Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 7: அத்யாயம் 7 (பிரஹலாதன் கர்ப்பத்தில் என்ன கற்றான்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பிரஹலாதன் கர்ப்பத்தில் என்ன கற்றான்

ஸ்கந்தம் 7: அத்யாயம் 7

 

श्री-नारद उवाच
एवं दैत्य-सुतैः पृष्टो महाभागवतोऽसुरः।
उवाच स्मयमानः तान् स्मरन् मद-अनुभाषितम् ॥ १ ॥

श्री-प्रह्लाद उवाच
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम्।
युद्ध-उद्यमं परं चक्रु: विवुधा दानवान् प्रति ॥ २ ॥

पिपीलिकैः अहिरिव दिष्ट्या लोक-उपतापनः।
पापेन पापोऽभक्षीति वदिनो वास-वादयः ॥ ३ ॥

तेषाम अति-बल-उद्योगं निशम्य असुर-यूथ-पाः।
वध्यमाना: सुरैः भीता दुद्रुवुः सर्वतोदिशम् ॥ ४ ॥

कलत्र-पुत्र-मित्राप्तान् गृहान् पशु-परिच्छदान्।
ना अवेक्ष्यमाना: त्व-रिताः सर्वे प्राण-परीप्सवः ॥ ५ ॥

व्यलुम्पन् राज-शिबिरम् अमरा जय-काङ्क्षिणः।
इन्द्रस्तु राज-महिषीं मातरं मम च अग्रहीत् ॥ ६ ॥

नीयमानां भय-उद्विग्नां रुदतीं कुररीमिव।
यदृच्छया आगतस्तत्र देव-र्षिर्ददृशे पथि ॥ ७ ॥

प्राह मैनां सुर-पते नेतुमर्हस्य नाग-सम्।
मुञ्च मुञ्च महाभाग सतीं पर-परिग्रहम् ॥ ८ ॥

श्री-इन्द्र उवाच
आस्तेऽस्या जठरे वीर्यम् अविषह्यं सुर-द्विषः।
आस्यतां यावत् प्रसवं मोक्ष्येऽर्थ-पदवीं गतः ॥ ९ ॥

श्री-नारद उवाच
अयं निष्किल्बिषः साक्षान् महाभागवतो महान्।
त्वया न प्राप्स्यते संस्थाम् अनन्त-अनुचरो बली ॥ १० ॥

इत्युक्तस्तां विहाय इन्द्रो देव-र्षेर्मानयन् वचः।
अनन्त-प्रिय-भक्त्यैना: परिक्रम्य दिवं ययौ ॥ ११ ॥

ततो मे मातरम् ऋषिः समानीय निज-आश्रमम्।
आश्वास्य एहो ष्यतां वत्से यावत् ते भर्तुर् आगमः ॥ १२ ॥

तथा एत्य अवात्सीद् देवर्षे: रन्ति साप्य-कुतोभया।
यावत् दैत्य-पतिर्घोरात् तपसो न न्यवर्तत ॥ १३ ॥

ऋषिं पर्यचरत् तत्र भक्त्या परमया सती।
अन्तर्वत्नी स्व-गर्भस्य क्षेमाय इच्छा-प्रसूतये ॥ १४ ॥

ऋषिः कारुणिकस्तस्याः प्रादादुभय-ईश्वरः।
धर्मस्य तत्त्वं ज्ञानं च मामप्य उद्दिश्य निर्मलम् ॥ १५ ॥

तत् तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातु: तिरोदधे।
ऋषि-नानुगृहीतं मां नाधुनाप्य जहात् स्मृतिः ॥ १६ ॥

भवताम् अपि भूयान् मे यदि श्रद्धधते वचः।
वैशारदी धी: श्रद्धातः स्त्री-बालानां च मे यथा ॥ १७ ॥

जन्माद्याः षड-इमे भावा दृष्टा देहस्य नात्मनः।
फलानाम् इव वृक्षस्य कालेन ईश्वर-मूर्तिना ॥ १८ ॥

आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्र-ज्ञ आश्रयः।
अविक्रियः स्व-दृग् हेतुर्व्यापकोऽसङ्ग्य-नावृतः ॥ १९ ॥

एतैः द्वादश-भिः विद्वान् आत्मनो लक्षणैः परैः।
अहं मम एत्य सद्भावं देहादौ मोह-जं त्यजेत् ॥ २० ॥

श्री-प्रह्लाद उवाच –

स्वर्णं यथा ग्रावसु हेमकारः
क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात्।
क्षेत्रेषु देहेषु तथाऽऽत्मयोगैः
ध्यात्म-विद् ब्रह्मगतिं लभेत् ॥ २१ ॥

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद् गुणाः।
विकाराः षोडश-आचार्यैः पुरुष-नेकः समन्वयात् ॥ २२ ॥

देहस्तु सर्व-सङ्घातो जगत् तस्थुरिति द्विधा।
अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत् त्यजन् ॥ २३ ॥

अन्वय-व्यतिरेकेण विवेक-नोशताऽऽत्मना।
स्वर्ग-स्थान-समाम्नायैर्विमृशद्भिरसत्वरैः ॥ २४ ॥

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः।
ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५ ॥

एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धि-भेदैः क्रियोद्भवैः।
स्वरूपम् आत्मनो बुध्येत् गन्धैर्वायुमिवान्वयात् ॥ २६ ॥

एतद्द्वारो हि संसारः गुण-कर्म-निबन्धनः।
अज्ञान-मूलोऽपार्थोऽपि पुंसः स्वप्न इवेष्य्ते ॥ २७ ॥

तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम्।
बीज-नर्हरणं योगः प्रवाहोपरमो धियः ॥ २८ ॥

तत्रोपाय-सहस्राणामयं भगवतोदितः।
यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥ २९ ॥

गुरु-शुश्रूषया भक्त्या सर्व-लब्धार्पणेन च।
सङ्गेन साधु-भक्तानाम् ईश्वर-आराधनेन च ॥ ३० ॥

श्रद्धया तत् कथायां च कीर्तनैर्गुण-कर्मणाम्।
तत् पादाम्बु-रुह-ध्यानात् तल्लिङ्ग-एक्षा-र्णादिभिः ॥ ३१ ॥

हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः।
इति भूता-नि मनसा कामैस्तैः साधु मानयेत् ॥ ३२ ॥

एवं निर्जित-षड्वर्गैः क्रियते भक्ति-रीश्वरे।
वासुदेवे भगवति यया संलभ्यते रतिम् ॥ ३३ ॥

निशम्य कर्माणि गुणानतुल्यान्
वीर्याणि लीलातनुभिः कृतानि।
यदा अतिः-हर्षोत्पुलक-आश्रुगद् गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ३४ ॥

यदा ग्रह-ग्रस्त इव क्वचिद्धस्य
त्याक्रन्दते ध्यायति वन्दते जनम्।
मुहुः श्वसन्वक्ति हरे जगत्पते
नारायणेत्यात्म-मतिर्गतत्र पः ॥ ३५ ॥

तदा पुरुषो मुक्त-समस्त-बन्धन-
स्तद्भाव-भावानुकृत-आशयाकृतिः।
निर्दग्ध बीज-अनुशयो महीयसा
भक्ति-प्रयोगेण समेत्य अधोक्षजम् ॥ ३६ ॥

अधोक्षजालम्भमिहाशुभ-आत्मनः
शरीरिणः संसृतिचक्र-शातनम्।
तद् ब्रह्म निर्वाण-सुखं विदुर् बुधा-
स्ततो भजध्वं हृदये हृदीश्वरम् ॥ ३७ ॥

कोऽतिप्रयासः असुर-बालका हरे-
रूपासने स्वे हृदि छिद्रवत् सतः।
स्वस्यात्मनः सख्युरशेष-देहिनां
सामान्यतः किं विषय-उपपादनैः ॥ ३८ ॥

रायः कलत्रं पशवः सुतादयः
गृहा मही कुञ्जर-कोश-भूतयः।
सर्वेऽर्थ-कामाः क्षण-भङ्गुर-आयुषः
कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः ॥ ३९ ॥

एवं हि लोकाः क्रतुभिः कृता अमी
क्षयिष्णवः सातिशया न निर्मलाः।
तस्माद् अदृष्ट-श्रुत-दूषणं परं
भक्त्योक्त-येषं भजतात्म-लब्धये ॥ ४० ॥

श्री-प्रह्लाद उवाच –

यदध्यर्थ्येह कर्माणि विद्वन् मान्यसकृन्नरः।
करोत्यतो विपर्यासममोघं विन्दते फलम् ॥ ४१ ॥

सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः।
सदाऽप्नोतीहया दुःख-मनीहायाः सुखावृतः ॥ ४२ ॥

कामान् कामयते काम्यैः यदर्थम् इह पुरुषः।
स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥ ४३ ॥

किमु व्यवहितापत्य-दार-आगार-धनादयः।
राज्यं कोश-गजामात्य-भृत्याप्ता ममतास्पदाः ॥ ४४ ॥

किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः।
अनर्थैरर्थ-सङ्काशैर्नित्यानन्द-महोदधेः ॥ ४५ ॥

निरूप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः।
निषेकादिष्व-अवस्थासु क्लिश्यमानस्य कर्मभिः ॥ ४६ ॥

कर्माण्यारभते देही देहेनात्मानुवर्तिना।
कर्मभिस्तनुते देहमुभयं त्वविवेकतः ॥ ४७ ॥

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः।
भजतानीहयाऽऽत्मानमनीहं हरि-ईश्वरम् ॥ ४८ ॥

सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः।
भूतैर्महद्भिः स्वकृतैः कृतानां जीव-संज्ञितः ॥ ४९ ॥

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा।
भजन् मुकुन्द-चरणं स्वस्तिमान् स्याद् यथा वयम् ॥ ५० ॥

नालं द्विजत्वं देवत्वं ऋषित्वं वासुरात्मजाः।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ ५१ ॥

न दानं न तपो नेज्या न शौचं न व्रतानि च।
प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनम् ॥ ५२ ॥

ततो हरौ भगवति भक्तिं कुरुत दानवाः।
आत्म-उपम्येन सर्वत्र सर्व-भूतात्म-नीश्वरे ॥ ५३ ॥

दैतेया यक्ष-रक्षांसि स्त्रियः शूद्रा व्रजौकसः।
खगा मृगाः पाप-जीवाः सन्ति ह्यच्युततां गताः ॥ ५४ ॥

एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः।
एकान्त-भक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम् ॥ ५५ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम
सप्तमोऽध्यायः ॥ ७ ॥

ஸ்கந்தம் 7: அத்யாயம் 6 (பிரஹலாதன் சக மாணவர்களுக்கு உபதேசிக்கிறான்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பிரஹலாதன் சக மாணவர்களுக்கு உபதேசிக்கிறான்

ஸ்கந்தம் 7: அத்யாயம் 6

 

प्रह्लाद उवाच –
कौमार आचरेत् प्राज्ञः धर्मान् भागवत-आनिह।
दुर्लभं मानुषं जन्म तद् अपि अध्रुव-मत् अर्थ-दम् ॥ १ ॥

यथा हि पुरुषस्य एह विष्णोः पाद-उपसर्पणम्।
यद् एष सर्व-भूतानां प्रिय आत्म-ईश्वरः सुहृत् ॥ २ ॥

सुख-मैन्द्रियकं दैत्या देह-योगेन देहिनाम्।
सर्वत्र लभ्यते दैव-आद्यथा दुःख-मय-तनतः ॥ ३ ॥

तत् प्रयासो न कर्तव्यो यत् आयुर्व्ययः परम्।
न तथा विन्दते क्षेमं मुकुन्द-चरण-आम्बुजम् ॥ ४ ॥

ततो यत् एत कुशलः क्षेमाय भयम् आश्रितः।
शरीरं पौरुषं यावन् विपद्येत पुष्कलम् ॥ ५ ॥

पुंसो वर्ष-शतं ह्यायुस्तद् अर्धं च अजितात्मनः।
निष्फलं यद् असौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ ६ ॥

मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः।
जरया ग्रस्त-देहस्य याति अल्पस्य विंशतिः ॥ ७ ॥

दुरापूरेण कामेन मोहेन च बलीयसा।
शेषं गृहेषु सक्तस्य प्रमत्तस्य अपयाति हि ॥ ८ ॥

को गृहेषु पुमान् सक्तम् आत्मानम् अजितेन्द्रियः।
स्नेह-पाशैः दृढैः बद्धम् उत्सहेत् विमोचितुम् ॥ ९ ॥

को न्वर्थ-तृष्णां विसृजेत् प्राणेभ्यः अपि य ईप्सितः।
यं क्रीणाति असुभिः प्रेष्ठैः तस्करः सेवकः वणिक् ॥ १० ॥

कथं प्रियाया अनुकम्पितायाः
सङ्‌गं रहस्यं रुचिरांश्च मन्त्रान्।
सुहृत्सु च स्नेह-सितः शिशूनां
कलाक्षराणाम् अनुरक्त-चित्तः ॥ ११ ॥

पुत्रान् स्मरंस्ता दुहितॄः हृदय्या
भ्रातॄन् स्वसॄर् वा पितरौ च दीनौ।
गृहान् मनोज्ञ-ऊपरिच्छदांश्च
वृत्तीश्च कुल्याः पशु-भृत्य-वर्गान् ॥ १२ ॥

त्यजेत् कोश-स्कृद् इवेह-मानः
कर्माणि लोभात् अवितृप्त-कामः।
औपस्थ्य-जैह्वं बहु मन्यमानः
कथं विरज्येत् दुरन्त-मोहः ॥ १३ ॥

कुटुम्ब-पोषाय वियन् निजायुः
न बुध्यते अर्थं विहतं प्रमत्तः।
सर्वत्र ताप-त्रय-दुःखितात्मा
निर्विद्यते न स्व-कुटुम्ब-रामः ॥ १४ ॥

वित्तेषु नित्य-आभिनिविष्ट-चेताः
विद्वांश्च दोषं पर-वित्त-हर्तुः।
प्रेत्येह चाथाप्य अजितेन्द्रियः त-
दशान्त-कामो हरते कुटुम्बी ॥ १५ ॥

विद्वान् पीत्थं दनुजाः कुटुम्बं
पुष्णन् स्वलोकाय न कल्पते वै।
यः स्वीय-पारक्य-विभिन्न-भावः
तमः प्रपद्येत् यथा विमूढः ॥ १६ ॥

यतः न कश्चित् क्व च कुत्रचिद् वा
दीनः स्वमात्मानम् अलं समर्थः।
विमोचितुं काम-दृशां विहार-
क्रीडा-मृगो यन् निगडो विसर्गः ॥ १७ ॥

ततो विदूरात् परिहृत्य दैत्या
दैत्येषु सङ्‌गं विषय-आत्मकेषु।
उपेत नारायणम् आदिदेवं
स मुक्त-सङ्गैः इच्छितोऽपवर्गः ॥ १८ ॥

न ह्य-च्युतम् प्रीणयतो बह्व-आयासोऽसुर-आतजाः।
आत्मत्वात् सर्व-भूतानां सिद्धत्वादि हि सर्वतः ॥ १९ ॥

परावरेषु भूतेषु ब्रह्मान्त-स्थावरादिषु।
भौतिकेषु विकारेषु भूतेषु तथा महत्सु च ॥ २० ॥

गुणेषु गुण-साम्ये च गुण-व्यतिकरे तथा।
एक एव परो ह्यात्मा भगवन् ईश्वरोऽव्ययः ॥ २१ ॥

प्रत्यगात्म-स्वरूपेण दृश्य-रूपेण च स्वयम्।
व्याप्य-व्यापक-निर्देश्यो ह्यनिर्देश्योऽविकल्पितः ॥ २२ ॥

केवल-अनुभव-आनन्द-स्वरूपः परमेश्वरः।
माया-यन्त्र-हित-ऐश्वर्य ईयते गुण-सर्गया ॥ २३ ॥

तस्मात् सर्वेषु भूतेषु दयां कुरुत् सौहृदम्।
आसुरं भावम् उनमुच्य यया तुष्यति अधोक्षजः ॥ २४ ॥

तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये
किं तैः गुण-व्यतिकरादि हि ये स्व-सिद्धाः।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरणयोः उपगायतां नः ॥ २५ ॥

धर्म- अर्थ- काम इति यः अभिहितः त्रिवर्ग
ईक्षा त्रयी नयद्मौ विविधा च वार्ता।
मन्ये तदेतत् अखिलं निगमस्य सत्यं
स्व-आत्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥ २६ ॥

ज्ञानं तदेतत् अमलं दुरवाप माऽह
नारायणो नर-सखः किल नारदाय।
एकान्तिनां भगवतः तद् किंचनानां
पादारविन्द-रजसाऽप्लुत-देहिनां स्यात् ॥ २७ ॥

श्रुतम् एतन्मया पूर्वं ज्ञानं विज्ञान-संयुक्तम्।
धर्मं भागवतं शुद्धं नारदात् देव-दर्शनात् ॥ २८ ॥

श्री-दैत्य-पुत्रा ऊचुः –
प्रह्लाद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम्।
एताभ्यां गुरु-पुत्राभ्यां बालानाम् अपि हि ईश्वरौ ॥ २९ ॥

बालस्य अन्तर्-पुरस्थस्य महत् सङ्‌गो दुर-न्वयः।
छिन्धि नः संशयं सौम्य स्याच्चेद् विश्रम्भ-कारणम् ॥ ३० ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-सङ्कन्धे प्रह्लाद-चरिते षष्ठोऽध्यायः ॥ ६ ॥

ஸ்கந்தம் 7: அத்யாயம் 5 (ஹிரண்யகசிபு மகன் - பிரஹலாதன்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஹிரண்யகசிபு மகன் - பிரஹலாதன்

ஸ்கந்தம் 7: அத்யாயம் 5

 

श्री-नारद उवाच
पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः।
शण्डा-अर्कौ सुतौ तस्य दैत्य-राज-गृहान्तिके ॥ १ ॥

तौ राज्ञा प्रापितं बालं प्रह्लादं नयक-ओविदम्।
पाठयामास तुः पाठ्यान् अन्यांश्चासुर-बालकान् ॥ २ ॥

यत् तत्र गुरुणा प्रोक्तं शुश्रुवेऽनु-पपाठ च।
न साधु मनसा मेने स्व-परासद्-ग्रहाश्रयम् ॥ ३ ॥

एक-दासुर-राट् पुत्रं अङ्क-मारोप्य पाण्डव।
पप्रच्छ कथ्यतां वत्स मन्यते साधु यद् भवन् ॥ ४ ॥

श्री-प्रह्लाद उवाच
तत् साधु मन्येऽसुर-वर्य देहिनां
सदा सम-उद्विग्न-धियाम् असद्-ग्रहात्।
हित्वाऽऽत्म-पातं गृहम् अन्ध-कूपं
वनं गतो यद् धरिम् आश्रयेत ॥ ५ ॥

श्री-नारद उवाच
श्रुत्वा पुत्र-गिरो दैत्यः पर-पक्ष-समाहिताः।
ज-हास बुद्धिर्बालानां भिद्यते पर-बुद्धिभिः ॥ ६ ॥

सम्यग् विधार्यतां बालो गुरु-गेहे द्विजातिभिः।
विष्णु-पक्षैः प्रति-छन्नैर्न भिद्येतास्य धीर्यथा ॥ ७ ॥

गृह-आनीत-माहूय प्रह्लादं दैत्य-याजकाः।
प्रशस्य श्लक्ष्णया वाचा सम-अपृच्छन्त सामभिः ॥ ८ ॥

वत्स प्रह्लाद भद्रं ते सत्यं कथय मा मृषा।
बालानति कुतस्तुभ्यम् एष बुद्धि-विपर्ययः ॥ ९ ॥

बुद्धि-भेदः पर-कृत उताहो ते स्वतोऽभवत्।
भण्यतां श्रोतु-कामानां गुरूणां कुल-नन्दन ॥ १० ॥

श्री-प्रह्लाद उवाच
स्वः परश्चेत्य असद्-ग्रहः पुंसां यन्माया-या कृतः।
विमोहित-धियां दृष्टः तस्मै भगवते नमः ॥ ११ ॥

स यदा अनु-व्रतः पुंसां पशु-बुद्धिः विभिद्यते।
अन्य एष तथान्यः अहम् इति भेद-गतासती ॥ १२ ॥

स एष आत्मा स्व-परेत्य अभुद्धिभिः
दुरत्यय-अनुक्रमणो निरूप्यते।
मुह्यन्ति यद्-वर्त्मनि वेद-वादिनो
ब्रह्मादयः ह्येष भिनत्ति मे मतिम् ॥ १३ ॥

यथा भ्राम्यत्ययः ब्रह्मन् स्वयम् आ-कर्‌ष-सन्निधौ।
तथा मे भिद्यते चेतः चक्र-पाणेर् यदृच्छया ॥ १४ ॥

श्री-नारद उवाच
एतावद् ब्राह्मणायोक्त्वा विरराम् महामतिः।
तं निर्भर्त्स्य र्याथ कुपितः स दीनो राज-सेवकः ॥ १५ ॥

आनीयताम् अरे वेत्रम् अस्माकम् अयश-स्करः।
कुलाङ्गारस्य दुर्बुद्धेः चतुर्थोऽस्य उदितो दमः ॥ १६ ॥

दैतेय-चन्दन-वने जातोऽयं कण्टक-द्रुमः।
यन्मूल-ओन्मूल-परशोः विष्णोः नालायितोऽर्भकः ॥ १७ ॥

इति तं विविध-उपायैः भीषयं स्तर्जनादिभिः।
प्रह्लादं ग्राहयामास त्रि-वर्गस्य उप-पादनम् ॥ १८ ॥

तत् एनं गुरुर्ज्ञात्वा ज्ञात-ज्ञेय-चतुष्टयम्।
दैत्येन्द्रं दर्शयामास मातृम् ऋष्ट-मलङ्कृतम् ॥ १९ ॥

पादयोः पतितं बालं प्रतिनन्द्य आशिषा-सुरः।
परिष्वज्य चिरं दोर्भ्यां परमाम् आप निर्वृतिम् ॥ २० ॥

आरोप्याङ्कम् अवघ्राय मूर्धनि अश्रु-कलाम् बुभिः।
आसिञ्चन् विकसद् वक्ति-रम् इदम् आह युधिष्ठिर ॥ २१ ॥

हिरण्य-कशिपुः उवाच
प्रह्लादान् ऊच्यतां तात् स्वधीतम् किञ्चित् उत्तमम्।
कालेन एतावताऽऽयुष्मन् यद् अशिक्षद् गुरुर्भवान् ॥ २२ ॥

श्री-प्रह्लाद उवाच
श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम्।
अर्चनं वन्दनं दास्यं सख्यम् आत्मनिवेदनम् ॥ २३ ॥

इति पुंस् आर्-पिता विष्णौ भक्तिः चेन्नवलक्षणा।
क्रियेत् भगवत्यद्धा तन्मन्येऽधीतम् उत्तमम् ॥ २४ ॥

निशम्य एतत् सुत-वचः हिरण्य-कशिपुः तदा।
गुरु-पुत्रम् उवाच एतं रुषा प्रस्फुरिताधरः ॥ २५ ॥

ब्रह्म-बन्धो किम् एतत् ते विपक्षं श्रयतासता।
असारं ग्राहितः बालो माम् अनादृत्य दुर्मते ॥ २६ ॥

सन्ति हि असाधवो लोके दुर्मैत्रा-श्छद्म-वे षिणः।
तेषाम् उदेत्य घं काले रोगः पातक-नाम् इव ॥ २७ ॥

श्री-गुरु-पुत्र उवाच
न मत् प्रणीतं न पर-प्रणीतं
सुतो वदत्येष तव इन्द्र-शत्रो।
नैसर्गिकीयं मतिरस्य राजन्
नियच्छ मन्युं कददाः स्म मा नः ॥ २८ ॥

श्री-नारद उवाच
गुरुणैवम् प्रति-प्रोक्तो भूय आहासुरः सुतम्।
न चेद् गुरुमुखीयं ते कुतोऽभद्र-आसती मतिः ॥ २९ ॥

श्री-प्रह्लाद उवाच
मतिर्न कृष्णे परतः स्वतो वा
मिथोऽभि-पद्येत् गृह-व्रतानाम्।
अदान्त-गोभिः विशाल-तां तमिस्रं
पुनः पुनः चर-वित-चर-णानाम् ॥ ३० ॥

न ते विदुः स्वार्थ-गतिं हि विष्णुम्
दुराशया ये बहिरर्थ-मानिनः।
अन्धा यथा अन्धैः उप-नीयमाना
वाची-शतन्त्यां उरुदाम्नि बद्धाः ॥ ३१ ॥

नैषां मति-स्तावद् उ-रुक्रमाङ्घ्रिं
स्पृशति अनर्थ-अपगमो यदर्थः।
मही-यसां पाद-रजोऽभिषेकं
निष्-किञ्चनानां न वृणीत यावत् ॥ ३२ ॥

इति उक्त्वोपरतं पुत्रं हिरण्य-कशिपुः रुषा।
अन्धीकृत-आत्मा स्व-उत्सङ्गान् निरस्यत् मही-तले ॥ ३३ ॥

आहा-मर्ष-रुषा-विष्टः कषायी-भूत-लोचनः।
वध्यताम् आश्वयं वध्यः निःसारयत् नैरृताः ॥ ३४ ॥

अयं मे भ्रातृ-हा सोऽयं हित्वा स्वान् सुहृदः अधमः।
पितृ-व्यहन्तुः पादौ यो विष्णोः दासव-दर्शति ॥ ३५ ॥

विष्णोः वा साध्वः सः किं नु करिष्यति असमञ्जसः।
सौहृदं दुस्त्यजं पित्रो-रहाद्यः पञ्च-हायनः ॥ ३६ ॥

परोऽपि अपत्यं हित-कृद् यथौषधं
स्व-देहजोऽप्य अमयवत् सुतोऽहितः।
छिन्द्यात् तद् अंगं यद् उतात्मनोऽहितं
शेषं सुखं जीवति यद् विवर्जनात् ॥ ३७ ॥

सर्वैः उपायैः हन्तव्यः सम् भोज-शयन-आसनैः।
सुहृल्लिङ्ग-धरः शत्रुः मुनेर्दुष्ट-मि वेन्द्रियम् ॥ ३८ ॥

नैरृता स्ते समा-आदिष्टा भर्त्रा वै शूल-पाणयः।
तिग्म-दंष्ट्र-करालास्याः ताम्र-श्मश्रु-शिरो-रुहाः ॥ ३९ ॥

नदन्तो भैरवाः न्नादंश्छिन्धि भिन्धीति वादिनः।
आसीनं चाहनन् शूलैः प्रह्लादं सर्व-अर्मसु ॥ ४० ॥

परे ब्रह्मण्ये निर्देश्ये भगवती अखिल-आत्मनि।
युक्त-आत्मन्य् अफला आसन्न पुण्यस्येव सत्क्रियाः ॥ ४१ ॥

प्रयासेऽप-हते तस्मिन् दैत्येन्द्रः परिशङ्कितः।
चकार तद् वध-उपायान् निर्बन्धेन युधिष्ठिर ॥ ४२ ॥

दिग्गजैः दन्द-शूकेश्च अभिचारा-वपातनैः।
माया-भिः सन्निरोधैः च गर-दानैः अभोजनैः ॥ ४३ ॥

हिम-वा-य्- अग्नि-सलिलैः पर्वत-आक्रमणैः अपि।
न शशाक यदा हन्तुम् अपापम् असुरः सुतम् ॥ ४४ ॥

चिन्तां दीर्घ-तमां प्राप्तः तत् कर्तुं न अभ्यपद्यत।
एष मे बहु-सा धूक् तः वध-उपाया-श्च निर्मिताः।
तैस्तैः द्रोहैः असद्धर्मैः मुक्तः स्वेनैव तेजसा ॥ ४५ ॥

वर्तमानोऽव-िदूरे वै बालः अपि जड-धीरयम्।
न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः ॥ ४६ ॥

अप्रमेय अनुभावोऽयम् अकुतः चिद् भयः अमरः।
नूनम् एतद् विरोधेन मृत्युः मे भविता न वा ॥ ४७ ॥

इति तं च चिन्तया किञ्चिन् म्लान-श्रियम् अधो-मुखम्।
शण्डा-मार्क-औशन-सौ विविक्त इति होचतुः ॥ ४८ ॥

जितं त्वया एकेन जगत् त्रयं भ्रुवो
र्विजृम्भण-त्रस्त-समस्त-धिष्ण्यपम्।
न तस्य चिन्त्यं तव नाथ चक्ष्महे
न वै शिशूनां गुण-दोषयोः पदम् ॥ ४९ ॥

इमं तु पाशैः वरुणस्य बद्ध्वा
निधेहि भीतो न पलायते यथा।
बुद्धिश्च पुंसो वयसाऽऽर्य-सेवया
यावद् गुरु-भार्गव आगमिष्यति ॥ ५० ॥

तथेति गुरु-पुत्रोक्तम् अनुज्ञाय एदम् अब्रवीत्।
धर्मः ह्यस्योपदेष्टव्यो राज्ञां यो गृह-मेधिनाम् ॥ ५१ ॥

धर्मम् अर्थं च कामं च नितरां च अनुपूर्वशः।
प्रह्लादाय उचतू राजन् प्रश्रित-वनताय च ॥ ५२ ॥

यथा त्रिवर्गं गुरुभिः आत्मने उप-शिक्षितम्।
न साधु मेने तच्छिक्षां द्वन्द्व-आरा-मो वर्णिताम् ॥ ५३ ॥

यदाऽऽचार्यः परावृत्तो गृह-मेधीय-कर्मसु।
वयस्यैः बालकैः तत्र सोप-हूतः कृत-क्षणैः ॥ ५४ ॥

अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महा-बुधः।
उवाच विद्वांस् तन्निष्ठां कृपया प्रहसन् निव ॥ ५५ ॥

ते तु तद् गौरवात् सर्वे त्यक्त-क्रीडा-परिच्छदाः।
बाला न दूषित-धियो द्वन्द्व-आरा-मे रिते हितैः ॥ ५६ ॥

पर्युपासत राजेन्द्र तन्न्यस्त-हृदये-क्षणाः।
तान् आह करुणो मैत्रो महा-भागवतोऽसुरः ॥ ५७ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे प्रह्लादानु-चरिते पञ्चमोऽध्यायः ॥ ५ ॥

ஸ்கந்தம் 7: அத்யாயம் 4 (ஹிரண்யகசிபு உலகங்களை மிரட்டினான்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஹிரண்யகசிபு உலகங்களை மிரட்டினான்

ஸ்கந்தம் 7: அத்யாயம் 4

 

नारद उवाच –
एवं वृतः शत-धृतिः हिरण्यकशिपोः रथ।
प्रादत्तत् तपसा प्रीतो वराँस्तस्य सुदुर्लभान् ॥ १ ॥

ब्रह्मो वाच –
तातः एमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम।
तथापि वितराम्य अंग वरान् यदपि दुर्लभान् ॥ २ ॥

ततो जगाम भगवान् अमोघानुग्रहो विभुः।
पूजितो असुर-वर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥

एवं लब्धवरः दैत्यो बिभ्रद्धेममयं वपुः।
भगवत्य अकरोत् द्वेषं भ्रातुः वधमनुस्मरन् ॥ ४ ॥

स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः।
देव- असुर- मनुष्येन्द्रान् गन्धर्व-गरुड-ोरगान् ॥ ५ ॥

सिद्ध-चारण-विद्या-ध्रान् ऋषीन् पितृ-पतीन् मनून्।
यक्ष-रक्षः- पिशाच- ईशान् प्रेत-भूत-पतीनथ ॥ ६ ॥

सर्व-सत्त्व-पतीन् जित्वा वशम् आनिय विश्वजित्।
जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥

देवोद्यान-श्रिया जुष्टं अध्यास्ते स्म त्रिविष्टपम्।
महेन्द्र-भवनं साक्षात् निर्मितं विश्वकर्मणा।
त्रैलोक्य-लक्ष्मी-आयतनम् अध्युवास अखिलर्द्धिमत् ॥ ८ ॥

यत्र विद्रुम-सोपाना महामारकता भुवः।
यत्र स्फाटिक-कुड्यानि वैदूर्य-स्तम्भ-पङ्क्तयः ॥ ९ ॥

यत्र चित्र-वितानानि पद्म-राग- आसनानि च।
पयः-फेन-निभाः शय्या मुक्त-आदाम-परिच्छदाः ॥ १० ॥

कूजद्भिर्नूपुरैः देव्यः शब्दयन्त्य इतस्ततः।
रत्न-स्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११ ॥

तस्मिन महेन्द्र-भवने महाबलो
महामना निर्जित-लोक एक-राट्।
रेमे अभिवन्द्याङ्‌घ्रियुगः सुरादिभिः
प्रतापितैः ऊर्जित-चण्ड-शासनः ॥ १२ ॥

तमङ्‌ग मत्तं मधु-नोरु-गन्धिना
विवृत्त-ताम्राक्ष-मशेष-धिष्ण्य-पाः।
उपासतोपायन-पाणिभिर्विना
त्रिभि: तपो-योग-बलौजसां पदम् ॥ १३ ॥

जगुर्महेन्द्र-आसनम् ओजसा स्थितं
विश्व-आवसुः तुंबुरुर अस्मद् आदयः।
गन्धर्व-सिद्धा ऋषयः अस्तुवन् मुहुः
विद्या-धरा अप्सरसः च पाण्डव ॥ १४ ॥

स एव वर्णाश्रमिभिः क्रतुभिर्भूरि-दक्षिणैः।
इज्यमानो हविर्भागान् ग्रहित स्वेन तेजसा ॥ १५ ॥

अकृष्ट-पक्या तस्यासीत् सप्त-द्वीप-वती मही।
तथा काम-दुघा द्यौस्तु नाना-चर्च्य-पदं नभः ॥ १६ ॥

रत्नाकराश्च रत्न-औघाः तत् पत्न्यश्च ओहुरूर्मिभिः।
क्षारसी-धुघृत-क्षौद्र-दधि-क्षीर- अमृत-ओदकाः ॥ १७ ॥

शैला द्रोणी-भिराक्रीडं सर्व-र्तुषु गुणान् द्रुमाः।
दधार लोकपालानामेक एव पृथक् गुणान् ॥ १८ ॥

स इत्थं निर्जित-ककुबे-कराट् विषयान् प्रियान्।
यथोपजोषं भुञ्जानो नातृप्य अदजि- इन्द्रियः ॥ १९ ॥

एवम-ईश्वर्यमत्तस्य दृप्तस्य उच्चास्त्र-वर्तिनः।
कालो महान् व्यतीयाय ब्रह्म-शापम् उपेयुषः ॥ २० ॥

तस्य उग्र-दण्ड-संविग्नाः सर्वे लोकाः सपालकाः।
अन्यत्रा-लब्ध-शरणाः शरणं ययुः अच्युतम् ॥ २१ ॥

तस्यै नमोऽस्तु काष्ठायै यत्र आत्मा हरी-ईश्वरः।
यद् गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥ २२ ॥

इति ते संयत-आत्मानः समाहित-धियोऽमलाः।
उपतस्थुः hृषीकेशं विनिद्रा वायु-भोजनाः ॥ २३ ॥

तेषाम् आविरभूद् वाणी अरूपा मेघ-निःस्वना।
सन्नादयन्ती ककुभः साधूनाम् अभयङ्करी ॥ २४ ॥

मा भैष्ट, विबुध-श्रेष्ठाः, सर्वेषां भद्रमस्तु वः।
मद् दर्शनं हि भूतानां सर्व-श्रेय-उपपत्तये ॥ २५ ॥

ज्ञातम् एतस्य दौर्त्यं दैतेय-अपसदस्य च।
तस्य शान्तिं करिष्यामि कालं तावत् प्रतीक्षत ॥ २६ ॥

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु।
धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २७ ॥

निर्वैराय प्रशान्ताय स्वसुताय महात्मने।
प्रह्रादाय यदा द्रुह्येत् धनिष्येऽपि वरोर्जितम् ॥ २८ ॥

नारद उवाच –
इति उक्ता लोकगुरुणा तं प्रणम्य दिवौकसः।
न्यवर्तन्त गतो द्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥

तस्य दैत्य-पतेः पुत्रा: चत्वारः परमाद्भुताः।
प्रह्रादोऽभून्महां तेषां गुणैः महद् उपासकः ॥ ३० ॥

ब्रह्मण्यः शील-संपन्नः सत्य-सन्धो जितेन्द्रियः।
आत्मवत् सर्व-भूतानाम् एकः प्रिय-सुहृत्तमः ॥ ३१ ॥

दासवत् सन्न-तार्याङ्‌घ्रिः पितृवद् दीनवत्सलः।
भ्रातृवत् सदृशे स्निग्धो गुरु-श्वीश्वर-भावनः।
विद्यार्थ-रूप-जन्माढ्यो मान-स्तम्भ-विवर्जितः ॥ ३२ ॥

नोद्विग्न-चित्तो व्यसनेषु निःस्पृहः
श्रुतेषु दृष्टेषु गुणेष्व वस्तु-दृक्।
दान्-इन्द्रिय-प्राण-शरीर-धीः सदा
प्रशान्त-कामो रहितः असुरोऽसुरः ॥ ३३ ॥

यस्मिन् महद् गुणा राजन् गृह्यन्ते कविभिः मुहुः।
न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥

यं साधु-गाथा सदसि रिपवोऽपि सुरा नृप।
प्रतिमानं प्रकुर्वन्ति किमुत् अन्ये भवादृशाः ॥ ३५ ॥

गुणैः अलम-संख्येयैः माहात्म्यं तस्य सूच्यते।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६ ॥

न्यस्त-क्रीडनको बालो जडवत्तन् मनस्तया।
कृष्ण-ग्रह-गृहीतात्मा न वेद जगदीदृशम् ॥ ३७ ॥

आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन्।
न अनु-सन्धत्त एतानि गोविन्द-परिरम्भितः ॥ ३८ ॥

क्वचिद् रुदति वैकुण्ठ-चिन्ता-शबल-चेतनः।
क्वचिद् धसति तच्चिन्ता-ह्लाद उद्गायति क्वचित् ॥ ३९ ॥

नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित्।
क्वचित् तद् भावना-युक्तः तन्मयोऽनुचकार ह ॥ ४० ॥

क्वचित्-उत्पुलकः तूष्णीमा-अस्ते संस्पर्शन-निर्वृतः।
अ-स्पन्द-प्रणय-आनन्द-सलिला-मीलितेक्षणः ॥ ४१ ॥

सः उत्तम-श्लोक-पदा-रविन्दयोः
निःसेवयाकिञ्चन-सङ्‌गलब्धया।
तन्वन् पराम् निर्वृतिं आत्मनो मुहुः
दुः-सङ्ग-दीनान् अन्यमनः शमम् व्यधात् ॥ ४२ ॥

तस्मिन् महा-भागवते महा-भागे महा-आत्मनि।
हिरण्य-कशिपू राजन् अक-रोऽध्मात्मजे ॥ ४३ ॥

युधिष्ठिर उवाच -
देवर्ष एतद् इच्छामो वेदितुं तव सुव्रत।
यद् आत्मजाय शुद्धाय पितृ-आदात् साधवे ह्यघम् ॥ ४४ ॥

पुत्रान् विप्रति-कूलान् स्वान् पितरः पुत्र-वात्सलाः।
उप-आलभन्ते शिक्षा-अर्थं नैवाघम् अपरो यथा ॥ ४५ ॥

किम्-उत् अनु-वशान् साधून् तादृशान् गुरु-देवतान्।
एतत् कौतूहलं ब्रह्मन् नः स्माकं विधम् प्रभो।
पितुः पुत्राय यत् द्वेषो मरणाय प्रयोजितः ॥ ४६ ॥

|| इति श्री-मद्-भागवते महा-पुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे प्रह्लाद-चरिते चतुर्थोऽध्यायः ॥ ४ ॥

ஸ்கந்தம் 7: அத்யாயம் 3 (ஹிரண்யகசிபு வரம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஹிரண்யகசிபு வரம்

ஸ்கந்தம் 7: அத்யாயம் 3

 

श्री-नारद उवाच

हिरण्यकशिपुः राजन् अजेयम् अजर-अमरम्।
आत्मानम् अप्रतिद्वन्द्वम् एक-राजम् व्यधित्सत ॥ १ ॥

सः तेपे मन्दर-द्रोण्याम् तपः परम् अदारुणम्।
ऊर्ध्व-बाहुः नभः-दृष्टिः पाद-अङ्गुष्ठ-आश्रित- अवनिः ॥ २ ॥

जटा-दीधितिभिः रेजे संवर्त-अर्कः इव अम्शुभिः।
तस्मिन् तपः तप्यमाने देवाः स्थानानि भेजिरे ॥ ३ ॥

तस्य मूर्ध्नः समुद्भूतः स-धूमः अग्निः तपः-मयः।
तिर्यक्-ऊर्ध्वम् अधः-लोकान् अतपत् विष्वग्-ईरितः ॥ ४ ॥

चुक्षुभुः नदीः उदन्वन्तः स- द्वीप-अद्रयः च चाल भूः।
निपेतुः स-ग्रहाः तारा जज्वलुः च दिशः दश ॥ ५ ॥

तेन तप्ताः दिवम् त्यक्त्वा ब्रह्म-लोकम् ययुः सुराः।
धात्रे विज्ञापयाम् आसुः देव-देव जगत्-पते ॥ ६ ॥

दैत्य-इन्द्र-तपसा तप्ताः दिवि स्थातुम् न शक्नुमः।
तस्य च उपशमम् भूमन् विधेहि यदि मन्यसे ॥ ७ ॥

लोकाः न यावत् नङ्क्ष्यन्ति बलि-हाराः तव-अभिभूः।
तस्य अयम् किल सङ्कल्पः चरतः दुश्चरम् तपः ॥ ८ ॥

श्रूयताम् किम् न विदितः तव अथ अपि निवेदितः।
सृष्ट्वा चर-अचरम् इदम् तपः-योग-समाधिना।
अध्यास्ते सर्व-धिष्ण्येभ्यः परमेष्ठी निज-आसनम् ॥ ९ ॥

तत् अहम् वर्धमानेन तपः-योग-समाधिना।
काल-आत्मनः च नित्यत्वात् साधयिष्ये तथा आत्मनः ॥ १० ॥

अन्यथा इदम् विधास्ये अहम् अयथा-पूर्वम् ओजसा।
किम् अन्यैः काल-निर्धूतैः कल्प-अन्ते वैष्णवान् इभिः ॥ ११ ॥

इति शुश्रुम निर्बन्धम् तपः परम् आस्थितः।
विधत्स्व अनन्तरम् युक्तम् स्वयम् त्रि-भुवन-ईश्वर ॥ १२ ॥

तव आसनम् द्वि-ज-गवाम् पारमेष्ठ्यम् जगत्-पते।
भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥

इति विज्ञापितः देवैः भगवान् आत्म-भूः नृप।
परितः भृगु-दक्ष-आद्यैः ययौ दैत्य-ईश्वर-आश्रमम् ॥ १४ ॥

न ददर्श प्रतिच्छन्नम् वल्मीक-तृण-कीचकैः।
पिपीलिका-भिः आचीर्यम् मेदः-त्वक्-मांस-शोणितम् ॥ १५ ॥

तपन्तम् तपसा लोकान् यथा अभ्र-आपिहितम् रविम्।
विलक्ष्य विस्मितः प्राह प्रहसन् हंस-वाहनः ॥ १६ ॥


श्री-ब्रह्मा उवाच

उत्तिष्ठ उत्तिष्ठ भद्रम् ते तपः-सिद्धः असि काश्यप।
वर-दः अहम् अनुप्राप्तः व्रियताम् ईप्सितः वरः ॥ १७ ॥

अद्राक्षम् अहम् एतत् ते हृत्-सारम् महत् अद्भुतम्।
दंश-भक्षित-देहस्य प्राणाः हि अस्थिषु शेरते ॥ १८ ॥

न एतत् पूर्व-ऋषयः चक्रुः न करिष्यन्ति च अपरे।
निर-अम्भुः धारयेत् प्राणान् कः वै दिव्य-समाः शतम् ॥ १९ ॥

व्यवसायेन ते अनेन दुष्करेण मनस्विनाम्।
तपः-निष्ठेन भवता जितः अहम् दिति-नन्दन ॥ २० ॥

ततः सः आशिषः सर्वाः ददामि असुर-पुङ्गव।

मर्तस्य ते अमर्तस्य दर्शऩम् न अफलम् मम ॥ २१ ॥**


श्री-नारद उवाच

इति उक्त्वा आदिभवः देवः
भक्षित-अङ्गम् पिपीलिकैः।
कमण्डलु-जलेन औक्षत् दिव्येन अमोघ-राधसा ॥ २२ ॥

सः तत् कीचक-वल्मीकात्
सह ओजः-बल- अन्वितः।
सर्व-अवयव-सम्पन्नः वज्र-संहननः युवा।
उत्थितः तप्त-हेम-आभः विभावसुः इव ऐधसः ॥ २३ ॥

सः निरीक्ष्य अम्बरे देवम्
हंस-वाहम् अवस्थितम्।
ननाम शिरसा भूमौ तत्-दर्शन-महोत्सवः ॥ २४ ॥

उत्थाय प्राञ्जलिः प्रह्वः
ईक्षमाणः दृशा विभुम्।
हर्ष-अश्रु-पुलक-उद्भेदः
गिरा गद्गदया अगृणात् ॥ २५ ॥


श्री-हिरण्यकशिपुः उवाच

कल्प-अन्ते काल-सृष्टेन
यः अन्धेन तमसा आवृतम्।
अभिव्यनक् जगत् इदम्
स्वयम्-ज्योतिः स्व-रोचिषा ॥ २६ ॥

आत्मना त्रि-वृता च इदम्
सृजति अवति लुम्पति।
रजः-सत्त्व-तमः-धाम्ने
पराय महते नमः ॥ २७ ॥

नमः आद्याय बीजाय
ज्ञान-विज्ञान-मूर्तये।
प्राण-इन्द्रिय-मनः-बुद्धि-विकारैः
व्यक्तिम् ईयुषे ॥ २८ ॥

त्वम् ईशिषे जगतः तस्थुषः च
प्राणेन मुख्येन पतिः प्रजानाम्।
चित्तस्य चित्तेः मनः-इन्द्रियाणाम्
पतिः महान् भूत-गुण-आश्रय-ईशः ॥ २९ ॥

त्वम् सप्त-तन्तून् वितनोषि तन्वा
त्रय्या चतुः-होत्रक-विद्यया च।
त्वम् एकः आत्मा आत्मवताम् अनादिः
अनन्त-परः कविः अन्तर-आत्मा ॥ ३० ॥

त्वम् एव कालः अनिमिषः जनानाम्
आयुः लव-आद्य-अवयवैः क्षिणोषि।
कूटस्थ आत्मा परमेष्ठि-अजः महांस्
त्वम् जीव-लोकस्य च जीव-आत्मा ॥ ३१ ॥

त्वत्तः परम् न अपरम् अपि अनेजत्
एजत् च किञ्चित् व्यतिरिक्तम् अस्ति।
विद्याः कलाः ते तनवः च सर्वाः
हिरण्यगर्भः असि बृहत्-त्रि-पृष्ठः ॥ ३२ ॥

व्यक्तम् विभो स्थूलम् इदम् शरीरम्
येन इन्द्रिय-प्राण-मनः-गुणान् त्वम्।
भुङ्क्षे स्थितः धामनि पारमेष्ठ्ये
अव्यक्त आत्मा पुरुषः पुराणः ॥ ३३ ॥

अनन्त-अव्यक्त-रूपेण
येन इदम् अखिलम् ततम्।
चित्-अचित्-शक्ति-युक्ताय
तस्मै भगवते नमः ॥ ३४ ॥

यदि दास्यसि अभिमतान् वरान् मे
वरद-उत्तम।
भूतेभ्यः त्वत्-विसृष्टेभ्यः
मृत्युः मा भूः मम प्रभो ॥ ३५ ॥

न अन्तर् न बहिः दिवा नक्तम्
अन्यस्मात् अपि च आयुधैः।
न भूमौ न अम्बरे मृत्युḥ
न नरैः न मृगैः अपि ॥ ३६ ॥

व्यसुभिः वासुमद्भिः वा
सुर-असुर-महोरगैः।
अप्रतिद्वन्द्वताम् युद्धे
ऐकपत्यं च देहिनाम् ॥ ३७ ॥

सर्वेषाम् लोक-पालानाम्
महिमानम् यथा आत्मनः।
तपः-योग-प्रभावाणाम्
यत् न रिष्यति कर्हिचित् ॥ ३८ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे हिरण्यकशिपोः वर-याचनं नाम
तृतीयः अध्यायः ॥ ३ ॥