Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 5 ஸ்ரீமத் பாகவதம் Srimad Bhagavatham... வியாசரை 'பாகவதம்' எழுதச்சொல்கிறார் நாரதர்

 ஸ்கந்தம் 1: அத்யாயம் 5

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

வியாசரை 'பாகவதம்' 

எழுதச்சொல்கிறார் நாரதர்


सूत उवाच

अथ तं सुखम् आसीन उपासीनं बृहत् छ्रवा: ।

देवर्षि: प्राह विप्रर्षिं वीणा-पाणि: स्मयन् इव ॥ 1


नारद उवाच

पाराशर्य महाभाग भवत: कच्चिद् आत्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥ 2


जिज्ञासितं सुसम्पन्नम् अपि ते महद् अद्भ‍ुतम् ।

कृतवान् भारतं यस्त्वं सर्वार्थ परि बृंहितम् ॥ 3


जिज्ञासितम् अधीतं च ब्रह्म यत्तत् सनातनम् ।

तथापि शोचसि आत्मानम् अकृत अर्थ इव प्रभो ॥ 4


व्यास उवाच

अस्त्येव मे सर्वमिदं त्वया युक्तं

तथापि न आत्मा परितुष्यते मे ।

तत् मूलम् अव्यक्तम् अगाध बोधं

पृच्छामहे त्व आत्म-भव आत्म-भूतम् ॥ 5


स वै भवान् वेद समस्त गुह्यम् 

उपासितो यत्पुरुष: पुराण: ।

पर अवर ईशो मनसा एव विश्वं

सृजति अवति अत्ति गुणै: असङ्ग: ॥ 6


त्वं पर्यटन् अर्क इव त्रिलोकीम्

अन्तश्चरो वायुरिव आत्म साक्षी ।

परावरे ब्रह्मणि धर्मतो व्रतै:

स्‍नातस्य मे न्यूनम् अलं विचक्ष्व ॥ 7


श्रीनारद उवाच

भवता अनुदित प्रायं यशो भगवतो अमलम् ।

येनैव असौ न तुष्येत मन्ये तद् दर्शनं खिलम् ॥ 8


यथा धर्मादयश्च अर्था मुनि वर्य अनुकीर्तिता: ।

न तथा वासुदेवस्य महिमा हि अनुवर्णित: ॥ 9


न यद् वच: चित्रपदं हरे: यशो

जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद् वायसं तीर्थम् उशन्ति मानसा

न यत्र हंसा निरमन्ति उशिक् क्षया: ॥ 10


तद् वाग् विसर्गो जनता अघ विप्लवो

यस्मिन् प्रतिश्लोकम् अबद्धवति अपि ।

नामानि अनन्तस्य यशो अङ्कितानि यत्

श‍ृण्वन्ति गायन्ति गृणन्ति साधव: ॥ 11


नैष्कर्म्यम् अपि अच्युत भाव वर्जितं

न शोभते ज्ञानम् अलं निरञ्जनम् ।

कुत: पुन: शश्वद् अभद्रम् ईश्वरे

न च अर्पितं कर्म यद् अपि अकारणम् ॥ 12


अथो महाभाग भवान् अमोघ द‍ृक्

शुचिश्रवा: सत्यरतो धृतव्रत: ।

उरुक्रमस्य अखिल बन्ध मुक्तये

समाधिना अनुस्मर तद् विचेष्टितम् ॥ 13


ततो अन्यथा किञ्चन यद् विवक्षत:

पृथग् दृश: तत्कृत रूप नामभि: ।

न कर्हिचित् क्वापि च दु:स्थिता मति:

लभेत वात आहत नौ: इव: आस्पदम् ॥ 14


जुगुप्सितं धर्मकृते अनुशा-सत:

स्वभाव रक्तस्य महान् व्यतिक्रम: ।

यद् वाक्यतो धर्म इतीतर: स्थितो

न मन्यते तस्य निवारणं जन: ॥ 15 


विचक्षणो अस्य अर्हति वेदितुं विभो:

अनन्त पारस्य निवृत्तित: सुखम् ।

प्रवर्तमानस्य गुणै: अनात्मन:

ततो भवान् दर्शय चेष्टितं विभो: ॥ 16 


त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे:

भजन् अपक्‍व अथ पतेत् ततो यदि ।

यत्र क्‍व वा अभद्रम् अभूद् अमुष्य किं

को वार्थ आप्त अभजतां स्वधर्मत: ॥ 17 


तस्यैव हेतो: प्रयतेत कोविदो

न लभ्यते यद् भ्रमताम् उपर्यध: ।

तद् लभ्यते दु:खवद् अन्यत: सुखं

कालेन सर्वत्र गभीर रंहसा ॥ 18


न वै जनो जातु कथञ्चन आव्रजेत्

मुकुन्द-सेवि अन्यवद् अङ्ग संसृतिम् ।

स्मरन् मुकुन्द अङ्‌घ्रि उपगूहनं पुन:

विहातुम् इच्छेन् न रस ग्रहो जन: ॥ 19


इदं हि विश्वं भगवान् इव इतरो

यतो जग त्स्थान निरोध सम्भवा: ।

तद्धि स्वयं वेद भवां तथापि ते

प्रादेश मात्रं भवत: प्रदर्शितम् ॥ 20


त्वम् आत्मना आत्मानम्  अवेहि अमोघ द‍ृक्

परस्य पुंस: परम् आत्मन: कलाम् ।

अजं प्रजातं जगत: शिवाय तद्

महानुभाव अभ्युदय अधि गण्यताम् ॥ 21


इदं हि पुंस: तपस: श्रुतस्य वा

स्विष्टस्य सूक्तस्य च बुद्धि दत्तयो: ।

अविच्युतो अर्थ: कविभि: निरूपितो

यद् उत्तमश्लोक गुणानु वर्णनम् ॥ 22 


अहं पुरा अतीतभवे अभवं मुने

दास्यास्तु कस्याश्चन वेद वादिनाम् ।

निरूपितो बालक एव योगिनां

शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ 23


ते मयि अपेत अखिल चापले अर्भके

दान्ते अधृत क्रीडनके अनुवर्तिनि ।

चक्रु: कृपां यद्यपि तुल्यदर्शना:

शुश्रूषमाणे मुनय अल्प भाषिणि ॥ 24


उच्छिष्ट लेपान् अनुमोदितो द्विजै:

सकृत् स्म भुञ्जे तद् अपास्त किल्बिष: ।

एवं प्रवृत्तस्य विशुद्ध चेतस:

तद् धर्म एवात्म रुचि: प्रजायते ॥ 25


तत्रान्वहं कृष्णकथा: प्रगायताम्

अनुग्रहेण अश‍ृणवं मनोहरा: ।

ता: श्रद्धया मे अनुपदं विश‍ृण्वत:

प्रियश्रवसि अङ्ग ममा अभवद् रुचि: ॥ 26


तस्मिं तदा लब्ध रुचे: महामते

प्रियश्रवसि अस्खलिता मतिर्मम ।

ययाहम् एतत् सद् असत् स्वमायया

पश्ये मयि ब्रह्मणि कल्पितं परे ॥ 27


इत्थं शरत् प्रावृषिकाव रुतू हरे:

विश‍ृण्वतो मे अनुसवं यश अमलम् ।

सङ्कीर्त्यमानं मुनिभि: महात्मभि"

भक्ति: प्रवृत्त आत्म रज: तम उपहा ॥ 28


तस्य एवं मे अनुरक्तस्य प्रश्रितस्य हत एनस: ।

श्रद्दधानस्य बालस्य दान्तस्य अनुचरस्य च ॥ 29


ज्ञानं गुह्यतमं यत्तत् साक्षाद् भगवतोदितम् । 

अन्ववोचन् गमिष्यन्त: कृपया दीन वत्सला: ॥ 30


येनैव अहं भगवतो वासुदेवस्य वेधस: । 

माया अनुभावम् अविदं येन गच्छन्ति तत्पदम् ॥ 31


एतत् संसूचितं ब्रह्मं तापत्रय चिकित्सितम् ।

यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ 32 


आमयो यश्च भूतानां जायते येन सुव्रत ।

तदेव हि आमयं द्रव्यं न पुनाति चिकित्सितम् ॥ 33 


एवं नृणां क्रिया योगा: सर्वे संसृति हेतव: ।

त एवात्म विनाशाय कल्पन्ते कल्पिता: परे ॥ 34 


यद् अत्र क्रियते कर्म भगवत् परितोषणम् ।

ज्ञानं यत्तद् अधीनं हि भक्ति योग समन्वितम् ॥ 35


कुर्वाणा यत्र कर्माणि भगवत् छिक्षया असकृत् ।

गृणन्ति गुण नामानि कृष्णस्य अनुस्मरन्ति च ॥ 36 


ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि ।

प्रद्युम्नाय अनिरुद्धाय नम: सङ्कर्षणाय च ॥ 37


इति मूर्ति अभिधानेन मन्त्र मूर्तिम् अमूर्तिकम् ।

यजते यज्ञपुरुषं स सम्यग्दर्शन: पुमान् ॥ 38


इमं स्वनिगमं ब्रह्मन् अवेत्य मद् अनुष्ठितम् ।

अदान्मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशव: ॥ 39


त्वमपि अदभ्र श्रुत विश्रुतं विभो:

समाप्यते येन विदां बुभुत्सितम् ।

प्राख्याहि दु:खै: मुहु: अर्दित आत्मनां

सङ्‍क्लेश निर्वाणम् उशन्ति नान्यथा ॥ 40


ஸ்கந்தம் 1: அத்யாயம் 4 ஸ்ரீமத் பாகவதம் srimad baghavatham... நாரதர் வருகை

 ஸ்கந்தம் 1: அத்யாயம் 4

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

நாரதர் வருகை

व्यास उवाच

इति ब्रुवाणं संस्तूय मुनीनां दीर्घ सत्रिणाम् ।

वृद्ध: कुलपति: सूतं बह्‌वृच: शौनको अब्रवीत् ॥ 1


शौनक उवाच

सूत सूत महाभाग वद नो वदतां वर ।

कथां भागवतीं पुण्यां यदाह भगवाण् सुक: ॥ 2


कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।

कुत: सञ्चोदित: कृष्ण: कृतवान् संहितां मुनि: ॥ 3


तस्य पुत्रो महायोगी सम-द‍ृङ्‍‌ निर्विकल्पक: ।

एकान्त मति रुन्निद्रो गूढो मूढ इवेयते ॥ 4


द‍ृष्ट्वा अनुयान्तम् रिषिम् आत्मजम् अपि अनग्नं

देव्यो ह्रिया परिदधु: न सुतस्य चित्रम् ।

तद् वीक्ष्य पृच्छति मुनौ जगदु: तव अस्ति

स्त्री-पुम् भिदा न तु सुतस्य विविक्त द‍ृष्टे: ॥ 5


कथम् आलक्षित: पौरै: सम्प्राप्त: कुरु-जाङ्गलान् ।

उन्मत्त मूक जडवद् विचरन् गज-साह्वये ॥ 6


कथं वा पाण्डवेयस्य राजर्षे: मुनिना सह ।

संवाद: समभूत् तात यत्रैषा सात्वती श्रुति: ॥ 7


स गो-दोहन-मात्रं हि गृहेषु गृहमेधिनाम् ।

अवेक्षते महा-भाग: तीर्थी कुर्वं तद् आश्रमम् ॥ 8


अभिमन्यु-सुतं सूत प्राहु: भागवत उत्तमम् ।

तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि न: ॥ 9


स सम्राट् कस्य वा हेतो: पाण्डूनां मानवर्धन: ।

प्राय उपविष्टो गङ्गायाम् अनाद‍ृत्य अधिराट्‌ श्रियम् ॥ 10


नमन्ति यत्पाद निकेतम् आत्मन:

शिवाय हानीय धनानि शत्रव: ।

कथं स वीर: श्रियम् अङ्ग दुस्त्यजां

युव ऐषत उत्स्रष्टुम्.अहो सह असुभि: ॥ 11


शिवाय लोकस्य भवाय भूतये

य उत्तम श्लोक परायणा जना: ।

जीवन्ति न आत्मार्थम् असौ पराश्रयं

मुमोच निर्विद्य कुत: कलेवरम् ॥ 12


तत्सर्वं न: समाचक्ष्व पृष्टो यदिह किञ्चन ।

मन्ये त्वां विषये वाचां स्‍नातम् अन्यत्र छान्दसात् ॥ 13


सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युग-पर्यये ।

जात: पराशराद् योगी वासव्यां कलया हरे: ॥ 14


स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचि: ।

विविक्त एक आसीन उदिते रवि मण्डले ॥ 15


परावरज्ञ: स ऋषि: कालेन अव्यक्त रंहसा ।

युग धर्म व्यतिकरं प्राप्तं भुवि युगे युगे ॥ 16


भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।

अश्रद्दधानान् नि:सत्त्वान् दुर्मेधान् ह्रसित आयुष: ॥ 17


दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।

सर्ववर्ण आश्रमाणां यद् दध्यौ हितम् अमोघ द‍ृक् ॥ 18


चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।

व्यदधाद् यज्ञ सन्तत्यै वेदमेकं चतुर्विधम् ॥ 19


ऋग् यजु:.साम अथर्व आख्या वेदा: चत्वार उद्‍धृता: ।

इतिहास पुराणं च पञ्चमो वेद उच्यते ॥ 20


तत्र ऋग् वेद धर: पैल: सामगो जैमिनि: कवि: ।

वैशम्पायन एवैको निष्णातो यजुषाम् उत ॥ 21


अथर्व अङ्गिरसाम् आसीत् सुमन्तु: दारुणो मुनि: ।

इतिहास पुराणानां पिता मे रोम हर्षण: ॥ 22


त एत ऋषयो वेदं स्वं स्वं व्यस्यन् अनेकधा ।

शिष्यै: प्रशिष्यै तत् शिष्यै: वेदास्ते शाखिनो अभवन् ॥ 23


त एव वेदा दुर्मेधै: धार्यन्ते पुरुषै: यथा ।

एवं चकार भगवान् व्यास: कृपण वत्सल: ॥ 24


स्त्री-शूद्र-द्विज-बन्धूनां त्रयी न श्रुति-गोचरा ।

कर्म श्रेयसि मूढानां श्रेय एवं भवेद् इह ।

इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥ 25


एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजा: ।

सर्वात्मकेन अपि यदा न अतुष्यद्‍ ह्रदयं तत: ॥ 26


न अतिप्रसीदद्‍ ह्रदय: सरस्वत्या: तटे शुचौ ।

वितर्कयन् विविक्तस्थ इदं च उवाच धर्मवित् ॥ 27


धृत व्रतेन हि मया छन्दांसि गुरवो अग्नय: ।

मानिता निर्व्यलीकेन गृहीतं चानु शासनम् ॥ 28


भारत व्यपदेशेन हि आम्नाय अर्थश्च प्रदर्शित: ।

द‍ृश्यते यत्र धर्मादि स्त्री शूद्रादिभि: अप्युत ॥ 29


तथापि बत मे दैह्यो हि आत्मा चैव आत्मना विभु: ।

असम्पन्न इव आभाति ब्रह्म वर्चस्य सत्तम: ॥ 30


किं वा भागवता धर्मा न प्रायेण निरूपिता: ।

प्रिया: परम-हंसानां त एव हि अच्युत प्रिया: ॥ 31


तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यत: ।

कृष्णस्य नारदो अभ्यागाद् आश्रमं प्राग् उदाहृतम् ॥ 32


तम् अभिज्ञाय सहसा प्रत्युत्थाय आगतं मुनि: ।

पूजयामास विधिवन् नारदं सुर-पूजितम् ॥ 33

ஸ்கந்தம் 1: அத்யாயம் 3 ஸ்ரீமத் பாகவதம்.. Srimad Bhagavatham

ஸ்கந்தம் 1: அத்யாயம் 3

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

सूत उवाच

जगृहे पौरुषं रूपं भगवान् महद् आदिभि: ।

सम्भूतं षोडश कलम् आदौ लोक सिसृक्षया ॥ 1


यस्य अम्भसि शयानस्य योग-निद्रां वितन्वत: ।

नाभि ह्रद अम्बुजाद् आसीद् ब्रह्मा विश्वसृजां पति: ॥ 2


यस्य आवयव संस्थानै: कल्पितो लोक-विस्तर: ।

तद्वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ 3


पश्यन्ति अदो रूपम् अदभ्र चक्षुषा

सहस्र-पाद ऊरु भुजानन अद्भुतम् ।

सहस्र मूर्ध श्रवण अक्षि नासिकं

सहस्र मौलि अम्बर कुण्डल उल्लसत् ॥ 4


एतत् नाना अवताराणां निधानं बीजम् अव्ययम् ।

यस्य अम्श अम्शेन सृज्यन्ते देव तिर्यङ्‍ नर आदय: ॥ 5


स एव प्रथमं देव: कौमारं सर्गमाश्रित: ।

चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ 6


द्वितीयं तु भवाय अस्य रसातल गतां महीम् ।

उद्धरिष्यन् उपादत्त यज्ञेश: सौकरं वपु: ॥ 7


तृतीयम् ऋषि-सर्गं वै देवर्षित्वमुपेत्य स: ।

तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यत: ॥ 8


तुर्ये धर्म-कला सर्गे नर-नारायणौ ऋषी ।

भूत्वा आत्म उपशम उपेतम् अकरोद् दुश्चरं तप: ॥ 9


पञ्चम: कपिलो नाम सिद्धेश: कालविप्लुतम् ।

प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ 10


षष्ठमत्रेरपत्यत्वं वृत: प्राप्तोऽनसूयया ।

आन्वीक्षिकीम् अलर्काय प्रह्लाद आदिभ्य ऊचिवान् ॥ 11


तत: सप्तम आकूत्यां रुचे:  यज्ञो अभ्यजायत ।

स याम आद्यै: सुर गणै: अपात् स्वायम्भुव अन्तरम् ॥ 12


अष्टमे मेरुदेव्यां तु नाभे: जात उरुक्रम: ।

दर्शयन् वर्त्म धीराणां सर्व आश्रम नमस्कृतम् ॥ 13


ऋषिभि: याचितो भेजे नवमं पार्थिवं वपु: ।

दुग्ध इमाम् ओषधी: विप्रा: तेनायं स उशत्तम: ॥ 14


रूपं स जगृहे मात्स्यं चाक्षुष उदधि सम्प्लवे ।

नावि आरोप्य मही मय्याम् अपाद् वैवस्वतं मनुम् ॥ 15


सुर असुराणाम् उदधिं मथ्नतां मन्दराचलम् ।

दध्रे कमठ रूपेण पृष्ठ एकादशे विभु: ॥ 16


धान्वन्तरं द्वादशमं त्रयोदशममं एव च ।

अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ 17


चतुर्दशं नारसिंहं बिभ्रद् दैत्य इन्द्रम् ऊर्जितम् ।

ददार करजै: ऊरौ एरकां कटकृद् यथा ॥ 18


पञ्च-दशं वामनकं कृत्वा अगाद् आध्वरं बले: ।

पदत्रयं याचमान: प्रत्यादित्सु: त्रिपिष्टपम् ॥ 19


अवतारे षोडशमे पश्यन् ब्रह्म द्रुहो नृपान् ।

त्रि:सप्त कृत्व: कुपितो नि:क्षत्राम्.अकरोन् महीम् ॥ 20


तत: सप्तदशे जात: सत्यवत्यां पराशरात् ।

चक्रे वेदतरो: शाखा द‍ृष्ट्वा पुंसो अल्प मेधस: ॥ 21


नर.देवत्वम् आपन्न: सुर कार्य चिकीर्षया ।

समुद्र.निग्रह आदीनि चक्रे वीर्याणि अत: परम् ॥ 22


एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।

राम कृष्णौ इति भुवो भगवान् अहरद् भरम् ॥ 23


तत: कलौ सम्प्रवृत्ते सम्मोहाय सुर द्विषाम् ।

बुद्धो नाम्ना अञ्जन सुत: कीकटेषु भविष्यति ॥ 24


अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु ।

जनिता विष्णु यशसो नाम्ना कल्कि: जगत्पति: ॥ 25


अवतारा हि असङ्ख्येया हरे: सत्त्वनिधे: द्विजा: ।

यथा विदासिन: कुल्या: सरस: स्यु: सहस्रश: ॥.26


ऋषयो मनवो देवा मनुपुत्रा महौजस: ।

कला: सर्वे हरेरेव स-प्रजापतय: स्मृता: ॥ 27


एते च अंश कला: पुंस: कृष्णस्तु भगवान् स्वयम् ।

इन्द्रारि व्याकुलं लोकं मृडयन्ति युगे युगे ॥ 28


जन्म गुह्यं भगवतो य एतत्प्रयतो नर: ।

सायं प्रातर्गृणन् भक्त्या दु:ख ग्रामाद् विमुच्यते ॥ 29


एतद् रूपं भगवतो हि अरूपस्य चिदात्मन: ।

माया गुणै: विरचितं महदादिभि: आत्मनि ॥ 30


यथा नभसि मेघ ओघो रेणुर्वा पार्थिवो अनिले ।

एवं द्रष्टरि द‍ृश्यत्वम् आरोपितम् अबुद्धिभि: ॥ 31


अत: परं यद् अव्यक्तम् अव्यूढ गुण बृंहितम् ।

अद‍ृष्ट अश्रुत वस्तुत्वात् स जीवो यत् पुनर्भव: ॥ 32


यत्र इमे सद्.असद् रूपे प्रतिषिद्धे स्वसंविदा ।

अविद्यया आत्मनि कृते इति तद् ब्रह्म दर्शनम् ॥ 33


यद्येष उपरता देवी माया वैशारदी मति: ।

सम्पन्न एवेति विदु: महिम्नि स्वे महीयते ॥ 34


एवं जन्मानि कर्माणि हि अकर्तु: अजनस्य च ।

वर्णयन्ति स्म कवयो वेद-गुह्यानि हृत् पते: ॥ 35


स वा इदं विश्वम् अमोघलील:

सृजति अवत्यत्ति न सज्जते अस्मिन् ।

भूतेषु च अन्तर्हित आत्म तन्त्र:

षाड्‍ वर्गिकं जिघ्रति षड्‍-गुणेश: ॥ 36


न च अस्य कश्चित् निपुणेन धातु:

अवैति जन्तु: कुमनीष ऊती: ।

नामानि रूपाणि मनो वचोभि:

सन्तन्वतो नट-चर्याम् इवाज्ञ: ॥ 37


स वेद धातु: पदवीं परस्य

दुरन्त वीर्यस्य रथाङ्ग पाणे: ।

यो अमायया सन्ततया अनुवृत्त्या

भजेत तत्पाद सरोज गन्धम् ॥ 38


अथेह धन्या भगवन्त इत्थं

यद् वासुदेवे अखिल लोकनाथे ।

कुर्वन्ति सर्वात्मकम् आत्मभावं

न यत्र भूय: परिवर्त उग्र: ॥ 39


इदं भागवतं नाम पुराणं ब्रह्म सम्मितम् ।

उत्तम श्लोक चरितं चकार भगवान् त्रृषि: ।

नि:श्रेयसाय लोकस्य धन्यं स्वस्ति अयनं महत् ॥ 40


तद् इदं ग्राहयाम् आस सुतम् आत्मवतां वरम् ।

सर्व वेद इतिहासानां सारं सारं समुद्‍धृतम् ॥ 41


स तु संश्रावयाम् आस महाराजं परीक्षितम् ।

प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ 42


कृष्णे स्वधाम उपगते धर्म ज्ञान आदिभि: सह ।

कलौ नष्ट द‍ृशाम् एष पुराण अर्को अधुना उदित: ॥ 43


तत्र कीर्तयतो विप्रा विप्रर्षे: भूरि-तेजस: ।

अहं च अध्यगमं तत्र निविष्ट: तद् अनुग्रहात् ।

सोऽहं व: श्रावयिष्यामि यथा-अधीतं यथा-मति ॥ 44


ஸ்கந்தம் 1: அத்யாயம் 2 - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham.. உலக படைப்பை பற்றி சூத பௌராணிகர் விவரிக்கிறார்

ஸ்கந்தம் 1: அத்யாயம் 2

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

உலக படைப்பை பற்றி சூத பௌராணிகர் விவரிக்கிறார்


வ்யாஸ உவாச (व्यास उवाच)

இதி ஸம்ப்ரஸ்ன சம்ஹ்ருஷ்டோ

விப்ரானாம் ரௌம ஹர்ஷனி: |

ப்ரதி பூஜ்ய வச: தேஷாம்

ப்ரவக்தும் உபசக்ரமே ||  

इति सम्प्रश्न संहृष्टो 

विप्राणां रौम हर्षणि: ।

प्रतिपूज्य वचस्तेषां 

प्रवक्तुम् उपचक्रमे ॥


ஸூத உவாச (सूत उवाच)

யம் ப்ரவ்ர-ஐந்தம் அனுபேதம் அபேத க்ருத்யம்

த்வைபாயனோ விரஹ காதர ஆஜுஹாவ |  

புத்ரேதி தத்-மயதயா தரவ: அபினேது: 

தம் சர்வ பூத ஹ்ருதயம்

முனிம் ஆனத: அஸ்மி ||    

यं प्रव्र जन्तम् अनुपेतम् अपेत कृत्यं

द्वैपायनो विरह कातर आजुहाव ।

पुत्रेति तन्मय तया तरवो अभिनेदु

तं सर्व भूत हृदयं मुनिमानत: अस्मि ॥


ய: ஸ்வானுபாவம் அகில ஸ்ருதி சாரம் ஏகம்

அத்யாத்ம தீபம் அதிதி தீர்ஷதாம் தம: அந்தம் |

சம்ஸாரினாம் கருணயாஹ புராண குஹ்யம்

தம் வ்யாஸ சூனும் உபயாமி குரும் முனீனாம் ||

य: स्वानुभावम् अखिल श्रुति सारम् एकम्

अध्यात्म दीपम् अतिति तीर्षतां तमो अन्धम् ।

संसारिणां करुणयाह पुराण गुह्यं

तं व्यास सूनुम् उपयामि गुरुं मुनीनाम् ॥


நாராயணம் நமஸ்க்ருத்ய 

நரம் ச ஏவ நரோத்தமம் | 

தேவீம் சரஸ்வதீம் வ்யாஸம் 

ததோ ஜய முதீரயேத் ||

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जय मुदीरयेत् ॥


முனய: சாது ப்ருஷ்ட: அஹம்

பவத்பி: லோக: மங்களம் |

யத் க்ருத க்ருஷ்ண ஸம்ப்ரஸ்னோ

யேன ஆத்மா சுப்ர சீததி || 

मुनय: साधु पृष्टो अहं भवद्भ‍ि: लोक मङ्गलम् ।

यत्कृत: कृष्ण सम्प्रश्नो  येन आत्मा सुप्र सीदति ॥


ச வை பும்ஸாம் பரோ தர்மோ 

யதோ பக்தி: அதோக்ஷஜே |

அஹை-துகீ அப்ரதி ஹதா

யயா-ஆத்மா சுப்ரசீததி ||

स वै पुंसां परो धर्मो यतो भक्ति: अधोक्षजे ।

अहैतुक्य अप्रति हता यया आत्मा सुप्रसीदति ॥


வாசுதேவ பகவதி 

பக்தியோக: ப்ரயோஜித: | 

ஜனயதி ஆசு வைராக்யம் 

ஞானம் ச யத் அஹைதுகம் ||

वासुदेवे भगवति भक्तियोग: प्रयोजित: ।

जनयति आशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥


தர்ம: ஸ்வனுஷ்டித: பும்ஸாம் 

விஸ்வக்சேன கதாசு ய: | 

ந: உத்பாதயாயேத் யதி ரதிம்

ஸ்ரம ஏவ ஹி கேவலம் || 

धर्म: स्वनुष्ठित: पुंसां विष्वक्सेन कथासु य: ।

न: उत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥


தர்மஸ்ய ஹி ஆபவர்க்யஸ்ய

ந அர்த்த: அர்த்தாய உபகல்பதே |

ந அர்த்தஸ்ய தர்ம ஏக அந்தஸ்ய 

காமோ லாபாய ஹி ஸ்ம்ருத: ||

धर्मस्य हि आप-वर्ग्यस्य न अर्थो अर्थाय उपकल्पते ।

न अर्थस्य धर्म एकान्तस्य कामो लाभाय हि स्मृत: ॥


காமஸ்ய ந இந்த்ரிய ப்ரீதி: 

லாபோ ஜீவேத யாவதா | 

ஜீவஸ்ய தத்வ ஜிக்யாசா

ந அர்த: ய: ச இஹ கர்மபி: ||

कामस्य न इन्द्रिय प्रीति: लाभो जीवेत यावता ।

जीवस्य तत्त्व जिज्ञासा न अर्थो यश्च इह कर्मभि: ॥


வதந்தி தத் தத்வ-வித தத்வம் 

யத் ஞானம் அத்வயம் |

ப்ரஹ்ம இதி பரமாத்ம இதி 

பகவான் இதி சப்த்யதே ||

वदन्ति तत् तत्त्व विद: तत्त्वं यत् ज्ञानम् अद्वयम् ।

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥


தத் ஸ்ரத்தானா முனயோ

ஞான வைராக்ய யுக்தயா |

பஸ்யந்தி ஆத்மனி ச ஆத்மானம்

பக்த்யா ஸ்ருத-க்ருஹீதயா ||

तत् छ्रद्दधाना मुनयो ज्ञान वैराग्य युक्तया ।

पश्यन्ति आत्मनि च आत्मानं भक्त्या श्रुत गृहीतया ॥


அத: பும்பி: த்விஜ ஸ்ரேஷ்டா

வர்ணாஸ்ரம விபாகஸ: | 

ஸ்வனுஷ்டிதஸ்ய தர்மஸ்ய

ஸம்ஸித்தி: ஹரி: தோஷணம் ||

अत: पुम्भि: द्विज श्रेष्ठा वर्णाश्रम विभागश: ।

स्वनुष्ठि तस्य धर्मस्य संसिद्धि: हरि तोषणम् ॥


தஸ்மாத் ஏகேன மனசா 

பகவான் ஸாத்வதாம் பதி: |

ஸ்ரோதவ்ய: கீர்திதவ்ய: ச:

த்யேய பூஜ்யஸ்ச நித்யதா ||

तस्माद्  एकेन मनसा भगवान् सात्वतां पति: ।

श्रोतव्य: कीर्तितव्य: च ध्येय: पूज्यश्च नित्यदा ॥


யத் அணுத்யா அசினா யுக்தா:

கர்ம க்ரந்தி நிபந்தனம் |

சிந்தந்தி கோவிதா: தஸ்ய 

கோ ந குர்யாத் கதா-ரதிம் ||

यद् अनुध्या असिना युक्ता: कर्म ग्रन्थि निबन्धनम् ।

छिन्दन्ति कोविदा तस्य को न कुर्यात् कथा रतिम् ॥


சுஸ்ரூஷோ: ஸ்ரத்த-தானஸ்ய

வாசுதேவ கதா ருசி: |

ஸ்யான் மஹத் சேவயா விப்ரா

புண்ய தீர்த நிஷேவநாத் ||

शुश्रूषो: श्रद्द दानस्य वासुदेव कथा रुचि: ।

स्यान् महत् सेवया विप्रा: पुण्य तीर्थ निषेवणात् ॥


ஸ்ருண்வதாம் ஸ்வ கதா: க்ருஷ்ண:

புண்ய ஸ்ரவண கீர்தன: |

ஹ்ருதி அந்த:ஸ்த: ஹி அபத்ராணி

விதுனோதி ஸுஹ்ருத் சதாம் ||

श‍ृण्वतां स्व-कथा: कृष्ण: पुण्य श्रवण कीर्तन: ।

हृदि अन्त:स्थो हि अभद्राणि विधुनोति सुहृत् सताम् ॥


நஷ்ட ப்ராயேஷு அபத்ரேஷு 

நித்யம் பாகவத சேவயா |

பகவதி உத்தம ஸ்லோகே 

பக்தி: பவதி நைஷ்டிகீ ||

नष्ट प्रायेषु अभद्रेषु नित्यं भागवत सेवया ।

भगवदि उत्तम श्लोके भक्ति: भवति नैष्ठिकी ॥


ததா ரஜ: தமோ பாவா:

காம லோப ஆதய: ச யே |  

சேத ஏதை: அநாவித்தம்

ஸ்திதம் சத்வே ப்ரஸீததி ||   

तदा रज: तमो भावा: काम लोभ आदयश्च ये ।

चेत एतै: अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥


ஏவம் ப்ரசன்ன மனசோ 

பகவத் பக்தி யோகத: |

பகவத் தத்வ விக்ஞானம்

முக்த சங்கஸ்ய ஜாயதே ||

एवं प्रसन्न मनसो भगवद् भक्ति योगत: ।

भगवत् तत्त्व विज्ञानं मुक्त सङ्गस्य जायते ॥


பித்யதே ஹ்ருதய க்ரந்தி

சித்யந்தே சர்வ ஸம்சய: |

க்ஷீயந்தே ச அஸ்ய கர்மானி

த்ருஷ்ட ஏவ ஆத்மனி ஈஸ்வரே ||

भिद्यते हृदय ग्रन्थि छिद्यन्ते सर्व संशया: ।

क्षीयन्ते च अस्य कर्माणि द‍ृष्ट एव आत्मनि ईश्वरे ॥


அதோ வை கவயோ நித்யம் 

பக்திம் பரமயா முதா | 

வாசுதேவே பகவதி 

குர்வந்தி ஆத்ம ப்ரஸாதனீம் ||

अतो वै कवयो नित्यं भक्तिं परमया मुदा ।

वासुदेवे भगवति कुर्वन्ति आत्म प्रसादनीम् ॥


சத்வம் ரஜ: தம இதி 

ப்ரக்ருதே குணாஸ் தை: 

யுக்த: பர: புருஷ 

ஏக இஹ அஸ்ய தத்தே |  

ஸ்திதி ஆதயே 

ஹரி விரிஞ்சி ஹர இதி சம்ஞா:    

ஸ்ரேயாம்சி தத்ர கலு

சத்வ தனோ: ந்ருணாம் ஸ்யு: ||

सत्त्वं रज: तम इति प्रकृतेर्गुणा: तै:

युक्त: पर: पुरुष एक इह अस्य धत्ते ।

स्थिति आदये हरि विरिञ्चि हर इति संज्ञा:

श्रेयांसि तत्र खलु सत्त्व तनो: नृणां स्यु: ॥


பார்திவாத் தாருணோ தூம:

தஸ்மாத் அக்னி: த்ரயீ மய: |  

தமஸஸ்து ரஜ: தஸ்மாத்

ஸத்வம் யத் ப்ரஹ்ம தர்சனம் ||

पार्थिवाद् दारुणो धूम तस्माद् अग्नि: त्रयी मय: ।

तमसस्तु रज: तस्मात् सत्त्वं यद् ब्रह्म दर्शनम् ॥


பேஜிரே முனய அத அக்ரே 

பகவந்தம் அதோக்ஷஜம் |

ஸத்வம் விஷுத்தம் க்ஷேமாய

கல்பந்தே யே அனு தான் இஹ ||

भेजिरे मुनयोऽथ अग्रे भगवन्तम् अधोक्षजम् ।

सत्त्वं विशुद्धं क्षेमाय कल्पन्ते ये अनु तान् इह ॥


முமுக்ஷவோ கோர ரூபான்

ஹித்வா பூத-பதீன் அத |

நாராயண கலா: சாந்தா

பஜந்தி ஹி அனசூயவ: ||

मुमुक्षवो घोर रूपान् हित्वा भूत-पतीनथ ।

नारायण कला: शान्ता भजन्ति हि अनसूयव: ॥


ரஜ: தம: ப்ரக்ருதய:

சமசீலா பஜந்தி வை |

பித்ரு பூத ப்ரஜேச ஆதின்

ஸ்ரியா ஐஸ்வர்ய ப்ரஜா ஈப்சவ: ||

रज: तम:प्रकृतय: सम-शीला भजन्ति वै ।

पितृ भूत प्रजेश आदीन् श्रिया एश्वर्य प्रजा ईप्सव: ॥


வாசுதேவ பரா வேதா 

வாசுதேவ பரா மகா: |

வாசுதேவ பரா யோகா

வாசுதேவ பரா க்ரியா: ||

वासुदेव-परा-वेदा वासुदेव-परा-मखा: ।

वासुदेव-परा-योगा वासुदेव-परा: क्रिया: ॥


வாசுதேவ பரம் ஞானம்

வாசுதேவ பரம் தப: |

வாசுதேவ பரோ தர்மோ

வாசுதேவ பரா கதி: ||

वासुदेव-परं ज्ञानं वासुदेव-परं तप: ।

वासुदेव-परो धर्मो वासुदेव-परा गति: ॥


ச ஏவ இதம் சசர்ஜ அக்ரே 

பகவான் ஆத்ம மாயயா |

ஸத் அஸத் ரூபயா ச அஸௌ

குண மயா அகுணோ விபு: ||   

स एव इदं ससर्ज अग्रे भगवान् आत्म-मायया ।

सद् असद् रूपया च असौ गुण मया अगुणो विभु: ।। 


தயா விலசிதேஷு ஏஷு

குணேசு குணவான் இவ |

அந்த: ப்ரவிஷ்ட ஆபாதி

விஞானேன விஜ்ரும்பித: ||

तया विलसितेषु एषु गुणेषु गुणवान् इव ।

अन्त: प्रविष्ट आभाति विज्ञानेन विजृम्भित: ॥


யதா ஹி அவஹிதோ வஹ்னி:

தாருசு ஏக: ஸ்வ யோனிஷு |

நாநா இவ பாதி விஸ்வாத்மா

பூதேஷு ச ததா புமான் ||

यथा हि अवहितो वह्नि दारुषु एक: स्व-योनिषु ।

नाना इव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ 


அஸௌ குணமயை: பாவை: பூத

சூக்ஷ்ம இந்த்ரிய ஆத்மபி: |

ஸ்வ நிர்மிதேஷு நிர்விஷ்டோ

புங்க்தே பூதேஷு தத் குணான் ||

असौ गुणमयै भावै: भूत सूक्ष्म इन्द्रिय आत्मभि: ।

स्व निर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद् गुणान् ॥


பாவயதி ஏஷ சத்வேன 

லோகான் வை லோக பாவன: |   

லீலா அவதார அனுரதோ

தேவ: திர்யக் நர ஆதிஷு ||

भावयत्येष सत्त्वेन लोकान् वै लोक भावन: ।

लीलावतार अनुरतो देव तिर्यङ्‍ नरादिषु ॥


குருநாதர் துணை

ஸ்கந்தம் 1: அத்யாயம் 1 - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham.. பரமாத்மாவின் அவதாரங்களை பற்றி விவரிக்க - ரிஷிகள் செய்யும் பிரார்த்தனை

ஸ்கந்தம் 1: அத்யாயம் 1

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

பரமாத்மாவின் அவதாரங்களை பற்றி விவரிக்க - ரிஷிகள் செய்யும் பிரார்த்தனை


ஓம் நமோ பகவதே வாசுதேவாய

ஜன்மாத் யஸ்ய யத: அன்வயாத் 

இதரத ச அர்தேஷு அபிஞ: ஸ்வராட் |

தேனே ப்ரஹ்ம ஹ்ருதா ய ஆதிகவயே 

தேஜோ வாரி ம்ருதாம் யதா வினிமயோ 

யத்ர த்ரிசர்கோ அம்ருசா |

தாம்னா ஸ்வேன சதா நிரஸ்த குஹகம்

சத்யம் பரம் தீமஹி || 

ॐ नमो भगवते वासुदेवाय

जन्माद्यस्य यतोऽन्वयाद् इतरत: च अर्थेषु अभिज्ञ: स्वराट्

तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरय: ।

तेजोवारि मृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा

धाम्ना स्वेन सदा निरस्त कुहकं सत्यं परं धीमहि ॥ 1


தர்ம: ப்ரோஜ்ஜித கைதவ அத்ர 

பரமோ நிர்மத்சரணாம் சதாம் |

வேத்யம் வாஸ்தவம் அத்ர வஸ்து 

சிவதம் தாபத்ரய உன்மூலனம் || 

ஸ்ரீ மத் பகவதே மஹா முனிக்ருதே 

கிம் வா பரைர் ஈஸ்வர: |

ஸத்ய ஹ்ருதி அவருத்யதே அத்ர 

க்ருதிபி: சுஷ்ரூஷுபி: தத் க்ஷணாத் || 

धर्म: प्रोज्झित कैतव अत्र परमो निर्मत्सराणां सतां

वेद्यं वास्तवम् अत्र वस्तु शिवदं तापत्रय उन्मूलनम् ।

श्रीमद्भागवते महामुनि कृते किं वा परै: ईश्वर:

सद्यो हृदि अवरुध्यते अत्र कृतिभि: शुश्रूषुभि: तत्क्षणात् ॥ 2


நிகம கல்ப தரோ கலிதம் பலம்

சுக முகாத் அம்ருத த்ரவ ஸம்யுதம் |

பிபத பாகவதம் ரஸம் ஆலயம்

முஹுரஹோ ரஸிகா புவி பாவுகா: ||

निगम कल्पतरोर् गलितं फलं

शुक मुखाद्  अमृत द्रव संयुतम् ।

पिबत भागवतं रसमालयं

मुहुरहो रसिका भुवि भावुका: ॥ 3


நைமிசே அனிமிஷ க்ஷேத்ரே 

ருஷய: சௌனக ஆதய: | 

சத்ரம் ஸ்வர்காய லோகாய

சஹஸ்ர சமம் ஆஸத ||

नैमिषे अनिमिष क्षेत्रे 

ऋषय: शौनक आदय: ।

सत्रं स्वर्गाय लोकाय 

सहस्र समम् आसत ॥ 4


த ஏகதா து முனய:

ப்ராத: ஹுத: ஹுத அக்னய: |

சத்க்ருதம் சூதம் ஆஸீனம் 

பப்ரச்சு:  இதம் ஆதராத் ||

त एकदा तु मुनय: 

प्रात: हुत हुत अग्नय: ।

सत्कृतं सूतम् आसीनं 

पप्रच्छु: इदम् आदरात् ॥ 5


ருக்ஷய உசு: (ऋषय ऊचुः)


த்வயா கலு புராணானி 

ச இதிஹாசானி சானக | 

ஆக்யாதானி அபி அதீதானி 

தர்ம சாஸ்த்ராணி யான்யுத ||

त्वया खलु पुराणानि 

स इतिहासानि चानघ ।

आख्यातानि अपि अधीतानि 

धर्म शास्त्राणि यान्युत ॥ 6


யானி வேத விதாம் ஸ்ரேஷ்டோ 

பகவான் பாதராயண: |

அன்யே ச முனய: சூத 

பராவர விதோ விது: ||

यानि वेद विदां श्रेष्ठो 

भगवान् बादरायण: ।

अन्ये च मुनय: सूत 

परावर विदो विदु: ॥ 7


வேத்த த்வம் சௌம்ய தத் சர்வம்

தத்-த்வத: தத் அனுகிரஹாத் |

ப்ரூய: ஸ்னிக்தஸ்ய சிஷ்யஸ்ய

குரவோ குஹ்யம் அபி யுத ||

वेत्थ त्वं सौम्य तत्सर्वं 

तत्त्वत: तद् अनुग्रहात् ।

ब्रूयु: स्‍निग्धस्य शिष्यस्य 

गुरवो गुह्यम् अप्युत ॥ 8


தத்ர தத்ர அஞ்சஸா ஆயுஸ்மன்

பவதா யத் வினிஸ்சிதம்  |

பும்ஸாம் ஏகாந்தத: ஸ்ரேய: 

தத் ந: ஸம்ஸிதும் அர்ஹஸி ||

तत्र तत्र अञ्जसा आयुष्मन् 

भवता यद् विनिश्चितम् ।

पुंसाम् एकान्तत: श्रेय: 

तत् न: शंसितुम् अर्हसि ॥ 9


ப்ராயேன அல்ப ஆயுஷ: ஸப்ய 

கலௌ அஸ்மின் யுகே ஜனா: | 

மந்தா: சுமந்த: மதயோ

மந்த பாக்யா ஹி உப-த்ருதா: ||

प्रायेण अल्प आयुष: सभ्य 

कलावस्मिन् युगे जना: ।

मन्दा: सुमन्द मतयो 

मन्द भाग्या हि उपद्रुता: ॥ 10


பூரீணி பூரி கர்மானி 

ஸ்ரோதவ்யானி விபாகஸ: |  

அத: சாதோ அத்ர யத் சாரம்

சமுத் த்ருத்ய மனீஷயா |  

ப்ரூஹி பத்ராய பூதானாம்

ஏன ஆத்மா சுப்ரஸீததி ||


भूरीणि भूरि कर्माणि

श्रोतव्यानि विभागश: ।

अत: साधो अत्र यत्सारं

समुद्‍ धृत्य मनीषया ।

ब्रूहि भद्राय भूतानां 

येनात्मा सुप्रसीदति ॥ 11


சூத ஜானாஸி பத்ரம் தே

பகவான் ஸாத்வதாம் பதி: |

தேவக்யாம் வசுதேவஸ்ய 

ஜாதோ  யஸ்ய சிகீர்ஷயா ||

सूत जानासि भद्रं ते

भगवान् सात्वतां पति: ।

देवक्यां वसुदेवस्य

जातो यस्य चिकीर्षया ॥  12


தன்ன ஸுஸ்ருச மானானாம் 

அர்ஹஸி அங்க அனுவர்ணிதும் |

யஸ்ய அவதாரோ பூதானாம்

க்ஷேமாய ச பவாய ச || 

तन्न: शुश्रूष माणानाम् 

अर्हसि अङ्ग अनुवर्णितुम् ।

यस्य अवतारो भूतानां 

क्षेमाय च भवाय च ॥ 13


ஆபன்ன சம்ஸ்ருதிம் கோரம் 

யந்நாம விவஸோ க்ருணன் |  

தத: சத்யோ விமுச்யேத

யத் பிபேதி ஸ்வயம் பயம் ||

आपन्न: संसृतिं घोरां 

यन्नाम विवशो गृणन् ।

तत: सद्यो विमुच्येत 

यद् बिभेति स्वयं भयम् ॥ 14


யத் பாத சம்ஸ்ரயா: சூத

முனய: ப்ரசமாயனா: |

சத்ய: புனந்தி உபஸ்ப்ருஷ்டா:

ஸ்வர்துனீ ஆப: அனுசேவயா ||

यत् पाद संश्रया: सूत

मुनय: प्रशमायना: ।

सद्य: पुनन्ति उपस्पृष्टा: 

स्वर्धुनि आपो अनुसेवया ॥ 15


கோ வா பகவத: தஸ்ய 

புண்ய ஸ்லோகேத்ய கர்மன: | 

சுத்த காமோ ந ஸ்ருணுயாத் 

யச: கலி மலாபஹம் ||

को वा भगवत: तस्य पुण्य श्लोकेड्य कर्मण: ।

शुद्धि कामो न श‍ृणुयाद् यश: कलि मलापहम् ॥  16


தஸ்ய கர்மானி உதாராணி

பரிகீதானி சுரிபி: |

ப்ரூஹி ந: ஸ்ரத்தா-னானாம்

லீலயா ததத: கலா: ||

तस्य कर्माणि उदाराणि 

परिगीतानि सूरिभि: ।

ब्रूहि न: श्रद्दधा नानां 

लीलया दधत: कला: ॥ 17


அத ஆக்யாஹி ஹரேர் தீமன் 

அவதார கதா: சுபா: |

லீலா வித தத: ஸ்வைரம்

ஈஸ்வரஸ்ய ஆத்ம மாயயா ||

अथ आख्याहि हरे: धीमन्  

अवतार कथा: शुभा: ।

लीला विदधत: स्वैरम् 

ईश्वरस्य आत्म मायया ॥ 18


வயம் து ந வித்ருப்யாம:

உத்தம ஸ்லோக விக்ரமே |

யத் ஸ்ருண்வதாம் ரஸ ஞானாம்

ஸ்வாது ஸ்வாது பதே பதே ||

वयं तु न वितृप्याम 

उत्तम श्लोक विक्रमे ।

यत् श्रुण्वतां रसज्ञानां 

स्वादु स्वादु पदे पदे ॥ 19


க்ருதவான் கில கர்மானி 

சஹ ராமேன கேசவ: |

அதிமர்த்யானி பகவான் 

கூட: கபட மானுஷ: ||

कृतवान् किल कर्माणि 

सह रामेण केशव: ।

अति मर्त्यानि भगवान् 

गूढ: कपट मानुष: ॥ 20


கலிம் ஆகதம் ஆக்யாய

க்ஷேத்ர அஸ்மின் வைஷ்ணவே வயம் |

ஆஸீனா தீர்க சத்ரேன

கதாயாம் சக்ஷனா ஹரே: ||

कलिम् आगतम् आज्ञाय 

क्षेत्रेऽस्मिन् वैष्णवे वयम् ।

आसीना दीर्घ सत्रेण 

कथायां सक्षणा हरे: ॥ 21


த்வம் ந சந்தர்ஷிதோ தாத்ரா 

துஸ்தரம் நிஸ்தி-தீரஷ்தாம் |

கலிம் சத்-த்வஹரம் பும்ஸாம்

கர்ணதார இவார்நவம் ||

त्वं न: सन्दर्शितो धात्रा 

दुस्तरं निस्ति तीर्षताम् ।

कलिं सत् त्वहरं पुंसां 

कर्णधार इवार्णवम् ॥ 22


ப்ரூஹி யோகேஸ்வரே க்ருஷ்ணே

ப்ரஹ்மன்யே தர்மவர்மனி |

ஸ்வாம் காஷ்டாம் அதுனா உபேதே

தர்ம: கம் சரணம் கத: ||

ब्रूहि योगेश्वरे कृष्णे 

ब्रह्मण्ये धर्म वर्मणि ।

स्वां काष्ठाम् अधुना उपेते 

धर्म: कं शरणं गत: ॥


குருநாதர் துணை