Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 4 ஸ்ரீமத் பாகவதம் srimad baghavatham... நாரதர் வருகை

 ஸ்கந்தம் 1: அத்யாயம் 4

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

நாரதர் வருகை

व्यास उवाच

इति ब्रुवाणं संस्तूय मुनीनां दीर्घ सत्रिणाम् ।

वृद्ध: कुलपति: सूतं बह्‌वृच: शौनको अब्रवीत् ॥ 1


शौनक उवाच

सूत सूत महाभाग वद नो वदतां वर ।

कथां भागवतीं पुण्यां यदाह भगवाण् सुक: ॥ 2


कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।

कुत: सञ्चोदित: कृष्ण: कृतवान् संहितां मुनि: ॥ 3


तस्य पुत्रो महायोगी सम-द‍ृङ्‍‌ निर्विकल्पक: ।

एकान्त मति रुन्निद्रो गूढो मूढ इवेयते ॥ 4


द‍ृष्ट्वा अनुयान्तम् रिषिम् आत्मजम् अपि अनग्नं

देव्यो ह्रिया परिदधु: न सुतस्य चित्रम् ।

तद् वीक्ष्य पृच्छति मुनौ जगदु: तव अस्ति

स्त्री-पुम् भिदा न तु सुतस्य विविक्त द‍ृष्टे: ॥ 5


कथम् आलक्षित: पौरै: सम्प्राप्त: कुरु-जाङ्गलान् ।

उन्मत्त मूक जडवद् विचरन् गज-साह्वये ॥ 6


कथं वा पाण्डवेयस्य राजर्षे: मुनिना सह ।

संवाद: समभूत् तात यत्रैषा सात्वती श्रुति: ॥ 7


स गो-दोहन-मात्रं हि गृहेषु गृहमेधिनाम् ।

अवेक्षते महा-भाग: तीर्थी कुर्वं तद् आश्रमम् ॥ 8


अभिमन्यु-सुतं सूत प्राहु: भागवत उत्तमम् ।

तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि न: ॥ 9


स सम्राट् कस्य वा हेतो: पाण्डूनां मानवर्धन: ।

प्राय उपविष्टो गङ्गायाम् अनाद‍ृत्य अधिराट्‌ श्रियम् ॥ 10


नमन्ति यत्पाद निकेतम् आत्मन:

शिवाय हानीय धनानि शत्रव: ।

कथं स वीर: श्रियम् अङ्ग दुस्त्यजां

युव ऐषत उत्स्रष्टुम्.अहो सह असुभि: ॥ 11


शिवाय लोकस्य भवाय भूतये

य उत्तम श्लोक परायणा जना: ।

जीवन्ति न आत्मार्थम् असौ पराश्रयं

मुमोच निर्विद्य कुत: कलेवरम् ॥ 12


तत्सर्वं न: समाचक्ष्व पृष्टो यदिह किञ्चन ।

मन्ये त्वां विषये वाचां स्‍नातम् अन्यत्र छान्दसात् ॥ 13


सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युग-पर्यये ।

जात: पराशराद् योगी वासव्यां कलया हरे: ॥ 14


स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचि: ।

विविक्त एक आसीन उदिते रवि मण्डले ॥ 15


परावरज्ञ: स ऋषि: कालेन अव्यक्त रंहसा ।

युग धर्म व्यतिकरं प्राप्तं भुवि युगे युगे ॥ 16


भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।

अश्रद्दधानान् नि:सत्त्वान् दुर्मेधान् ह्रसित आयुष: ॥ 17


दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।

सर्ववर्ण आश्रमाणां यद् दध्यौ हितम् अमोघ द‍ृक् ॥ 18


चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।

व्यदधाद् यज्ञ सन्तत्यै वेदमेकं चतुर्विधम् ॥ 19


ऋग् यजु:.साम अथर्व आख्या वेदा: चत्वार उद्‍धृता: ।

इतिहास पुराणं च पञ्चमो वेद उच्यते ॥ 20


तत्र ऋग् वेद धर: पैल: सामगो जैमिनि: कवि: ।

वैशम्पायन एवैको निष्णातो यजुषाम् उत ॥ 21


अथर्व अङ्गिरसाम् आसीत् सुमन्तु: दारुणो मुनि: ।

इतिहास पुराणानां पिता मे रोम हर्षण: ॥ 22


त एत ऋषयो वेदं स्वं स्वं व्यस्यन् अनेकधा ।

शिष्यै: प्रशिष्यै तत् शिष्यै: वेदास्ते शाखिनो अभवन् ॥ 23


त एव वेदा दुर्मेधै: धार्यन्ते पुरुषै: यथा ।

एवं चकार भगवान् व्यास: कृपण वत्सल: ॥ 24


स्त्री-शूद्र-द्विज-बन्धूनां त्रयी न श्रुति-गोचरा ।

कर्म श्रेयसि मूढानां श्रेय एवं भवेद् इह ।

इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥ 25


एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजा: ।

सर्वात्मकेन अपि यदा न अतुष्यद्‍ ह्रदयं तत: ॥ 26


न अतिप्रसीदद्‍ ह्रदय: सरस्वत्या: तटे शुचौ ।

वितर्कयन् विविक्तस्थ इदं च उवाच धर्मवित् ॥ 27


धृत व्रतेन हि मया छन्दांसि गुरवो अग्नय: ।

मानिता निर्व्यलीकेन गृहीतं चानु शासनम् ॥ 28


भारत व्यपदेशेन हि आम्नाय अर्थश्च प्रदर्शित: ।

द‍ृश्यते यत्र धर्मादि स्त्री शूद्रादिभि: अप्युत ॥ 29


तथापि बत मे दैह्यो हि आत्मा चैव आत्मना विभु: ।

असम्पन्न इव आभाति ब्रह्म वर्चस्य सत्तम: ॥ 30


किं वा भागवता धर्मा न प्रायेण निरूपिता: ।

प्रिया: परम-हंसानां त एव हि अच्युत प्रिया: ॥ 31


तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यत: ।

कृष्णस्य नारदो अभ्यागाद् आश्रमं प्राग् उदाहृतम् ॥ 32


तम् अभिज्ञाय सहसा प्रत्युत्थाय आगतं मुनि: ।

पूजयामास विधिवन् नारदं सुर-पूजितम् ॥ 33

No comments: