Followers

Search Here...

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 17 (அதிதிக்கு மகனாக பிறக்க சம்மதித்தார் வாசுதேவர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அதிதிக்கு மகனாக பிறக்க சம்மதித்தார் வாசுதேவர்

ஸ்கந்தம் 8: அத்யாயம் 17

श्रीशुकः उवाच —
इति उक्ता सा अदितिः राजन् स्व-भर्त्रा कश्यपेन वै।
अन्वतिष्ठत् व्रतम् इदम् द्वादश-अहम् अतन्द्रिता॥ 1

चिन्तयन्ती एका-या बुद्ध्या महा-पुरुषम् ईश्वरम्।
प्रगृह्य इन्द्रिय-दुष्ट-अश्वान् मनसा बुद्धि-सारथिः॥ 2

मनः च एकाग्रया बुद्ध्या भगवति अखिल-आत्मनि।
वासुदेवे समाधाय चचार ह पयो-व्रतम्॥ 3

तस्याः प्रादुरभूत् तात भगवन् आदि-पुरुषः।
पीत-वासाः चतुर्-बाहुः शङ्ख-चक्र-गदा-धरः॥ 4

तम् नेत्र-गोचरम् वीक्ष्य सहसा उत्थाय स-आदरम्।
ननाम भुवि कायेन दण्डवत् प्रीति-विह्वला॥ 5

सा उत्थाय बद्ध-अञ्जलिः ईडितुम् स्थिता
न उत्सेह आनन्द-जल-आकुल-ईक्षणा।
बभूव तूष्णीम् पुलक-आकुल-आकृतिः
तत्-दर्शन-अत्युत्सव-गात्र-वेपथुः॥ 6

प्रीत्या शनैः गद्‍गदया गिरा हरिम्
तुष्टाव सा देवी अदितिः कुरु-उद्वह।
उद्वीक्षती सा पिबती-इव चक्षुषा
रमा-पतिम् यज्ञ-पतिम् जगत्-पतिम्॥ 7

अदितिः उवाच —
यज्ञ-ईश यज्ञ-पुरुष अच्युत तीर्थ-पाद
तीर्थ-श्रवः श्रवण-मङ्गल-नाम-धेय।
आपन्न-लोक-वृजिन-उपशम-उदय-आद्य
शम् नः कुरु ईश भगवन् असि दीन-नाथः॥ 8

विश्वाय विश्व-भवन-स्थिति-संयमाय
स्वैरम् गृहीत-पुरु-शक्ति-गुणाय भूम्ने।
स्वस्थाय शश्वत् उपबृंहित-पूर्ण-बोध
व्यापादित-आत्म-तमसे हरये नमः ते॥ 9

आयुः परम् वपुः अभीष्टम् अतुल्य-लक्ष्मीः
द्यौ-भूः रसाः सकल-योग-गुणाः त्रि-वर्गः।
ज्ञानम् च केवलम् अनन्त भवन्ति तुष्टात्
त्वत्तः नृणाम् किम् उ सपत्‍न-जय-आदि-राशिः॥ 10

श्रीशुकः उवाच —
अदित्या एवम् स्तुतः राजन् भगवान् पुष्कर-ईक्षणः।
क्षेत्रज्ञः सर्व-भूतानाम् इति ह उवाच भारत॥ 11

श्रीभगवान् उवाच —
देव-मातर् भवत्या मे विज्ञातम् चिर-काङ्क्षितम्।
यत् सपत्‍नैः हृत-श्रीणाम् च्यावितानाम् स्व-धामतः॥ 12

तान् विनिर्जित्य समरे दुर्मदान् असुर-अर्षभान्।
प्रतिलब्ध-जय-श्रीभिः पुत्रैः इच्छसि उपासितुम्॥ 13

इन्द्र- ज्येष्ठैः स्व-तनयैः हतानाम् युधि विद्विषाम्।
स्त्रियः रुदन्तीः आसाद्य द्रष्टुम् इच्छसि दुःखिताः॥ 14

आत्मजान् सुसमृद्धान् त्वम् प्रत्याहृत-यशः-श्रियः।
नाक-पृष्ठम् अधिष्ठाय क्रीडतः द्रष्टुम् इच्छसि॥ 15

प्रायः अधुना ते असुर-यूथ-नाथाः
अपारणीयाः इति देवि मे मतिः।
यत् ते अनुकूल-ईश्वर-विप्र-गुप्ताः
न विक्रमः तत्र सुखम् ददाति॥ 16

अथ अपि उपायः मम देवि चिन्त्यः
सन्तोषितस्य व्रत-चर्यया ते।
मम अर्चनम् न अर्हति गन्तुम् अन्यथा
श्रद्धा-अनुरूपम् फल-हेतुक-त्वात्॥ 17

त्वया अर्चितः च अहम् अपत्य-गुप्तये
पयः-व्रतेन अनुरुणम् समीडितः।
स्व-अंशेन पुत्र-त्वम् उपेत्य ते सुतान्
गोप्ता अस्मि मारीच-तपस्य-अधिष्ठितः॥ 18

उपधाव पतिम् भद्रे प्रजापतिम् अकल्मषम्।
माम् च भावयती पत्यौ एवं-रूपम् अवस्थितम्॥ 19

न एतत् परस्मै आख्येयम् पृष्टया अपि कथञ्चन।
सर्वम् सम्पद्यते देवि देव-गुह्यम् सु-संवृतम्॥ 20

श्रीशुक उवाच -
एतावत् उक्त्वा भगवाञ् तत् एव अन्तरधीयत।
अदितिः दुर्लभं लब्ध्वा हरेः जन्म आत्मनि प्रभोः॥ 21

उपाधावत् पतिं भक्त्या परया कृतकृत्यवत्।
सः वै समाधि-योगेन कश्यपः तत् अबुध्यत॥ 22

प्रविष्टम् आत्मनि हरेः अंशं हि अवितथ-ईक्षणः।
सः अदित्याम् वीर्यम् आधत्त तपसा चिर-सम्भृतम्।
समाहित-मनाः राजन् दारुण्य-अग्निम् यथा अनिलः॥ 23

अदितेः अधिष्ठितम् गर्भं भगवन्तम् सनातनम्।
हिरण्यगर्भः विज्ञाय समीडे गुह्य-नामभिः॥ 24

श्रीब्रह्मा उवाच -
जयो उरुगाय भगवन् उरुक्रम नमः अस्तु ते।
नमः ब्रह्मण्य-देवाय त्रिगुणाय नमः नमः॥ 25

नमः ते पृश्नि-गर्भाय वेद-गर्भाय वेधसे।
त्रि-नाभाय त्रि-पृष्ठाय शिपिविष्टाय विष्णवे॥ 26

त्वम् आदिः अन्तः भुवनस्य मध्ये।
अनन्त-शक्तिं पुरुषं यम् आहुः।
कालः भवान् आक्षिपति ईश विश्वम्
स्रोतः यथा अन्तः पतितं गभीरम्॥ 27

त्वम् वै प्रजानां स्थिर-जङ्गमानां
प्रजापतीनाम् असि सम्भविष्णुः।
दिवौकसां देव दिवः च्युतानां
परायणम् नौः इव मज्जतः अप्सु॥ 28

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः ॥ 17 ॥

ஸ்கந்தம் 8: அத்யாயம் 16 (அதிதி வாசுதேவரை பிரார்த்திக்கிறாள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அதிதி வாசுதேவரை பிரார்த்திக்கிறாள்

ஸ்கந்தம் 8: அத்யாயம் 16

श्रीशुक उवाच
एवम् पुत्रेषु नष्टेषु देव-मताः अदितिḥ तदा।
हृते त्रि-विष्टपे दैत्यैः पर्यतप्यत अनाथवत् ॥ १ ॥

एकदा कश्यपः तस्याः आश्रमम् भगवन् अगात्।
निरुत्सवम् निरानन्दम् समाधेः विरतः चिरात् ॥ २ ॥

सः पत्नीम् दीन-वदनाम् कृत-आसन-परिग्रहः।
सभाजितः यथा-न्यायम् इदम् आह कुरु-उद्वह ॥ ३ ॥

अपि अभद्रम् न विप्राणाम् भद्रे लोके अधुना आगतम्।
न धर्मस्य न लोकस्य मृत्युः छन्द-अनुवर्तिनः ॥ ४ ॥

अपि वा अकुशलम् किञ्चित् गृहेषु गृह-मेधिनि।
धर्मस्य अर्थस्य कामस्य यत्र योगः हि अयोगिनाम् ॥ ५ ॥

अपि वा अतिथयः अभ्येत्य कुटुम्ब-आसक्तया त्वया।
गृहात् अपूजिताः याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥

गृहेषु येषु अतिथयः न अर्चिताः सलिलैः अपि।
यदि निर्यान्ति ते नूनम् फेरुः राज-गृह-उपमाः ॥ ७ ॥

अपि अग्नयः तु वेलायाम् न हुताः हविषा सति।
त्वया उद्विग्न-धिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥

यत्-पूजया काम-दुघान् याति लोकान् गृहान्वितः।
ब्राह्मणः अग्निः च वै विष्णोः सर्व-देव-आत्मनः मुखम् ॥ ९ ॥

अपि सर्वे कुशलिनः तव पुत्राः मनस्विनि।
लक्षये अस्वस्थम् आत्मानम् भवत्याः लक्षणैः अहम् ॥ १० ॥

अदितिः उवाच
भद्रम् द्विज-गवाम् ब्रह्मन् धर्मस्य अस्य जनस्य च।
त्रि-वर्गस्य परम् क्षेत्रम् गृह-मेधिनाम् गृहाः इमे ॥ ११ ॥

अग्नयः अतिथयः भृत्याः भिक्षवः ये च लिप्सवः।
सर्वम् भगवतः ब्रह्मन् अनु-ध्यानात् न रिष्यति ॥ १२ ॥

कः नु मे भगवन् कामः न सम्पद्येत मानसः।
यस्याः भवान् प्रजा-अध्यक्षः एवम् धर्मान् प्रभाषते ॥ १३ ॥

तव एव मारीच मनः-शरीर-जाताः
प्रजाः इमाः सत्त्व-रजः-तमः-जुषः।
समः भवाम् तासु असुर-आदिषु प्रभो
तथापि भक्तम् भजते महा-ईश्वरः ॥ १४ ॥

तस्मात् ईश भजन्त्या मे श्रेयः चिन्तय सुव्रत।
हृत-श्रियः हृत-स्थानान् सपत्‍नैः पाहि नः प्रभो ॥ १५ ॥

परैः विवासिता सा अहम् मग्ना व्यसन-सागरे।
ऐश्वर्यम् श्रीः यशः स्थानम् हृतानि प्रबलैः मम ॥ १६ ॥

यथा तानि पुनः साधो प्रपद्येरन् मम आत्मजाः।
तथा विधेहि कल्याणम् धिया कल्याण-कृत्-तम ॥ १७ ॥

श्रीशुक उवाच
एवम् अभ्यर्थितः अदित्या कः ताम् आह स्मयन् इव।
अहो माया-बलम् विष्णोः स्नेह-बद्धम् इदम् जगत् ॥ १८ ॥

क्व देहः भौतिकः अनात्मा क्व च आत्मा प्रकृतेः परः।
कस्य के पति-पुत्र-आद्याः मोहः एव हि कारणम् ॥ १९ ॥

उपतिष्ठस्व पुरुषम् भगवन्तम् जनार्दनम्।
सर्व-भूत-गुहा-वासम् वासुदेवम् जगत्-गुरुम् ॥ २० ॥

सः विधास्यति ते कामान् हरिः दीन-अनुकंपनः।
अमोघा भगवत्-भक्तिः न इतरे इति मतिः मम ॥ २१ ॥

अदितिः ऊवाच —
केन अहम् विधिना ब्रह्मन् उपस्थास्ये जगत्-पतिम्।
यथा मे सत्य-सङ्कल्पः विदध्यात् सः मनोरथम् ॥ २२ ॥

आदिश त्वम् द्विज-श्रेष्ठ विधिम् तत् उपधावनम्।
आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ २३ ॥

कश्यपः ऊवाच —
एतत् मे भगवाञ् पृष्टः प्रजा-कामस्य पद्मजः।
यत् आह ते प्रवक्ष्यामि व्रतम् केशव-तोषणम् ॥ २४ ॥

फाल्गुनस्य अमले पक्षे द्वादश-अहम् पयः-व्रतम्।
अर्चयेत् अरविन्द-आक्षम् भक्त्या परमया अन्वितः ॥ २५ ॥

सिनीवाल्याम् मृदा आलिप्य स्नायात् क्रोड-विदीर्णया।
यदि लभ्येत वै स्रोतसि एतम् मन्त्रम् उदीरयेत् ॥ २६ ॥

त्वम् देवि आदि-वराहेण रसायाः स्थानम् इच्छता।
उद्धृताः असि नमः तुभ्यम् पाप्मानम् मे प्रणाशय ॥ २७ ॥

निर्वर्तित-आत्म-नियमः देवम् अर्चेत् समाहितः।
अर्चायाम् स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥

नमः तुभ्यम् भगवते पुरुषाय महीयसे।
सर्व-भूत-निवासाय वासुदेवाय साक्षिणे ॥ २९ ॥

नमः अव्यक्ताय सूक्ष्माय प्रधान-पुरुषाय च।
चतुर्विंशत्-गुण-ज्ञाय गुण-संख्यान-हेतवे ॥ ३० ॥

नमः द्वि-शीर्ष्णे त्रि-पदे चतुः-श्रृङ्गाय तन्तवे।
सप्त-हस्ताय यज्ञाय त्रयी-विद्या-आत्मने नमः ॥ ३१ ॥

नमः शिवाय रुद्राय नमः शक्ति-धराय च।
सर्व-विद्या-अधिपतये भूतानाम् पतये नमः ॥ ३२ ॥

नमः हिरण्य-गर्भाय प्राणाय जगत्-आत्मने।
योग-ऐश्वर्य-शरीराय नमः ते योग-हेतवे ॥ ३३ ॥

नमः ते आदि-देवाय साक्षि-भूताय ते नमः।
नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥

नमः मरकत-श्याम-वपुषे अधिगत-श्रिये।
केशवाय नमः तुभ्यम् नमः ते पीत-वाससे ॥ ३५ ॥

त्वम् सर्व-वरदः पुंसाम् वरेण्य वरद-ऋषभ।
अतः ते श्रेयसे धीराः पाद-रेणुम् उपासते ॥ ३६ ॥

अन्ववर्तन्त यम् देवाः श्रीः च तत् पाद-पद्मयोः।
स्पृहयन्ति इव आमोदम् भगवान् मे प्रसीदताम् ॥ ३७ ॥

एतैः मन्त्रैः हृषी-केशम् आवाहन-पुरस्कृतम्।
अर्चयेत् श्रद्धया युक्तः पाद्य-उपस्पर्शन-आदिभिः ॥ ३८ ॥

अर्चित्वा गन्ध-माल्य-आद्यैः पयसा स्नपयेत् विभुम्।
वस्त्र-उपवीत-आभरण-पाद्य-उपस्पर्शनैः ततः।
गन्ध-धूप-आदिभिः च अर्चेत् द्वादश-अक्षर-विद्यया ॥ ३९ ॥

श्रृतम् पयसि नैवेद्यम् शालि-अन्नम् विभवे सति।
स-सर्पिः स-गुडम् दत्त्वा जुहुयात् मूल-विद्यया ॥ ४० ॥

निवेदितं तत् भक्ताय दद्यात् भुञ्जीत वा स्वयम्।
दत्त्वा आचमनम् अर्चित्वा ताम्बूलं च निवेदयेत्॥ 41

जपेत् अष्ट-उत्तर-शतम् स्तुवीत स्तुतिभिः प्रभुम्।
कृत्वा प्रदक्षिणम् भूमौ प्रणमेत् दण्डवत् मुदा॥ 42

कृत्वा शिरसि तत्-शेषाम् देवम् उद्वासयेत् ततः।
द्वि-अवरान् भोजयेत् विप्रान् पायसेन यथा उचितम्॥ 43

भुञ्जीत तैः अनुज्ञातः शेषम् स-इष्टः सभाजितैः।
ब्रह्मचार्य अथ तद्-रात्र्याम् श्वः-भूते प्रथमे अहनि॥ 44

स्नातः शुचिः यथोक्तेन विधिना सुसमाहितः।
पयसा स्नापयित्वा अर्चेत् यावत् व्रत-समापनम्॥ 45

पयः-भक्षः व्रतम् इदम् चरेत् विष्णु-अर्चन-आदृतः।
पूर्ववत् जुहुयात् अग्निम् ब्राह्मणान् च अपि भोजयेत्॥ 46

एवम् तु अहः-अहः कुर्यात् द्वादश-अहम् पयः-व्रतम्।
हरेः आराधनम् होमम् अर्हणम् द्विज-तर्पणम्॥ 47

प्रतिपत्-दिनम् आरभ्य यावत् शुक्ल-त्रयोदशी।
ब्रह्मचर्यम् अधः-स्वप्नम् स्नानम् त्रि-शवणम् चरेत्॥ 48

वर्जयेत् असत्-आलापम् भोगान् उच्च-अवचान् तथा।
अहिंस्रः सर्व-भूतानाम् वासुदेव-परायणः॥ 49

त्रयोदश्याम् अथ विष्णोः स्नपनम् पञ्चकैः विभोः।
कारयेत् शास्त्र-दृष्टेन विधिना विधि-कोविदैः॥ 50

पूजाम् च महतीम् कुर्यात् वित्त-शाठ्य-विवर्जितः।
चरुम् निरूप्य पयसि शिपिविष्टाय विष्णवे॥ 51

श्रुतेन तेन पुरुषम् यजेत सुसमाहितः।
नैवेद्यम् च अति-गुणवत् दद्यात् पुरुष-तुष्टि-दम्॥ 52

आचार्यम् ज्ञान-सम्पन्नम् वस्त्र-अभरण-धेनुभिः।
तोषयेत् ऋत्विजः च एव तत् विद्धि आराधनम् हरेः॥ 53

भोजयेत् तान् गुणवता स-उदन्नेन शुचि-स्मिते।
अन्यान् च ब्राह्मणान् शक्यया ये च तत्र समागताः॥ 54

दक्षिणाम् गुरवे दद्यात् ऋत्विग्भ्यः च यथार्हतः।
अन्न-आद्येन अश्वपाकान् च प्रीणयेत् समुपागतान्॥ 55

भुक्तवत्सु च सर्वेषु दीन-अन्ध-कृपण-आदिषु च।
विष्णोः तत् प्रीणनम् विद्वान् भुञ्जीत सह बन्धुभिः॥ 56

नृत्य-वादित्र-गीतैः च स्तुतिभिः स्वस्ति-वाचकैः।
कारयेत् तत्-कथाभिः च पूजाम् भगवतः अन्वहम्॥ 57

एतत् पयः-व्रतम् नाम पुरुष-आराधनम् परम्।
पितामहेन अभिहितम् मया ते समुदाहृतम्॥ 58

त्वम् च अनेन महा-भागे सम्यक् चीर्णेन केशवम्।
आत्मना शुद्ध-भावेन नियत-आत्मा भज अव्ययम्॥ 59

अयम् वै सर्व-यज्ञ-आख्यः सर्व-व्रतम् इति स्मृतम्।
तपः-सारम् इदम् भद्रे दानम् च ईश्वर-तर्पणम्॥ 60

त एव नियमाः साक्षात् त एव च यम-उत्तमाः।
तपः दानम् व्रतम् यज्ञः येन तुष्यति अधः-क्षजः॥ 61

तस्मात् एतत्-व्रतम् भद्रे प्रयता श्रद्धया चर।
भगवान् परितुष्टः ते वरान् आशु विधास्यति॥ 62

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अदिति पयोव्रतकथनं नाम षोडशोऽध्यायः ॥ 16 ॥

ஸ்கந்தம் 8: அத்யாயம் 15 (பலி சக்கரவர்த்தி மேல் உலகங்களை கைப்பற்றினான்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பலி சக்கரவர்த்தி மேல் உலகங்களை கைப்பற்றினான்

ஸ்கந்தம் 8: அத்யாயம் 15

श्रीराजा उवाच।
बलेः पद-त्रयम् भूमेः कस्मात् हरिः अयाचत।
भूत्वा ईश्वरः कृपण-वल्ल-लभ्त-अर्थः अपि बबन्ध तम्॥ 1॥

एतत् वेदितुम् इच्छामः महत् कौतूहलम् हि नः।
यज्ञ-ईश्वरस्य पूर्णस्य बन्धनम् च अपि अनागसः॥ 2॥

श्रीशुक उवाच।
पराजित-श्रीः असुभिः च हापितः
हि इन्द्रेण राजन् भृगुभिः सः जीवितः।
सर्व-आत्मना तान् अभजत् भृगून् बलिः
शिष्यः महात्मा अर्थ-निवेदनेन॥ 3॥

तम् ब्राह्मणाः भृगवः प्रीयमाणाः
अयाजयन् विश्वजिता त्रिणाकम्।
जिगीषमाणम् विधिना अभिषिच्य
महा-अभिषेकेण महा-अनुभावाः॥ 4॥

ततः रथः काञ्चन-पट्ट-नद्धः
हयाः च हर्यश्व-तुरङ्ग-वर्णाः।
ध्वजः च सिंहेन विराजमानः
हुताशनात् आस हविः-भिः इष्टात्॥ 5॥

धनुः च दिव्यम् पुरट-उपनद्धम्
तूण-अवरिक्तौ कवचम् च दिव्यम्।
पितामहः तस्य ददौ च माला-
अम्लान-पुष्पाम् जलजम् च शुक्रः॥ 6॥

एवम् सः विप्र-अर्जित-योधन-अर्थः
तैः कल्पित-स्वस्त्य-यनः अथ विप्रान्।
प्रदक्षिणीकृत्य कृत-प्रणामः
प्रह्लादम् आमन्त्र्य नमः चकार॥ 7॥

अथ आरुह्य रथम् दिव्यम् भृगु-दत्तम् महा-रथः।
सुस्रक्-धरः अथ संनह्य धन्वी खड्गी धृते-षुधिः॥ 8॥

हेम-अङ्ग-दल-सत्-बाहुः स्फुरन्-मकर-कुण्डलः।
रराज रथम् आरूढः धिष्ण्य-अस्थ इव हव्य-वाट्॥ 9॥

तुल्य-ऐश्वर्य-बल-श्रीभिः स्व-यूथैः दैत्य-यूथ-पैः।
पिबद्भिः इव खम् दृग्भिः दहद्भिः परिधीन् इव॥ 10॥

वृतः विकर्षन् महतीम् आसुरीम् ध्वजिनीम् विभुः।
ययौ इन्द्र-पुरीम् स्वृद्धाम् कम्पयन् इव रोदसी॥ 11॥

रम्याम् उपवन-उद्यानैः श्रीमत्-भिः नन्दन-आदिभिः।
कूजत्-विहङ्ग-मिथुनैः गायन्-मत्त-मधु-व्रतैः॥ 12॥

प्रवाल-फल-पुष्प-उरु-भार-शाखा-अमर-द्रुमैः।
हंस-सारस-चक्राह्व-कारण्डव-कुल-आकुलाः।
नलिन्यः यत्र क्रीडन्ति प्रमदाः सुर-सेविताः॥ 13॥

आकाश-गङ्गया देव्या वृताम् परिखा-भूतया।
प्राकार-एण अग्नि-वर्णेन साट्टालेन उन्नतेन च॥ 14॥

रुक्म-पट्ट-कपाटैः च द्वारैः स्फटिक-गोपुरैः।
जुष्टाम् विभक्त-प्रपथाम् विश्वकर्म-विनिर्मिताम्॥ 15॥

सभा-चत्वर-रथ्या-आढ्याम् विमानैः न्यर्बुदैः युताम्।
शृङ्गाटकैः मणि-मयैः वज्र-विद्रुम-वेदिभिः॥ 16॥

यत्र नित्य-वयः-रूपाः श्यामाः विरज-वससः।
भ्राजन्ते रूपवत्-नार्यः हि अर्चिः-भिः इव वह्नयः॥ 17॥

सुर-स्त्री-केश-विभ्रष्ट नव-सौगन्धिक-स्रजाम्।
यत्र आमोदम् उपादाय मार्गे आवाति मारुतः॥ 18॥

हेम-जाल-आक्ष-निर्गच्छत्-धूमेन अगुरु-गन्धिना।
पाण्डुरेण प्रतिच्छन्नम् मार्गे यान्ति सुर-प्रियाः॥ 19॥

मुक्ता-वितानैः मणि-हेम-केतुभिः
नाना-पताका-वलभी-भिः आवृताम्।
शिखण्डि-पारावत-भृङ्ग-नादिताम्
वैमानिक-स्त्री-कल-गीतम् मङ्गलाम्॥ 20॥

मृदङ्ग-शङ्ख-अनक-दुन्दुभि-स्वनैः
स-ताल-वीणा-मुरज-अर्ष्टि-वेणुभिः।
नृत्यैः स-वाद्यैः उपदेव-गीतकैः
मनोरमाम् स्व-प्रभया जित-प्रभाम् ॥ 21 ॥

याम् न व्रजन्ति अधर्मिष्ठाः खलाः भूत-द्रुहः शठाः।
मानिनः कामिनः लुब्धाः एभिः हीनाः व्रजन्ति यत् ॥ 22 ॥

ताम् देव-धानीम् सः वरूथिनी-पतिः
बहि: समन्तात् रुरुधे पृतन्यया।
आचार्य-दत्तम् जलजम् महा-स्वनम्
दध्मौ प्रयुञ्जन् भयम् इन्द्र-योषिताम् ॥ 23 ॥

मघवान् तम् अभिप्रेत्य बलेः परमम् उद्यमम्।
सर्व-देव-गण-उपेतः गुरुम् एतत् उवाच ह ॥ 24 ॥

भगवन् उद्यमः भूयान् बलेः नः पूर्व-वैरणः।
अविषह्यम् इमम् मन्ये केन आसीत् तेजसा-उर्जितः ॥ 25 ॥

एनम् कश्चित् कुतः वा अपि प्रति-व्योढुम् अधीश्वरः।
पिबन् इव मुखेन इदम् लिहन् इव दिशः दश।
दहन् इव दिशः दृग्भिः संवर्त-अग्निः इव उत्थितः ॥ 26 ॥

ब्रूहि कारणम् एतस्य दुर्धर्षत्वस्य मद्-रिपोः।
ओजः सहः बलम् तेजः यत् एतत् समुद्यमः ॥ 27 ॥

श्री-गुरुः उवाच।
जानामि मघवन् शत्रोः उन्नतेः अस्य कारणम्।
शिष्याय उपभृतम् तेजः भृगुभिः ब्रह्म-वादिभिः ॥ 28 ॥

भवत्-विधः भवान् वा अपि वर्जयित्वा ईश्वरम् हरिम्।
न अस्य शक्तः पुरः स्थातुम् कृतान्तस्य यथा जनाः ॥ 29 ॥

तस्मात् निलयम् उत्सृज्य यूयम् सर्वे त्रिविष्टपम्।
यात कालम् प्रतीक्षन्तः यतः शत्रोः विपर्ययः ॥ 30 ॥

एषः विप्र-बल-उदर्कः सम्प्रति ऊर्जित-विक्रमः।
तेषाम् एव अपमानेन स-अनुबन्धः विनङ्क्ष्यति ॥ 31 ॥

एवम् सुमन्त्रित-अर्थाः ते गुरुणा अर्थ-अनुदर्शिना।
हित्वा त्रिविष्टपम् जग्मुः गीर्वाणाः काम-रूपिणः ॥ 32 ॥

देवेषु अथ निलीनेषु बलिः वैरोचनः पुरीम्।
देव-धानीम् अधिष्ठाय वशम् निन्ये जगत्-त्रयम् ॥ 33 ॥

तम् विश्व-जयिनम् शिष्यं भृगवः शिष्य-वत्सलाः।
शतेन अश्वमेधानाम् अनु-व्रतम् अयाजयन् ॥ 34 ॥

ततः तत्-अनुभावेन भुवन-त्रय-विश्रुताम्।
कीर्तिम् दिक्षु वितन्वानः सः रेज उदु-राट् इव ॥ 35 ॥

बुभुजे च श्रियम् स्व-ऋद्धाम् द्विज-देव-उपलम्भिताम्।
कृत-कृत्यम् इव आत्मानम् मन्यमानः महा-मनाः ॥ 36 ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे पञ्चदशोऽध्यायः ॥ 15 ॥

ஸ்கந்தம் 8: அத்யாயம் 14 (மனு, நான்கு வகை குணம் கொண்ட மனிதர்களுக்கு தேவையான தர்மத்தை நிலைநாட்டினார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

மனு, நான்கு வகை குணம் கொண்ட மனிதர்களுக்கு தேவையான தர்மத்தை நிலைநாட்டினார்

ஸ்கந்தம் 8: அத்யாயம் 14

श्री-राजा उवाच
मन्वन्तरेषु भगवन् यथा मन्व्-आदयः तु इमे।
यस्मिन् कर्मणि ये येन नियुक्ताः तत् वदस्व मे ॥ १ ॥

श्री-ऋषिः उवाच
मनवः मनु-पुत्राः च मुनयः च मही-पते।
इन्द्राः सुर-गणाः च एव सर्वे पुरुष-शासनाः ॥ २ ॥

यज्ञ-आदयः याः कथिताः पौरुष्याः तनवः नृप।
मनु-आदयः जगत्-यात्राम् नयन्ति आभिः प्रचोदिताः ॥ ३ ॥

चतुर्-युग-अन्ते कालेन ग्रस्तान् श्रुति-गणान् यथा।
तपसा ऋषयः अपश्यन् यतः धर्मः सनातनः ॥ ४ ॥

ततः धर्मम् चतुष्-पादम् मनवः हरिणा उदिताः।
युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीं नृप ॥ ५ ॥

पालयन्ति प्रजा-पालाः यावत् अन्तम् विभागशः।
यज्ञ-भाग-भुजः देवाः ये च तत्र अन्विताः च तैः ॥ ६ ॥

इन्द्रः भगवता दत्ताम् त्रि-लोक्य-श्रियम् ऊर्जिताम्।
भुञ्जानः पाति लोकान् त्रीन् कामम् लोके प्रवर्षति ॥ ७ ॥

ज्ञानम् च अनु-युगम् ब्रूते हरिः सिद्ध-स्वरूप-धृक्।
ऋषि-रूप-धरः कर्म योगम् योग-ईश-रूप-धृक् ॥ ८ ॥

सर्गम् प्रज-ईश-रूपेण दस्यून् हन्यात् स्व-राट्-वपुः।
काल-रूपेण सर्वेषाम् अभावाय पृथक्-गुणः ॥ ९ ॥

स्तूयमानः जनैः एभिः माया-या नाम-रूपया।
विमोहित-आत्मभिः नाना-दर्शनैः न च दृश्यते ॥ १० ॥

एतत् कल्प-विकल्पस्य प्रमाणम् परिकीर्तितम्।
यत्र मन्वन्तराणि आहुः चतुर्दश पुरा-विदः ॥ ११ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥ 14 ॥

ஸ்கந்தம் 8: அத்யாயம் 13 (7வது முதல் 14வது மனுவின் பெயர்கள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

7வது முதல் 14வது மனுவின் பெயர்கள்

ஸ்கந்தம் 8: அத்யாயம் 13

श्रीशुक उवाच।
मनुः विवस्वतः पुत्रः श्राद्ध-देवः इति श्रुतः।
सप्तमः वर्तमानः यः तत् अपत्यानि मे शृणु ॥ १ ॥

इक्ष्वाकुः नभगः च एव धृष्टः शर्यति एव च।
नरिष्यन्तः अथ नाभागः सप्तमः दिष्टः उच्यते ॥ २ ॥

करूषः च पृषध्रः च दशमः वसुमान् स्मृतः।
मनुः वैवस्वतस्य एते दश पुत्राः परन्तप ॥ ३ ॥

आदित्याः वसवः रुद्राः विश्व-देवाः मरुत्-गणाः।
अश्विनौ ऋभवः राजन् इन्द्रः तेषाम् पुरन्दरः ॥ ४ ॥

कश्यपः अत्रिः वसिष्ठः च विश्वामित्रः अथ गौतमः।
जमदग्निः भरद्वाजः इति सप्त-ऋषयः स्मृताः ॥ ५ ॥

अत्र अपि भगवत्-जन्म कश्यपात् अदितेः अभूत्।
आदित्यानाम् अवरजः विष्णुः वामन-रूप-धृक् ॥ ६ ॥

सङ्क्षेपतः मया उक्तानि सप्त मन्वन्तराणि ते।
भविष्याणि अथ वक्ष्यामि विष्णोः शक्त्या अन्वितानि च ॥ ७ ॥

विवस्वतः च द्वे जाये विश्वकर्म-सुते उभे।
संज्ञा छाया च राजेन्द्र ये प्राक् अभिहिते तव ॥ ८ ॥

तृतीयाम् वडवाम् एके तासाम् संज्ञा-सुताः त्रयः।
यमः यमी श्राद्ध-देवः छायायाः च सुतान् शृणु ॥ ९ ॥

सावर्णिः तपती कन्या भार्या संवरणस्य या।
शनैश्चरः तृतीयः अभूत् अश्विनौ वडवात्मजौ ॥ १० ॥

अष्टमे अन्तर-आयाते सावर्णिः भविता मनुः।
निर्मोक-विरजस्क-आद्याः सावर्णि-तनयाः नृप ॥ ११ ॥

तत्र देवाः सुतपसः विरजाः अमृत-प्रभाः।
तेषाम् विरोचन-सुतः बलिः इन्द्रः भविष्यति ॥ १२ ॥

दत्त्वा इमाम् याचमानाय विष्णवे यः पद-त्रयम्।
राद्धम् इन्द्र-पदं हित्वा ततः सिद्धिम् अवाप्स्यति ॥ १३ ॥

यः असौ भगवता बद्धः प्रीतेन सुतले पुनः।
निवेशितः अधिके स्वर्गात् अधुना आस्ते स्वराट् इव ॥ १४ ॥

गालवः दीप्तिमान् रामः द्रोण-पुत्रः कृपः तथा।
ऋष्यशृङ्गः पिता अस्माकम् भगवान् बादरायणः ॥ १५ ॥

इमे सप्त-ऋषयः तत्र भविष्यन्ति स्व-योगतः।
इदानीम् आसते राजन् स्वे स्व आश्रम-मण्डले ॥ १६ ॥

देव-गुह्यात् सरस्वत्याम् सार्व-भौमः इति प्रभुः।
स्थानम् पुरन्दरात् धृत्वा बलये दास्यति ईश्वरः ॥ १७ ॥

नवमः दक्ष-सावर्णिः मनुः वरुण-सम्भवः।
भूत-केतुः दीप्ति-केतुः इति आदि-आः तत्-सुताः नृप ॥ १८ ॥

पाराः मरीचि-गर्भ-आद्याः देवाः इन्द्रः अद्भुतः स्मृतः।
द्युतिमत्-प्रमुखाः तत्र भविष्यन्ति ऋषयः ततः ॥ १९ ॥

आयुष्मतः अम्बुधारायाम् ऋषभः भगवत्-कलाः।
भविता येन संराद्धाम् त्रि-लोकिम् भोक्ष्यते अद्भुतः ॥ २० ॥

दशमो ब्रह्म-सावर्णिः उपश्लोक-सुतः महान्।
तत्-सुताः भू‍रि-षेण-आद्याः हविष्मत्-प्रमुखाः द्विजाः॥ २१॥

हविष्मान् सु-कृतः सत्यः जयः मूर्तिः तदा द्विजाः।
सु-वासन-विरुद्ध-आद्याः देवाः शम्भुः सुर-ईश्वरः॥ २२॥

विष्वक्सेनः विषूच्याम् तु शम्भोः सख्यम् करिष्यति।
जातः स्व-अंशेन भगवान् गृहे विश्वसृजः विभुः॥ २३॥

मनुः वै धर्म-सावर्णिः एकादशमः आत्मवान्।
अनागताः तत्-सुताः च सत्य-धर्म-आदयः दश॥ २४॥

वि-हङ्गमाः काम-गमाः निर्वाण-रुचयः सुराः।
इन्द्रः च वैधृतः तेषाम् ऋषयः च अरुण-आदयः॥ २५॥

आर्यकस्य सुतः तत्र धर्म-सेतुः इति स्मृतः।
वैधृतायाम् हरेः अंशः त्रि-लोकिम् धारयिष्यति॥ २६॥

भविता रुद्र-सावर्णिः राजन् द्वादशमः मनुः।
देववान् उपदेवः च देव-श्रेष्ठ-आदयः सुताः॥ २७॥

ऋत-धामा च तत्र इन्द्रः देवाः च हरित-आदयः।
ऋषयः च तपः-मूर्तिः तपस्वी-अग्नीध्रक-आदयः॥ २८॥

स्व-धाम-आख्यः हरेः अंशः साधयिष्यति तत्-मनोः।
अन्तरम् सत्य-सहसः सूनृतायाः सुतः विभुः॥ २९॥

मनुः त्रयोदशः भाव्यः देव-सावर्णिः आत्मवान्।
चित्र-सेन-विचित्र-आद्याः देव-सावर्णि-देह-जात्॥ ३०॥

देवाः सु-कर्म-सुत्राम-सञ्ज्ञाः इन्द्रः दिवस्-पतिः।
निर्मोक-तत्त्व-दर्श-आद्याः भविष्यन्ति ऋषयः तदा॥ ३१॥

देव-होत्रस्य तनयः उपहर्ता दिवस्-पतेः।
योग-ईश्वरः हरेः अंशः बृहत्याम् सम्भविष्यति॥ ३२॥

मनुः वा इन्द्र-सावर्णिः चतुर्दशमः एष्यति।
उरु-गम्भीर-बुद्धि-आद्याः इन्द्र-सावर्णि-वीर्य-जात्॥ ३३॥

पवित्राः च आक्षुषा देवाः शुचिः इन्द्रः भविष्यति।
अग्निः बाहुः शुचिः शुद्धः मागध-आद्याः तपस्विनः॥ ३४॥

सत्रायनस्य तनयः बृहद्भानुः तदा हरिः।
वितानायाम् महा-राज क्रिया-तन्तून् वितायिता॥ ३५॥

राजन् चतुर्दश एतानि त्रि-काल-अनुगतानि ते।
प्रोक्तानि एभिः मितः कल्पः युग-साहस्र-पर्ययः॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥ 13 ॥