Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 86 (சுபத்ரை திருமணம். கண்ணன் மிதிலை செல்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 சுபத்ரை திருமணம். கண்ணன் மிதிலை செல்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 86

श्री-राजा-उवाच –
ब्रह्मन् वेदितुम् इच्छामः स्वसारं राम-कृष्णयोः।
यथा उपयेमे विजयः या मम आसीत् पितामही॥ 1॥

श्री-शुक-उवाच –
अर्जुनः तीर्थ-यात्रायाम् पर्यटन् अवनीम् प्रभुः।
गतः प्रभासम् अशृणोत् मातुलेयीम् सः आत्मनः॥ 2॥

दुर्योधनाय रामः ताम् दास्यति इति न च अपरे।
तत् लिप्सुः सः यतिः भूत्वा त्रिदण्डी द्वारकाम् अगात्॥ 3॥

तत्र वै वार्षिकान् मासान् अवात्सीत् स्वार्थ-साधकः।
पौरैः सभाजितः अभीक्ष्णम् रामेण अजानता च सः॥ 4॥

एकदा गृहम् आनीय आतिथ्येन निमंत्र्य तम्।
श्रद्धया उपहृतम् भैक्ष्यम् बलेन बुभुजे किल॥ 5॥

सः अपश्यत् तत्र महतीम् कन्याम् वीर-मनोहराम्।
प्रीति-उत्फुल्ल-ईक्षणः तस्याम् भाव-क्षुब्धम् मनः दधे॥ 6॥

सा अपि तम् चकमे वीक्ष्य नारीणाम् हृदयम्-गमम्।
हसन्ती व्रीडिता अपाङ्गी तत् न्यस्त-हृदय-ईक्षणा॥ 7॥

ताम् पराम् समनुध्यायन् अन्तरम् प्रेप्सुः अर्जुनः।
न लेभे शम् भ्रमत्-चित्तः कामेन अति-बलीयसा॥ 8॥

महत्याम् देव-यात्रायाम् रथ-स्थाम् दुर्ग-निर्गताम्।
जहार अनुमतः पित्रोः कृष्णस्य च महारथः॥ 9॥

रथ-स्थः धनुः आदाय शूरान् चारु-अन्धतः भटान्।
विद्राव्य क्रोशताम् स्वानाम् स्व-भागम् मृग-राट् इव॥ 10॥

तत् श्रुत्वा क्षुभितः रामः पर्वणि इव महा-अर्णवः।
गृहीत-पादः कृष्णेन सुहृद्भिः च अन्वशाम्यत॥ 11॥

प्राहिणोत् पारि-बर्‍हाणि वर-वध्वोः मुदा बलः।
महा-धन-उपस्करैः रथ-अश्व-नर-योषितः॥ 12॥

श्री-शुक-उवाच –
कृष्णस्य आसीत् द्विज-श्रेष्ठः श्रुतदेवः इति श्रुतः।
कृष्ण-एक-भक्त्या पूर्ण-अर्थः शान्तः कविः अलम्पटः॥ 13॥

सः उवास विदेहेषु मिथिलायाम् गृह-आश्रमी।
अनीहया आगत-आहार्य-निर्वर्तित-निज-क्रियः॥ 14॥

यात्रा-मात्रम् तु अहः-अहः दैवत् उपनमत् युतः।
न अधिकम् तावत् तुष्टः क्रिया-चक्रे यथोचिताः॥ 15॥

तथा तत्-राष्ट्र-पालः अङ्ग बहुलाश्वः इति श्रुतः।
मैथिलः निरहंमानः उभाव् अपि अच्युत-प्रियौ॥ 16॥

तयोः प्रसन्नः भगवान् दारुकेण आहृतम् रथम्।
आरुह्य साकम् मुनिभिः विदेहान् प्रययौ प्रभुः॥ 17॥

नारदः वामदेवः अत्रिः कृष्णः रामः असितः अरुणिः।
अहम् बृहस्पतिः कण्वः मैत्रेयः च्यवन-आदयः॥ 18॥

तत्र तत्र तम् आयान्तम् पौराः जानपदाः नृप।
उपतस्थुः सार्घ्य-हस्ताः ग्रहैः सूर्यम् इव उदितम्॥ 19॥

आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य-
पाञ्चाल-कुन्ति-मधु-केकय-कोशल-अर्णाः।
अन्ये च तत्-मुख-सरोजम् उदार-हास-
स्निग्ध-ईक्षणम् नृप पपुः दृशिभिः नृ-नार्यः॥ 20॥

तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः
क्षेमं त्रि-लोक-गुरुः अर्थ-दृशं च यच्छन्।
शृणुवन् दिक्-अन्त-धवलं स्व-यशः अशुभ-घ्नं
गीतं सुरैः नृभिः अगात् शनकैः विदेहान् ॥ 21

ते अच्युतं प्राप्तम् आकर्ण्य पौराः जानपदाः नृप
अभीयुः मुदिताः तस्मै गृहीत-अर्हण-पाणयः ॥ 22

दृष्ट्वा ते उत्तम-श्लोकं प्रीति-उत्फुल्ल-आनन-आशयाः।
कैः धृत-अञ्जलिभिः नेमुः श्रुत-पूर्वान् तथा मुनीन् ॥ 23

स्व-अनुग्रहाय सम्प्राप्तं मन्वानौ तम् जगत्-गुरुम्।
मैथिलः श्रुत-देवः च पादयोः पेततुः प्रभोः ॥ 24

न्यमन्त्रयेताम् दाशार्हम् आतिथ्येन सह द्विजैः।
मैथिलः श्रुत-देवः च युगपत् संहत-अञ्जली ॥ 25

भगवान् तत् अभिप्रेत्य द्वयोः प्रिय-चिकीर्षया।
उभयोः आविशत् गेहम् उभाभ्यां तत् अलक्षितः ॥ 26

श्रोतुम् अपि असतां दूरात् जनकः स्व-गृह-आगतान्।
आनीतेषु आसन-आग्र्येषु सुख-आसीनान् महा-मनाः ॥ 27

प्रवृद्ध-भक्त्या उद्धर्ष-हृदय-अश्रु-आविल-ईक्षणः।
नत्वा तत् अङ्‌घ्रिन् प्रक्षाल्य तत् अपः लोक-पावनीः ॥ 28

स-कुटुम्बः वहन् मूर्ध्ना पूजया अचक्रत ईश्वरान्।
गन्ध-माला-अम्बर-आकल्प-धूप-दीप-अर्घ्य-गो-वृषैः ॥ 29

वाचा मधुरया प्रीणन् इदम् आह अन्न-तर्पितान्।
पादौ अङ्क-गतौ विष्णोः संस्पृशन् शनकैः मुदा ॥ 30

राजा उवाच –
भवान् हि सर्व-भूतानाम् आत्मा साक्षी स्व-दृक् विभो।
अथ नः त्वत्-पद-अम्भोजं स्मरताम् दर्शनं गतः ॥ 31

स्व-वचः तत् ऋतम् कर्तुम् अस्मत्-दृक्-गोचरः भवान्।
यत् आह एकान्त-भक्तान् मे न अनन्तः श्री-रजः प्रियः ॥ 32

कः नु त्वत्-चरण-अम्भोजम् एवं-विद् विसृजेत् पुमान्।
निष्किञ्चनानाम् शान्तानाम् मुनीनाम् यः त्वम् आत्मदः ॥ 33

यः अवतीर्य यदोर्-वंशे नृणाम् संसरताम् इह।
यशः वितेने तत् शान्त्यै त्रै-लोक्य-वृजिन-आपहम् ॥ 34

नमः तुभ्यम् भगवते कृष्णाय आकुण्ठ-मेधसे।
नारायणाय ऋषये सु-शान्तं तपः ईयुषे ॥ 35

दिनानि कतिचित् भूमन् गृहान् नः निवस द्विजैः।
समेतः पाद-रजसा पुनीहि इदम् निमेः कुलम् ॥ 36

इति उपामन्त्रितः राज्ञा भगवान् लोक-भावनः।
उवास कुर्वन् कल्याणम् मिथिला-नर-योषिताम् ॥ 37

श्रुत-देवः अच्युतं प्राप्तम् स्व-गृहात् जनकः यथा।
नत्वा मुनीन् सु-संहृष्टः धुन्वन् वासः ननर्त ह ॥ 38

तृण-पीठ-बृसीषु एतान् आनीतेषु उपवेश्य सः।
स्वागत-एन अभिनन्द्य अङ्‌घ्रीन् स-भार्यः अवनिजे मुदा ॥ 39

तत् अम्भसा महा-भाग आत्मानम् स-गृह-अन्वयम्।
स्नापयाम् अचक्रत उद्धर्षः लब्ध-सर्व-मनोरथः ॥ 40

फल-अर्हण-उशीर-शिव-अमृत-अम्बुभिः
मृदा सुरभ्या तुलसी-कुश-अम्बुजैः ।
आराधयामास यथा-उपपन्नया
सपर्यया सत्त्व-विवर्धन-अन्धसा ॥ 41

स तर्कयामास कुतः मम अन्वभूत्
गृह-अन्ध-कुपे पतितस्य सङ्गमः ।
यः सर्व-तीर्थ-आस्पद-पाद-रेणुभिः
कृष्णेन च अस्य आत्म-निकेत-भू-सुरैः ॥ 42

स उपविष्टान् कृत-अतिथ्यान् श्रुतदेवः उपस्थितः ।
स-भार्य-स्वजन-अपत्यः उवाच अङ्‌घ्रि-अभिमर्शनः ॥ 43

श्रुतदेव उवाच -
न अद्य नः दर्शनम् प्राप्तः परम् परम-पुरुषः ।
यः ही इदं शक्तिभिः सृष्ट्वा प्रविष्टः हि आत्म-सत्तया ॥ 44

यथा शयानः पुरुषः मनसा एव आत्म-मायया ।
सृष्ट्वा लोकं परं स्वाप्नम् अनुविश्य अवभासते ॥ 45

श्रृणताम् गदताम् शश्वत् अर्चताम् त्वाम् अभिवन्दताम् ।
नृणाम् संवदताम् अन्तर्-हृदि भासि अमल-आत्मनाम् ॥ 46

हृदि-स्थः अपि अतिदूर-स्थः कर्म-विक्षिप्त-चेतसाम् ।
आत्म-शक्तिभिः अग्राह्यः अपि अन्त्य-उपेत-गुण-आत्मनाम् ॥ 47

नमः अस्तु ते अध्यात्म-विदाम् पर-आत्मने
अनात्मने स्व-आत्म-विभक्त-मृत्यवे ।
स-कारण-अकारण-लिङ्ग-मीयुषे
स्व-मायया संवृत-रुद्ध-दृष्टये ॥ 48

स त्वम् शाधि स्व-भृत्यान् नः किम् देव करवाम हे ।
एतत् अन्तः नृणां क्लेशः यत् भवान् अक्षि-गुचरः ॥ 49

श्री-शुक उवाच -
तत् उक्तम् इति उपाकर्ण्य भगवान् प्रणत-आर्ति-हा ।
गृहीत्वा पाणिना पाणिं प्रहसन् तम् उवाच ह ॥ 50

श्री-भगवान् उवाच -
ब्रह्मन् ते अनुग्रह-अर्थाय सम्प्राप्तान् विद्धि इमून् मुनीन् ।
सञ्चरन्ति मया लोकान् पुनन्तः पाद-रेणुभिः ॥ 51

देवाः क्षेत्राणि तीर्थानि दर्शन-स्पर्शन-अर्चनैः ।
शनैः पुनन्ति कालेन तत् अपि अर्हत्-तम-ईक्षया ॥ 52

ब्राह्मणः जन्मना श्रेयान् सर्वेषाम् प्राणिनाम् इह ।
तपसा विद्यया तुष्ट्या किम् उ मत्-कलया युतः ॥ 53

न ब्राह्मणात् मे दयितम् रूपम् एतत् चतुर्भुजम् ।
सर्व-वेद-मयः विप्रः सर्व-देव-मयः हि अहम् ॥ 54

दुष्प्रज्ञाः अविदित्वा एवम् अवजानन्ति असूयवः ।
गुरुम् माम् विप्रम् आत्मानम् अर्चा-आदि-अविज्ञ-दृष्टयः ॥ 55

चर-अचरम् इदम् विश्वम् भावाः ये च अस्य हेतवः ।
मद्-रूपाणि इति चेतसा अधत्ते विप्रः मद्-ईक्षया ॥ 56

तस्मात् ब्रह्म-ऋषीन् एतान् ब्रह्मन् मत्-श्रद्धया अर्चय ।
एवम् चेत् अर्चितः अस्मि अध्धा न अन्यथा भू-रि-भूतिभिः ॥ 57

श्री-शुक उवाच -
स इत्थम् प्रभुणा आदिष्टः सह-कृष्णान् द्विज-उत्तमान् ।
आराध्य एक-आत्म-भावेन मैथिलः च आप सत्-गतिम् ॥ 58

एवम् स्व-भक्तयः राजन् भगवान् भक्त-भक्तिमान् ।
उषित्वा आदिश्य सन्-मार्गम् पुनः द्वारवतीम् अगात् ॥ 59

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तर-अर्धे
श्रुतदेव-अनुग्रहः नाम षट्-अशीतितमः अध्यायः ॥ 86॥

No comments: