சிசுபாலன் வதம்
ஸ்கந்தம் 10: அத்யாயம் 74
श्री शुक उवाच
एवम् युधिष्ठिरः राजा जरासन्ध-वधम् विभोः।
कृष्णस्य च अनुभावम् तम् श्रुत्वा प्रीतः तम् अब्रवीत्॥ 1
युधिष्ठिर उवाच
ये स्युः त्रैलोक्य-गुरवः सर्वे लोक-महेश्वराः।
वहन्ति दुर्लभम् लब्ध्वा शिरसा एव अनुशासनम्॥ 2
सः भवान् अरविन्द-अक्षः दीनानाम् ईश-मानिनाम्।
धत्ते अनुशासनम् भूमन् तत् अत्यन्त-विडम्बनम्॥ 3
न हि एकस्य अद्वितीयस्य ब्रह्मणः परमात्मनः।
कर्मभिः वर्धते तेजः ह्रसते च यथा रवेः॥ 4
न वै ते अजित भक्तानाम् मम अहम् इति माधव।
त्वम् तव इति च न अनाधीः पशूनाम् इव वैकृता॥ 5
श्री शुक उवाच
इति उक्त्वा यज्ञिये काले वव्रे युक्तान् सः ऋत्विजः।
कृष्ण-अनुमोदितः पार्थः ब्राह्मणान् ब्रह्मवादिनः॥ 6
द्वैपायनः भरद्वाजः सुमन्तुः गौतमः असितः।
वसिष्ठः च्यवनः कण्वः मैत्रेयः कवषः त्रितः॥ 7
विश्वामित्रः वामदेवः सुमतिः जैमिनिः क्रतुः।
पैलः पराशरः गर्गः वैशम्पायनः एव च॥ 8
अथर्वा कश्यपः धौम्यः रामः भार्गवः आसुरिः।
वीतिहोत्रः मधुच्छन्दाः वीरसेनः अकृतव्रणः॥ 9
उपहूताः तथा च अन्ये द्रोण-भीष्म-कृप-आदयः।
धृतराष्ट्रः सह-सुतः विदुरः च महामतिः॥ 10
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः यज्ञ-दिदृक्षवः।
तत्र ऐयुः सर्व-राजानः राज्ञाम् प्रकृतयः नृप॥ 11
ततः ते देव-यजनम् ब्राह्मणाः स्वर्ण-लाङ्गलैः।
कृष्ट्वा तत्र यथा आम्नायम् दीक्षया अचक्रिरे नृपम्॥ 12
हैमाः किल उपकरणाः वरुणस्य यथा पुरा।
इन्द्र-आदयः लोक-पालाः विरिञ्च-भव-संयुताः॥ 13
स-गणाः सिद्ध-गन्धर्वाः विद्याधर-महोरगाः।
मुनयः यक्ष-रक्षांसि खग-किन्नर-चारणाः॥ 14
राजानः च समाहूताः राज-पत्न्यः च सर्वशः।
राजसूयम् समीयुः स्म राज्ञः पाण्डु-सुतस्य वै॥ 15
मेनिरे कृष्ण-भक्तस्य सुपपन्नम् अविस्मिताः।
अयाजयन् महा-राजम् याजकाः देव-वर्चसः।
राजसूयेन विधिवत् प्रचेतसम् इव अमराः॥ 16
सौत्ये अहनि अवनी-पालः याजकान् सदसः-पतीन्।
अपूजयत् महा-भागान् यथावत् सुसमाहितः॥ 17
सदस्य-अग्र्य-अर्हण-अर्हम् वै विमृशन्तः सभासदः।
न अध्यगच्छन् अनैकान्त्यात् सहदेवः तदा अब्रवीत्॥ 18
अर्हति हि अच्युतः श्रैष्ठ्यम् भगवान् सात्वताम् पतिः।
एषः वै देवताः सर्वाः देश-काल-धन-आदयः॥ 19
यत् आत्मकम् इदम् विश्वम् क्रतवः च यत् आत्मकाः।
अग्निः आहुतयः मन्त्राः सांख्यम् योगः च यत् परः॥ 20
एकः एव अद्वितीयः असौ एतत् आत्म्यम् इदं जगत्।
आत्मना आत्म-आश्रयः सभ्याः सृजति अवति हन्ति अजः॥ 21
विविधानि इह कर्माणि जनयन् यद् अवेक्षया।
ईहते यत् अयम् सर्वः श्रेयः धर्म-आदि-लक्षणम्॥ 22
तस्मात् कृष्णाय महते दीयताम् परमा-अर्हणम्।
एवम् चेत् सर्व-भूतानाम् आत्मनः च अर्हणम् भवेत्॥ 23
सर्व-भूत-आत्म-भूताय कृष्णाय अनन्य-दर्शिने।
देयम् शान्ताय पूर्णाय दत्तस्य अनन्त्यम् इच्छता॥ 24
इति उक्त्वा सहदेवः अभूत् तूष्णीम् कृष्ण-अनुभाव-वित्।
तत् श्रुत्वा तुष्टुवुः सर्वे साधु साधु इति सत्तमाः॥ 25
श्रुत्वा द्विज-इरितम् राजा ज्ञात्वा हार्दम् सभासदाम्।
समर्हयत् हृषीकेशम् प्रीतः प्रणय-विह्वलः॥ 26
तत् पादौ अवनिज्य आपः शिरसा लोक-पावनीः।
स-भार्यः स-अनुज-अमात्यः स-कुटुम्बः अवहन् मुदाः॥ 27
वासोभिः पीत-कौशेयैः भूषणैः च महा-धनैः।
अर्हयित्वा अश्रु-पूर्ण-अक्षः न अशकत् समवेक्षितुम्॥ 28
इत्थम् सभाजितम् वीक्ष्य सर्वे प्राञ्जलयः जनाः।
नमः जय इति नेमुः तम् निपेतुः पुष्प-वृष्टयः॥ 29
इत्थम् निशम्य दमघोष-सुतः स्व-पीठात्।
उत्थाय कृष्ण-गुण-वर्णन-जात-अमन्युः।
उत्क्षिप्य बाहुम् इदम् आह सदस्य-अमर्षी।
संश्रावयन् भगवते परुषाणि अभीतः॥ 30
ईशः दुरत्ययः कालः इति सत्यवती-श्रुतिः।
वृद्धानाम् अपि यत् बुद्धिः बाल-वाक्यैः विभिद्यते॥ 31
यूयम् पात्र-विदाम् श्रेष्ठाः मा मन्धुः अम् बाल-भाषितम्।
सदसः-पतयः सर्वे कृष्णः यत् सम्मतः अर्हणे॥ 32
तपः-विद्या-व्रत-धरान् ज्ञान-विध्वस्त-कल्मषान्।
परम-ऋषीन् ब्रह्म-निष्ठान् लोक-पालैः च पूजितान्॥ 33
सदसः-पतीन् अतिक्रम्य गोपालः कुल-पांसनः।
यथा काकः पुरोडाशम् सपर्यां कथम् अर्हति॥ 34
वर्ण-आश्रम-कुल-अपेतः सर्व-धर्म-बहिष्कृतः।
स्वैर-वर्ती गुणैः हीनः सपर्यां कथम् अर्हति॥ 35
ययातिना एषाम् हि कुलम् शप्तम् सद्भिः बहिष्कृतम्।
वृथा-पान-रतम् शश्वत् सपर्यां कथम् अर्हति॥ 36
ब्रह्मर्षि-सेवितान् देशान् हित्वा एते अ-ब्रह्म-वर्चसम्।
समुद्रम् दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः॥ 37
एवम् आदीनि अभद्राणि बभाषे नष्ट-मङ्गलः।
न उवाच किञ्चित् भगवान् यथा सिंहः शिव-आरतम्॥ 38
भगवत्-निन्दनम् श्रुत्वा दुःसहम् तत् सभासदः।
कर्णौ पिधाय निर्जग्मुः शपन्तः चेदिपम् रुषा॥ 39
निन्दाम् भगवतः श्रृण्वन् तत्-परस्य जनस्य वा।
ततः न आपैति यः सः अपि याति अधः सुकृतात् च्युतः॥ 40
ततः पाण्डु-सुताः क्रुद्धाः मत्स्य-कैकय-सृञ्जयाः।
उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः॥ 41
ततः च ऐद्यः तु अ-संभ्रान्तः जगृहे खड्ग-चर्मणी।
भर्त्सयन् कृष्ण-पक्षीयान् राज्ञः सदसि भारत॥ 42
तावत् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा।
शिरः क्षुर-अन्त-चक्रेण जहार आपततः रिपोः॥ 43
शब्दः कोलाहलः अपि आसीत् शिशुपाले हते महान्।
तस्य अनुयायिनः भूपाः दुद्रुवुः जीवित-ऐषिणः॥ 44
चैद्य-देह-उत्थितम् ज्योतिः वासुदेवम् उपाविशत्।
पश्यताम् सर्व-भूतानाम् उल्का इव भुवि खात् च्युताः॥ 45
जन्म-त्रय-अनुगुणित-वैर-संरब्धया धिया।
ध्यायन् तत्-मयताम् यातः भावः हि भव-कारणम्॥ 46
ऋत्विग्भ्यः स-सदस्येभ्यः दक्षिणाम् विपुलाम् अदात्।
सर्वान् संपूज्य विधिवत् चक्रे अवभृथम् एक-राट्॥ 47
साधयित्वा क्रतुम् राज्ञः कृष्णः योग-ईश्वर-ईश्वरः।
उवास कतिचित् मासान् सुहृत्-भिः अभियाचितः॥ 48
ततः अनुज्ञाप्य राजानम् अ-निच्छन्तम् अपि ईश्वरः।
ययौ स-भार्यः स-अमात्यः स्वपुरम् देवकी-सुतः॥ 49
वर्णितम् तत् उपाख्यानम् मया ते बहु-विस्तरम्।
वैकुण्ठ-वासिनः जन्म विप्र-शापात् पुनः पुनः॥ 50
राजसूय-अवभृथ्येन स्नातः राजा युधिष्ठिरः।
ब्रह्म-क्षत्र-सभा-मध्ये शुशुभे सुर-राट् इव॥ 51
राज्ञा सभाजिताः सर्वे सुर-मानव-खेचराः।
कृष्णम् क्रतुम् च शंसन्तः स्व-धामानि ययुः मुदाः॥ 52
दुर्योधनम् ऋते पापम् कलिम् कुरु-कुल-आमयम्।
यः न सेहे श्रियम् स्फीताम् दृष्ट्वा पाण्डु-सुतस्य ताम्॥ 53
यः इदम् कीर्तयेत् विष्णोः कर्म चैद्य-वध-आदिकम्।
राज-मोक्षम् वितानम् च सर्व-पापैः प्रमुच्यते॥ 54
No comments:
Post a Comment