Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 17 -கலி புருஷனுக்கு கொடுத்த தண்டனையும், இடமும் - ஸ்ரீமத் பாகவதம்

 கலி புருஷனுக்கு கொடுத்த தண்டனையும், இடமும்

ஸ்கந்தம் 1: அத்யாயம் 17

सूत उवाच

तत्र गो-मिथुनं राजा हन्यमानम् अनाथ-वत् ।

दण्ड-हस्तं च वृषलं दद‍ृशे नृप-लाञ्छनम् ॥


वृषं मृणाल धवलं मेहन्तम् इव बिभ्यतम् ।

वेपमानं पदा एकेन सीदन्तं शूद्र ताडितम् ॥


गां च धर्म-दुघां दीनां भृशं शूद्र पद-आहताम् ।

विवत्साम् आश्रु-वदनां क्षामां यवसम् इच्छतीम् ॥


पप्रच्छ रथम् आरूढ: कार्तस्वर परिच्छदम् ।

मेघ गम्भीरया वाचा समारोपित कार्मुक: ॥


क: त्वं मत् छरणे लोके बलाद् हंसि  अबलान् बली ।

नर-देव: असि वेशेण नट-वत् कर्मणा अद्विज: ॥


य: त्वं कृष्णे गते दूरं सह गाण्डीव धन्वना ।

शोच्य: असि अशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥


त्वं वा मृणाल-धवल: पादै: न्यून: पदा चरन् ।

वृष रूपेण किं कश्चिद् देवो न: परिखेदयन् ॥


न जातु कौरव इन्द्राणां दोर्दण्ड परिरम्भिते ।

भूतले अनुपतन्ति अस्मिन् विना ते प्राणिनां शुच: ॥


मा सौरभेय अत्र शुचो व्येतु ते वृषलाद् भयम् ।

मा रोदी: अम्ब भद्रं ते खलानां मयि शास्तरि ॥


यस्य राष्ट्रे प्रजा: सर्वा: त्रस्यन्ते साध्वि असाधुभि: ।

तस्य मत्तस्य नश्यन्ति कीर्ति: आयु: भगो गति: ॥


एष राज्ञां परो धर्म: हि आर्तानाम् आर्ति निग्रह: ।

अत एनं वधिष्यामि भूत-द्रुहम् असत्तमम् ॥


क: अवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद ।

मा भूवन्  त्वाद‍ृशा राष्ट्रे राज्ञां कृष्ण अनुवर्तिनाम् ॥


आख्याहि वृष भद्रं व: साधूनाम् अकृत आगसाम् ।

आत्म वैरूप्य कर्तारं पार्थानां कीर्ति दूषणम् ॥


जने अनागसि अघं युञ्जन् सर्वत: अस्य च मद्-भयम् ।

साधूनां भद्रम् एव स्याद् असाधु दमने कृते ॥


अनाग:सु इह भूतेषु य आग: कृत् निरङ्कुश: ।

आहर्ता अस्मि भुजं साक्षाद् अमर्त्यस्य अपि स-अङ्गदम् ॥


राज्ञो हि परमो धर्म: स्वधर्म-स्थ अनुपालनम् ।

शासत: अन्यान् यथा शास्त्रम् अनापदि उत्पथान् इह ॥


धर्म उवाच

एतद् व: पाण्डवेयानां युक्तम् आर्त अभयं वच: ।

येषां गुण-गणै: कृष्णो दौत्य अदौ भगवान् कृत: ॥


न वयं क्लेश बीजानि यत: स्यु: पुरुषर्षभ ।

पुरुषं तं विजानीमो वाक्य-भेद विमोहिता: ॥


केचिद् विकल्प-वसना आहु: आत्मानम् आत्मन: ।

दैवम् अन्ये अपरे कर्म स्वभावम् अपरे प्रभुम् ॥


अप्रतर्क्याद् अनिर्देश्याद् इति केषु अपि निश्चय: ।

अत्र अनुरूपं राजर्षे विमृश स्व-मनीषया ॥


सूत उवाच

एवं धर्मे प्रवदति स सम्राड् द्विज सत्तमा: ।

समाहितेन मनसा विखेद: पर्यचष्ट तम् ॥


राजोवाच

धर्मं ब्रवीषि धर्मज्ञ धर्म: असि वृष रूप धृक् ।

यद् अधर्म-कृत: स्थानं सूचकस्य अपि तद् भवेत् ॥


अथवा देव मायाया नूनं गति: अगोचरा ।

चेतसो वचस: च अपि भूतानाम् इति निश्चय: ॥


तप: शौचं दया सत्यम् इति पादा: कृते कृता: ।

अधर्म अंशै: त्रयो भग्ना: स्मय सङ्ग मदै: तव ॥


इदानीं धर्म पाद: ते सत्यं निर्वर्तयेद् यत: ।

तं जिघृक्षति अधर्म अयम् अनृतेन एधित: कलि: ॥


इयं च भूमि: भगवता न्यासित उरु भरा सती ।

श्रीमद्भ‍ि: तत् पद-न्यासै: सर्वत: कृत कौतुका ॥


शोचति अश्रु-कला साध्वी दुर्भगा इव उज्झिता सती ।

अब्रह्मण्या नृप-व्याजा: शूद्रा भोक्ष्यन्ति माम् इति ॥


इति धर्मं महीं च एव सान्‍त्वयित्वा महारथ: ।

निशातम् आददे खड्गं कलये अधर्म हेतवे ॥


तं जिघांसुम् अभिप्रेत्य विहाय नृप लाञ्छनम् ।

तत् पादमूलं शिरसा समगाद् भय विह्वल: ॥


पतितं पादयो: वीर: कृपया दीन-वत्सल: ।

शरण्यो न अवधीत् श्लोक्य आह चेदं हसन् इव ॥


राजोवाच

न ते गुडाकेश यश:-धराणां बद्ध-अञ्जले: वै भयम् अस्ति किञ्चित् ।

न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्म-बन्धु: ॥


त्वां वर्तमानं नर-देव देहेषु अनुप्रवृत्त: अयम् अधर्म पूग: ।

लोभ: अनृतं चौर्यम् अनार्यम् अंहो ज्येष्ठा च माया कलह: च दम्भ: ॥


न वर्तितव्यं तद् अधर्म बन्धो धर्मेण सत्येन च वर्तितव्ये ।

ब्रह्म आवर्ते यत्र यजन्ति यज्ञै- र्यज्ञेश्वरं यज्ञ वितान विज्ञा: ॥


यस्मिन् हरि: भगवान्  इज्यमान इज्य आत्म मूर्ति: यजतां शं तनोति ।

कामान् अमोघान् स्थिर जङ्गमानाम् अन्त: बहि: वायु: इव एष आत्मा ॥


सूत उवाच

परीक्षिता एवम् आदिष्ट: स कलि: जात वेपथु: ।

तम् उद्यत असिम् आह इदं दण्ड-पाणिम् इव उद्यतम् ॥


कलिरुवाच

यत्र क्‍व वा अथ वत्स्यामि सार्व-भौम तव अज्ञया ।

लक्षये तत्र तत्र अपि त्वाम् आत्तेषु शरासनम् ॥


तन्मे धर्म-भृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि ।

यत्र एव नियतो वत्स्य आतिष्ठं ते अनुशासनम् ॥


सूत उवाच

अभ्यर्थित: तदा तस्मै स्थानानि कलये ददौ ।

द्यूतं पानं स्त्रिय: सूना यत्र अधर्म: चतु: विध: ॥


पुन: च याचमानाय जात रूपम् अदात् प्रभु: ।

तत: अनृतं मदं कामं रजो वैरं च पञ्चमम् ॥


अमूनि पञ्च स्थानानि हि अधर्म प्रभव: कलि: ।

औत्तरेयेण दत्तानि न्यवसत् तत् निदेश-कृत् ॥


अथ एतानि न सेवेत बुभूषु: पुरुष: क्‍वचित् ।

विशेषतो धर्म-शीलो राजा लोकपति: गुरु: ॥


वृषस्य नष्टां त्रीन् पादान् तप: शौचं दयाम् इति ।

प्रति-सन्दध आश्वास्य महीं च समवर्धयत् ॥


स एष एतर्हि अध्यास्त आसनं पार्थिव उचितम् ।

पितामहेन उपन्यस्तं राज्ञा अरण्यं विविक्षता ॥


आस्ते अधुना स राजर्षि: कौरव इन्द्र श्रिया उल्लसन् ।

गजाह्वये महाभाग: चक्रवर्ती बृहत् श्रवा:: ॥


इत्थम् भूत अनुभाव: अयम् अभिमन्यु-सुत: नृप: ।

यस्य पालयत: क्षौणीं यूयं सत्राय दीक्षिता: ॥

ஸ்கந்தம் 1: அத்யாயம் 16 - பாண்டவர்கள் வானப்ரஸ்தம் செல்கின்றனர் - ஸ்ரீமத் பாகவதம்

பரீக்ஷித் கலி யுகத்தை சந்தித்தார்

ஸ்கந்தம் 1: அத்யாயம் 16

 सूत उवाच

तत: परीक्षिद् द्विज-वर्य शिक्षया महीं महा-भागवत: शशास ह ।

यथा हि सूत्याम् अभिजात कोविदा: समादिशन् विप्र महद्-गुण: तथा ॥


स उत्तरस्य तनयाम् उपयेम इरावतीम् ।

जनमेजय आदीं: चतुर: तस्याम् उत्पादयत् सुतान् ॥


आजहार अश्वमेधां त्रीन् गङ्गायां भूरि दक्षिणान् ।

शारद्वतं गुरुं कृत्वा देवा यत्र अक्षि गोचरा: ॥


निजग्राह ओजसा वीर: कलिं दिग्विजये क्‍वचित् ।

नृप लिङ्ग धरं शूद्रं घ्नन्तं गो-मिथुनं पदा ॥


शौनक उवाच

कस्य हेतो: निजग्राह कलिं दिग्विजये नृप: ।

नृ-देव चिह्न-धृक्‍  शूद्रक: असौ गां य: पदा अहनत् ।

तत् कथ्यतां महा-भाग यदि कृष्ण कथ आश्रयम् ॥


अथवा अस्य पद-अम्भोज मकरन्द लिहां सताम् ।

किम् अन्यै: असद् आलापै: आयुषो यद् असद्-व्यय: ॥


क्षुद्र आयुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् ।

इह उपहूतो भगवान् मृत्यु: शामित्र कर्मणि ॥


न कश्चित् म्रियते तावद् यावद् आस्त इह अन्तक: ।

एतद् अर्थं हि भगवान् आहूत: परम-ऋषिभि: ।

अहो नृ-लोके पीयेत हरि लीला अमृतं वच: ॥


मन्दस्य मन्द प्रज्ञस्य वयो मन्द आयुष: च वै ।

निद्रया ह्रियते नक्तं दिवा च व्यर्थ कर्मभि: ॥


सूत उवाच

यदा परीक्षित् कुरु-जाङ्गले अवसत् कलिं प्रविष्टं निज चक्रवर्तिते ।

निशम्य वार्ताम् अनति प्रियां तत: शरासनं संयुग शौण्डि: आददे ॥ 


सु-अलङ्‍कृतं श्याम तुरङ्ग योजितं रथं मृगेन्द्र ध्वजम् आश्रित: पुरात् ।

वृतो रथ अश्व द्विपपत्ति युक्तया स्व-सेनया दिग्विजयाय निर्गत: ॥


भद्राश्वं केतुमालं च भारतं च उत्तरान् कुरून् ।

किम्पुरुष आदीनि वर्षाणि विजित्य जगृहे बलिम् ॥


तत्र तत्र उपश‍ृण्वान: स्व-पूर्वेषां महा-आत्मनाम् ।

प्रगीयमाणं च यश: कृष्ण माहात्म्य सूचकम् ॥


आत्मानं च परित्रातम् अश्वत्थाम्न: अस्त्र तेजस: ।

स्‍नेहं च वृष्णि पार्थानां तेषां भक्तिं च केशवे ॥


तेभ्य: परम सन्तुष्ट: प्रीति उज्जृम्भित लोचन: ।

महा धनानि वासांसि ददौ हारान् महामना: ॥


सारथ्य पारषद सेवन सख्य दौत्य वीर-आसन अनुगमन: स्तवन प्रणामान् ।

स्‍निग्धेषु पाण्डुषु जगत् प्रणतिं च विष्णो: भक्तिं करोति नृपति: चरण अरविन्दे ॥


तस्य एवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् ।

न अति-दूरे किल आश्चर्यं यद् आसीत् तद् निबोध मे ॥


धर्म: पदा एकेन चरन् विच्छायाम् उपलभ्य गाम् ।

पृच्छति-स्म अश्रु-वदनां विवत्साम् इव मातरम् ॥


धर्म उवाच

कच्चिद् भद्रे अनामयम् आत्मन: ते विच्छाया असि म्‍लायता ईषत् मुखेन ।

आलक्षये भवतीम् अन्तराधिं दूरे बन्धुं शोचसि कञ्चन अम्ब ॥


पादै: न्यूनं शोचसि माँ एक-पादम् आत्मानं वा वृषलै: भोक्ष्यमाणम् ।

आहो सुर-आदीन् हृत यज्ञ भागान् प्रजा उत स्विद् मघवति अवर्षति ॥


अरक्ष्यमाणा: स्त्रिय उर्वि बालान् शोचसि अथो पुरुष आदै: इव आर्तान् ।

वाचं देवीं ब्रह्मकुले कुकर्मणि ब्रह्मण्ये राजकुले कुल अग्रयान् ॥


किं क्षत्र-बन्धून् कलिना उपसृष्टान् राष्ट्राणि वा तै: अवरोपितानि ।

इत: ततो वा अशन पान वास: स्‍नान व्यवाय उन्मुख जीव-लोकम् ॥


यद्वा अम्ब ते भूरि भर अवतार कृत अवतारस्य हरे: धरित्रि ।

अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाण विलम्बितानि ॥ 


इदं मम आचक्ष्व तव आधिमूलं वसुन्धरे येन विकर्शित असि ।

कालेन वा ते बलिनां बलीयसा सुर अर्चितं किं हृतम् अम्ब सौभगम् ॥


धरणि उवाच

भवान् हि वेद तत्-सर्वं यत् मां धर्म अनुपृच्छसि ।

चतुर्भि: वर्तसे येन पादै: लोक सुख-आवहैः ॥


सत्यं शौचं दया क्षान्ति: त्याग: सन्तोष आर्जवम् ।

शमो दम: तप: साम्यं तितिक्षा उपरति: श्रुतम् ॥


ज्ञानं विरक्ति: ऎश्वर्यं शौर्यं तेजो बलं स्मृति: ।

स्वातन्त्र्यं कौशलं कान्ति: धैर्यं मार्दवम् एव च ॥


प्रागल्भ्यं प्रश्रय: शीलं सह ओजो बलं भग: ।

गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्ति: मान: अनहङ्‍कृति: ॥


एते च अन्ये च भगवन् नित्या यत्र महा-गुणा: ।

प्रार्थ्या महत्त्वम् इच्छद्भ‍ि: न वियन्ति स्म कर्हिचित् ॥


तेन अहं गुण-पात्रेण श्रीनिवासेन साम्प्रतम् ।

शोचामि रहितं लोकं पाप्मना कलिना ईक्षितम् ॥


आत्मानं च अनुशोचामि भवन्तं च अमर उत्तमम् ।

देवान् पितृन् ऋषीन् साधून् सर्वान् वर्णां: तथा आश्रमान् ॥ 


ब्रह्मादयो बहु-तिथं यद् अपाङ्ग मोक्ष कामा: तप: समचरन् भगवत् प्रपन्ना: ।

सा श्री: स्व-वासम् अरविन्द-वनं विहाय यत्-पाद सौभगम् अलं भजते अनुरक्ता ॥


तस्य अहम् अब्ज कुलिश अङ्‍कुश केतु केतै: श्रीमत् पदै: भगवत: समलङ्‍कृत-अङ्गी ।

त्रीन् अति अरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजद् उत्स्मयतीं तद् अन्ते ॥


यो वै मम अति भरम् आसुर-वंश राज्ञाम्-अक्षौहिणी शतम् अपानुदद् आत्म-तन्त्र: ।

त्वां दु:स्थम् ऊन-पदम् आत्मनि पौरुषेण सम्पादयन् यदुषु रम्यम् अबिभ्रद् अङ्गम् ॥ 


का वा सहेत विरहं पुरुष-उत्तमस्य प्रेम-अवलोक रुचिर-स्मित वल्गु-जल्पै: ।

स्थैर्यं समानम् अहरद् मधु मानिनीनां रोम-उत्सव: मम यद् अङ्‌घ्रि विटङ्किताया: ॥


तयो: एवं कथयतो: पृथिवी धर्मयो: तदा ।

परीक्षित् नाम राजर्षि: प्राप्त: प्राचीं सरस्वतीम् ॥