Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 7: அத்யாயம் 12 (ஆன்மீக பாதை அமைய நான்கு படிகள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஆன்மீக பாதை அமைய நான்கு படிகள்

ஸ்கந்தம் 7: அத்யாயம் 1

 

नारद उवाच
ब्रह्म-चारी गुरु-कुले वसन्-आन्तः गुरोः हितम्।
आचरन् दासवन्नीचः गुरौ सुदृढ-सौहृदः ॥ १ ॥

सायं प्रातर् उपासीत् गुरु-अग्नि-अर्क-सुरोत्तमान्।
उभे सन्ध्ये च यत् वाग् जपन् ब्रह्म समाहितः ॥ २ ॥

छन्दांसि अधीयीत् गुरोः आहूतः चेत् सुयन्त्रितः।
उपक्रमे अवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥

मेखला-जिन-वासांसि जटा-दण्डक-मण्डलून्।
बिभृयात् उपवीतं च दर्भ-पाणि यथोक्तम् ॥ ४ ॥

सायं प्रातश् चरेद् भैक्षं गुरवे तन्निवेदयेत्।
भुञ्जीत् यद्य अनुज्ञातो नः चेन्न उपवसेत् क्वचित् ॥ ५ ॥

सुशीलः मितभुः दक्षः श्रद्धधानः जितेन्द्रियः।
यावत् अर्थं व्यवहरेत् स्त्रीषु स्त्री-निर्जितेषु च ॥ ६ ॥

वर्जयेत् प्रमदा-गाथाम् अ-गृहस्थो बृहद्-व्रतः।
इन्द्रियाणि प्रमाथीनि हरन्ति अपि यतेर्मनः ॥ ७ ॥

केश-प्रसाधन-उन्मर्द-स्नपन-ाभ्यञ्जनादिकम्।
गुरु स्त्रीभिः युवतिभिः कारयेत् नात्मनो युवा ॥ ८ ॥

नन्व् अग्निः प्रमदा नाम घृत-कुम्भ-समः पुमान्।
सुताम् अपि रहो जह्यात् अन्यदा यावत् अर्थकृत् ॥ ९ ॥

कल्पयित्वा आत्मना यावत् आभासम् इदं ईश्वरः।
द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥

एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि।
गुरु-वृत्तिः विकल्पेन गृहस्थस्य र्तु-गामिनः ॥ ११ ॥

अञ्जना-भ्यञ्जन-उन्मर्द-स्त्र्यव-लेखा-मिषं मधु।
स्रग्-गन्ध-लेप-आलंकारान् त्यजेयुः ये धृत-व्रताः ॥ १२ ॥

उषित्वैवम् गुरु-कुले द्विजः अधीत्यावबुध्य च।
त्रयीं साङ्‌गोपनिषदं यावत् अर्थं यथा बलम् ॥ १३ ॥

दत्त्वा वरम् अनुज्ञातो गुरोः कामं यदीश्वरः।
गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥

अग्नौ गुराव् आत्मनि च सर्व-भूतेषु अधोक्षजम्।
भूतैः स्वधामभिः पश्येत् अप्रविष्टं प्रविष्टवत् ॥ १५ ॥

एवंविधः ब्रह्म-चारी वान-प्रस्थो यतिः गृही।
चरन् विदित-विज्ञानः परं ब्रह्म-आधिगच्छति ॥ १६ ॥

वान-प्रस्थस्य वक्ष्यामि नियमान् मुनि-सम्मतान्।
यान् अतिष्ठन् मुनिः गच्छेत् ऋषि-लोक-मुहाञ्जसा ॥ १७ ॥

न कृष्ट-पच्यम् अश्नीयात् अकृष्टं च अप्यकालतः।
अग्नि-पक्वम् अथामं वा अर्क-पक्वम् उताहरेत् ॥ १८ ॥

वन्यैः च रूपु-रु-ओडाशान् निर्वपेत् काल-चोदितान्।
लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेत् ॥ १९ ॥

अग्न्यर्थमेव शरणम् ऊटजं वाद्रिक-न्दराम्।
श्रयेत् हिम-वा‍य्-ग्नि-वर्षा-र्कात-पषाट् स्वयम् ॥ २० ॥

केश-रोमन-खश्म-श्रुमलानि जटिलः दधत्।
कमण्डल्-वजिने दण्ड-वल्कल-आग्नि-परिच्छदान् ॥ २१ ॥

चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरः मुनिः।
द्वावेकं वा यथा बुद्धिः न विपद्येत् कृच्छ्रतः ॥ २२ ॥

यद् आ-कल्पः स्व-क्रियायां व्याधिभिः जरा अथवा।
आन्वीक्षिक्याम् वा विद्यायां कुर्यात् अनशनादिकम् ॥ २३ ॥

आत्मन्य् अग्नीन् समारोप्य संन्यास्याहं मम आत्मताम्।
कारणेषु न्यसेत् सम्यक् संघातं तु यथार्हतः ॥ २४ ॥

खे खानि वायौ निश्वासान् तेजस् युष्मान् आत्मवान्।
अप्सु सृक्-श्लेष्म-पूयानि क्षितौ शेषं यथोऽभवम् ॥ २५ ॥

वाचम् अग्नौ स वक्तव्याम् इन्द्रे शिल्पं करावपि।
पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥

मृत्यौ पायुः विसर्गं च यथास्थानं विनिर्दिशेत्।
दिक्षु श्रोत्रं सनादेन स्पर्शेमध्यात्मनि त्वचम् ॥ २७ ॥

रूपाणि चक्षुषा राजन् ज्योतिष्-भिनिवेशयेत्।
अप्सु प्रचेतसा जिह्वां घ्रेयैः घ्राणं क्षितौ न्यसेत् ॥ २८ ॥

मनो मनोरथैः चन्द्रे बुद्धिं बोध्यैः कवौ परे।
कर्माणि अध्यात्मना रुद्रे यद् अहं ममताक्रिया।
सत्त्वेन चित्तं क्षेत्रज्ञे गुणैः वैकारिकं परे ॥ २९ ॥

अप्सु क्षितिम् अपो ज्योतिष्यद् ओ वायौ नभस्यम् उम्।
कूटस्थे तच्च महति तद् अव्यक्तेऽक्षरे च तत् ॥ ३० ॥

इति अक्षरतयाः आत्मानं चिन्मात्रम् अवशेषितम्।
ज्ञात्वा द्वयोः अथ विरमेत् दग्ध-योनि-रिव् अनलः ॥ ३१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे सदाचार-निर्णयः
नाम द्वादश-अध्यायः ॥ १२ ॥

ஸ்கந்தம் 7: அத்யாயம் 11 (நல்ல சமுதாயம் அமைய நான்கு வகுப்புகள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

நல்ல சமுதாயம் அமைய நான்கு வகுப்புகள்

ஸ்கந்தம் 7: அத்யாயம் 11

 

श्रीशुक उवाच –
श्रुत्वेहितं साधु सभासभाजितं
महत्तमाग्रण्य उरुक्रमात्मनः।
युधिष्ठिरो दैत्यपतेर्मुदा युतः
पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ १ ॥

युधिष्ठिर उवाच –
भगवञ्छ्रोतुमिच्छामि नृणां धर्मं सनातनम्।
वर्णाश्रमाचारयुतं यत् पुमान्विन्दते परम् ॥ २ ॥

भवान्प्रजापतेः साक्षादात्मजः परमेष्ठिनः।
सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः ॥ ३ ॥

नारायणपरा विप्रा धर्मं गुह्यं परं विदुः।
करुणाः साधवः शान्तास्त्वद्विधा न तथापरे ॥ ४ ॥

नारद उवाच –
नत्वा भगवतेऽजाय लोकानां धर्महेतवे।
वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ॥ ५ ॥

योऽवतीर्यात्मनोऽशेन दाक्षायण्यां तु धर्मतः।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥

धर्ममूलं हि भगवान्सर्ववेदमयो हरिः।
स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति ॥ ७ ॥

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः।
अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥

सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः।
नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ ९ ॥

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः।
तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः।
सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ ११ ॥

नृणामयं परो धर्मः सर्वेषां समुदाहृतः।
त्रिंशल्लक्षणवान्राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥

संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम्।
इज्याध्ययनदानानि विहितानि द्विजन्मनाम्।
जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ १३ ॥

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः।
राज्ञो वृत्तिः प्रजागोप्तुरविप्राद् वा करादिभिः ॥ १४ ॥

वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः।
शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥

वार्ता विचित्रा शालीनयायावरशिलोञ्छनम्।
विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥

जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः।
ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ १७ ॥

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा।
सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथञ्चन ॥ १८ ॥

ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम्।
मृतं तु नित्ययांच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥

सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम्।
वर्जयेत् तां सदा विप्रो राजन्यश्च जुगुप्सिताम्।
सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ २० ॥

शमो दमः तपः शौचं सन्तोषः क्षान्ति आर्जवम्।
ज्ञानं दया अच्युत-आत्मत्वं सत्यं च ब्रह्म-लक्षणम् ॥ २१ ॥

शौर्यं वीर्यं धृतिः तेजः त्याग आत्मजयः क्षमा।
ब्रह्मण्यता प्रसादः च रक्षा च क्षत्र-लक्षणम् ॥ २२ ॥

देव-गुर-वच्युते भक्तिः त्रि-वर्ग-परिपोषणम्।
आस्तिक्यं उद्यमः नित्यं नैपुण्यं वैश्य-लक्षणम् ॥ २३ ॥

शूद्रस्य संनतिः शौचं सेवा स्वामिन्य-मायया।
अमन्त्र-यज्ञो हि अस्तेयम् सत्यं गो-विप्र-रक्षणम् ॥ २४ ॥

स्त्रीणां च पति-देवानां तत्-शुश्रूषा अनुकूलता।
तत्-बन्धुषु अनुवृत्ति च नित्यं तत्-व्रत-धारणम् ॥ २५ ॥

सम्मार्जन-उपलेपा अभ्यां गृह-मण्डल-वर्तनैः।
स्वयं च मण्डिता नित्यं परि-मृष्ट-परिच्छदा ॥ २६ ॥

कामैः उच्चावचैः साध्वी प्रश्रयेण दमेन च।
वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् ॥ २७ ॥

सन्तुष्टा अलोलुपा दक्षा धर्मज्ञा प्रिय-सत्य-वाक्।
अप्रमत्ता शुचिः स्निग्धा पतिं त्वा पतितं भजेत् ॥ २८ ॥

या पतिं हरि-भावेन भजेच्छ्रीरिव तत्-पराः।
हरि-आत्मना हरि-र्लोके पत्या श्रीरिव मोदते ॥ २९ ॥

वृत्तिः सङ्‌कर-जातीना तत्तत्-कुलकृता भवेत्।
अचौराणाम् अपापानाम् अन्त्यजान्ते अवसायिनाम् ॥ ३० ॥

प्रायः स्वभाव-विहितो नृणां धर्मो युगे युगे।
वेद-दृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥

वृत्त्या स्वभाव-कृत्या वर्तमानः स्वकर्म-कृत्।
हित्वा स्वभावजं कर्म शनैः निर्गुणता-मीयात् ॥ ३२ ॥

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्य-ताम् इयात्।
न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥

एवं काम-आशयं चित्तं कामानाम् अति-सेवया।
विरज्येत यथा राजन् अग्निवत् काम-बिन्दुभिः ॥ ३४ ॥

यस्य यः लक्षणं प्रोक्तं पुंसो वर्ण-अभिव्यञ्जकम्।
यद् अन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥ ३५ ॥

॥ इति श्रीमद्-भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे सत्-आचार-निर्णयः
नाम एकादशः-अध्यायः ॥ ११ ॥

ஸ்கந்தம் 7: அத்யாயம் 10 (பாகவதர்களில் உத்தமன் பிரஹலாதன்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பாகவதர்களில் உத்தமன் பிரஹலாதன்

ஸ்கந்தம் 7: அத்யாயம் 10

 

श्री-नारद उवाच
भक्ति-योगस्य तत् सर्वम् अंतर-आयते-आर्भकः।
मन्यमानो हृषीकेशं स्मयमान् उवाच ह ॥ १ ॥

श्री-प्रह्लाद उवाच
मा माम् प्रलोभ-उत्पत्त्याऽऽसक्तं कामेषु तैः वरैः।
तत् सङ्ग-भीतो निर्विण्णः मुमुक्षुः त्वाम् उपाश्रितः ॥ २ ॥

भृत्य-लक्षण-जिज्ञासुः भक्तं कामेषु चोदितः।
भवान् संसार-बीजेषु हृदय-ग्रन्थिषु प्रभो ॥ ३ ॥

नान्यथा तेऽखिल-गुरो घटेत् करुणा-आत्मनः।
यः ताशिष् आशा-स्ते न स भृत्यः स वै वणिक् ॥ ४ ॥

आशासानो न वै भृत्यः स्वामिन्याशिष् आत्मनः।
न स्वामी भृत्यतः स्वाम्यं इच्छन् यः राति च आशिषः ॥ ५ ॥

अहं त्वकामः त्वद् भक्तः त्वं च स्वाम्य-अपाश्रयः।
नान्यथा एहावयोः अर्थो राज-सेवकयोः इव ॥ ६ ॥

यदि रासीः मे कामान् वराः त्वं वर-दर्शभ।
कामानां हृद्य-संरोहं भवतः तु वृणे वरम् ॥ ७ ॥

इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः।
ह्रीः श्रीः तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥ ८ ॥

विमुञ्चति यदा कामान् मानवो मनसि स्थितान्।
तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ ९ ॥

नमो भगवते तुभ्यं पुरुषाय महात्मने।
हरयेऽद्भुत-सिंहाय ब्रह्मणे परमात्मने ॥ १० ॥

नृसिंह उवाच
नैकान्तिनो मे मयि जात्विह आशिष्
आशासतेऽमुत्र च ये भवद् विधाः।
अथापि मन्वन्तरं एतदत्र
दैत्येश्वराणाम् अनुभुङ्क्ष्व भोगान् ॥ ११ ॥

कथा मदीया जुषमाणः प्रियास्त्वम्
आवेश्य मामात्मनि सन्तम् एकम्।
सर्वेषु भूतेषु अधियज्ञ-मीशं
यजस्व योगेन च कर्म हिन्वन् ॥ १२ ॥

भोगेन पुण्यं कुशलेन पापं
कलेवरं काल-जवेन् हित्वा।
कीर्तिं विशुद्धां सुर-लोक-गीतां
विताय मामेष्यसि मुक्त-बन्धः ॥ १३ ॥

य एतत् कीर्तयेन्मह्यं त्वया गीतमिदं नरः।
त्वां च मां च स्मरन् काले कर्म-बन्धात् प्रमुच्यते ॥ १४ ॥

श्री-प्रह्लाद उवाच
वरं वरय एतत् ते वर-देशान् महेश्वर।
यद् अनिन्दत् पिता मे त्वाम् विद्वांस्तेज ऐश्वरम् ॥ १५ ॥

विद्धा मर्ष-आशयः साक्षात् सर्व-लोक-गुरुं प्रभुम्।
भ्रातृ-हेति मृषा दृष्टिः त्वद् भक्ते मयि चाघवान् ॥ १६ ॥

तस्मात् पिता मे पूयेत् दुरन्तात् दुस्तराद् घात्।
पूतस्तेऽपाङ्ग-संदृष्टस्तदा कृपणवत्सल ॥ १७ ॥

श्री-भगवान् उवाच
त्रिःसप्तभिः पिता पूतः पितृभिः सह तेऽनघ।
यत् साधोऽस्य गृहे जातो भवान्वै कुल-पावनः ॥ १८ ॥

यत्र यत्र च मद्भक्ताः प्रशान्ताः सम-दर्शिनः।
साधवः समुदाचारास्ते पूयन्तेऽपि कीकटाः ॥ १९ ॥

सर्व-आत्मना न हिंसन्ति भूत-ग्रामेषु किञ्चन।
उच्च-आवचेषु दैत्येन्द्र मद्भावेन गत-स्पृहाः ॥ २० ॥

भवन्ति पुरुषा लोके मद्भक्तास्त्वाम् अनुव्रताः।
भवान् मे खलु भक्तानां सर्वेषां प्रति रूप-धृक् ॥ २१ ॥

कुरु त्वं प्रेत-कार्याणि पितुः पूतस्य सर्वशः।
मद-अङ्ग-स्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ २२ ॥

पितृयं च स्थानम् आ तिष्ठ यथोक्तं ब्रह्म-वादिभिः।
मय्यावेश्य मनः तात कुरु कर्माणि मत् परः ॥ २३ ॥

श्री-नारद उवाच
प्रह्रादोऽपि तथा चक्रे पितुर्यत् साम्परायिकम्।
यथाऽऽह भगवान् राजन् अभिषिक्तो द्विजोत्तमैः ॥ २४ ॥

प्रसाद-सुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम्।
स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिः वृत्तः ॥ २५ ॥

श्री-ब्रह्मो वाच
देव-देवाखिलाध्यक्ष भूत-भावन पूर्वज।
दिष्ट्या ते निहतः पापः लोक-सन्तापनोऽसुरः ॥ २६ ॥

योऽसौ लब्ध-वरो मत्तो न वध्यो मम सृष्टिभिः।
तपो-योगबलो-न्नद्धः समस्त-निगमानहन् ॥ २७ ॥

दिष्ट्या स्य तनयः साधुर्महाभागवतोऽर्भकः।
त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितोऽधुना ॥ २८ ॥

एतद् वपुस्ते भगवन्ध्यायतः परमात्मनः।
सर्वतो गोप्तृ सन्त्रासान् मृत्योरपि जिघांसतः ॥ २९ ॥

नृसिंह उवाच
मैवं वरोऽसुराणां ते प्रदेयः पद्मसम्भव।
वरः क्रूर-निसर्गाणाम् हीनाम् अमृतं यथा ॥ ३० ॥

श्री-नारद उवाच
इत्युक्त्वा भगवान् राजंस्तत्रैवान्तर्दधे हरिः।
अदृश्यः सर्व-भूतानां पूजितः परमेष्ठिना ॥ ३१ ॥

ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम्।
भवं प्रजापतीन्देवान् प्रह्लादो भगवत्कलाः ॥ ३२ ॥

ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः।
दैत्य-दानवानां च प्रह्लादम् अकरोत् पतिम् ॥ ३३ ॥

प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः।
स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥ ३४ ॥

एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः।
हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ ३५ ॥

पुनश्च विप्र-शापेन राक्षसौ तौ बभूवतुः।
कुम्भकर्ण-दशग्रीवौ हतौ तौ रामविक्रमैः ॥ ३६ ॥

शयानौ युधि निर्भिन्न-हृदयौ राम-शायकैः।
तच्चित्तौ जहतुर्देहं यथा प्राक्तन-जन्मनि ॥ ३७ ॥

ताविहाथ पुनर्जातौ शिशुपाल-करूषजौ।
हरौ वैरानु-बन्धेन पश्यतस्ते समीयतुः ॥ ३८ ॥

एनः पूर्वकृतं यत् तद् राजानः कृष्णवैरिणः।
जहुस्तेऽन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥ ३९ ॥

यथा यथा भगवतो भक्त्या परमयाभिदा।
नृपाः चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥ ४० ॥

आख्यातं सर्वमेतत् ते यन्मां त्वं परिपृष्टवान्।
दम-घोष-सुतादीनां हरेः सात्म्यमपि द्विषाम् ॥ ४१ ॥

एषा ब्रह्मण्य-देवस्य कृष्णस्य च महात्मनः।
अवतार-कथा पुण्या वधो यत्रादि दैत्ययोः ॥ ४२ ॥

प्रह्लादस्य अनुचरितं महाभागवतस्य च।
भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चास्य वै हरेः ॥ ४३ ॥

सर्ग-स्थिति-अप्ययेशस्य गुण-कर्मानुवर्णनम्।
परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४४ ॥

धर्मो भागवतानां च भगवान्येन गम्यते।
आख्यानेऽस्मिन् समाम्नातमाध्यात्मिकम् अशेषतः ॥ ४५ ॥

य एतत् पुण्यमाख्यानं विष्णोः वीर्योपबृंहितम्।
कीर्तयेच्छ्रद्धया श्रुत्वा कर्म-पाशैर्विमुच्यते ॥ ४६ ॥

एतद् य आदिपुरुषस्य मृगेन्द्र-लीलां
दैत्येन्द्र-यूथ-पवधं प्रयतः पठेत।
दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं
श्रुत्वा अनुभावमकुतोभयमेति लोकम् ॥ ४७ ॥

यूयं नृलोके बहु-भागाः,
लोकं पुनाना मुनयः अभियन्ति।
येषां गृहान् अवसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥ ४८ ॥

स वा अयं ब्रह्म महद्विमृग्य
कैवल्य-निर्वाण-सुखानुभूतिः।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधिकृत् गुरुश्च ॥ ४९ ॥

न यस्य साक्षाद् भवपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम्।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदतामेष स सात्वतां पतिः ॥ ५० ॥

स एष भगवान् राजन् व्यतनोद् विहतं यशः।
पुरा रुद्रस्य देवस्य मयेन अनन्तमायिना ॥ ५१ ॥

राजोवाच
कस्मिन् कर्मणि देवस्य मयोऽहं जगदीशितुः।
यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ ५२ ॥

श्री-नारद उवाच
निर्जिता असुरा देवैर् युध्यनेनोपबृंहितैः।
मायिनां परमाचार्यं मयं शरणमाययुः ॥ ५३ ॥

स निर्माय पुरस्ति स्रो हैमीरौप्यायसीर्विभुः।
दुर्लक्ष्य-अपाय-संयोगा दुर्वितर्क्य-परिच्छदाः ॥ ५४ ॥

ताभिस्तेऽसुरसेनान्यो लोकान् स्त्रीन् सेश्वरान् नृप।
स्मरन्तो नाशयाञ्चक्रुः पूर्ववैरमलक्षिताः ॥ ५५ ॥

ततस्ते सेश्वरा लोका उपासाद्येश्वरं विभो।
त्राहि नस्तावकान् देव विनष्टांस्त्रिपुरालयैः ॥ ५६ ॥

अथानुगृह्य भगवान् मा भैष्टेति सुरान्विभुः।
शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥ ५७ ॥

ततोऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात्।
यथा मयूख-सन्दोहा नादृश्यन्त पुरो यतः ॥ ५८ ॥

तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः।
तान्ानीय महायोगी मयः कूपरसेऽक्षिपत् ॥ ५९ ॥

सिद्धामृत-रस-स्पृष्टा वज्र-सारा महौजसः।
उत्तस्थुर्मेघ-दलना वैद्युता इव वह्नयः ॥ ६० ॥

विलोक्य भग्न-सङ्कल्पं विमनस्कं वृषध्वजम्।
तदायं भगवान् विष्णुः तत्रोपायं कल्पयत् ॥ ६१ ॥

वत्स आसीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः।
प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ ६२ ॥

तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः।
तद् विज्ञाय महायोगी रसपालान् इदम् जगौ ॥ ६३ ॥

स्वयं विशोकः शोकार्तान् स्मरन्दैवगतिं च ताम्।
देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ॥ ६४ ॥

आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः।
अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ॥ ६५ ॥

धर्म-ज्ञान-विरक्त्य-ृद्धितपो-विद्या-क्रियादिभिः।
रथं सूतं ध्वजं वाहान् धनुर्वर्म शरादि यत् ॥ ६६ ॥

सन्नद्धो रथमास्थाय शरं धनुरुपाददे।
शरं धनुषि सन्धाय मुहूर्तेऽभिजित-ईश्वरः ॥ ६७ ॥

ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप।
दिवि दुन्दुभयो नेदुर्विमान-शतसङ्कुलाः ॥ ६८ ॥

देवर्षि-पितृ-सिद्धेशा जयेति कुसुमोत्करैः।
अवाकिरं जगुर्हृष्टा न नृतुश्चाप्सरोगणाः ॥ ६९ ॥

एवं दग्ध्वा पुरस्ति स्रो भगवान् पुरहा नृप।
ब्रह्मादिभिः स्तूयमानः स्वधाम प्रत्यपद्यत ॥ ७० ॥

एवंविधान्यस्य हरेः स्वमायया
विडम्बमानस्य नृलोकम् आत्मनः।
वीर्याणि गीतानि ऋषिभिर्जगद्गुरोर्लोकन्
पुनः आनान्यपरं वदामि किम् ॥ ७१ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे युधिष्ठिर-नारद-संवादे त्रिपुरविजयो नाम
दशमोऽध्यायः ॥ १० ॥

ஸ்கந்தம் 7: அத்யாயம் 9 (பிரஹலாதன் ஸ்துதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பிரஹலாதன் ஸ்துதி

ஸ்கந்தம் 7: அத்யாயம் 9

 

श्री-नारद उवाच
एवं सुर-आदयः सर्वे ब्रह्म-रुद्र-पुरः सराः।
न उपैतुं अशक्नुन्मन्युं संरम्भं सुदुरासदम् ॥ १ ॥

साक्षात् श्रीः प्रेषिता देवैः दृष्ट्वा तत् महत् अद्भुतम्।
अदृष्ट-श्रुत-पूर्वत्वात् सा न उपेयाय शङ्किता ॥ २ ॥

प्रह्रादं प्रेषयामास ब्रह्म-आवस्थितम् अन्तिके।
तात् प्रशमय उपेहि स्व-पित्रे कुपितं प्रभुम् ॥ ३ ॥

तथेति शनकै रजन् महा-भागवतोऽर्भकः।
उपेत्य भुवि कायेन नानाम् विधृत-आञ्जलिः ॥ ४ ॥

स्व-पाद-मूले पतितं तत् अर्भकं
विलोक्य देवः कृपया परि-प्लुतः।
उत्थाप्य तत् चीर्ष्ण्य दधात् कराम्बुजं
काल-आहि-वित्रस्तधियां कृताभयम् ॥ ५ ॥

स तत् कर-स्पर्श-धुत-अखिल-आशुभः
स अपद्य-अभिव्यक्त-परात्म-दर्शनः।
तत् पाद-पद्मं हृदि निर्वृतः दधौ
हृष्यत् तनुः क्लिन्न-हृद-श्रुलोचनः ॥ ६ ॥

अस्तौषीद् धरिम् एकाग्र-मनसा सुसमाहितः।
प्रेम-गद् गदया वाचा तत् न्यस्त-हृद-यक्षः ॥ ७ ॥

श्री-प्रह्राद उवाच
ब्रह्मादयः सुर-गणा मुनयः अथ सिद्धाः
सत्त्व-एक-तानग-तयो वचसां प्रवाहैः।
न आराधितुं पुरु-गुणैः अधुनापि पिप्रुः
किं तोष्टुं अर्हति स मे हरि-रुग्र-जातेः ॥ ८ ॥

मन्ये धन-आभिजन-रूप-तपः-श्रुत-ऊज
तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान् गज-यूह-पाय ॥ ९ ॥

विप्रात् द्विष-षड्गुण-युत-आद-रविन्द-नाभ्
पाद-आरविन्द-विमुखात् श्वपचं वरिष्ठम्।
मन्ये तद् अर्पित-मन-उचने-हितार्थ-
प्राणं पुनाति स कुलं न तु भूरिमानः ॥ १० ॥

न एवात्मनः प्रभुरयं निज-लाभपूर्णो
मानं जनात् विदुषः करुणो वृणीते।
यद् यत् जनो भगवते विदधीत् मानं
तत् च आत्मने प्रतिमुखस्य यथा मुख-श्रीः ॥ ११ ॥

तस्मादहं विगत-विक्लव ईश्वरस्य
सर्व-आत्मना महि गृणामि यथा मनीषम्।
नीचोऽजया गुण-विसर्ग-अनुप्रविष्टः
पूयेत् येन हि पुरुषान् अनु-वर्णितेन ॥ १२ ॥

सर्वे ह्यम् ई विधिकराः त्वम् सत्त्व-धाम्नो
ब्रह्मादयः वयम् इवेश न च उद्विजन्तः।
क्षेमाय भूत-यु उतात्म-सुखाय च अस्य
विक्रीडितं भगवतो रुचिर-आवतारैः ॥ १३ ॥

तद् यत् च मन्युम् असुरः च हतः त्वया अद्य
मोदेत् साधुर् अपि वृश्चिक-सर्प-हत्या।
लोकाः च निर्वृतिमिताः प्रतियन्ति सर्वे
रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥ १४ ॥

न अहं बिभे- म्यजित् तेऽतिभयानकास्य
जिह्वा-अर्क-नेत्र-भ्रुकुटी-रभसो-ग्र-दंष्ट्रात्।
आन्त्र-स्रजः क्षत-जकेशर-शङ्कु-कर्णा-
न्निर्ह्राद-भीत-दिगि-भा-दरि-भिन्न-खाग्रात् ॥ १५ ॥

त्रस्तोऽस्म्यहं कृपण-वात्सल दुःसह-ओग्र
संसार-चक्र-कदनाद् ग्रसतां प्रणीतः।
बद्धः स्व-कर्म-भिरु-शत्तम तेऽङ्घ्रि-मूलं
प्रीतोऽपवर्ग-शरणं ह्वयसे कदा नु ॥ १६ ॥

यस्मात् प्रिया-अप्रिय-वियोग-सयोग-जन्म
शोक-अग्निना सकल-योनिषु दह्यमानः।
दुःख-औषधं तद् अपि दुःखम् अतद्धि याहं
भूमन् भ्रमामि वद मे तव दास्य-योगम् ॥ १७ ॥

सोऽहं प्रिये सुहृदः पर-देव-ताया
लीला-कथा-स्तव नृसिंह विरिञ्च-गीताः।
अञ्जस्-तितर् म्यानु-गृणन् गुण-विप्र-मुक्तः
दुर्गाणि ते पदा-युग-ालय-हंस-सङ्गः ॥ १८ ॥

बालस्य नेह शरणं पितरौ नृसिंह
नार्तस्य च आगदम् उदन्वति मञ्जतः नौः।
तप्तस्य तत् प्रतिविधिः य इह आञ्ज-सेष्ट-
स्तावद् विभो तनु-भृतां त्वद् उपेक्षितानाम् ॥ १९ ॥

यस्मिन् यतः यर्हि येन च यस्य यस्माद्
यस्मै यथा यद् उत यस्त्व् अपरः परः वा।
भावः करोति विकरोति पृथक् स्व-भावः
सञ्चोदितः तद् अखिलं भवतः स्वरूपम् ॥ २० ॥

माया मनः सृजति कर्ममयं बलीयः
कालेन चोदित-गुणानुमतेन पुंसः।
छन्दो-मयं यद् जयार्पित-षोडशारम्
संसार-चक्रम अज कोऽतितरेत् त्वद् अन्यः ॥ २१ ॥

स त्वम् हि नित्य-विजित-आत्म-गुणः स्व-धाम्ना
कालः वशीकृत-विसृज्य-विसर्ग-शक्तिः।
चक्रे विसृष्टम् अजय-ईश्वर षोडश-ारे
निष्पीड्यमानम् उप-कर्ष विभो प्रपन्नम् ॥ २२ ॥

दृष्टा मया दिवि विभोऽखिल-धिष्ण्य-पाना
मायुः श्रियः विभवः इच्छति याञ्जनोऽयम्।
येऽस्मत् पितुः कुपित-हास-विजृम्भित-भ्रू
विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥ २३ ॥

तस्माद् अमूः त-नुभृताम् अहम् आशिषः ज्ञ
आयुः श्रियं विभवम् ऐन्द्रिय-मा विरिञ्च्यात्।
न इच्छामि ते विलुलितान् uru-विक्रम-एण
काल-आत्मन् उप-नय मां निज-भृत्य-पार्श्वम् ॥ २४ ॥

कुत्र आशिषः श्रुति-सुखा मृगतृष्णि-रूपाः
क्व एदं कलेवरम् अशेष-रुजां विरोहः।
निर्विद्यते न तु जनो यद् अपि इति विद्वान्
काम-आनलं मधुल-वैः शमयन् दुरापैः ॥ २५ ॥

क्व अहम् रजः-प्रभव ईश तमोऽधिकेऽस्मिन्
जातः सुरेतर-कुले क्व तव अनु-कम्पा।
न ब्रह्मणो न तु भवस्य न वै रमाया
यत् मेऽर्पितः शिरसि पद्म-करः प्रसादः ॥ २६ ॥

न एषा परा-वर्मतिर्भवतो ननु स्याज्
जन्तोः यथा आत्म-सुहृदो जगत् तथापि।
संसेवया सुर-तरोरिव ते प्रसादः
सेवा-अनुरूपम् उदयो न परा-वर्त्तम् ॥ २७ ॥

एवं जनम् निपतितम् प्रभ-वाहि-कूपे
काम-आभिकामम् अनु यः प्रपतन् प्रसङ्गात्।
कृत्वा आत्म-सात् सुरर्षि-णा भगवन् गृहीतः
सोऽहं कथम् नु विसृजे तव भृत्य-सेवाम् ॥ २८ ॥

मत् प्राण-रक्षणम् अनन्त पितुः वधः च
मन्ये स्व-भृत्य-ऋषि-वाक्य-अमृतं विधातुम्।
खड्गम् प्रगृह्य यद् अवोचद् असद्विधित्सु
त्वामीश्वरो मद् अपरोऽवतु कं हरामि ॥ २९ ॥

एकः त्वमेव जगद् एतं उष्य यत् त्वम्
आद्य-अन्तयोः पृथग्-वत्स्यसि मध्यतः च।
सृष्ट्वा गुण-व्यतिकरम् निज-आययेदं
नानेव तैः रवसित-तद् अनु-प्रविष्टः ॥ ३० ॥

त्वम् वा इदं स-तद्-ईश भवांस् ततः अन्यः
माया यद् आत्म-पर-बुद्धि-रियम् ह्यपार्था।
यद् यस्य जन्म-निधनं स्थिति-रीक्षणं च
तद् वै तदेव वसु-काल-वद् अष्टितर्वोः ॥ ३१ ॥

न्यस्येत् अद् आत्मनि जगत् विलय-आम्बु-मध्ये
शेषेऽऽत्मना निज-सुख-आनुभवो निरीहः।
योगेन मीलित-दृग्-आत्मनि पीत-निद्र
स्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥ ३२ ॥

तस्यैव ते वपुरिदं निज-काल-शक्त्या
सञ्चोदित-प्रकृति-धर्मण् आत्म-गूढम्।
अम्भस्य अनन्त-शयनात् विरमत् समाधे
नाभेरभूत् स्व-कणिका-वाटवन् महा-ब्जम् ॥ ३३ ॥

तत् सम्भवः कविरतः अन्यद् अपश्य-मान
त्वां बीजम् आत्मनि तत् स्व-बहिर्विचिन्त्य।
नाविन्दद् अब्द-शतम् अप्सु निमज्ज-मानो
जातेऽङ्कुरे कथम् उहो-अपलभेत् बीजम् ॥ ३४ ॥

स त्वा आत्म-योनि-रति-विस्मित आस्थितोऽब्जम्
कालेन तीव्र-तपसा परि-शुद्ध-भावः।
त्वाम् आत्म-नीश भुवि गन्धम् इव अति-सूक्ष्मम्
भूत-इन्द्रिय-आशय-मय विततं ददर्श ॥ ३५ ॥

एवं सहस्र-वदन-आङ्घ्रि-शिरः-कर-ओरु
नासाद्य कर्ण-नेत्र-भ्रू-कुटीर-भसोग्र-दंष्ट्रम्।
माया-मयं सद् उपलक्षित-सन्निवेशम्
दृष्ट्वा महापुरुषम् आप मुदं विरिञ्चः ॥ ३६ ॥

तस्मै भवन् हय-शिरस् तनुं हि बिभ्रद्
वेद-द्रुह-आवति-बलौ मधु-कैटभा-ख्यौ।
हत्वाऽऽनयच्छ्रुति-गणाँस्तु रजस् तमश्च
सत्त्वं तव प्रियतमां तनुम् आमनन्ति ॥ ३७ ॥

इत्थं नृतिर् यगृषि-देव-झषावतारैर्
लोकान् विभावयसि हंसि जगत् प्रतीपान्।
धर्मं महा-पुरुष पासि युगानु-वृत्तम्
छन्नः कलौ यत् अभवत् स्त्रि-युगोऽथ स त्वम् ॥ ३८ ॥

न एतन् मनस् तव कथासु विकुञ्ठ-नाथ
सम्प्रीयते दुरित-दुष्ट-मसाधु तीव्रम्।
काम-आतुरं हर्ष-शोक-भय-एषा नार्तम्
तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ ३९ ॥

जिह्वा एकतः अच्युत् विकर्षति मा अवितृप्ता
शिश्नोऽन्यतः त्वगुदरं श्रवणं कुतश्चित्।
घ्राणः अन्यतः च अपल-दृक् क्व च कर्म-शक्ति
र् बह्व्यः सपत्न्य इव गेह-पतिं लुनन्ति ॥ ४० ॥

एवं स्व-कर्म-पतितं भव-वैतरण्या-
मन्योन्य-जन्म-मरणा-शन-भीत-भीतम्।
पश्यन् जनं स्व-पर-विग्रह-वैर-मैत्रं
हन्तेति पार-चर पीपृहि मूढम् अद्य ॥ ४१ ॥

को न्वत्र तेऽखिल-गुरो भगवन् प्रयास
उत्तारणेऽस्य भव-संभव-लोप-हेतोः।
मूढेषु वै महद् अनुग्रह आर्त-बन्धो
किं तेन ते प्रिय-जनान् अनुसेवतां नः ॥ ४२ ॥

नैवोद्विजे पर दुरत्यय-वै-तरण्या-
त्वद् वीर्य-गायन महा-मृतम् अग्न-चित्तः।
शोचे ततः विमुख-चेतस इन्द्रिय-ार्थ-
माया-सुखाय भर-मुद्वहतो विमूढान् ॥ ४३ ॥

प्रायेण देव मुनयः स्व-विमुक्ति-कामा
मौनं चरन्ति विजने न परार्थ-निष्ठाः।
न एतान् विहाय कृपण-न्विमुमुक्ष एकः
नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ ४४ ॥

यत् मैथुनादि गृह-मेधि-सुखं हि तुच्छम्
कण्डूयनेन करयोः इव दुःख-दुःखम्।
तृप्यन्ति नेह कृपणा बहु-दुःख-भाजः
कण्डू-तिवन् मनसिजं विष-हेत धीरः ॥ ४५ ॥

मौन-व्रत-श्रुति-तपोऽध्ययन-स्व-धर्म
व्याख्या-रहो जप-समाधय आप-वर्ग्याः।
प्रायः परं पुरुष ते त्व-जितेन्द्रियाणां
वार्ता भवन्ति उत न वात्र तु दाम्भिकानाम् ॥ ४६ ॥

रूपे इमे स-आदती तव वेद-सृष्टे
बीज-अंकुराविव न च अन्य-रूपकस्य।
युक्ताः समक्षम्ubhयत्र विचिन्वते त्वां
योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ ४७ ॥

त्वम् वायु-रग्नि-रवनिर्वियद् अम्बु-मात्राः
प्राणेन्द्रियाणि हृदयं चिद् अनुग्रहश्च।
सर्वं त्वमेव सगुणो विगुणश्च भूमन्
नान्यत् त्वदस्त्यपि मनो-वचसा निरुक्तम् ॥ ४८ ॥

न एते गुणाः न गुणिनो महद् आदयः ये
सर्वे मनः प्रभृतयः सहदेव-मर्त्याः।
आद्यन्त-वन्त उरुगाय विदन्ति हि त्वाम्
एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ ४९ ॥

तत् तेऽर्हत्तम नमः स्तुति-कर्म-पूजाः
कर्म स्मृति-श्चरणयोः श्रवणं कथायाम्।
संसेवया त्वयि विनेति षडङ्गया किं
भक्तिं जनः परमहंस-गतौ लभेत ॥ ५० ॥

श्रीनारद उवाच
एतावद् वर्णित-गुणो भक्त्या भक्तेन निर्गुणः।
प्रह्रादं प्रणतं प्रीतो यत् अमन्युर अभाषत् ॥ ५१ ॥

श्रीभगवान् उवाच
प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥ ५२ ॥

माम् अप्रीणत् आयुष्मन्-दर्शनं दुर्लभं हि मे।
दृष्ट्वा मां न पुनर्जन्तु आत्मानं तप्तुमर्हति ॥ ५३ ॥

प्रीणन्ति ह्यथ मां धीराः सर्व-भावेन साधवः।
श्रेयस्-कामा महा-भाग सर्वासाम् आशिषां पतिम् ॥ ५४ ॥

एवं प्रलोभ्यमानोऽपि वरैः लोक-प्रलोभनैः।
एकान्तित्वाद् भगवति नैच्छत् तान् असुरोत्तमः ॥ ५५ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे प्रह्लाद-चरिते भगवत्त-स्तवो नाम
नवमः अध्यायः ॥ ९ ॥

ஸ்கந்தம் 7: அத்யாயம் 8 (நரசிம்மர் - ஹிரண்யகசிபு மரணம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

நரசிம்மர் - ஹிரண்யகசிபு மரணம்

ஸ்கந்தம் 7: அத்யாயம் 8

 

श्रीनारद उवाच –

अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम्।
जगृहुर्निरवद्यत्वान्नैव गुरु-नुशिक्षितम् ॥ १ ॥

अथाचार्यसुतस्तेषां बुद्धि-एकान्त-स्थिताम्।
आलक्ष्य भीतस्त्वरितो राज्ञा आवेदयद् यथा ॥ २ ॥

श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम्।
कोपावेश-चलद्गात्रः पुत्रं हन्तुं मनो दधे ॥ ३ ॥

क्षिप्त्वा परुषया वाचा प्रह्लाद-मतदर्हणम्।
आहेक्ष-माणः पापेन तिरश्चीनेन चक्षुषा ॥ ४ ॥

प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम्।
सर्पः पदाहत इव श्वसन् प्रकृति-दारुणः ॥ ५ ॥

हे दुर्विनीत मन्दात्मन् कुलभेद-कराधम।
स्तब्धं मच्छासन-उद्धूतं नेष्ये त्वाद्य यमक्षयम् ॥ ६ ॥

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः।
तस्य मेऽभीतवन्मूढ शासनं किम्बलोऽत्यगाः ॥ ७ ॥

श्रीप्रह्लाद उवाच –

न केवलं मे भवतश्च राजन्
स वै बलं बलिनां चापरेषाम्।
परेऽवरेऽमी स्थिर-जङ्गमा ये
ब्रह्मादयो येन वशं प्रणीताः ॥ ८ ॥

स ईश्वरः काल-उरु-क्रमोऽसावोजः सहः सत्त्व-बलेन्द्रियात्मा।
स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुण-त्रयेः ॥ ९ ॥

जह्यासुरं भावमिमं त्वमात्मनः
समं मनो धत्स्व न सन्ति विद्विषः।
ऋतेऽजितादात्मन उत्पथ-स्थितात्
तद्धि ह्यनन्तस्य महत् समर्हणम् ॥ १० ॥

दस्यून् पुरा षण्ण विजित्य लुम्पतो
मन्यन्त एके स्वजिता दिशो दश।
जितात्मनो ज्ञस्य समस्या देहिनां
साधोः स्व-मोह-प्रभवाः कुतः परे ॥ ११ ॥

श्रीहिरण्यकशिपुरुवाच –

व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे।
मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिरः ॥ १२ ॥

यस्त्वया मन्द-भाग्योक्तो मदन्यो जगदीश्वरः।
क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते ॥ १३ ॥

सोऽहं विकत्थ-मानस्य शिरः कायाद्धरामि ते।
गोपायेत हरिस्त्वाद्य यस्ते शरण-मीप्सितम् ॥ १४ ॥

एवं दुरुक्तैर्मुहुरर्दयन् रुषा
सुतं महाभागवतं महासुरः।
खड्गं प्रगृह्योत्पतितो वरासनात्
स्तम्भं तताडातिबलः स्वमुष्टिना ॥ १५ ॥

तदैव तस्मिन् निनदोऽतिभीषणो
बभूव येनाण्ड-कटाहमस्फुटत्।
यं वै स्वधिष्ण्यो-प्रगतं त्वजादयः
श्रुत्वा स्वधामात्ययमङ्ग मेनिरे ॥ १६ ॥

स विक्रमन् पुत्रवधे-इप्सुरोजसा
निशम्य निर्ह्रादमपूर्वमद्भुतम्।
अन्तःसभायां न ददर्श तत्पदं
वितत्र-सुर्येन सुर-आर्य-यूथपाः ॥ १७ ॥

सत्यं विधातुं निजभृत्य-भाषितं
व्याप्तिं च भूतेष्वखिलेषु चात्मनः।
अदृश्य-तात्यद्भुत-रूपमुद्वहन्
स्तम्भे सभायां न मृगं न मानुषम् ॥ १८ ॥

स सत्त्वमेनं परितोऽपि पश्यन्
स्तम्भस्य मध्यादनु निर्जिहानम्।
नायं मृगो नापि नरो विचित्र
महो किमेतन्नृ-मृगेन्द्ररूपम् ॥ १९ ॥

मीमांसमानस्य समुत्थितोऽग्रतः
नृसिंहरूपस्तदलं भयानकम्।
प्रतप्त-चामीकर-चण्डलोचनं
स्फुरत् सटाकेसर-जृम्भिताननम् ॥ २० ॥

श्रीनारद उवाच –

कराल-दंष्ट्रं करवाल-चञ्चल-
क्षुरान्त-जिह्वं भ्रुकुटी-मुखोल्बणम्।
स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत-
व्यात्तास्य नासं हनुभेद-भीषणम् ॥ २१ ॥

दिवि-स्पृशत्कायं दीर्घ-पीवर-
ग्रीवो-रु-वक्षःस्थलमल्प-मध्यमम्।
चन्द्रांशु-गौरैः छुरितं तनू-रुहैः-
विष्व-ग्भुजानीकशतं नखायुधम् ॥ २२ ॥

दुरासदं सर्व-निजेतरायुध
प्रवेक-विद्रावित-दैत्य-दानवम्।
प्रायेण मेऽयं हरिणो-रुमायिना
वधः स्मृतोऽनेन समुद्यतेन किम् ॥ २३ ॥

एवं ब्रुवंस्त्वभ्यपतद् गदायुधो
नदन् नृसिंहं प्रति दैत्यकुञ्जरः।
अलक्षितोऽग्नौ पतितः पतङ्गमो
यथा नृसिंहौजसि सोऽसुरस्तदा ॥ २४ ॥

न तद् विचित्रं खलु सत्त्व-धामनि
स्वतेजसा यो नु पुरा पिबत् तमः।
ततोऽभिपद्याभ्यहनन्महासुरो
रुषा नृसिंहं गदयोरुवेगया ॥ २५ ॥

तं विक्रमन्तं सगदं गदाधरो
महोरगं तार्क्ष्यसुतो यथाग्रहीत्।
स तस्य हस्तोत्कलितस्तदासुरो
विक्रीडतो यद्वदहिर्गरुत्मतः ॥ २६ ॥

असाध्व-मन्यन्त हृतौकसोऽमरा
घनच्छदा भारत सर्वधिष्ण्यपाः।
तं मन्यमानो निजवीर्य-शङ्कितं
यद्धस्तमुक्तो नृहरिं महासुरः।
पुनस्तमासज्जत खड्ग-चर्मणी
प्रगृह्य वेगेन जित-श्रमो मृधे ॥ २७ ॥

तं श्येन-वेगं शत-चन्द्रवर्त्मभि-
श्चरन्तमच्छिद्रमुपर्यधो हरिः।
कृत्वाट्ट-हासं खरमुत्स्व-नोल्बणं
निमीलिताक्षं जगृहे महाजवः ॥ २८ ॥

विष्वक् स्फुरन्तं ग्रहणातुरं हरि-
र्व्यालो यथाऽऽखुं कुलिशाक्ष-तत्वचम्।
द्वार्यूर आपत्य ददार लीला-या
नखैर्यथाहिं गरुडो महाविषम् ॥ २९ ॥

संरम्भ-दुष्प्रेक्ष्य-कराल-लोचनो
व्यात्ताननान्तं विलिहन् स्वजिह्वया।
असृग्ल-वाक्तारुण-केशराननो
यथान्त्रमाली द्विपहत्यया हरिः ॥ ३० ॥

नखाङ्कुरोत्पाटित हृत्सर-रुहं
विसृज्य तस्यानुचरानुदायुधान्।
अहन् समस्तान् नख-शस्त्र-पार्ष्णिभि-
र्दोर्दण्ड-यूथोऽनुपथान् सहस्रशः ॥ ३१ ॥

सटावधूता जलदाः परापतन्
ग्रहाश्च तद्दृष्टि-विमुष्ट-रोचिषः।
अम्भोधयः श्वास-हता विचुक्षुभु-
र्निर्ह्राद-भीता दिगिभा विचुक्रुशुः ॥ ३२ ॥

द्यौस्तत् सट-उत्क्षिप्त-विमान-सङ्कुला
प्रोत्सर्पत क्ष्मा च पदाभि-पीडिता।
शैलाः समुत्पेतुर अमुष्य रंहसा
तत्तेजसा खं ककुभो न रेजिरे ॥ ३३ ॥

ततः सभायामुपविष्टम् उत्तमे
नृपासने सम्भृत-तेजसम् विभुम्।
अलक्षित-द्वैरथमत्यमर्षणं
प्रचण्ड-वक्त्रं न बभाज कश्चन ॥ ३४ ॥

निशाम्य लोकत्रयम् अस्तक-ज्वरं
तमादिदैत्यं हरिणा हतं मृधे।
प्रहर्ष-वेगो-उत्कलित-आनना मुहुः
प्रसून-वर्षैर्ववृषुः सुरस्त्रियः ॥ ३५ ॥

तदा विमान-आवलिभिः नभ-स्तलं
दिदृक्षतां सङ्कुलमास नाकिनाम्।
सुरान्का दुन्दुभयोऽथ जघ्निरे
गन्धर्व-मुख्या ननृतुर्जगुः स्त्रियः ॥ ३६ ॥

तत्रोपव्रज्य विबुधा ब्रह्मेन्द्र-गिरिशादयः।
ऋषयः पितरः सिद्धा विद्याधर-महोरगाः ॥ ३७ ॥

मनवः प्रजानां पतयो गन्धर्व-अप्सर-चारणाः।
यक्षाः किम्पुरुषास्तात् वेतालाः सह-किन्नराः ॥ ३८ ॥

ते विष्णु-पार्षदाः सर्वे सुनन्द-कुमुदादयः।
मूर्ध्नि बद्धाञ्जलि-पुटा आसीनं तीव्र-तेजसम्।
ईडिरे नर-शार्दूलं नाति-दूर-चराः पृथक् ॥ ३९ ॥

श्रीब्रह्मोवाच –

नतोऽस्म्य अनन्ताय दुरन्त-शक्तये
विचित्र-वीर्याय पवित्र-कर्मणे।
विश्वस्य सर्ग-स्थिति-संयमान् गुणैः
स्व-लीलया सन्दधतेऽव्ययात्मने ॥ ४० ॥

श्री-रुद्र उवाच
कोप-कालः युगान्तः ते हतः अयम् असुरः अल्पकः।
तत्-सुतं पाह्य् उपसृतं भक्तं ते भक्त-वात्सल ॥ ४१ ॥

श्री-इन्द्र उवाच
प्रत्यानीताः परम भवता त्रायता नः स्व-भागाः
दैत्य-आक्रान्तं हृदय-कमलं तत्-गृहं प्रत्यबोधि।
काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते
मुक्ति-तेषां न हि बहु-मता नारसिंह-अपरेषु किम् ॥ ४२ ॥

श्री-ऋषय ऊचुः
त्वं नः तपः परम-मैथ यत् आत्म-तेजः
येन इदम् आदि-पुरुष-आत्म-गतं ससर्ज।
तत् विप्र-लुप्तम् अमुनाद्य शरण्य-पाल
रक्षा-गृहीत-वपुषा पुनर् अन्वमंस्थाः ॥ ४३ ॥

श्री-पितर ऊचुः
श्राद्धानि नः अधि-बुभुजे प्रसभं तनू-जैः
दत्तानि तीर्थ-समये अपि अपिबत् तिल-आम्बु।
तस्य उदरान् नख-विदीर्ण-वपाद् य आर्च्छत्
तस्मै नमो नृहरये अखिल-धर्म-गोप्त्रे ॥ ४४ ॥

श्री-सिद्धा ऊचुः
यो नः गतिं योग-सिद्धा- अमसाधुर्
आर्ह-षीद् योग-तपो-बलेन।
नाना-दर्पं तं नखैः निददार
तस्मै तुभ्यं प्रणतः स्मः नृसिंह ॥ ४५ ॥

श्री-विद्याधरा ऊचुः
विद्यां पृथक्-धारण-यानुराद्धां
न्यषेधद् ज्ञो बल-वीर्य-दृप्तः।
स येन सङ्ख्ये पशु-वद्धत तं
माया-नृसिंहं प्रणतः स्म नित्यम् ॥ ४६ ॥

श्री-नागा ऊचुः
येन पापेन रत्नानि स्त्री-रत्नानि हृतानि नः।
तद्-वक्षः-पाटनेन आसां दत्तानन्द नमोऽस्तु ते ॥ ४७ ॥

श्री-मनव ऊचुः
मनवो वयम् तव निर्देश-कारिणो
दितिजेन देव परिभूत-सेतवः।
भवता खलः स उप-संहृतः प्रभो
करवाम् ते किम् अनुशाधि किं्करान् ॥ ४८ ॥

श्री-प्रजापतय ऊचुः
प्रजेषा वयम् ते परेश-आभि-सृष्टाः
न येन प्रजा वै सृजामो निषिद्धाः।
स एष त्वया भिन्न-वक्षा नु शेते
जगत्-मङ्गलं सत्त्व-मूर्तेऽवतारः ॥ ४९ ॥

श्री-गन्धर्वा ऊचुः
वयम् विभो ते नटनाट्य-गायका
येन आत्म-साद् वीर्य-बल-उजसा कृताः।
स एष नीतो भवता दशा-इमां
किम् उत्पथस्थः कुशलाय कल्पते ॥ ५० ॥

श्री-चारणा ऊचुः
हरे तवाङ्घ्रि-पङ्कजं भव-अपवर्गम् आश्रिताः।
यदेष साधु-हृच्छयः त्वया असुरः समापितः ॥ ५१ ॥

श्री-यक्षा ऊचुः
वयम् अनुचर-मुख्याः कर्म-भि-स्ते मनोज्ञैः
स्त इह दिति-सुतेन प्रापिता वाहकत्वम्।
स तु जन-परितापं तत् कृतं जानता ते
नर-हर उपनीतः पञ्चतां पञ्च-विंशतिः ॥ ५२ ॥

श्री-किम्पुरुषा ऊचुः
वयम् किम्पुरुषाः त्वं तु महा-पुरुष ईश्वरः।
अयम् कुपुरुषः नष्टो धिक्-कृतः साधुभिर् यदा ॥ ५३ ॥

श्री-वैतालिका ऊचुः
सभासु सत्रेषु तव अमलं यशो
गीत्वा सपर्यां महतीं लभामहे।
यस्तां व्यनैषीद् भृशम् एष दुर्जनः
द्विष्ट्या हतः ते भगवन्यथाऽऽमयः ॥ ५४ ॥

श्री-किन्नरा ऊचुः
वयम् ईश किन्नर-गणाः तव अनुगा
दितिजेन विष्टिम् अमुनानु कारिताः।
भवता हरे स वृजिनोऽवसादितो
नर-सिंह नाथ विभवाय नः भव ॥ ५५ ॥

श्री-विश्णु- पार्षदा ऊचुः
अद्य एतत् धरि-नर-रूपम् अद्भुतं ते
दृष्टं नः शरण-द् सर्व-लोक-शर्म।
सोऽयं ते विधिकर ईश विप्र-शप्तः
तस्य एतं निधनम् अनुग्रहाय विद्मः ॥ ५६ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
सप्तम-स्कन्धे प्रह्लादानुचरिते दैत्य-राजवधे नृसिंह-स्तवो
नामाष्टमोऽध्यायः ॥ ८ ॥