Followers

Search Here...

Showing posts with label அத்யாயம் 15. Show all posts
Showing posts with label அத்யாயம் 15. Show all posts

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 15 - பாண்டவர்கள் வானப்ரஸ்தம் செல்கின்றனர் - ஸ்ரீமத் பாகவதம்

பாண்டவர்கள் வானப்ரஸ்தம் செல்கின்றனர்

ஸ்கந்தம் 1: அத்யாயம் 15

सूत उवाच

एवं कृष्ण-सख: कृष्णो भ्रात्रा राज्ञा विकल्पित: ।

नाना शङ्क आस्पदं रूपं कृष्ण विश्लेष कर्शित: ॥


शोकेन शुष्यद्-वदन हृत्-सरोजो हत-प्रभ: ।

विभुं तम् एव अनुस्मरन् न अशक्नोत् प्रतिभाषितुम् ॥


कृच्छ्रेण संस्तभ्य शुच: पाणिना आमृज्य नेत्रयो: ।

परोक्षेण समुन्नद्ध प्रणय-औत्कण्ठ्य कातर: ॥


सख्यं मैत्रीं सौहृदं च सारथ्य-आदिषु संस्मरन् ।

नृपम् अग्रजम् इत्याह बाष्प गद्गदया गिरा ॥


अर्जुन उवाच

वञ्चित: अहं महाराज हरिणा बन्धु रूपिणा ।

येन मे अपहृतं तेजो देव विस्मापनं महत् ॥


यस्य क्षण वियोगेन लोको हि अप्रिय-दर्शन: ।

उक्थेन रहितो हि एष मृतक: प्रोच्यते यथा ॥


यत् संश्रयाद् द्रुपद गेहम् उपागतानां राज्ञां स्वयंवर-मुखे स्मर-दुर्मदानाम् ।

तेजो हृतं खलु मया अभिहत: च मत्स्य: सज्जी-कृतेन धनुषा अधिगता च कृष्णा ॥


यत् सन्निधौ वहमु खांडवम् अग्नय: अदाम्  इन्द्रं च स अमर-गणं तरसा विजित्य ।

लब्धा सभा मय-कृत अद्भुत शिल्प माया दिग्भ्य: अहरन् नृपतयो बलिम् अध्वरे ते ॥


यत् तेजसा नृप-शिर:-अङ्‌घ्रिम् अहन् मख अर्थम् आर्य: अनुज: तव गज अयुत सत्त्व-वीर्य: ।

तेन आहृता: प्रमथ नाथ मखाय भूपा यन्मोचिता: तद् अनयन् बलिम् अध्वरे ते ॥


पत्‍न्‍या: तव अधिमख क्लृप्त महा अभिषेक श्लाघिष्ठ चारु कबरं कितवै: सभायाम् ।

स्पृष्टं विकीर्य पदयो: पतित- अश्रु मुख्या य: तत् स्त्रिय: अकृत हतेश विमुक्त केशा: ॥


यो न: जुगोप वन एत्य दुरन्त कृच्छ्राद् दुर्वासस: अरि रचिताद् अयुत अग्र-भुग् य: ।

शाक अन्न शिष्टम् उपयुज्य यत: त्रि-लोकीं तृप्ताम् अमंस्त सलिले विनिमग्न सङ्घ: ॥ 


यत् तेजसा अथ भगवान् युधि शूल-पाणि विस्मापित: स-गिरिज: अस्त्रम् अदाद् निजं मे ।

अन्ये अपि च अहम् अमुनैव कलेवरेण प्राप्तो महेन्द्र-भवने महद् आसन अर्धम् ॥


तत्रैव मे विहरतो भुज-दण्ड-युग्मं गाण्डीव लक्षणम् अराति वधाय देवा: ।

सेन्द्रा: श्रिता यद् अनुभावितम् आजमीढ तेन अहम् अद्य मुषित: पुरुषेण भूम्ना ॥


यद् बान्धव: कुरु-बल-अब्धिम् अनन्त-पारम् एको रथेन ततरे अहम् अतीर्य सत्त्वम् ।

प्रत्याहृतं बहु धनं च मया परेषां तेजा: पदं मणिमयं च हृतं शिरोभ्य: ॥


यो भीष्म कर्ण गुरु शल्य चमूषु अदभ्र- राजन्य-वर्य रथ-मण्डल मण्डितासु ।

अग्रेचरो मम विभो रथ-यूथ-पानाम् आयु: मनांसि च द‍ृशा सह ओज आर्च्छत् ॥ 


यद् दो:षु मा प्रणिहितं गुरु-भीष्म-कर्ण नप्तृ त्रिगर्त शल्य सैन्धव बाह्लिक अद्यै: ।

अस्‍त्राणि अमोघ महिमानि निरूपितानि न उपस्पृशु: नृहरि-दासम् इव असुराणि ॥ 


सौत्ये वृत: कुमतिना आत्म-द ईश्वरो मे यत् पाद-पद्मम् अभवाय भजन्ति भव्या: ।

मां श्रान्त वाहम् अरयो रथिनो भुविष्ठं न प्राहरन् यद् अनुभाव निरस्त चित्ता: ॥


नर्माणि उदार रुचिर स्मित शोभितानि हे पार्थ हे अर्जुन सखे कुरु-नन्दन इति ।

सञ्जल्पितानि नर-देव हृदि-स्पृशानि स्मर्तु: लुठन्ति हृदयं मम माधवस्य ॥


शय्य आसन अटन विकत्थन भोजन आदिषु ऐक्याद् वयस्य ऋतवान् इति विप्रलब्ध: ।

सख्यु: सखेव पितृवत् तनयस्य सर्वं सेहे महान् महितया कुमते: अघं मे ॥


स: अहं नृपेन्द्र रहित: पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्य: ।

अध्वनि उरुक्रम परिग्रहम् अङ्ग रक्षन् गोपै: असद्भ‍ि: अबला इव विनिर्जित: अस्मि ॥


तद्वै धनु: त इषव: स रथो हया: ते स: अहं रथी नृपतयो यत आनमन्ति ।

सर्वं क्षणेन तद् अभूद् असद् ईश रिक्तं भस्मन्-हुतं कुहक-राद्धम् इव उप्तम् ऊष्याम् ॥


राजं त्वया अनुपृष्टानां सुहृदां न: सुहृत् पुरे ।

विप्र शाप विमूढानां निघ्नतां मुष्टिभि: मिथ: ॥


वारुणीं मदिरां पीत्वा मद उन्मथित चेतसाम् ।

अजानताम् इव अन्योन्यं चतु:पञ्च अवशेषिता: ॥ 


प्रायेण एतद् भगवत ईश्वरस्य विचेष्टितम् ।

मिथो निघ्नन्ति भूतानि भावयन्ति च यत् मिथ: ॥ 


जलौकसां जले यद्वत् महान्त: अदन्ति अणीयस: ।

दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथ: ॥


एवं बलिष्ठै: यदुभि: महद्भ‍ि: इतरान् विभु: ।

यदून् यदुभि: अन्योन्यं भू-भारान् सञ्जहार ह ॥ 


देश काल अर्थ युक्तानि हृत् ताप: उपशमानि च ।

हरन्ति स्मरत: चित्तं गोविन्द अभिहितानि मे ॥ 


सूत उवाच

एवं चिन्तयत: जिष्णो: कृष्ण-पाद सरोरुहम् ।

सौहार्देन अति-गाढेन शान्ता आसीद् विमला मति: ॥ 


वासुदेव अङ्घ्रि अनुध्यान परिबृंहित रंहसा ।

भक्त्या निर्मथित अशेष कषाय धिषण: अर्जुन: ॥


गीतं भगवता ज्ञानं यत् तत् सङ्ग्राम मूर्धनि ।

काल-कर्म तम: रुद्धं पुन: अध्यगमत् प्रभु: ॥


विशोको ब्रह्म सम्पत्त्या सञ्छिन्न द्वैत संशय: ।

लीन प्रकृति नैर्गुण्याद् अलिङ्गत्वाद् असम्भव: ॥


निशम्य भगवत् मार्गं संस्थां यदु कुलस्य च ।

स्व: पथाय मतिं चक्रे निभृत आत्मा युधिष्ठिर: ॥


पृथा अपि अनुश्रुत्य धनञ्जय उदितं नाशं यदूनां भगवत् गतिं च ताम् ।

एकान्त भक्त्या भगवति अधोक्षजे निवेशित आत्मा उपरराम संसृते: ॥


यया अहरद् भुवो भारं तां तनुं विजहौ अज: ।

कण्टकं कण्टकेन एव द्वयं च अपि ईशितु: समम् ॥


यथा मत्स्य आदि रूपाणि धत्ते जह्याद् यथा नट: ।

भू-भार: क्षपितो येन जहौ तच्च कलेवरम् ॥


यदा मुकुन्दो भगवान् इमां महीं जहौ स्व-तन्वा श्रवणीय सत् कथ: ।

तदा अह एव अप्रति बुद्ध चेतसाम्  अभद्र हेतु: कलि: अन्ववर्तत ॥ 


युधिष्ठिर: तत् परिसर्पणं बुध: पुरे च राष्ट्रे च गृहे तथा आत्मनि ।

विभाव्य लोभ अनृत जिह्म हिंसन-आदि अधर्म-चक्रं गमनाय पर्यधात् ॥ 


स्व-राट् पौत्रं विनयिनम् आत्मन: सुसमं गुणै: ।

तोय नीव्या: पतिं भूमे अभ्यषिञ्चद् गजाह्वये ॥


मथुरायां तथा वज्रं शूरसेन पतिं तत: ।

प्राजापत्यां निरूप्य इष्टिम् अग्नीन् अपिबद् ईश्वर: ॥


विसृज्य तत्र तत् सर्वं दुकूल वलय आदिकम् ।

निर्ममो निरहङ्कार: सञ्छिन्न अशेष बन्धन: ॥


वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।

मृत्यौ अपानं स-उत्सर्गं तं पञ्चत्वे हि अजोहवीत् ॥


त्रित्वे हुत्वा च पञ्चत्वं तच्च एकत्वे अजुहोत् मुनि: ।

सर्वम् आत्मनि अजुहवीद् ब्रह्मणि आत्मानम् अव्यये ॥


चीर-वासा निराहारो बद्ध वाङ्‍ मुक्त मूर्धज: ।

दर्शयन् आत्मनो रूपं जड उन्मत्त पिशाच-वत् ।

अनवेक्षमाणो निरगाद् श‍ृण्वन् बधिरो यथा ॥


उदीचीं प्रविवेश आशां गत-पूर्वां महा आत्मभि: ।

हृदि ब्रह्म परं ध्यायन् न आवर्तेत यतो गत: ॥


सर्वे तम् अनुनिर्जग्मु: भ्रातर: कृत निश्चया: ।

कलिना अधर्म मित्रेण द‍ृष्ट्वा स्पृष्टा: प्रजा भुवि ॥


ते साधु-कृत सर्व-अर्था ज्ञात्वा आत्यन्तिकम् आत्मन: ।

मनसा धारयाम् आसु: वैकुण्ठ चरण अम्बुजम् ॥


तद् ध्यान उद्रिक्तया भक्त्या विशुद्ध धिषणा: परे ।

तस्मिन् नारायण पदे एकान्त-मतयो गतिम् ॥


अवापु: दुरवापां ते असद्भ‍ि: विषय आत्मभि: ।

विधूत कल्मषा स्थानं विरजेन आत्मना एव हि ॥


विदुर: अपि परित्यज्य प्रभासे देहम् आत्मन: ।

कृष्ण आवेशेन तत् चित्त: पितृभि: स्वक्षयं ययौ ॥


द्रौपदी च तदा आज्ञाय पतीनाम् अनपेक्षताम् ।

वासुदेवे भगवति हि एकान्त मति: आप तम् ॥


य: श्रद्धया एतद् भगवत्-प्रियाणां पाण्डो: सुतानाम् इति सम्प्रयाणम् ।

श‍ृणोति अलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम् ॥