கிருஷ்ணனின் வைபவம்
ஸ்கந்தம் 10: அத்யாயம் 90
श्री शुक उवाच
सुखं स्व-पुर्यां निवसन् द्वारकायां श्रियः पतिः।
सर्व-सम्पत्-समृद्धायां जुष्टायां वृष्णि-पुङ्गवैः॥ 01
स्त्रीभिः च उत्तम-वेषाभिः नव-यौवन-कान्तिभिः।
कन्दुक-आदिभिः हर्म्येषु क्रीडन्तीभिः तडित्-द्युभिः॥ 02
नित्यं सङ्कुल-मार्गायां मद-उद्भिः मतङ्गजैः।
स्व-लङ्कृतैः भटैः अश्वैः रथैः च कनक-उज्ज्वलैः॥ 03
उद्यान-उपवन-आढ्यायां पुष्पित-द्रुम-राजिषु।
निर्विशद्-भृङ्ग-विहगैः नादितायां समन्ततः॥ 04
रेमे षोडश-साहस्र पत्नीनां एक-वल्लभः।
तावत्-विचित्र-रूपः असौ तद्-गेहेषु महा-ऋद्धिषु॥ 05
प्रोत्फुल्ल-उत्पल-कह्लार कुमुद-अम्भोज-रेणुभिः।
वासित-अमल-तोयेषु कूजत्-द्विज-कुलेषु च॥ 06
विजहार विगाह्य अम्भः ह्रदिनीषु महा-उदयः।
कुच-कुङ्कुम-लिप्त-अङ्गः परिरब्धः च योषिताम्॥ 07
उपगीयमानः गन्धर्वैः मृदङ्ग-पणव-अनकान्।
वादयद्भिः मुदाः वीणां सूत-मागध-वन्दिभिः॥ 08
सिच्यमानः अच्युतः ताभिः हसन्तीभिः स्म रेचकैः।
प्रतिषिञ्चन् विचिक्रीडे यक्षीभिः यक्ष-राट् इव॥ 09
ताः क्लिन्न-वस्त्र-विवृत-उरु-कुच-प्रदेशाः
सिञ्चन्त्य उद्धृत-बृहत्-कबर-प्रसूनाः।
कान्तं स्म रेचक-जिहीरषया उपगुह्य
जात-स्मर-उत्सव-लसत्-वदनाः विरेजुः॥ 10
कृष्णः तु तत्-स्तन-विषक्त-कुङ्कुम-स्रक्
क्रीडा-अभिषङ्ग-धुत-कुन्तल-वृन्द-बन्धः।
सिञ्चन् मुहुः युवतिभिः प्रतिषिच्यमानः
रेमे करेणुभिः इव इभ-पतिः परीतः॥ 11
नटानां नर्तकीनां च गीत-वाद्य-उपजीविनाम्।
क्रीडा-अलङ्कार-वासांसि कृष्णः अदात् तस्य च स्त्रियः॥ 12
कृष्णस्य एवम् विहरतः गति-आलाप-इक्षित-स्मितैः।
नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः॥ 13
ऊचुः मुकुन्द-एक-धियः अगिरः उन्मत्तवत् जडम्।
चिन्तयन्त्यः अरविन्द-आक्षं तानि मे गदतः शृणु॥ 14
महिष्यः ऊचुः
कुररि विलपसि त्वं वीत-निद्रा न शेषे
स्वपिति जगति रात्र्याम् ईश्वरः गुप्त-बोधः।
वयम् इव सखि कचित् गाढ-निर्भिन्न-चेताः
नलिन-नयन-हास-उदार-लील-ईक्षितेन॥ 15
नेत्रे निमीलयसि नक्तम् अदृष्ट-बन्धुः
त्वं रोरवीषि करुणं बत चक्रवाकि।
दास्यं गताः वयम् इव अच्युत-पाद-जुष्टाम्
किं वा स्रजं स्पृहयसे कबरेण वोढुम्॥ 16
भोः भोः सदा निष्टनसे उदन्-वन्
न लब्ध-निद्रः अधिगत-प्रजागरः।
किं वा मुकुन्द-अपहृत-आत्म-लाञ्छनः
प्राप्तां दशां त्वं च गतः दुरत्ययाम्॥ 17
त्वं यक्ष्मणा बलवता असि गृहीतः
इन्दो क्षीण-तमः न निज-दीधितिभिः क्षिणोषि।
कचित् मुकुन्द-गदितानि यथा वयम् त्वं
विस्मृत्य भोः स्थगित-गिरी उपलक्ष्यसे नः॥ 18
किं तु आचरितम् अस्माभिः मलय-अनिल ते अप्रियम्।
गोविन्द-आपाङ्ग-निर्भिन्ने हृदि ईरयसि नः स्मरम्॥ 19
मेघ-श्रीमन् त्वम् असि दयितः यादव-इन्द्रस्य नूनम्
श्रीवत्स-अङ्कं वयम् इव भवान् ध्यायति प्रेम-बद्धः।
अत्युत्कण्ठः शबल-हृदयः अस्मद्-विधः बाष्प-धाराः
स्मृत्वा स्मृत्वा विसृजसि मुहुः दुःखदः तत्-प्रसङ्गः॥ 20
प्रिय-राव-पदानि भाषसे मृत-सञ्जीविकया अनया गिरा।
करवाणि किम् अद्य ते प्रियं वद मे वल्गित-कण्ठ कोकिल॥ 21
न चलसि न वदसि उदार-बुद्धे
क्षितिधर चिन्तयसे महान्तम् अर्थम्।
अपि बत वसुदेव-नन्दन-अङ्घ्रिम्
वयम् इव कामयसे स्तनैः विधर्तुम्॥ 22
शुष्यत्-ह्रदाः कर-शिता बत सिन्धु-पत्न्यः
सम्प्रति-अपास्त-कमल-श्रियः इष्ट-भर्तुः।
यत्-वत् वयम् मधुपतेः प्रणय-अवलोकम्
अप्राप्य मुष्ट-हृदयाः पुरु-कर्शिताः स्म॥ 23
हंस स्वागतम् आस्यताम् पिब पयः
ब्रूहि अङ्ग शौरेः कथां दूतम् त्वाम् नु विदाम।
कचित् अजितः स्वस्ति-आस्तु उक्तं पुरा
किं वा नः चल-सौहृदः स्मरति तम्
कस्मात् भजामः वयम् क्षौद्र-अलापय कामदम्
श्रियम् ऋते सा एव एक-निष्ठा स्त्रियाम्॥ 24
इति ईदृशेन भावेन कृष्णे योग-ईश्वर-ईश्वरे।
क्रियमाणेन माधव्यः लेभिरे परमां गतिम्॥ 25
श्रुत-मात्रः अपि यः स्त्रीणाम् प्रसह्य आर्षते मनः।
उरु-गाय-उरु-गीतः वा पश्यन्तीनाम् कुतः पुनः॥ 26
याः सम्पर्यचरन् प्रेम्णा पाद-संवाहन-आदिभिः।
जगत्-गुरुम् भर्तृ-बुद्ध्या तासाम् किम् वर्ण्यते तपः॥ 27
एवम् वेद-उदितं धर्मम् अनुतिष्ठन् सताम् गतिः।
गृहम् धर्म-अर्थ-कामानाम् मुहुः च आदर्शयत् पदम्॥ 28
आस्थितस्य परम् धर्मम् कृष्णस्य गृह-मेधिनाम्।
आसन् षोडश-साहस्रं महिष्यः च शत-अधिकम्॥ 29
तासाम् स्त्री-रत्न-भूतानाम् अष्टौ याः प्राक् उदाहृताः।
रुक्मिणी-प्रमुखाः राजन् तत्-पुत्राः च अनु-पूर्वशः॥ 30
एकैकस्याम् दश दश कृष्णः अजीजनत् आत्मजान्।
यावती आत्मनः भार्याः अमोघ-गतिः ईश्वरः॥ 31
तेषाम् उद्दाम-वीर्याणाम् अष्टादश महारथाः।
आसन् उदार-यशसः तेषाम् नामानि मे शृणु॥ 32
प्रद्युम्नः च अनिरुद्धः च दीप्तिमान् भानुः एव च।
साम्बः मधुः बृहद्भानुः चित्रभानुः वृकः अरुणः॥ 33
पुष्करः वेदबाहुः च श्रुतदेवः सुनन्दनः।
चित्रबाहुः विरूपः च कविः न्यग्रोधः एव च॥ 34
एतेषाम् अपि राजेन्द्र तनुजानाम् मधु-द्विषः।
प्रद्युम्नः आसीत् प्रथमः पितृवत् रुक्मिणी-सुतः॥ 35
सः रुक्मिणः दुहितरम् उपयेमे महारथः।
तस्मात् सुतः अनिरुद्धः अभूत् नाग-अयुत-बल-अन्वितः॥ 36
सः च अपि रुक्मिणः पौत्रीम् दौहित्रः जगृहे ततः।
वज्रः तस्य अभवत् यः तु मौषलात् अवशेषितः॥ 37
प्रतिबाहुः अभूत् तस्मात् सुबाहुः तस्य च आत्मजः।
सुबाहोः शान्तसेनः अभूत् शतसेनः तु तत्-सुतः॥ 38
न हि एतस्मिन् कुले जाताः अधनाः अबहु-प्रजाः।
अल्प-आयुषः अल्प-वीर्याः च अब्रह्मण्याः च जज्ञिरे॥ 39
यदु-वंश-प्रसूतानाम् पुंसाम् विख्यात-कर्मणाम्।
सङ्ख्या न शक्यते कर्तुम् अपि वर्ष-अयुतैः नृप॥ 40
तिस्रः कोट्यः सहस्राणाम् अष्ट-अशीति-शतानि च।
आसन् यदु-कुल-आचार्याः कुमाराणाम् इति श्रुतम्॥ 41
सङ्ख्यानम् यादवानाम् कः करिष्यति महात्मनाम्।
यत्र आयुतानाम् अयुत-लक्षेण आस्ते सः आहुकः॥ 42
देव-असुर-आवहता दैतेयाः ये सुदारुणाः।
ते च उत्पन्नाः मनुष्येषु प्रजाः दृप्ताः बबाधिरे॥ 43
तत्-निग्रहाय हरिणा प्रोक्ता देवाः यदुः कुले।
अवतीर्णाः कुल-शतम् तेषाम् एक-अधिकम् नृप॥ 44
तेषाम् प्रमाणम् भगवान् प्रभुत्वेन अभवत् हरिः।
ये च अनुवर्तिनः तस्य ववृधुः सर्व-यादवाः॥ 45
शय्या-आसन-अटन-आलाप-क्रीडा-स्नान-आदि-कर्मसु।
न विदुः सन्तम् आत्मानम् वृष्णयः कृष्ण-चेतसः॥ 46
तीर्थम् चक्रे नृप उन्नम् यत् अजनि यदुषु
स्वः-सरित्-पाद-शौचम् विद्वित्-स्निग्धाः स्वरूपम् ययुः।
अजित-पराः श्रीः यत्-अर्थे अन्य-यत्नः।
यत्-नाम अ-मङ्गल-घ्नम् श्रुतम् अथ गदितम्
यत्-कृतः गोत्र-धर्मः कृष्णस्य एतत् न चित्रम्
क्षिति-भर-हरणम् काल-चक्र-आयुधस्य॥ 47
जयति जन-निवासः देवकी-जन्म-वादः
यदु-वर-परिषद्-स्वैः दोर्भिः अस्यन् अधर्मम्।
स्थिर-चर-वृजिन-घ्नः सुस्मित-श्री-मुखेन
व्रज-पुर-वनितानाम् वर्धयन् काम-देवम्॥ 48
इत्थम् परस्य निज-वर्त्म-रिरक्षया आत्त-लीला-तनोः
तत्-अनुरूप-विडम्बनानि।
कर्माणि कर्म-कषणानि यदूत्तमस्य
श्रूयात् अमुष्य पदयोः अनुवृत्तिम् इच्छन्॥ 49
मर्त्यः तया अनु-सव-मेधितया मुकुन्द-
श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तया एति।
तत्-धाम दुस्तर-कृतान्त-जव-अपवर्गम्
ग्रामात् वनम् क्षिति-भुजः अपि ययुः यत्-अर्थाः॥ 50
इति श्रीमद्भागवते महा-पुराणे पारमहंस्यां संहितायाम्
दशम-स्कन्धे उत्तर-अर्धे श्री-कृष्ण-चरित-अनुवर्णनं नाम
नवतितमः अध्यायः॥ 90
No comments:
Post a Comment