Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 14 - ஸ்ரீகிருஷ்ண பரமாத்மா மறைகிறார் - ஸ்ரீமத் பாகவதம்

ஸ்ரீகிருஷ்ண பரமாத்மா மறைகிறார்

ஸ்கந்தம் 1: அத்யாயம் 14

सूत उवाच

सम्प्रस्थिते द्वारकायां जिष्णौ बन्धु दिद‍ृक्षया ।

ज्ञातुं च पुण्य श्लोकस्य कृष्णस्य च विचेष्टितम् ॥ 


व्यतीता: कतिचित् मासा: तदा न आयात् ततो अर्जुन: ।

ददर्श घोर रूपाणि निमित्तानि कुरू-द्वह: ॥ 


कालस्य च गतिं रौद्रां विपर्यस्त ऋतु धर्मिण: ।

पापीयसीं नृणां वार्तां क्रोध लोभ अनृत आत्मनाम् ॥


जिह्म-प्रायं व्यवहृतं शाठ्य मिश्रं च सौहृदम् ।

पितृ मातृ सुहृद् भ्रातृ दम्पतीनां च कल्कनम् ॥


निमित्तानि अति अरिष्टानि काले तु अनुगते नृणाम् ।

लोभ आदि अधर्म प्रकृतिं द‍ृष्ट्वा उवाच अनुजं नृप: ॥


युधिष्ठिर उवाच

सम्प्रेषित: द्वारकायां जिष्णु: बन्धु दिद‍ृक्षया ।

ज्ञातुं च पुण्य-श्लोकस्य कृष्णस्य च विचेष्टितम् ॥


गता: सप्त अधुना मासा भीमसेन तव अनुज: ।

न आयाति कस्य वा हेतो: न: अहं वेद इदम् अञ्जसा ॥


अपि देवर्षिणा आदिष्ट: स कालो अयम् उपस्थित: ।

यदा आत्मनो अङ्गम् आक्रीडं भगवान् उत्सिसृक्षति ॥


यस्मात् न: सम्पदो राज्यं दारा: प्राणा: कुलं प्रजा: ।

आसन् सपत्न विजयो लोका: च यद् अनुग्रहात् ॥


पश्य उत्पातान् नर-व्याघ्र दिव्यान् भौमान् स-दैहिकान् ।

दारुणान् शंसतो अदूराद् भयं नो बुद्धि मोहनम् ॥


ऊरु अक्षि बाहवो मह्यं स्फुरन्ति अङ्ग पुन: पुन: ।

वेपथु: च अपि हृदये आराद् दास्यन्ति विप्रियम् ॥


शिवैषा उद्यन्तम् आदित्यम् अभि रौति अनल आनना ।

माम् अङ्ग सारमेयो अयम् अभिरेभति अभीरु-वत् ॥


शस्ता: कुर्वन्ति मां सव्यं दक्षिणं पशव अपरे ।

वाहां: च पुरुष-व्याघ्र लक्षये रुदतो मम ॥ 


मृत्यु दूत: कपोत अयम् उलूक: कम्पयन् मन: ।

प्रत्युलूक: च कुह्वानै: विश्वं वै शून्यम् इच्छत: ॥


धूम्रा दिश: परिधय: कम्पते भू: सह-अद्रिभि: ।

निर्घात: च महां तात साकं च स्तनयित्नुभि: ॥


वायु: वाति खर-स्पर्शो रजसा विसृजं तम: ।

असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वत: ॥


सूर्यं हत-प्रभं पश्य ग्रह-मर्दं मिथो दिवि ।

स-सङ्कुलै: भूत-गणै ज्वलिते इव रोदसी ॥


नद्यो नदा: च क्षुभिता: सरांसि च मनांसि च ।

न ज्वलति अग्नि: आज्येन काल: अयं किं विधास्यति ॥


न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातर: ।

रुदन्ति अश्रु मुखा गावो न हृष्यन्ति ऋषभा व्रजे ॥


दैवतानि रुदन्ति इव स्विद्यन्ति हि उच्चलन्ति च ।

इमे जनपदा ग्रामा: पुर उद्यान आकर आश्रमा: ।

भ्रष्ट श्रियो निरानन्दा: किम् अघं दर्शयन्ति न: ॥ 


मन्य एतै: महा उत्पातै: नूनं भगवत: पदै: ।

अनन्य पुरुष श्रीभि: हीना भू: हत सौभगा ॥ 


इति चिन्तयत: तस्य द‍ृष्टा अरिष्टेन चेतसा ।

राज्ञ: प्रति आगमद् ब्रह्मन् यदु-पुर्या: कपिध्वज: ॥


तं पादयो निपतितम् अयथा पूर्वम् आतुरम् ।

अधो वदनम् अब् बिन्दून् सृजन्तं नयन अब्जयो: ॥


विलोक्य उद्विग्न हृदयो विच्छायम् अनुजं नृप: ।

पृच्छति स्म सुहृन्मध्ये संस्मरन् नारद ईरितम् ॥


युधिष्ठिर उवाच

कच्चिद् आनर्त पुर्यां न: स्व-जना: सुखम् आसते ।

मधु भोज दशार्ह अर्ह सात्वत अन्धक वृष्णय: ॥


शूरो मातामह: कच्चित् स्वस्ति आस्ते वा अथ मारिष: ।

मातुल: स-अनुज: कच्चित् कुशलि आनक दुन्दुभि: ॥


सप्त स्व-सार: तत्पत्न्यो मातुलान्य: सह आत्मजा: ।

आसते सस्‍नुषा: क्षेमं देवकी प्रमुखा: स्वयम् ॥


कच्चिद् राज आहुको जीवति असत्पुत्र: अस्य च अनुज: ।

हृदीक: स-सुत: अक्रूरो जयन्त गद सारणा: ॥


आसते कुशलं कच्चिद्ये च शत्रुजिद् आदय: ।

कच्चिद् आस्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥


प्रद्युम्न: सर्व वृष्णीनां सुखम् आस्ते महारथ: ।

गम्भीर रय: अनिरुद्धो वर्धते भगवानुत ॥


सुषेण: चारुदेष्ण: च साम्बो जाम्बवती सुत: ।

अन्ये च कार्ष्णि प्रवरा: स-पुत्रा ऋषभ आदय: ॥


तथैव अनुचरा: शौरे: श्रुतदेव उद्धव आदय: ।

सुनन्द नन्द शीर्षण्या ये च: अन्ये सात्वत ऋषभा: ॥


अपि स्वस्ति आसते सर्वे राम-कृष्ण भुज आश्रया: ।

अपि स्मरन्ति कुशलम् अस्माकं बद्ध सौहृदा: ॥


भगवानपि गोविन्दो ब्रह्मण्यो भक्त-वत्सल: ।

कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद्‍ वृत: ॥ 


मङ्गलाय च लोकानां क्षेमाय च भवाय च ।

आस्ते यदु कुल अम्भोधौ आद्य अनन्त सख: पुमान् ॥


यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिता: ।

क्रीडन्ति परमानन्दं महा पौरुषिका इव ॥


यत्पाद शुश्रूषण मुख्य कर्मणा सत्य-आदय द्वि अष्ट सहस्र योषित: ।

निर्जित्य सङ्ख्ये त्रि-दशां तद् आशिष: हरन्ति वज्र-आयुध वल्लभा उचिता: ॥


यद् बाहु-दण्ड अभ्युदय अनुजीविन यदु प्रवीरा हि अकुतोभया मुहु: ।

अधिक्रमन्ति अङ्‌घ्रिभि: आहृतां बलात् सभां सुधर्मां सुर सत्तम उचिताम् ॥


कच्चित्ते अनामयं तात भ्रष्ट तेजा विभासि मे ।

अलब्ध मान: अवज्ञात: किं वा तात चिरोषित: ॥


कच्चित् न अभिहत: अभावै: शब्द आदिभि: अमङ्गलै: ।

न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम् ॥


कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।

शरण-उपसृतं सत्त्वं न अत्याक्षी: शरण प्रद: ॥


कच्चित् त्वं न अगम: अगम्यां गम्यां वा असत्कृतां स्त्रियम् ।

पराजितो वाथ भवान् न उत्तमै: न असमै: पथि ॥


अपि स्वित् पर्य भुङ्‍क्‍था: त्वं सम्भोज्यान् वृद्ध बालकान् ।

जुगुप्सितं कर्म किञ्चित् कृतवान् न यद् अक्षमम् ॥


कच्चित् प्रेष्ठ तमेन अथ हृदयेन आत्म बन्धुना ।

शून्य: अस्मि रहितो नित्यं मन्यसे ते अन्यथा न रुक् ॥

ஸ்கந்தம் 1: அத்யாயம் 13 - த்ருதராஷ்டிரர் மாளிகையை விட்டு வெளியேறினார் - ஸ்ரீமத் பாகவதம்

த்ருதராஷ்டிரர் மாளிகையை விட்டு வெளியேறினார்

ஸ்கந்தம் 1: அத்யாயம் 13

सूत उवाच

विदुर: तीर्थ यात्रायां मैत्रेया: आत्मनो गतिम् ।

ज्ञात्व  आगाद् हास्तिनपुरं तया अवाप्त विवित्सित: ॥


यावत: कृतवान् प्रश्नान् क्षत्ता कौषारव अग्रत: ।

जातैक भक्ति: गोविन्दे तेभ्य: च उपरराम ह ॥ 


तं बन्धुम् आगतं द‍ृष्ट्वा धर्मपुत्र: सह अनुज: ।

धृतराष्ट्रो युयुत्सु: च सूत: शारद्वत: पृथा ॥


गान्धारी द्रौपदी ब्रह्मन् सुभद्रा च उत्तरा कृपी ।

अन्या: च जामय: पाण्डो: ज्ञातय: स-सुता: स्त्रिय: ॥ 


प्रति उज्जग्मु: प्रहर्षेण प्राणं तन्व इव आगतम् ।

अभिसङ्गम्य विधि वत् परिष्वङ्ग अभिवादनै: ॥


मुमुचु: प्रेम बाष्प औघं विरह औत्कण्ठ्य कातरा: ।

राजा तम् अर्हयाम् चक्रे कृत आसन परिग्रहम् ॥ 


तं भुक्तवन्तं विश्रान्तम् आसीनं सुखम् आसने ।

प्रश्रय अवनतो राजा प्राह तेषां च श‍ृण्वताम् ॥


युधिष्ठिर उवाच

अपि स्मरथ नो युष्मत् पक्ष छाया समेधितान् ।

विपद् गणाद् विष अग्‍नि-आदे: मोचिता यत् स मातृका: ॥


कया वृत्त्या वर्तितं व: चरद्भ‍ि: क्षिति मण्डलम् ।

तीर्थानि क्षेत्र मुख्यानि सेवितानि इह भूतले ॥ 


भवद् विधा भागवता: तीर्थ भूता: स्वयं विभो ।

तीर्थी कुर्वन्ति तीर्थानि स्व अन्त: स्थेन गदा भृता ॥ 


अपि न: सुहृद: तात बान्धवा: कृष्ण देवता: ।

द‍ृष्टा: श्रुता वा यदव: स्व-पुर्यां सुखम् आसते ॥


इति उक्तो धर्म राजेन सर्वं तत् समवर्णयत् ।

यथा अनुभूतं क्रमशो विना यदु-कुल-क्षयम् ॥


ननु अप्रियं दुर्विषहं नृणां स्वयम् उपस्थितम् ।

न आवेदयत् सकरुणो दु:खितान् द्रष्टुम् अक्षम: ॥


कञ्चित् कालम् अथ अवात्सीत् सत्कृतो देव-वत् सुखम् ।

भ्रातु: ज्येष्ठस्य श्रेय:-कृत् सर्वेषां सुखम् आवहन् ॥


अबिभ्रद् अर्यमा दण्डं यथावद् अघ कारिषु ।

यावद् दधार शूद्रत्वं शापाद् वर्ष-शतं यम: ॥


युधिष्ठिरो लब्ध राज्यो द‍ृष्ट्वा पौत्रं कुलम् धरम् ।

भ्रातृभि: लोक-पालाभै: मुमुदे परया श्रिया ॥


एवं गृहेषु सक्तानां प्रमत्तानां तद् ईहया ।

अत्यक्रामद् अविज्ञात: काल: परम दुस्तर: ॥


विदुर तद् अभिप्रेत्य धृतराष्ट्रम् अभाषत ।

राजन् निर्गम्यतां शीघ्रं पश्येदं भयम् आगतम् ॥


प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो ।

स एष भगवान् काल: सर्वेषां न: समागत: ॥


येन चैव अभिपन्न: अयं प्राणै: प्रिय तमै: अपि ।

जन: सद्यो वियुज्येत किम् उत अन्यै: धन आदिभि: ॥


पितृ भ्रातृ सुहृत् पुत्रा हता: ते विगतं वयम् ।

आत्मा च जरया ग्रस्त: पर-गेहम् उपाससे ॥


अन्ध: पुरैव वधिरो मन्द प्रज्ञा: च साम्प्रतम् ।

विशीर्ण दन्तो मन्दाग्नि: स-राग: कफम् उद्वहन् ॥


अहो महीयसी जन्तो: जीवित आशा यथा भवान् ।

भीम अपवर्जितं पिण्डम् आदत्ते गृह पाल-वत् ॥ 


अग्नि: निसृष्टो दत्त: च गरो दारा: च दूषिता: ।

हृतं क्षेत्रं धनं येषां तद् दत्तै: असुभि: कियत् ॥


तस्यापि तव देह अयं कृपणस्य जिजीविषो: ।

परैति अनिच्छतो जीर्णो जरया वाससी इव ॥


गत स्व अर्थम् इमं देहं विरक्तो मुक्त बन्धन: ।

अविज्ञात गति: जह्यात् स वै धीर उदाहृत: ॥


य: स्वकात् परतो वा इह जात निर्वेद आत्मवान् ।

हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तम: ॥


अथ: उदीचीं दिशं यातु स्वै: अज्ञात गति: भवान् ।

इत: अर्वाक् प्रायश: काल: पुंसां गुण विकर्षण: ॥


एवं राजा विदुरेण अनुजेन प्रज्ञा चक्षु: बोधित आजमीढ: ।

छित्त्वा स्वेषु स्‍नेह-पाशान् द्रढिम्न: निश्चक्राम भ्रातृ सन्दर्शित अध्वा ॥


पतिं प्रयान्तं सुबलस्य पुत्री पति-व्रता च अनुजगाम साध्वी ।

हिमालयं न्यस्त दण्ड प्रहर्षं मनस्विनाम् इव सत् सम्प्रहार: ॥


अजात-शत्रु: कृत मैत्रो हुत-अग्नि विप्रान् नत्वा तिल गो भूमि रुक्‍मै: ।

गृहं प्रविष्टो गुरु-वन्दनाय न च अपश्यत् पितरौ सौबलीं च ॥


तत्र सञ्जयम् आसीनं पप्रच्छ: उद्विग्न मानस: ।

गावल्गणे क्‍व न: तातो वृद्धो हीन: च नेत्रयो: ॥


अम्बा च हत-पुत्रा अर्ता पितृव्य: क्‍व गत: सुहृत् ।

अपि मयि अकृत-प्रज्ञे हत-बन्धु: स भार्यया ।

आशंसमान: शमलं गङ्गायां दु:खित अपतत् ॥


पितरि उपरते पाण्डौ सर्वान् न: सुहृद: शिशून् ।

अरक्षतां व्यसनत: पितृव्यौ क्‍व गतौ इत: ॥


सूत उवाच

कृपया स्नेडह-वैक्लव्यात् सूतो विरह कर्शित: ।

आत्म ईश्वरम् अचक्षाणो न प्रत्याह अति-पीडित: ॥


विमृज्य अश्रूणि पाणिभ्यां विष्टभ्य आत्मानम् आत्मना ।

अजात-शत्रुं प्रत्यूचे प्रभो: पादौ अनुस्मरन् ॥


सञ्जय उवाच

नाहं वेद व्यवसितं पित्रो: व: कुल-नन्दन ।

गान्धार्या वा महा-बाहो मुषित: अस्मि महा आत्मभि: ॥


अथ आजगाम भगवान् नारद: सह तुम्बुरु: ।

प्रत्युत्थाय अभिवाद्य अह स-अनुज: अभ्यर्चयन् मुनिम् ॥


युधिष्ठिर उवाच

नाहं वेद गतिं पित्रो भगवन् क्‍व गतौ इत: ।

अम्बा वा हत-पुत्रा आर्ता क्‍व गता च तपस्विनी ॥


कर्ण-धार इव अपारे भगवान् पार दर्शक: ।

अथ आबभाषे भगवान् नारदो मुनि-सत्तम: ॥


नारद उवाच

मा कञ्चन शुचो राजन् यद् ईश्वर-वशं जगत् ।

लोका: स-पाला यस्येमे वहन्ति बलिम् ईशितु: ।

स संयुनक्ति भूतानि स एव वियुनक्ति च ॥


यथा गावो नसि प्रोता: तन्त्यां बद्धा: च दामभि: ।

वाक्-तन्त्यां नामभि: बद्धा वहन्ति बलिम् ईशितु: ॥


यथा क्रीड उपस्कराणां संयोग विगमौ इह ।

इच्छया क्रीडितु: स्यातां तथैवेश इच्छया नृणाम् ॥


यन्मन्यसे ध्रुवं लोकम् अध्रुवं वा न च उभयम् ।

सर्वथा न हि शोच्या: ते स्‍नेहाद् अन्यत्र मोह-जात् ॥


तस्माद् जहि अङ्ग वैक्लव्यम् अज्ञान कृतम् आत्मन: ।

कथं तु अनाथा: कृपणा वर्तेरं ते च मां विना ॥


काल कर्म गुण अधीनो देहोऽयं पाञ्च भौतिक: ।

कथम् अन्यांस्तु गोपायेत् सर्प-ग्रस्तो यथा परम् ॥ 


अहस्तानि स-हस्तानाम् अपदानि चतु: पदाम् ।

फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥


तद् इदं भगवान् राजन् एक आत्म आत्मनां स्व-द‍ृक् ।

अन्तर: अनन्तरो भाति पश्य तं मायया उरुधा ॥


स: अयम् अद्य महाराज भगवान् भूत-भावन: ।

काल-रूप: अवतीर्ण: अस्याम् अभावाय सुर-द्विषाम् ॥


निष्पादितं देव-कृत्यम् अवशेषं प्रतीक्षते ।

तावद् यूयम् अवेक्षध्वं भवेद् यावद् इह ईश्वर: ॥


धृतराष्ट्र: सह भ्रात्रा गान्धार्या च स्व-भार्यया ।

दक्षिणेन हिमवत ऋषीणाम् आश्रमं गत: ॥


स्रोतोभि: सप्तभि: या वै स्वर्धुनी सप्तधा व्यधात् ।

सप्तानां प्रीतये नाना सप्त-स्रोत: प्रचक्षते ॥


स्‍नात्वा अनुसवनं तस्मिन् हुत्वा च अग्नी यथा विधि ।

अब्भक्ष उपशान्त आत्मा स आस्ते विगतैषण: ॥


जित-आसनो जित-श्वास: प्रत्याहृत षड् इन्द्रिय: ।

हरि भावनया ध्वस्त रज:सत्त्व तम: मल: ॥


विज्ञान आत्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।

ब्रह्मणि आत्मानम् आधारे घट-अम्बरम् इव अम्बरे ॥


ध्वस्त माया-गुण: उदर्को निरुद्ध करण आशय: ।

निवर्तित अखिल आहार आस्ते स्थाणु: इव अचल: ।

तस्य अन्तरायो मा एव अभू: सन्न्यस्त अखिल कर्मण: ॥ 


स वा अद्य तनाद् राजन् परत: पञ्चमे अहनि ।

कलेवरं हास्यति स्वं तच्च भस्मी भविष्यति ॥


दह्यमाने अग्निभि: देहे पत्यु: पत्नी सह-उटजे ।

बहि: स्थिता पतिं साध्वी तम् अग्निम् अनु वेक्ष्यति ॥


विदुर: तु तद् आश्चर्यं निशाम्य कुरु-नन्दन ।

हर्ष शोक युत: तस्माद् गन्ता तीर्थ निषेवक: ॥


इति उक्त्वा अथ आरुहत् स्वर्गं नारद: सह-तुम्बुरु: ।

युधिष्ठिरो वच: तस्य हृदि कृत्वा अजहात् छुच: ॥