Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 78 (கிருஷ்ணன் தந்தவக்ரனை வதம் செய்கிறார். கோபத்தில் ரோம்ஹர்ஷனரை பலராமர் கொல்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கிருஷ்ணன் தந்தவக்ரனை

வதம் செய்கிறார்.

கோபத்தில் ரோம்ஹர்ஷனரை

பலராமர் கொல்கிறார்.

ஸ்கந்தம் 10: அத்யாயம் 78

श्री शुक उवाच
शिशुपालस्य शाल्वस्य पौण्ड्रकस्य अपि दुर्मतिः ।
पर-लोक-गतानाम् च कुर्वन् पारोक्ष्य-सौहृदम् ॥ 1

एक: पदाति: सङ्क्रुद्ध: गदा-पाणि: प्रकम्पयन् ।
पद्भ्याम् इमाम् महा-राज महा-सत्त्व: व्यदृश्यत ॥ 2

तम् तथा आयान्तम् आलोक्य गदाम् आदाय सत्वर: ।
अवप्लुत्य रथात् कृष्ण: सिन्धुम् वेले इव प्रत्यधात् ॥ 3

गदाम् उद्यम्य कारूष: मुकुन्दम् प्राह दुर्मद: ।
दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथम् गत: ॥ 4

त्वम् मातुलेय: न: कृष्ण मित्र-दृक् माम् जिघांससि ।
अतः त्वाम् गदया मन्द हनिष्ये वज्र-कल्पया ॥ 5

तर्हि अनृण्यम् उपैमि अज्ञ मित्राणाम् मित्रवत्सल: ।
बन्धु-रूपम् अरिम् हत्वा व्याधिम् देह-चरम् यथा ॥ 6

एवम् रूक्षै: तुदन् वाक्यै: कृष्णम् तोत्रै: इव द्विपम् ।
गदया ताडयन् मूर्ध्नि सिंहवत् व्यनदत् च स: ॥ 7

गदा-अभिहत: अपि आजौ न चचाल यदु-उद्वह: ।
कृष्ण: अपि तम् अहन् गुर्व्या कौमोदक्या स्तन-अन्तरे ॥ 8

गदा-निर्भिन्न-हृदय: उद्वमन् रुधिरम् मुखात् ।
प्रसार्य केश-बाहु-अङ्घ्रीन् धरण्याम् न्यपतत् व्यसुः ॥ 9

ततः सूक्ष्मतरम् ज्योतिः कृष्णम् आविशत् अद्भुतम् ।
पश्यताम् सर्व-भूतानाम् यथा चैद्य-वधे नृप ॥ 10

विदूरथ: तु तत्-भ्राता भ्रातृ-शोक-परिप्लुत: ।
आगच्छत् असि-चर्म-अभ्याम् उच्छ्वसन् तत्-जिघांसया ॥ 11

तस्य च आपततः कृष्ण: चक्रेण क्षुर-नेमिना ।
शिर: जहार राजेन्द्र स-किरीटम् स-कुण्डलम् ॥ 12

एवम् सौभम् च शाल्वम् च दन्तवक्रम् सह अनुजम् ।
हत्वा दुर्विषह-अन्यै: ईडित: सुर-मानवै: ॥ 13

मुनिभि: सिद्ध-गन्धर्वै: विद्याधर-महोरगै: ।
अप्सरोभि: पितृ-गणै: यक्षै: किन्नर-चारणै: ॥ 14

उपगीयमान-विजय: कुसुमै: अभिवर्षित: ।
वृत: च वृष्णि-प्रवरै: विवेश आलङ्कृताम् पुरीम् ॥ 15

एवम् योगेश्वर: कृष्ण: भगवान् जगत्-ईश्वर: ।
ईयते पशु-दृष्टीनाम् निर्जित: जयति इति स: ॥ 16

श्रुत्वा युद्ध-उद्यमम् राम: कुरूणाम् सह पाण्डवै: ।
तीर्थ-अभिषेक-व्याजेन मध्यस्थ: प्रययौ किल ॥ 17

स्नात्वा प्रभासे सन्तर्प्य देव-ऋषि-पितृ-मानवान् ।
सरस्वतीम् प्रति-स्रोतम् ययौ ब्राह्मण-संवृत: ॥ 18

पृथु-उदकम् बिन्दु-सर: त्रित-कूपम् सुदर्शनम् ।
विशालम् ब्रह्म-तीर्थम् च चक्रम् प्राचीम् सरस्वतीम् ॥ 19

यमुनाम् अनु यानि एव गङ्गाम् अनु च भारत ।
जगाम नैमिषम् यत्र ऋषय: सत्रम् आसते ॥ 20

तम् आगतम् अभिप्रेत्य मुनय: दीर्घ-सत्रिण:।
अभिनन्द्य यथा न्यायम् प्रणम्य उत्थाय च अर्चयन्॥ 21

स: अर्चित: स-परीवार: कृत-आसन-परिग्रह:।
रोमहर्षणम् आसीनम् महर्षे: शिष्यम् ऐक्षत॥ 22

अप्रत्युत्थायिनम् सूतम् अ-कृत-प्रह्व-अञ्जलिम्।
अधि-आसीनम् च तान् विप्रान् चुकोप-उद्वीक्ष्य माधव:॥ 23

कस्मात् असौ इमान् विप्रान् अध्यास्ते प्रति-लोमज:।
धर्म-पालान् तथा एव अस्मान् वधम् अर्हति दुर्मतिः॥ 24

ऋषे: भगवत: भूत्वा शिष्य: अधीत्य बहूनि च।
स-इतिहास-पुराणानि धर्म-शास्त्राणि सर्वश:॥ 25

अ-दान्तस्य अ-विनीतस्य वृथा पण्डित-मानिन:।
न गुणाय भवन्ति स्म नटस्य इव अ-जित-आत्मन:॥ 26

एतत्-अर्थ: हि लोके अस्मिन् अवतार: मया कृत:।
वध्या मे धर्म-ध्वजिन: ते हि पातकिन: अधिका:॥ 27

एतावत् उक्त्वा भगवान् निवृत्त: असत्-वधात् अपि।
भावित्वात् तम् कुश-अग्रेण कर-स्थेन आहनत् प्रभु:॥ 28

हाहेति वादिन: सर्वे मुनय: खिन्न-मानसाः।
ऊचु: सङ्कर्षणम् देवम् अ-धर्म: ते कृत: प्रभो॥ 29

अस्य ब्रह्म-आसनम् दत्तम् अस्माभि: यदु-नन्दन।
आयु: च आत्मा-क्लमम् तावत् यावत् सत्रम् समाप्यते॥ 30

अजानता एव आचरित: त्वया ब्रह्म-वध: यथा।
योगेश्वरस्य भवत: नाम्ना अपि नियामक:॥ 31

यदि एतत् ब्रह्म-हत्यायाः पावनम् लोक-पावन।
चरिष्यति भवाम् लोक-सङ्ग्रह: अनन्य-चोदित:॥ 32

श्री-भगवान् उवाच करिष्ये वध-निर्वेशम् लोक-अनुग्रह-काम्यया।
नियम: प्रथमे कल्पे यावान् स: तु विधीयताम्॥ 33

दीर्घम् आयुः बत एतस्य सत्त्वम् इन्द्रियम् एव च।
आशासितम् यत् तत् ब्रूत साधये योग-मायया॥ 34

ऋषय: ऊचु: अस्त्रस्य तव वीर्यस्य मृत्यो: अस्माकम् एव च।
यथा भवेत् वच: सत्यम् तथा राम विधीयताम्॥ 35

श्री-भगवान् उवाच आत्मा वै पुत्र: उत्पन्न: इति वेद-अनुशासनम्।
तस्मात् अस्य भवेत् वक्ता आयु: इन्द्रिय-सत्त्व-वान्॥ 36

किम् व: काम: मुनि-श्रेष्ठा: ब्रूत अहम् करवाणि अथ।
अजानत: त्व् अपचितिम् यथा मे चिन्त्यताम् बुधा:॥ 37

ऋषय: ऊचु: इल्वलस्य सुत: घोर: बल्वल: नाम दानव:।
स: दूषयति न: सत्रम् एत्य पर्वणि पर्वणि॥ 38

तम् पापम् जहि दाशार्ह तत् न: शुश्रूषणम् परम्।
पूय-शोणित-विण्-मूत्र-सुरा-मांस-अभिवर्षिणम्॥ 39

ततः च भारतम् वर्षम् परीत्य सुसमाहित:।
चरित्वा द्वादश मासान् तीर्थ-स्नायी विशुद्ध्यसे॥ 40

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तरार्धे बलदेव-चरिते बल्वल-वध-उपक्रम: नाम
अष्ट-सप्ततितम: अध्याय:॥ 78॥

No comments: