பாண்டவர்கள் வானப்ரஸ்தம் செல்கின்றனர்
ஸ்கந்தம் 1: அத்யாயம் 15
सूत उवाच
एवं कृष्ण-सख: कृष्णो भ्रात्रा राज्ञा विकल्पित: ।
नाना शङ्क आस्पदं रूपं कृष्ण विश्लेष कर्शित: ॥
शोकेन शुष्यद्-वदन हृत्-सरोजो हत-प्रभ: ।
विभुं तम् एव अनुस्मरन् न अशक्नोत् प्रतिभाषितुम् ॥
कृच्छ्रेण संस्तभ्य शुच: पाणिना आमृज्य नेत्रयो: ।
परोक्षेण समुन्नद्ध प्रणय-औत्कण्ठ्य कातर: ॥
सख्यं मैत्रीं सौहृदं च सारथ्य-आदिषु संस्मरन् ।
नृपम् अग्रजम् इत्याह बाष्प गद्गदया गिरा ॥
अर्जुन उवाच
वञ्चित: अहं महाराज हरिणा बन्धु रूपिणा ।
येन मे अपहृतं तेजो देव विस्मापनं महत् ॥
यस्य क्षण वियोगेन लोको हि अप्रिय-दर्शन: ।
उक्थेन रहितो हि एष मृतक: प्रोच्यते यथा ॥
यत् संश्रयाद् द्रुपद गेहम् उपागतानां राज्ञां स्वयंवर-मुखे स्मर-दुर्मदानाम् ।
तेजो हृतं खलु मया अभिहत: च मत्स्य: सज्जी-कृतेन धनुषा अधिगता च कृष्णा ॥
यत् सन्निधौ वहमु खांडवम् अग्नय: अदाम् इन्द्रं च स अमर-गणं तरसा विजित्य ।
लब्धा सभा मय-कृत अद्भुत शिल्प माया दिग्भ्य: अहरन् नृपतयो बलिम् अध्वरे ते ॥
यत् तेजसा नृप-शिर:-अङ्घ्रिम् अहन् मख अर्थम् आर्य: अनुज: तव गज अयुत सत्त्व-वीर्य: ।
तेन आहृता: प्रमथ नाथ मखाय भूपा यन्मोचिता: तद् अनयन् बलिम् अध्वरे ते ॥
पत्न्या: तव अधिमख क्लृप्त महा अभिषेक श्लाघिष्ठ चारु कबरं कितवै: सभायाम् ।
स्पृष्टं विकीर्य पदयो: पतित- अश्रु मुख्या य: तत् स्त्रिय: अकृत हतेश विमुक्त केशा: ॥
यो न: जुगोप वन एत्य दुरन्त कृच्छ्राद् दुर्वासस: अरि रचिताद् अयुत अग्र-भुग् य: ।
शाक अन्न शिष्टम् उपयुज्य यत: त्रि-लोकीं तृप्ताम् अमंस्त सलिले विनिमग्न सङ्घ: ॥
यत् तेजसा अथ भगवान् युधि शूल-पाणि विस्मापित: स-गिरिज: अस्त्रम् अदाद् निजं मे ।
अन्ये अपि च अहम् अमुनैव कलेवरेण प्राप्तो महेन्द्र-भवने महद् आसन अर्धम् ॥
तत्रैव मे विहरतो भुज-दण्ड-युग्मं गाण्डीव लक्षणम् अराति वधाय देवा: ।
सेन्द्रा: श्रिता यद् अनुभावितम् आजमीढ तेन अहम् अद्य मुषित: पुरुषेण भूम्ना ॥
यद् बान्धव: कुरु-बल-अब्धिम् अनन्त-पारम् एको रथेन ततरे अहम् अतीर्य सत्त्वम् ।
प्रत्याहृतं बहु धनं च मया परेषां तेजा: पदं मणिमयं च हृतं शिरोभ्य: ॥
यो भीष्म कर्ण गुरु शल्य चमूषु अदभ्र- राजन्य-वर्य रथ-मण्डल मण्डितासु ।
अग्रेचरो मम विभो रथ-यूथ-पानाम् आयु: मनांसि च दृशा सह ओज आर्च्छत् ॥
यद् दो:षु मा प्रणिहितं गुरु-भीष्म-कर्ण नप्तृ त्रिगर्त शल्य सैन्धव बाह्लिक अद्यै: ।
अस्त्राणि अमोघ महिमानि निरूपितानि न उपस्पृशु: नृहरि-दासम् इव असुराणि ॥
सौत्ये वृत: कुमतिना आत्म-द ईश्वरो मे यत् पाद-पद्मम् अभवाय भजन्ति भव्या: ।
मां श्रान्त वाहम् अरयो रथिनो भुविष्ठं न प्राहरन् यद् अनुभाव निरस्त चित्ता: ॥
नर्माणि उदार रुचिर स्मित शोभितानि हे पार्थ हे अर्जुन सखे कुरु-नन्दन इति ।
सञ्जल्पितानि नर-देव हृदि-स्पृशानि स्मर्तु: लुठन्ति हृदयं मम माधवस्य ॥
शय्य आसन अटन विकत्थन भोजन आदिषु ऐक्याद् वयस्य ऋतवान् इति विप्रलब्ध: ।
सख्यु: सखेव पितृवत् तनयस्य सर्वं सेहे महान् महितया कुमते: अघं मे ॥
स: अहं नृपेन्द्र रहित: पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्य: ।
अध्वनि उरुक्रम परिग्रहम् अङ्ग रक्षन् गोपै: असद्भि: अबला इव विनिर्जित: अस्मि ॥
तद्वै धनु: त इषव: स रथो हया: ते स: अहं रथी नृपतयो यत आनमन्ति ।
सर्वं क्षणेन तद् अभूद् असद् ईश रिक्तं भस्मन्-हुतं कुहक-राद्धम् इव उप्तम् ऊष्याम् ॥
राजं त्वया अनुपृष्टानां सुहृदां न: सुहृत् पुरे ।
विप्र शाप विमूढानां निघ्नतां मुष्टिभि: मिथ: ॥
वारुणीं मदिरां पीत्वा मद उन्मथित चेतसाम् ।
अजानताम् इव अन्योन्यं चतु:पञ्च अवशेषिता: ॥
प्रायेण एतद् भगवत ईश्वरस्य विचेष्टितम् ।
मिथो निघ्नन्ति भूतानि भावयन्ति च यत् मिथ: ॥
जलौकसां जले यद्वत् महान्त: अदन्ति अणीयस: ।
दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथ: ॥
एवं बलिष्ठै: यदुभि: महद्भि: इतरान् विभु: ।
यदून् यदुभि: अन्योन्यं भू-भारान् सञ्जहार ह ॥
देश काल अर्थ युक्तानि हृत् ताप: उपशमानि च ।
हरन्ति स्मरत: चित्तं गोविन्द अभिहितानि मे ॥
सूत उवाच
एवं चिन्तयत: जिष्णो: कृष्ण-पाद सरोरुहम् ।
सौहार्देन अति-गाढेन शान्ता आसीद् विमला मति: ॥
वासुदेव अङ्घ्रि अनुध्यान परिबृंहित रंहसा ।
भक्त्या निर्मथित अशेष कषाय धिषण: अर्जुन: ॥
गीतं भगवता ज्ञानं यत् तत् सङ्ग्राम मूर्धनि ।
काल-कर्म तम: रुद्धं पुन: अध्यगमत् प्रभु: ॥
विशोको ब्रह्म सम्पत्त्या सञ्छिन्न द्वैत संशय: ।
लीन प्रकृति नैर्गुण्याद् अलिङ्गत्वाद् असम्भव: ॥
निशम्य भगवत् मार्गं संस्थां यदु कुलस्य च ।
स्व: पथाय मतिं चक्रे निभृत आत्मा युधिष्ठिर: ॥
पृथा अपि अनुश्रुत्य धनञ्जय उदितं नाशं यदूनां भगवत् गतिं च ताम् ।
एकान्त भक्त्या भगवति अधोक्षजे निवेशित आत्मा उपरराम संसृते: ॥
यया अहरद् भुवो भारं तां तनुं विजहौ अज: ।
कण्टकं कण्टकेन एव द्वयं च अपि ईशितु: समम् ॥
यथा मत्स्य आदि रूपाणि धत्ते जह्याद् यथा नट: ।
भू-भार: क्षपितो येन जहौ तच्च कलेवरम् ॥
यदा मुकुन्दो भगवान् इमां महीं जहौ स्व-तन्वा श्रवणीय सत् कथ: ।
तदा अह एव अप्रति बुद्ध चेतसाम् अभद्र हेतु: कलि: अन्ववर्तत ॥
युधिष्ठिर: तत् परिसर्पणं बुध: पुरे च राष्ट्रे च गृहे तथा आत्मनि ।
विभाव्य लोभ अनृत जिह्म हिंसन-आदि अधर्म-चक्रं गमनाय पर्यधात् ॥
स्व-राट् पौत्रं विनयिनम् आत्मन: सुसमं गुणै: ।
तोय नीव्या: पतिं भूमे अभ्यषिञ्चद् गजाह्वये ॥
मथुरायां तथा वज्रं शूरसेन पतिं तत: ।
प्राजापत्यां निरूप्य इष्टिम् अग्नीन् अपिबद् ईश्वर: ॥
विसृज्य तत्र तत् सर्वं दुकूल वलय आदिकम् ।
निर्ममो निरहङ्कार: सञ्छिन्न अशेष बन्धन: ॥
वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।
मृत्यौ अपानं स-उत्सर्गं तं पञ्चत्वे हि अजोहवीत् ॥
त्रित्वे हुत्वा च पञ्चत्वं तच्च एकत्वे अजुहोत् मुनि: ।
सर्वम् आत्मनि अजुहवीद् ब्रह्मणि आत्मानम् अव्यये ॥
चीर-वासा निराहारो बद्ध वाङ् मुक्त मूर्धज: ।
दर्शयन् आत्मनो रूपं जड उन्मत्त पिशाच-वत् ।
अनवेक्षमाणो निरगाद् शृण्वन् बधिरो यथा ॥
उदीचीं प्रविवेश आशां गत-पूर्वां महा आत्मभि: ।
हृदि ब्रह्म परं ध्यायन् न आवर्तेत यतो गत: ॥
सर्वे तम् अनुनिर्जग्मु: भ्रातर: कृत निश्चया: ।
कलिना अधर्म मित्रेण दृष्ट्वा स्पृष्टा: प्रजा भुवि ॥
ते साधु-कृत सर्व-अर्था ज्ञात्वा आत्यन्तिकम् आत्मन: ।
मनसा धारयाम् आसु: वैकुण्ठ चरण अम्बुजम् ॥
तद् ध्यान उद्रिक्तया भक्त्या विशुद्ध धिषणा: परे ।
तस्मिन् नारायण पदे एकान्त-मतयो गतिम् ॥
अवापु: दुरवापां ते असद्भि: विषय आत्मभि: ।
विधूत कल्मषा स्थानं विरजेन आत्मना एव हि ॥
विदुर: अपि परित्यज्य प्रभासे देहम् आत्मन: ।
कृष्ण आवेशेन तत् चित्त: पितृभि: स्वक्षयं ययौ ॥
द्रौपदी च तदा आज्ञाय पतीनाम् अनपेक्षताम् ।
वासुदेवे भगवति हि एकान्त मति: आप तम् ॥
य: श्रद्धया एतद् भगवत्-प्रियाणां पाण्डो: सुतानाम् इति सम्प्रयाणम् ।
शृणोति अलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम् ॥