ருக்மிணி கல்யாணத்தில் கிருஷ்ணனிடம் தோற்ற சால்வன், துவாரகையை
ஆகாய மார்க்கமாக தாக்குகிறான்
ஸ்கந்தம் 10: அத்யாயம் 76
श्री-शुकः उवाच —
अथ अन्यत् अपि कृष्णस्य शृणु कर्म अद्भुतम् नृप।
क्रीडा-नर-शरीरस्य यथा सौभ-पतिः हतः॥1॥
शिशुपाल-सखः शाल्वः रुक्मिणि-उद्वाहे आगतः।
यदुभिः निर्जितः सङ्ख्ये जरासन्ध-आदयः तथा॥2॥
शाल्वः प्रतिज्ञाम् अकरोत् शृण्वताम् सर्व-भूभुजाम्।
अ-यादवीं क्ष्माम् करिष्ये पौरुषम् मम पश्यत॥3॥
इति मूढः प्रतिज्ञाय देवं पशुपतिम् प्रभुम्।
आराधयामास नृपः पांसु-मुष्टिम् सकृत् ग्रसन्॥4॥
संवत्सर-अन्ते भगवान् आशुतोषः उमापतिः।
वरेण अच्छन्दयामास शाल्वम् शरणम् आगतम्॥5॥
देव-असुर-मनुष्याणाम् गन्धर्व-उरग-रक्षसाम्।
अभेद्यम् कामगम् वव्रे स यानम् वृष्णि-भीषणम्॥6॥
तथा इति गिरिश-आदिष्टः मयः पर-पुरम्-जयः।
पुरम् निर्माय शाल्वाय प्रादात् सौभम् अयः-मयम्॥7॥
स लब्ध्वा कामगम् यानम् तमः-धाम दुरासदम्।
ययौ द्वारवतीम् शाल्वः वैरम् वृष्णि-कृतम् स्मरन्॥8॥
निरुद्ध्य सेनया शाल्वः महत्या भरत-ऋषभ।
पुरीम् बभञ्ज उपवनानि उद्यानानि च सर्वशः॥9॥
स-गोपुराणि द्वाराणि प्रासाद-अट्टाल-तोलिकाः।
विहारान् स विमान-अग्र्यान् निपेतुः शस्त्र-वृष्टयः॥10॥
शिलाः द्रुमाः च अशनयः सर्पाः आसार-शर्कराः।
प्रचण्डः चक्र-वतः अभूत् रजसा आच्छादिताः दिशः॥11॥
इति अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम्।
न अभ्यपद्यत शम् राजन् त्रिपुरेण यथा मही॥12॥
प्रद्युम्नः भगवान् वीक्ष्य बाध्यमानाः निजाः प्रजाः।
मा भैष्ट इति अभ्यधात् वीरः रथ-आरूढः महा-यशाः॥13॥
सात्यकिः च आरुदेष्णः च साम्बः अक्रूरः सह अनुजः।
हार्दिक्यः भानु-विन्दः च गदः च शुक-सारणौ॥14॥
अपरे च महा-इष्वासाः रथ-यूथप-यूथपाः।
निर्ययुः अंशिताः गुप्ताः रथ-इभ-अश्व-पदातिभिः॥15॥
ततः प्रववृते युद्धम् शाल्वानाम् यदुभिः सह।
यथा असुराणाम् विबुधैः तुमुलम् लोमहर्षणम्॥16॥
ताः च सौभ-पतेः मायाः दिव्य-अस्त्रैः रुक्मिणी-सुतः।
क्षणेन नाशयामास नैशम् तमः इव उष्णगुः॥17॥
विव्याध पञ्च-विंशत्या स्वर्ण-पुङ्खैः अयः-मुखैः।
शाल्वस्य ध्वजिनी-पालम् शरैः सन्नत-पर्वभिः॥18॥
शतेन आताडयत् शाल्वम् एक-एकेन अस्य सैनिकान्।
दशभिः दशभिः नेतॄन् वाहनानि त्रिभिः त्रिभिः॥19॥
तत् अद्भुतम् महत् कर्म प्रद्युम्नस्य महा-आत्मनः।
दृष्ट्वा तम् पूजयामासुः सर्वे स्व-पर-सैनिकाः॥20॥
बहु-रूप-एक-रूपम् तत् दृश्यते न च दृश्यते।
माया-मयम् मय-कृतम् दुर्विभाव्यम् परैः अभूत्॥21॥
क्वचित् भूमौ क्वचित् व्योम्नि गिरि-मूर्ध्नि जले क्वचित्।
अलात-चक्रवत् भ्राम्यत् सौभम् तत् दुरवस्थितम्॥22॥
यत्र यत्र उपलक्ष्येत स-सौभः सह-सैनिकः।
शाल्वः ततः ततः अमुञ्चत् शरान् सात्वत-यूथपाः॥23॥
शरैः अग्नि-अर्क-संस्पर्शैः आशीविष-दुरासदैः।
पीड्यमान-पुर-अनीकः शाल्वः अमुह्यत परैः इरितैः॥24॥
शाल्व-अनीक-पशः-शस्त्र-ओघैः वृष्णि-वीराः भृश-अर्दिताः।
न तत्यजुः रणम् स्वम् स्वम् लोक-द्वय-जिगीषवः॥25॥
शाल्व-अमात्यः द्युमान् नाम प्रद्युम्नम् प्राक् प्रपीडितः।
आसाद्य गदया मौर्व्याः व्याहत्य व्यनदत् बली॥26॥
प्रद्युम्नम् गदया शीर्ण-वक्षः-स्थलम् अरि-इंदमम्।
अपोवाह रणात् सूतः धर्म-विद् दारुक-आत्मजः॥27॥
लब्ध-संज्ञः मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत्।
अहो असाधु इदम् सूतः यत् रणात् मे अपसर्पणम्॥28॥
न यदूनाम् कुले जातः श्रूयते रण-विच्युतः।
विना मत्-क्लीब-चित्तेन सूतेन प्राप्त-किल्बिषात्॥29॥
किम् नु वक्ष्ये अभिसङ्गम्य पितरौ राम-केशवौ।
युद्धात् सम्यक् अपक्रान्तः पृष्टः तत्र आत्मनः क्षमम्॥30॥
व्यक्तम् मे कथयिष्यन्ति हसन्त्यः भ्रातृ-जामयः।
क्लैब्यम् कथम् कथम् वीर त्वया अन्यैः कथ्यताम् मृधे॥31॥
सारथिः उवाच — धर्मम् विजानता आयुष्मन् कृतम् एतत् मया विभो।
सूतः कृच्छ्र-गतम् रक्षेत् रथिनम् सारथिम् रथी॥32॥
एतत् विदित्वा तु भवन् मया अपोवाहितः रणात्।
उपसृष्टः परेण इति मूर्च्छितः गदया हतः॥33॥
No comments:
Post a Comment