
शङ्कितः शनकैः राजा दुर्धर्षम् इव तेजसा ॥ २७ ॥


श्री-मुचुकुन्द उवाच –
कः भवान् इह सम्प्राप्तः विपिने गिरि-गह्वरे ।
पद्भ्याम् पद्म-पालाशाभ्याम् विचरसि उरु-कण्टके ॥ २८ ॥


किम् स्वित् तेजस्विनाम् तेजः भगवान् वा विभावसुः ।
सूर्यः सोमः महा-इन्द्रः वा लोक-पालः अपरः अपि वा ॥ २९ ॥


मन्ये त्वाम् देव-देवानाम् त्रयाणाम् पुरुष-ऋषभम् ।
यत् बाधसे गुहा-अध्वान्तम् प्रदीपः प्रभया यथा ॥ ३० ॥


शुश्रूषताम् अव्यलीकम् अस्माकम् नर-पुङ्गव ।
स्व-जन्म कर्म गोत्रम् वा कथ्यताम् यदि रोचते ॥ ३१ ॥


वयम् तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः ।
मुचुकुन्दः इति प्रोक्तः यौवनाश्व-आत्मजः प्रभो ॥ ३२ ॥


चिर-प्रजागर-श्रान्तः निद्रया अपहत-इन्द्रियः ।
शये अस्मिन् विजने कामम् केन अपि उत्थापितः अधुना ॥ ३३ ॥


सः अपि भस्मी-कृतः नूनम् आत्मीयेन एव पाप्मना ।
अनन्तरम् भवान् श्रीमान् लक्षितः अमित्र-शातनः ॥ ३४ ॥


तेजसा ते अविषह्येण भूरि द्रष्टुम् न शक्नुमः ।
हत-ओजसा महा-भाग माननीयः असि देहिनाम् ॥ ३५ ॥


एवम् सम्भाषितः राज्ञा भगवान् भूत-भावनः ।प्रत्याह प्रहसन् वाण्या मेघ-नाद-गभीरया ॥ ३६ ॥


श्री-भगवान् उवाच –
जन्म-कर्म-अभिधानानि सन्ति मे अङ्ग सहस्रशः ।
न शक्यन्ते अनुसङ्ख्यातुम् अनन्तत्वात् मया अपि हि ॥ ३७ ॥


क्वचित् रजांसि विममे पार्थिवानि उरु-जन्मभिः ।
गुण-कर्म-अभिधानानि न मे जन्मानि कर्हिचित् ॥ ३८ ॥


काल-त्रय-उपपन्नानि जन्म-कर्माणि मे नृप ।
अनुक्रमन्तः न एव अन्तम् गच्छन्ति परम-ऋषयः ॥ ३९ ॥


तथा अपि अद्यतनानि अङ्ग शृणुष्व गदतः मम ।
विज्ञापितः विरिञ्चेन पुरा अहम् धर्म-गुप्तये ॥
भूमेः भार-आयमानानाम् असुराणाम् क्षयाय च ॥ ४० ॥


अवतीर्णः यदुकुले गृहे आनक-दुन्दुभेः।

वदन्ति वासुदेव इति वसुदेव-सुतम् हि माम्॥ ४१॥


काल-नेमिः हतः कंसः प्रलम्ब-आद्याः च सत्-द्विषः।

अयम् च यवनः दग्धः राजन् ते तिग्म-चक्षुषा॥ ४२॥


सः अहम् तव अनु-ग्रह-अर्थम् गुहाम् एताम् उपागतः।

प्रार्थितः प्रचुरम् पूर्वम् त्वया अहम् भक्त-वत्सलः॥ ४३॥


वरान् वृणीष्व राज-ऋषे सर्वान् कामान् ददामि ते।

माम् प्रसन्नः जनः कश्चित् न भूयः अर्हति शोचितुम्॥ ४४॥


श्री शुक उवाच –

इति उक्तः तम् प्रणम्य आह मुचुकुन्दः मुदान्वितः।

ज्ञात्वा नारायणम् देवं गर्ग-वाक्यम् अनुस्मरन्॥ ४५॥


श्री मुचुकुन्द उवाच –

विमोहितः अयम् जनः ईश मायाया

 त्वदीयया त्वाम् न भजति अनर्थ-दृक्।

सुखाय दुःख-प्रभवेषु सज्जते

 गृहेषु योषित् पुरुषः च वञ्चितः॥ ४६॥


लब्ध्वा जनः दुर्लभम् अत्र मानुषम्

 कथंचित् अव्यङ्गम् अयत्नतः अनघ।

पाद-अरविन्दम् न भजति असत्-मतिः

 गृह-अन्ध-कूपे पतितः यथा पशुः॥ ४७॥


मम एषः कालः अजित निष्फलः गतः

 राज्य-श्रिया उन्नद्ध-मदस्य भूपतेः।

मर्त्य-आत्म-बुद्धेः सुत-दार-कोश-भू-

 षु आसज्जमानस्य दुरन्त-चिन्तया॥ ४८॥


कलेवरे अस्मिन् घट-कुड्य-सन्निभे

 निरूढ-मानः नर-देवः इति अहम्।

वृतः रथ-इभ-अश्व-पदाति-अनीक-पैः

 गाम् पर्यटन् त्वाम् अगणयन् सुदुर्मदः॥ ४९॥


प्रमत्तम् उच्चैः इति कृत्य-चिन्तया

 प्रवृद्ध-लोभम् विषयेषु लालसम्।

त्वम् अप्रमत्तः सहसा अभिपद्यसे

 क्षुल्ल इह आनः अहिः इव आखुम् अन्तकः॥ ५०॥


पुरा रथैः हेम-परिष्कृतैः चरन्

 मतङ्गजैः वा नर-देव-संज्ञितः।

सः एव कालेन दुरत्ययेन ते

 कलेवरः विट्-कृमि-भस्म-संज्ञितः॥ ५१॥


निर्जित्य दिक्-चक्रम् अभूत-विग्रहः

 वर-आसन-स्थः सम-राज-वन्दितः।

गृहेषु मैथुन-सुखेषु योषिताम्

 क्रीडा-मृगः पुरुषः ईश नीयते॥ ५२॥


करोति कर्माणि तपः-सु-निष्ठितः

 निवृत्त-भोगः तत् अपेक्षया ददत्।

पुनः च भूयासम् अहम् स्व-राट् इति

 प्रवृद्ध-तर्षः न सुखाय कल्पते॥ ५३॥


भव-अपवर्गः भ्रमतः यदा भवेत्

 जनस्य तर्हि अच्युत सत्-समागमः।

सत्-सङ्गमः यः हि तदा एव सद्-गतौ

 पर-आवर-ईशे त्वयि जायते मतिः॥ ५४॥


मन्ये मम अनुग्रहः ईश ते कृतः

 राज्य-अनुबन्ध-अपगमः यदृच्छया।

यः प्रार्थ्यते साधुभिः एक-चर्यया

 वनम् विविक्षद्भिः अखण्ड-भूमि-पैः॥ ५५॥


न कामये अन्यम् तव पाद-सेवनात्

 अकिञ्चन-प्रार्थ्य-तमात् वरम् विभो।

आराध्यः कः त्वाम् हि अपवर्गदम् हरे

 वृणीते आर्यः वरम् आत्म-बन्धनम्॥ ५६॥


तस्मात् विसृज्य आशीः ईश सर्वतः

 रजः-तमः-सत्त्व-गुण-अनुबन्धनाः।

निरञ्जनम् निर्गुणम् अद्वयम् परम्

 त्वाम् ज्ञाप्ति-मात्रम् पुरुषम् व्रजामि अहम्॥ ५७॥


चिरम् इह वृजिन-आर्तः तप्यमानः अनुतापैः

 अवितृष-षट्-अमित्रः अलब्ध-शान्तिः कथञ्चित्।

शरणद समुपेतः त्वत्-पद-अब्जम् पर-आत्मन्

 अभयम् अमृतम् अशोकम् पाहि माम् आपन्नम् ईश॥ ५८॥


श्री भगवान् उवाच –

सार्व-भौम महा-राज मतिः ते विमलः ऊर्जिता।

वरैः प्रलोभितस्य अपि न कामैः विहता यतः॥ ५९॥


प्रलोभितः वरैः यत् त्वम् अप्रमादाय विद्धि तत्।

न धीः मयि एक-भक्तानाम् आशीर्भिः भिद्यते क्वचित्॥ ६०॥


युञ्जानानाम् अभक्तानाम् प्राणायाम-आदिभिः मनः।

अक्षीण-वासनम् राजन् दृश्यते पुनः-उत्थितम्॥ ६१ ॥


विचरस्व महीम् कामम् मयि-आवेशित-मानसः।

अस्तु एवम् नित्यदा तुभ्यम् भक्तिः मयि अनपायिनी॥ ६२ ॥


क्षात्र-धर्म-स्थितः जन्तून् न्यवधीः मृगया-आदिभिः।

समाहितः तत्-तपसा जहि अघम् मद्-उपाश्रितः॥ ६३ ॥


जन्मनि अनन्तरे राजन् सर्व-भूत-सुहृत्-तमः।

भूत्वा द्विज-वरः त्वम् वै माम् उपैष्यसि केवलम्॥ ६४ ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे मुचुकुन्दस्तुतिर्नामैक- पञ्चाशत्तमोऽध्यायः॥ ५१

ஸ்கந்தம் 10: அத்யாயம் 50 (துவாரகை நிர்மாணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

துவாரகை நிர்மாணம்

ஸ்கந்தம் 10: அத்யாயம் 50

श्री शुक उवाच –
अस्तिः प्राप्तिः च कंसस्य महिष्यौ भरतर्षभ ।
मृते भर्तरि दुःखार्ते ईयतुः स्म पितुः गृहान् ॥ १ ॥


पित्रे मगध-राजाय जरासन्धाय दुःखिते ।
वेदयाम् चक्रतुः सर्वम् आत्म-वैधव्य-कारणम् ॥ २ ॥


सः तत् अप्रियम् आकर्त्य शोक-अमर्ष-युतः नृप ।
अ-यादवीं महीं कर्तुम् चक्रे परमम् उद्यमम् ॥ ३ ॥


अक्षौहिणीभिः विंशत्या तिसृभिः च अपि संवृतः ।
यदु-राजधानीम् मथुराम् न्यरुणत् सर्वतः दिशम् ॥ ४ ॥


निरीक्ष्य तत् बलम् कृष्णः उद्वेलम् इव सागरम् ।
स्व-पुरम् तेन संरुद्धम् स्व-जनम् च भय-आकुलम् ॥ ५ ॥


चिन्तयामास भगवान् हरिः कारण-मानुषः ।
तत् देश-काल-अनुगुणम् स्व-अवतार-प्रयोजनम् ॥ ६ ॥


हनिष्यामि बलम् हि एतत् भुवि भारम् समाहितम् ।
मागधेन समानीतम् वश्यानाम् सर्व-भूभुजाम् ॥ ७ ॥


अक्षौहिणीभिः सङ्ख्यातम् भट-अश्व-रथ-कुञ्जरैः ।
मागधः तु न हन्तव्यः भूयः कर्ता बल-उद्यमम् ॥ ८ ॥


एतत् अर्थः अवतारः अयम् भू-भार-हरणाय मे ।
संरक्षणाय साधूनाम् कृतः अन्येषाम् वधाय च ॥ ९ ॥


अन्यः अपि धर्म-रक्षायै देहः संभ्रियते मया ।
विरामाय अपि अधर्मस्य काले प्रभवतः क्वचित् ॥ १० ॥


एवम् ध्यायति गोविन्दे आकाशात् सूर्य-वर्चसौ ।
रथौ उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ ॥ ११ ॥


आयुधानि च दिव्यानि पुराणानि यदृच्छया ।
दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथ अब्रवीत् ॥ १२ ॥


पश्य आर्य व्यसनम् प्राप्तम् यदूनाम् त्वावताम् प्रभो ।
एष ते रथः आयातः दयितानि आयुधानि च ॥ १३ ॥


यानम् आस्थाय जहि एतत् व्यसनात् स्वान् समुद्धर ।
एतत् अर्थम् हि नौ जन्म साधूनाम् ईश शर्म-कृत् ॥ १४ ॥


त्रयो-विंशति-अनीक-आख्यम् भूमेः भारम् अपाकुरु ।
एवम् सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ॥ १५ ॥


निर्जग्मतुः स्व-आयुध-आढ्यौ बलेन अल्पीयसा आवृतौ ।
शङ्खम् दध्मौ विनिर्गत्य हरिः दारुक-सारथिः ॥ १६ ॥


ततः अभूत् पर-सैन्यानाम् हृदि वित्रास-वेपथुः ।
तौ अवाह मागधः वीक्ष्य हे कृष्ण पुरुष-अधम ॥ १७ ॥


न त्वया योद्धुम् इच्छामि बालेन एकेन लज्जया ।
गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धु-हन् ॥ १८ ॥


तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह ।
हित्वा वा मच्छरैः छिन्नम् देहम् स्वः याहि माम् जहि ॥ १९ ॥


श्रीभगवान् उवाच –
न वै शूराः विकत्थन्ते दर्शयन्ति एव पौरुषम् ।
न गृह्णीमः वचः राजन् आतुरस्य मुमूर्षतः ॥ २० ॥


श्री शुक उवाच –
जरासुतः तौ अभिसृत्य माधवौ
महाबल-ओघेन बलीयसा आवृणोत् ।
ससैन्य-यान-ध्वज-वाजि-सारथी
सूर्य-अनलौ वायुः इव अभ्र-रेणुभिः ॥ २१ ॥


सुपर्ण-ताल-ध्वज-चिह्नितौ रथौ
वलक्षयन्त्यः हरि-रामयोः मृधे ।
स्त्रियः पुर-आट्टालक-हर्म्य-गोपुरम्
समाश्रिताः सम्मुमुहुः शुच्-आर्दिताः ॥ २२ ॥


हरिः पर-अनीक-पयः-मुचाम् मुहुः
शिलीमुख-आत्युल्बण-वर्ष-पीडितम् ।
स्वसैन्यम् आलोक्य सुर-असुर-अर्चितम्
व्यस्फूर्जयत् शार्ङ्ग-शर-असन-उत्तमम् ॥ २३ ॥


गृह्णन् निषङ्गात् अथ सन्दधत् शरान्
विकृष्य मुञ्चन् शित-बाण-पूगान् ।
निघ्नन् रथान् कुञ्जर-वाजि-पत्तीन्
निरन्तरम् यद्वद् अलात-चक्रम् ॥ २४ ॥


निर्भिन्न-कुम्भाः करिणः निपेतुः
अनेकशः अश्वाः शर-वृक्ण-कन्धराः ।
रथाः हत-अश्व-ध्वज-सूत-नायकाः
पदायताः छिन्न-भुज-उरु-कन्धराः ॥ २५ ॥


सञ्छिद्यमान-द्विप-देह-वाजिनाम्
अङ्ग-प्रसूताः शतशः असृक्-आपगाः ।
भुज-आहयः पुरुष-शीर्ष-कच्छपाः
हत-द्विप-अद्वीप-हय ग्रह-आकुलाः ॥ २६ ॥


कर-ऊरु-मीना नर-केश-शैवला
धनुष्-तरङ्ग-आयुध-गुल्म-सङ्कुलाः ।
अच्छूरिका-आवर्त-भयानकाः महा-
मणि-प्रवेका-आभरण-अश्म-शर्कराः ॥ २७ ॥


प्रवर्तिता भीरु-भय-आवहाः मृधे
मनस्विनाम् हर्षकरीः परस्परम् ।
विनिघ्नत् आरिन् मुसलेन दुर्मदान्
सङ्कर्षणेन अपरिमेय-तेजसा ॥ २८ ॥


बलम् तत् अङ्ग-अर्णव-दुर्ग-भैरवम्
दुरन्त-पारम् मगध-इन्द्र-पालितम् ।
क्षयम् प्रणीतम् वसुदेव-पुत्रयोः
विक्रीडितम् तत् जगद्-ईशयोः परम् ॥ २९ ॥


स्थिति-उद्भव-अन्तम् भुवन-त्रयस्य यः
समीहिते अनन्त-गुणः स्व-लीलया ।
न तस्य चित्रम् पर-पक्ष-निग्रहः
तथा अपि मर्त्य-अनुविधस्य वर्ण्यते ॥ ३० ॥


जग्राह विरथम् रामः जरासन्धम् महा-बलम् ।
हत-अनीक-अवशिष्ट-आसुम् सिंहः सिंहम् इव ओजसा ॥ ३१ ॥


बध्यमानम् हत-अरातिम् पाशैः वारुण-मानुषैः ।
वारयामास गोविन्दः तेन कार्य-चिकीर्षया ॥ ३२ ॥


सः मुक्तः लोक-नाथाभ्याम् व्रीडितः वीर-सम्मतः ।
तपसे कृत-सङ्कल्पः वारितः पथि राजभिः ॥ ३३ ॥


वाक्यैः पवित्र-अर्थ-पदैः नयनैः प्राकृतैः अपि ।
स्व-कर्म-बन्ध-प्राप्तः अयम् यदुभिः ते पराभवः ॥ ३४ ॥


हतेषु सर्व-अनीकेषु नृपः बार्हद्रथः तदा ।
उपेक्षितः भगवता मगधान् दुर्मनाः ययौ ॥ ३५ ॥


मुकुन्दः अपि अक्षत-बलः निस्तीर्ण-अरि-बल-अर्णवः ।
विकीर्यमाणः कुसुमैः त्रिदशैः अनुमोदितः ॥ ३६ ॥


माथुरैः उपसङ्गम्य विज्वरैः मुदित-आत्मभिः ।
उपगीयमान-विजयः सूत-मागध-वन्दिभिः ॥ ३७ ॥


शङ्ख-दुन्दुभयः नेदुः भेरी-तूर्याणि अनेकशः ।
वीणा-वॆणु-मृदङ्गानि पुरम् प्रविशति प्रभौ ॥ ३८ ॥


सिक्त-मार्गाम् हृष्ट-जनाम् पताकाभिः अलङ्कृताम् ।
निर्घुष्टाम् ब्रह्म-घोषेण कौतुक-आबद्ध-तोरणाम् ॥ ३९ ॥


निचीयमानः नारीभिः माल्य-दधि-अक्षता-अङ्कुरैः ।
निरीक्ष्यमाणः स-स्नेहम् प्रीति-उत्कलित-लोचनैः ॥ ४० ॥


आयोधनगतं वित्तम् अनन्तम् वीर-भूषणम्।
यदु-राजाय तत् सर्वम् आहृतम् प्रादिशत् प्रभुः॥ ४१॥


एवम् सप्तदश-कृत्वः तावत् अक्षौहिणी-बलः।
युयुधे मागधः राजा यदुभिः कृष्ण-पालितैः॥ ४२॥


अक्षिण्वन् तत् बलम् सर्वम् वृष्णयः कृष्ण-तेजसा।
हतेषु स्वेषु अनीकेषु त्यक्तः अयात् अरिभिः नृपः॥ ४३॥


अष्टादशम् सङ्ग्रामे आगामिनि तत् अन्तराः।
नारद-प्रेषितः वीरः यवनः प्रत्यदृश्यत॥ ४४॥


रुरोध मथुराम् एत्य तिसृभिः म्लेच्छ-कोटिभिः।
नृ-लोके च अप्रतिद्वन्द्वः वृष्णीन् श्रुत्वा आत्म-सम्मितान्॥ ४५॥


तम् दृष्ट्वा अचिन्तयत् कृष्णः सङ्कर्षण-सहायवान्।
अहो यदूनाम् वृजिनम् प्राप्तम् हि उभयतः महत्॥ ४६॥


यवनः अयम् निरुन्धे अस्मान् अद्य तावत् महा-बलः।
मागधः अपि अद्य वा श्वः वा परश्वः वा आगमिष्यति॥ ४७॥


आवयोः युध्यतोः अस्य यदि आगन्ता जरासुतः।
बन्धून् वधिष्यति अथ वा नेष्यते स्वपुरम् बली॥ ४८॥


तस्मात् अद्य विधास्यामः दुर्गम् द्विपद-दुर्गम्।
तत्र ज्ञातीन् समाधाय यवनम् घातयामहे॥ ४९॥


इति सम्मन्त्र्य भगवान् दुर्गम् द्वादश-योजनम्।
अन्तः-समुद्रे नगरम् कृत्स्नात् भुतम् अचीकरत्॥ ५०॥


दृश्यते यत्र हि त्वाष्ट्रम् विज्ञानम् शिल्प-नैपुणम्।
रथ्या-चत्वर-वीथीभिः यथा वास्तु विनिर्मितम्॥ ५१॥


सुर-द्रुम-लता-उद्यान विचित्र-उपवन-अन्वितम्।
हेम-शृङ्गैः दिवि-स्पृग्भिः स्फटिक-अट्टाल-गोपुरैः॥ ५२॥


राजत-आरकुटैः कोष्ठैः हेम-कुम्भैः अलङ्कृतैः।
रत्न-कूटैः गृहैः हेमैः महा-मरकत-स्थलैः॥ ५३॥


वास्तु-ईश्वतीनाम् च गृहैः वल्लभीभिः च निर्मितम्।
चातुर्वर्ण्य-जन-आकीर्णम् यदु-देव-गृह-उल्लसत्॥ ५४॥


सुधर्माम् पारिजातम् च महेन्द्रः प्राहिणोत् हरेः।
यत्र च अवस्थितः मर्त्यः मर्त्य-धर्मैः न युज्यते॥ ५५॥


श्याम-एक-कर्णान् वरुणः हयान् शुक्लान् मनोजवान्।
अष्टौ निधि-पतिः कोशान् लोक-पालः निज-उदयान्॥ ५६॥


यत् यत् भगवता दत्तम् आधिपत्यं स्व-सिद्धये।
सर्वम् प्रत्यर्पयामासुः हरेः भूमि-गते नृप॥ ५७॥


तत्र योग-प्रभावेण नीत्वा सर्व-जनम् हरिः।
प्रजापालेन रामेण कृष्णः समनुमन्त्रितः।
निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः॥ ५८॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चाशत्तमोऽध्यायः॥ ५० ॥

ஸ்கந்தம் 10: அத்யாயம் 49 (அக்ரூரர் ஹஸ்தினாபுரம் செல்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் ஹஸ்தினாபுரம் செல்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 49

श्री शुक उवाच –
सः गत्वा हास्तिनपुरम् पौरव-इन्द्र-यशः-अङ्कितम् ।
ददर्श तत्र अम्बिकायम् सभीष्मम् विदुरम् पृथाम् ॥ १ ॥


सह-पुत्रम् च बाह्लीकम् भारद्वाजम् स-गौतमम् ।
कर्णम् सुयोधनम् द्रौणिम् पाण्डवान् सुहृदः अपरान् ॥ २ ॥


यथावत् उपसङ्गम्य बन्धुभिः गांदिनी-सुतः ।
सम्पृष्टः तैः सुहृत्-वार्ताम् स्वयं च अपृच्छत् अव्ययम् ॥ ३ ॥


उवास कतिचित् मासान् राज्ञः वृत्त-विवित्सया ।
दुष्प्रजस्य अल्प-सारस्य खल-छन्द-अनुवर्तिनः ॥ ४ ॥


तेजः ओजः बलम् वीर्यम् प्रश्रय-आदीन् च सत्-गुणान् ।
प्रजा-अनुरागम् पार्थेषु न सहद्भिः चिकीर्षितम् ॥ ५ ॥


कृतम् च धार्तराष्ट्रैः यत् गरद-अनादि-अपेशलम् ।
आचख्यौ सर्वम् एव अस्मै पृथा विदुरः एव च ॥ ६ ॥


पृथा तु भ्रातरम् प्राप्तम् अक्रूरम् उपसृत्य तम् ।
उवाच जन्म-निलयम् स्मरन्ती अश्रु-कल-ईक्षणा ॥ ७ ॥


अपि स्मरन्ति नः सौम्य पितरौ भ्रातरः च मे ।
भगिन्यः भ्रातृ-पुत्राः च जामयः सख्यः एव च ॥ ८ ॥


भ्रात्रेयः भगवान् कृष्णः शरण्यः भक्तवत्सलः ।
पैतृष्वस्य-यान् स्मरति रामः च अम्बुज-ईक्षणः ॥ ९ ॥


स-पत्न-मध्ये शोचन्तीम् वृकाणाम् हरिणीम् इव ।
सान्त्वयिष्यति माम् वाक्यैः पितृ-हीनान् च बालकान् ॥ १० ॥


कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-भावन ।
प्रपन्नाम् पाहि गोविन्द शिशुभिः च अवसीदतीम् ॥ ११ ॥


न अन्यत् तव पद-अम्भोजात् पश्यामि शरणम् नृणाम् ।
बिभ्यताम् मृत्यु-संसारात् ईश्वरस्य अपवर्गिकात् ॥ १२ ॥


नमः कृष्णाय शुद्धाय ब्रह्मणे परम-आत्मने ।
योगेश्वराय योगाय त्वाम् अहम् शरणम् गता ॥ १३ ॥


श्री शुक उवाच –
इति अनुस्मृत्य स्व-जन्‍म् कृष्णम् च जगत्-ईश्वरम् ।
प्रारुदत् दुःखिता राजन् भवताम् प्रपितामही ॥ १४ ॥


सम-दुःख-सुखः अक्रूरः विदुरः च महा-यशाः ।
सान्त्वयामासतुः कुन्तीम् तत्-पुत्र-उत्पत्ति-हेतुभिः ॥ १५ ॥


यास्यन् राजानम् अभ्येत्य विषम् पुत्र-लालसम् ।
अवदत् सुहृदाम् मध्ये बन्धुभिः सौहृद-उदितम् ॥ १६ ॥


अक्रूर उवाच –
भो भो वैचित्रवीर्य त्वम् कुरूणाम् कीर्ति-वर्धन ।
भ्रातरि उपरते पाण्डवः अधुना आसनम् आस्थितः ॥ १७ ॥


धर्मेण पालयन् उर्वीम् प्रजाः शीलेन रञ्जयन् ।
वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥ १८ ॥


अन्यथा त्वा अचरन् लोके गर्हितः यास्यसि तमः ।
तस्मात् समत्वे वर्तस्व पाण्डवेषु आत्म-जेषु च ॥ १९ ॥


न इह च अत्यन्त-संवासः कर्हिचित् केनचित् सह ।
राजन् स्वेन अपि देहेन किम् उ जाय-आत्मज-आदिभिः ॥ २० ॥


एकः प्रसूयते जन्तुः एक एव प्रलीयते ।

एकः अनुभुङ्क्ते सुकृतम् एकः एव च दुष्कृतम् ॥ २१ ॥


अधर्म-उपचितम् वित्तम् हरन्ति अन्ये अल्प-मेधसः ।

सम्भोजनीय-अपदेशैः जलानि इव जल-ओकसः ॥ २२ ॥


पुष्णाति यत् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् ।

ते अकृत-अर्थम् प्रहिण्वन्ति प्राणाः रायः सुत-आदयः ॥ २३ ॥


स्वयम् किल्बिषम् आदाय तैः त्यक्तः न अर्थ-कोविदः ।

असिद्ध-अर्थः विशति अन्धम् स्व-धर्म-विमुखः तमः ॥ २४ ॥


तस्मात् लोकम् इम् राजन् स्वप्न-माया-मनो-रथम् ।

वीक्ष्य आयम्य आत्मना आत्मानम् समः शान्तः भव प्रभो ॥ २५ ॥


धृतराष्ट्र उवाच –

यथा वदति कल्याणीम् वाचम् दान-पते भवान् ।

तथा अनया न तृप्यामि मर्त्यः प्राप्य यथा अमृतम् ॥ २६ ॥


तथा अपि सूनृता सौम्य हृदि न स्थीयते चले ।

पुत्र-अनुराग-विषमे विद्युत् सौदामनी यथा ॥ २७ ॥


ईश्वरस्य विधिम् कः नु विधुनोति अन्यथा पुमान् ।

भूमेः भार-अवताराय यः अवतीर्णः यदोह् कुले ॥ २८ ॥


यः दुर्विमर्श-पथया निज-मायया इदम्

सृष्ट्वा गुणान् विभजते तत् अनुप्रविष्टः ।

तस्मै नमः दुरवबोध-विहार-तन्त्र-

संसार-चक्र-गतये परम-ईश्वराय ॥ २९ ॥


श्रीशुक उवाच –

इति अभिप्रेत्य नृपतेः अभिप्रायम् स यादवः ।

सुहृद्‌भिः समनुज्ञातः पुनः यदु-पुरिम् अगात् ॥ ३० ॥


शशंस राम-कृष्णाभ्याम् धृतराष्ट्र-विचेष्टितम् ।

पाण्डवान् प्रति कौरव्य यत्-अर्थम् प्रेषितः स्वयम् ॥ ३१ ॥


॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशम-स्कन्धे पूर्वार्धे एकोन-पञ्चाशः अध्यायः ॥

ஸ்கந்தம் 10: அத்யாயம் 48 (குப்ஜயை குமரியாக்கினான் கண்ணன் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

குப்ஜயை குமரியாக்கினான் கண்ணன்

ஸ்கந்தம் 10: அத்யாயம் 48

श्री शुक उवाच –

अथ विज्ञाय भगवान् सर्व-आत्मा सर्व-दर्शनः ।

सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहम् ययौ ॥ १ ॥


महा-अर्ह-उपस्करैः आढ्यम् काम-उपाय-उपबृंहितम् ।

मुक्ता-दाम-पताकाभिः वितान-शयन-आसनैः ।

धूपैः सुरभिभिः दीपैः स्रक्-गन्धैः अपि मण्डितम् ॥ २ ॥


गृहम् तम् आयान्तम् अवेक्ष्य सा-आसनात् ।

सद्यः समुत्थाय हि जात-सम्भ्रमा ।

यथा उपसङ्गम्य सखीभिः अच्युतम् ।

स-भाजयाम् आस सत्-आसन-आदिभिः ॥ ३ ॥


तथा उद्धवः साधु तया अभिपूजितः ।

न्यषीदत् उर्व्याम् अभिमृश्य च आसनम् ।

कृष्णः अपि तूर्णम् शयनम् महा-धनम् ।

विवेश लोक-आचरित-आनु-व्रतः ॥ ४ ॥


सा मज्जन-आलेप-दुकूल-भूषण ।

स्रक्-गन्ध-ताम्बूल-सुधा-अस्व-आदिभिः ।

प्रसाधित-आत्मा उपससार माधवम् ।

स-व्रीड-लीला-उत्स्मित-विभ्रम-ईक्षितैः ॥ ५ ॥


आहूय कान्ताम् नव-सङ्गम्-अह्रिया ।

वि-शङ्किताम् कङ्कण-भूषिते करे ।

प्रगृह्य शय्याम् अधिवेश्य रामया ।

रेमे अनु-लेप-अर्पण-पुण्य-लेशया ॥ ६ ॥


सा अनङ्ग-तप्त-कुच-उरु-रसः तथा अक्ष्णोः ।

जिघ्रन्ती अनन्त-चरणेन रुजः मृजन्ती ।

दोर्भ्याम् स्तन-अन्तर-गतम् परिरभ्य कान्तम् ।

आनन्द-मूर्तिम् अजहात् अति-दीर्घ-तापम् ॥ ७ ॥


सा एवम् कैवल्य-नाथम् तम् प्राप्य दुःप्राप्यम् ईश्वरम् ।

अङ्ग-राग-अर्पणेन आहो दुर्भगा इदम् अयाचत ॥ ८ ॥


आहोष्यताम् इह प्रेष्ठ दिनानि कतिचित् मया ।

रमस्व न उत्सहे त्यक्तुम् सङ्गम् ते अम्बुज-ईक्षण ॥ ९ ॥


तस्यै काम-वरम् दत्त्वा मानयित्वा च मानदः ।

स-उद्धवेन सर्वेशः स्व-धाम आगमत् अर्चितम् ॥ १० ॥


दुर्लभ-अाराध्यम् समाराध्य विष्णुम् सर्व-ईश्वर-ईश्वरम् ।

यः वृणीते मनः-ग्रह्यम् अ-सत्त्वात् कुमनीषि असौ ॥ ११ ॥


अक्रूर-भवनम् कृष्णः स-हराम-उद्धवः प्रभुः ।

किञ्चित् चिकीर्षयन् प्रागात् अक्रूर-प्रिय-काम्यया ॥ १२ ॥


सः तान् नर-वर-श्रेष्ठान् आरात् वीक्ष्य स्व-बान्धवान् ।

प्रत्युत्थाय प्रमुदितः परिष्वज्य अभ्यनन्दत ॥ १३ ॥


ननाम कृष्णम् रामम् च सः तैः अपि अभिवादितः ।

पूजयाम् आस विधि-वतः कृत-आसन-परिग्रहान् ॥ १४ ॥


पाद-आवनेजन-ईर्-आपः धारयन् शिरसा नृप ।

अर्हणेन अम्बरैः दिव्यैः गन्ध-स्रक्-भूषण-उत्तमैः ॥ १५ ॥


अर्चित्वा शिरसा आनम्य पादौ अङ्क-गतौ मृजन् ।

प्रश्रय-अवनतः अक्रूरः कृष्ण-रामौ अभाषत ॥ १६ ॥


दिष्ट्या पापः हतः कंसः स-अनुगः वाम् इदम् कुलम् ।

भवद्भ्याम् उद्धृतम् कृच्छ्रात् दुरन्तात् च समेधितम् ॥ १७ ॥


युवाम् प्रधान-पुरुषौ जगत्-हेतू जगत्-मयौ ।

भवद्भ्याम् न विना किञ्चित् परम् अस्ति न च अपरम् ॥ १८ ॥


आत्म-सृष्टम् इदम् विश्वम् अन्वाविश्य स्व-शक्तिभिः ।

ईयते बहुधा ब्रह्मन् श्रुत-प्रत्यक्ष-गोचरम् ॥ १९ ॥


यथा हि भूतेषु चर-अचरेषु ।

महि-आदयः योनिषु भान्ति नानाः ।

एवम् भवान् केवल-आत्म-योनि-षु ।

आत्मा आत्म-तन्त्रः बहुधा विभाति ॥ २० ॥


सृजसि अथ लुम्पसि पासि विश्वम्
रजः-तमः-सत्त्व-गुणैः स्व-शक्तिभिः ।
न बध्यसे तत्-गुण-कर्मभिः वा
ज्ञान-आत्मनः ते क्व च बन्ध-हेतुः ॥ २१ ॥


देह-आदि-उपाधेः अनिरूपित-त्वात्
भवः न साक्षात् न भिदा आत्मनः स्यात् ।
अतः न बन्धः तव नैव मोक्षः
स्याताम् निकामः त्वयि नः अविवेकः ॥ २२ ॥


त्वया उदितः अयम् जगतः हिताय
यदा यदा वेद-पथः पुराणः ।
बाध्येत पाखण्ड-पथैः असद्भिः
तदा भवान् सत्त्व-गुणम् बिभर्ति ॥ २३ ॥


सः त्वम् प्रभो अद्य वसुदेव-गृहे अवतीर्णः
स्व-अंशेन भारम् अपनेतुम् इह असि भूमेः ।
अक्षौहिणी-शत-वधेन सुर-इतर-अंश-
राज्ञाम् अमुष्य च कुलस्य यशः वितन्वन् ॥ २४ ॥


अद्य ईश नः वसतयः खलु भू‍रिभागाः
यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः ।
यत्-पाद-शौच-सलिलम् त्रि-जगत् पुनाति
सः त्वम् जगत्-गुरुः अधोक्षज यः प्रविष्टः ॥ २५ ॥


कः पण्डितः त्वत्-अपरम् शरणम् समीयात्
भक्त-प्रियात् ऋत-गिरः सुहृदः कृतज्ञात् ।
सर्वान् ददाति सुहृदः भजतः अभिकामान्
आत्मानम् अपि उपचय-अपचयौ न यस्य ॥ २६ ॥

दिष्ट्या जनार्दन भवन् इह नः प्रतीतः
योगेश्वरैः अपि दुराप-गतिः सुर-ईशैः ।
छिन्धि आशु नः सुत-कलत्र-धन-आप्त-गृह-
देह-आदि-मोह-रशनाम् भवदीय-मायाम् ॥ २७ ॥


श्री शुक उवाच –
इति अर्चितः संस्तुतः च भक्तेन भगवान् हरिः ।
अक्रूरम् सस्मितम् प्राह गीर्भिः सम्मोहयन् इव ॥ २८ ॥


श्री भगवान् उवाच –
त्वम् नः गुरुः पितृव्यः च श्लाघ्यः बन्धुः च नित्यदा ।
वयम् तु रक्ष्याः पोष्याः च अनुकम्प्याः प्रजाः हि वः ॥ २९ ॥


भवद्-विधाः महा-भागाः निषेव्याः अर्ह-सत्तमाः ।
श्रेयः-कामैः नृभिः नित्यं देवाः स्वार्थाः न साधवः ॥ ३० ॥


न हि अमय-यानि तीर्थानि न देवाः मृद्-शिलामयाः ।
ते पुनन्ति उरु-कालेन दर्शनात् एव साधवः ॥ ३१ ॥


सः भवान् सुहृदाम् वै नः श्रेयान् श्रेयः-चिकीर्षया ।
जिज्ञासा-अर्थम् पाण्डवानाम् गच्छस्व त्वम् गजाह्वयम् ॥ ३२ ॥


पितरि उपरते बालाः स-मता्रा सुदुःखिताः ।
आनीताः स्व-पुरम् राज्ञा वसन्ति इति शुश्रुम ॥ ३३ ॥


तेषु राज्ञा अम्बिका-पुत्रः भ्रातृ-पुत्रेषु दीन-धीः ।
समः न वर्तते नूनम् दुःपुत्र- वश-गः अन्ध-दृक् ॥ ३४ ॥


गच्छ जानीहि तत्-वृत्तम् अधुना साधु-असाधु वा ।
विज्ञाय तत् विधास्यामः यथा शम् सुहृदाम् भवेत् ॥ ३५ ॥


इति अक्रूरम् समादिश्य भगवान् हरिः ईश्वरः ।
सङ्कर्षण-उद्धवाभ्याम् वै ततः स्व-भवनम् ययौ ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 47 (ப்ரமர கீதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ப்ரமர கீதம்

ஸ்கந்தம் 10: அத்யாயம் 47

श्री शुक उवाच –
तम् वीक्ष्य कृष्ण-अनुचरम् व्रज-स्त्रियः
प्रलम्ब-बाहुम् नव-कञ्ज-लोचनम् ।
पीत-अम्बरम् पुष्कर-मालिनम् लसन्-
मुख-अरविन्दम् मणि-मृष्ट-कुण्डलम् ॥ १ ॥


शुचि-स्मिताः कः अयम् अपीच्य-दर्शनः
कुतः च कस्य अच्युत-वेष-भूषणः ।
इति स्म सर्वाः परिवव्रुः उत्सुकाः-
तम् उत्तम-श्लोक-पद-अम्बुज-आश्रयम् ॥ २ ॥


तम् प्रश्रयेण अवनताः सु-सत्कृतम्
स-व्रीड-हास-ईक्षण-सूनृत-आदिभिः ।
रहस्य-पृच्छन् उपविष्टम् आसने
विज्ञाय सन्देश-हरम् रमा-पतेः ॥ ३ ॥


जानीमः त्वाम् यदुपतेः पार्षदम् समुपागतम् ।
भर्त्रे इह प्रेषितः पित्रोः भवाञ् प्रियत्-चिकीर्षया ॥ ४ ॥


अन्यथा गो-व्रजे तस्य स्मरणीयम् न चक्ष्महे ।
स्नेह-अनुबन्धः बन्धूनाम् मुनेः अपि सु-दुस्त्यजः ॥ ५ ॥


अन्येषु अर्थ-कृता मैत्री यावत्-अर्थ-विडम्बनम् ।
पुम्भिः स्त्रीषु कृता यद्वत् सुमनसः इव षट्-पदैः ॥ ६ ॥


निस्स्वम् त्यजन्ति गणिकाः अकल्पम् नृपतिम् प्रजाः ।
अधीत-विद्या आचार्यम् ऋत्विजः दत्त-दक्षिणम् ॥ ७ ॥


खगाः वीत-फलम् वृक्षम् भुक्त्वा चातिथयः गृहम् ।
दग्धम् मृगाः तथा अरण्यम् जारः भुक्त्वा रताम् स्त्रियम् ॥ ८ ॥


इति गोप्यः हि गोविन्दे गत-वाक्-काय-मानसाः ।
कृष्ण-दूते व्रजम् याते उद्धवे त्यक्त-लौकिकाः ॥ ९ ॥


गायन्त्यः प्रीय-कर्माणि रुदन्त्यः च गत-ह्रियः ।
तस्य संस्मृत्य संस्मृत्य यानि कैशोर-बाल्ययोः ॥ १० ॥


काचित् मधुकरम् दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् ।
प्रिय-प्रस्थापितम् दूतम् कल्पयित्वा इदम् अब्रवीत् ॥ ११ ॥

गोप्यः ऊचुः –
मधुप कितव-बन्धो मा स्पृश अङ्घ्रिम् स-पत्न्याः
कुच-विलुलित-माला-कुङ्कुम-अश्मश्रुभिः नः ।
वहतु मधु-पतिः तत्-मानिनीनाम् प्रसादम्
यदु-सदसि विडम्ब्यम् यस्य दूतः त्वम् ईदृक् ॥ १२ ॥


सकृत् अधर-सुधाम् स्वाम् मोहिनीम् पाययित्वा
सुमनसः इव सद्यः तत्यजः अस्मान् भवादृक् ।
परिचरति कथम् तत् पाद-पद्मम् नु पद्मा
हि अपि बत हृत-चेताः उत्तम-श्लोक-जल्पैः ॥ १३ ॥


किम् इह बहु षट्-अङ्घ्रे गायसि त्वम् यदूनाम्-
अधिपतिम् अगृहाणाम् अग्रतः नः पुराणम् ।
विजय-सख-सखीनाम् गीयताम् तत्-प्रसङ्गः
क्षपित-कुच-रुजः ते कल्पयन्ती इष्टम् इष्टाः ॥ १४ ॥


दिवि भुवि च रसायाम् काः स्त्रियः तत्-दुरापाः
कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः ।
चरण-रजः उपास्ते यस्य भूतिः वयम् काः
अपि च कृपण-पक्षे हि उत्तम-श्लोक-शब्दः ॥ १५ ॥


विसृज शिरसि पादम् वेद्मि अहम् चाटुकारैः
अनुनय-विदुषः ते अभ्येत्य दौत्यैः मुकुन्दात् ।
स्व-कृतम् इह विसृष्ट-अपत्य-अपत्य-अन्य-लोकाः
व्यसृजत् अ-कृत-चेताः किम् नु सन्धेयम् अस्मिन् ॥ १६ ॥


मृगयुः इव कपि-इन्द्रम् विव्यधे लुब्ध-धर्मा
स्त्रियम् अ-कृत विरूपाम् स्त्री-जितः काम-यानाम् ।
बलिम् अपि बलिमत्त्वा आवेष्टयत् ध्वाङ्क्षवत् यः
तत् अलम् असित-सख्यैः दुस्त्यजः तत्-कथा-अर्थः ॥ १७ ॥


यत् अनुचरित-लीला-आकर्ण-पीयूष-विप्रुट्-
सकृत्-अदन-विधूत-द्वन्द्व-धर्माः विनष्टाः ।
सपदि गृह-कुटुम्बम् दीनम् उत्सृज्य दीनाः
बहवः इह विहङ्गाः भिक्षु-चर्याम् चरन्ति ॥ १८ ॥


वयम् अमृतम् इव जिह्म-व्याहृतम् श्रद्दधानाः
कुलिक-रुतम् इव अज्ञाः कृष्ण-वध्वः हरिण्यः ।
ददृशुः असकृत् एतत् तत् नख-स्पर्श-तीव्र-
स्मर-रुजः उप-मन्त्रिन् भण्यताम् अन्य-वार्ता ॥ १९ ॥


प्रिय-सखः पुनः आगाः प्रेयसा प्रेषितः किम्
वरय किम् अनु-रुन्धे माननीयः असि मे अङ्ग ।
नयसि कथम् इह अस्मान् दुस्त्यज-द्वन्द्व-पार्श्वम्
सततम् उरसि सौम्य श्रीः वधूः साकम् आस्ते ॥ २० ॥


अपि बत मधुपुर्याम् आर्यपुत्रः अधुना आस्ते

स्मरति स पितृ-गेहान् सौम्य बन्धून् च गोपान्।

क्वचित् अपि स कथा नः किङ्करीणाम् गृणीते

भुजम् अगुरु-सुगन्धम् मूर्ध्नि अधास्यत् कदा नु॥ २१॥


श्री शुक उवाच –

अथ उद्धवः निशम्य एवम् कृष्ण-दर्शन-लालसाः।

सान्त्वयन् प्रिय-सन्देशैः गोपीः इदम् अभाषत॥ २२॥


श्री उद्धव उवाच –

अहो यूयम् स्म पूर्ण-अर्थाः भवत्यः लोक-पूजिताः।

वासुदेवे भगवति यासाम् इति अर्पितम् मनः॥ २३॥


दान-व्रत-तपः-होम-जप-स्वाध्याय-संयमैः।

श्रेयोभिः विविधैः च अन्यैः कृष्णे भक्तिः हि साध्यते॥ २४॥


भगवति उत्तम-श्लोके भवतीभिः अनुत्तमा।

भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा॥ २५॥


दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च।

हित्वा अवृणीत यूयम् यत् कृष्ण-आख्यम् पुरुषम् परम्॥ २६॥


सर्व-आत्म-भावः अधिकृतः भवतीनाम् अधोक्षजे।

विरहेण महाभागाः महान् मे अनुग्रहः कृतः॥ २७॥


श्रूयताम् प्रिय-सन्देशः भवतीनाम् सुख-आवहः।

यम् आदाय आगतः भद्राः अहम् भर्तुः रहः-करः॥ २८॥


श्रीभगवान् उवाच –

भवतीनाम् वियोगः मे न हि सर्वात्मना क्वचित्।

यथा भूतानि भूतेषु खम् वायुः अग्निः जलम् मही॥ २९॥


तथा अहम् च मनः-प्राण-भूत-इन्द्रिय-गुण-आश्रयः।

आत्मनि एव आत्मना आत्मानम् सृजे हन्मि अनुपालये॥ ३०॥


आत्म-माया-अनुभावेन भूत-इन्द्रिय-गुण-आत्मना।

आत्मा ज्ञान-मयः शुद्धः व्यतिरिक्तः अ-गुण-अन्वयः॥ ३१॥


सुषुप्ति-स्वप्न-जागरद्भिः माया-वृत्तिभिः ईयते।

येन इन्द्रिय-अर्थान् ध्यायेत् मृषा स्वप्नवत् उत्थितः॥ ३२॥


तत् निरुन्ध्यात् इन्द्रियाणि वि-निद्रः प्रत्यपद्यत।

एतत् अन्तः समाम्नायः योगः साङ्ख्यम् मनीषिणाम्॥ ३३॥


त्यागः तपः दमः सत्यं समुद्र-अन्ताः इव आपगाः।

यत् तु अहम् भवतीनाम् वै दूरे वर्ते प्रियः दृशाम्॥ ३४॥


मनसः सन्निकर्ष-अर्थम् मत्-अनुध्यान-काम्यया।

यथा दूर-चरे प्रेष्ठे मनः आविश्य वर्तते॥ ३५॥


स्त्रीणाम् च न तथा चेतः सन्निकृष्टे अक्षि-गोचरे।

मयि आवेश्य मनः कृत्स्नम् विमुक्त-अशेष-वृत्ति यत्॥ ३६॥


अनुस्मरन्त्यः माम् नित्यम् अचिरात् माम् उपैष्यथ॥ ३६॥


या मया क्रीडता रात्र्याम् वने अस्मिन् व्रज-आस्थिताः।

अलब्ध-रासाः कल्याण्यः मा आपुः मत्-वीर्य-चिन्तया॥ ३७॥


श्री शुक उवाच –

एवम् प्रिय-तम-आदिष्टम् आखर्ण्य व्रज-योषितः।

ताः ऊचुः उद्धवम् प्रीताः तत्-सन्देश-आगत-स्मृतयः॥ ३८॥


गोप्यः ऊचुः –

दिष्ट्या आहितः हतः कंसः यदूनाम् स-अनुगः अघ-कृत्।

दिष्ट्या आप्तैः लब्ध-सर्व-अर्थैः कुशल्याः ते अच्युतः अधुना॥ ३९॥


कच्चित् गद-अग्रजः सौम्य करोति पुर-योषिताम्।

प्रीतिम् नः स्निग्ध-स-व्रीड-हास-उदार-ईक्षण-अर्चितः॥ ४०॥


कथं रति-विशेष-ज्ञः प्रियः च वर-योषिताम्।
न अनुबध्येत तत्-वाक्यैः विभ्रमैः च अनु-भाजितः॥ ४१॥

अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित्।
गोष्ठि-मध्ये पुर-स्त्रीणाम् ग्राम्याः स्वैर-कथा-अन्तरे॥ ४२॥

ताः किम् निशाः स्मरति यासु तदा प्रियाभिः–
वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये।
रेमे क्वणत्-चरण-नूपुर-रास-गोष्ठ्याम्–
अस्माभिः ईडित-मनोऽज्ञ-कथः कदाचित्॥ ४३॥

अपि एष्यति इह दाशार्हः तप्तः स्व-कृतया शुचा।
सञ्जीवयन् नु नः गात्रैः यथा इन्द्रः वनम् अम्बुदैः॥ ४४॥

कस्मात् कृष्णः इह आयाति प्राप्त-राज्यः हत-आहितः।
नरेन्द्र-कन्याम् उद्वाह्य प्रीतः सर्व-सुहृत्-वृतः॥ ४५॥

किम् अस्माभिः वन्-औकोभिः अन्याभिः वा महात्मनः।
श्री-पतेः आप्त-कामस्य क्रियेत अर्थः कृत-आत्मनः॥ ४६॥

परम् सौख्यम् हि नैराश्यम् स्वैरिण्य् अपि आह पिङ्गला।
तत् जानतीनाम् नः कृष्णे तथापि आशा दुरत्यया॥ ४७॥

कः उत्सहेत सन्-त्यक्तुम् उत्तम-श्लोक-संविदम्।
अनिच्छतः अपि यस्य श्रीः अङ्गात् न च्यवते क्वचित्॥ ४८॥

सरित्-शैल-वन्-उद्देशाः गावः वेणु-रवः इमे।
सङ्कर्षण-सहायेन कृष्णेन आचरिताः प्रभो॥ ४९॥

पुनः पुनः स्मारयन्ति नन्द-गोप-सुतम् बत।
श्री-निकेतैः तत्-पदकैः विस्मर्तुम् नैव शक्नुमः॥ ५०॥

गत्या ललित-उदार-हास-लीला-अवलोकनैः।
माध्व्या गिरा हृत-धियः कथम् तम् विस्मराम हे॥ ५१॥

हे नाथ हे रमा-नाथ व्रज-नाथ आर्ति-नाशन।
मग्नम् उद्धर गोविन्द गोकुलम् वृजिन-अर्णवत्॥ ५२॥


श्री-शुक उवाच
ततः ताः कृष्ण-सन्देशैः व्यपेत-विरह-ज्वराः।
उद्धवम् पूजयाम् चक्रुः ज्ञात्वा आत्मानम् अधः-क्षजम्॥ ५३॥

उवास कतिचित् मासान् गोपीनाम् विनुदन् शुचः।
कृष्ण-लीला-कथाम् गायन् रमयामास गोकुलम्॥ ५४॥

यावन्ति अहानि नन्दस्य व्रजे अवात्सीत् सः उद्धवः।
व्रज-औकसाम् क्षण-प्रायाणि आसन् कृष्णस्य वार्तया॥ ५५॥

सरित्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमितान् द्रुमान्।
कृष्णम् संस्मारयन् रेमे हरि-दासः व्रज-औकसाम्॥ ५६॥

दृष्ट्वा एवम् आदि गोपीनाम् कृष्ण-आवेश-आत्म-विक्लवम्।
उद्धवः परम-प्रीतः ताः नमस्यन् इदम् जगौ॥ ५७॥

एताः परम् तनु-भृतः भुवि गोप-वध्वः।
गोविन्दे एव निखिल-आत्मनि रूढ-भावाः।
वाञ्छन्ति यत् भव-भियः मुनयः वयम् च।
किम् ब्रह्म-जन्मभिः अनन्त-कथा-रसस्य॥ ५८॥

क्व इमाः स्त्रियः वन-चरिः व्यभिचार-दुष्टाः।
कृष्णे क्व च एषः परम-आत्मनि रूढ-भावः।
नु न्व् ईश्वरः अनु-भजतः अविदुषः अपि साक्षात्—
श्रेयः तनुति अगद-राजः इव उपयुक्तः॥ ५९॥

नायं श्रियः अंग उ नितान्तरेतेः प्रसादः

स्वर्योषितां नलिनगन्ध-रुचां कुतो अन्याः।


रासोत्सवे अस्य भुजदण्डगृहीत-कण्ठ-

लब्ध-आशीषां य उडगात् व्रज-वल्लवी-नाम्॥ ६०


आसामहो चरण-रेणु-जुषाम् अहम् स्यां

वृन्दावने किम् अपि गुल्म-लतौषधीनाम्।


या दुस-त्यजं स्व-जन-आरी-पथं च हित्वा

भेजुर्मुकुन्द-पदवीं श्रुतिभि-र्विमृग्याम्॥ ६१


या वै श्रिया-अर्चित-मजा-आदि-भिराप्त-का-मै

र्योगेश्वरैः अपि यत् आत्मनि रास-गोष्ठ्याम्।


कृष्णस्य तत् भगवत-श्चरण-आर्विन्दं

न्यस्तं स्तनेषु विजहुः परिरभ्य तापम्॥ ६२


वन्दे नन्दव्रजस्त्रीणां पाद-रेणु-भीक्ष्ण-शः।

यासां हरि-कथा-उद्गीतं पुनाति भुवन-त्रयम्॥ ६३


श्रीशुक उवाच
अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च।
गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम्॥ ६४

तं निर्गतं समासाद्य नानोपायनपाणयः।
नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः॥ ६५

मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः।
वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु॥ ६६

कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया।
मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे॥ ६७

एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप।
उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम्॥ ६८

कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम्।
वसुदेवाय रामाय राज्ञे चोपायनान्यदात्॥ ६९

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥