Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 3 ஸ்ரீமத் பாகவதம்.. Srimad Bhagavatham

ஸ்கந்தம் 1: அத்யாயம் 3

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

सूत उवाच

जगृहे पौरुषं रूपं भगवान् महद् आदिभि: ।

सम्भूतं षोडश कलम् आदौ लोक सिसृक्षया ॥ 1


यस्य अम्भसि शयानस्य योग-निद्रां वितन्वत: ।

नाभि ह्रद अम्बुजाद् आसीद् ब्रह्मा विश्वसृजां पति: ॥ 2


यस्य आवयव संस्थानै: कल्पितो लोक-विस्तर: ।

तद्वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ 3


पश्यन्ति अदो रूपम् अदभ्र चक्षुषा

सहस्र-पाद ऊरु भुजानन अद्भुतम् ।

सहस्र मूर्ध श्रवण अक्षि नासिकं

सहस्र मौलि अम्बर कुण्डल उल्लसत् ॥ 4


एतत् नाना अवताराणां निधानं बीजम् अव्ययम् ।

यस्य अम्श अम्शेन सृज्यन्ते देव तिर्यङ्‍ नर आदय: ॥ 5


स एव प्रथमं देव: कौमारं सर्गमाश्रित: ।

चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ 6


द्वितीयं तु भवाय अस्य रसातल गतां महीम् ।

उद्धरिष्यन् उपादत्त यज्ञेश: सौकरं वपु: ॥ 7


तृतीयम् ऋषि-सर्गं वै देवर्षित्वमुपेत्य स: ।

तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यत: ॥ 8


तुर्ये धर्म-कला सर्गे नर-नारायणौ ऋषी ।

भूत्वा आत्म उपशम उपेतम् अकरोद् दुश्चरं तप: ॥ 9


पञ्चम: कपिलो नाम सिद्धेश: कालविप्लुतम् ।

प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ 10


षष्ठमत्रेरपत्यत्वं वृत: प्राप्तोऽनसूयया ।

आन्वीक्षिकीम् अलर्काय प्रह्लाद आदिभ्य ऊचिवान् ॥ 11


तत: सप्तम आकूत्यां रुचे:  यज्ञो अभ्यजायत ।

स याम आद्यै: सुर गणै: अपात् स्वायम्भुव अन्तरम् ॥ 12


अष्टमे मेरुदेव्यां तु नाभे: जात उरुक्रम: ।

दर्शयन् वर्त्म धीराणां सर्व आश्रम नमस्कृतम् ॥ 13


ऋषिभि: याचितो भेजे नवमं पार्थिवं वपु: ।

दुग्ध इमाम् ओषधी: विप्रा: तेनायं स उशत्तम: ॥ 14


रूपं स जगृहे मात्स्यं चाक्षुष उदधि सम्प्लवे ।

नावि आरोप्य मही मय्याम् अपाद् वैवस्वतं मनुम् ॥ 15


सुर असुराणाम् उदधिं मथ्नतां मन्दराचलम् ।

दध्रे कमठ रूपेण पृष्ठ एकादशे विभु: ॥ 16


धान्वन्तरं द्वादशमं त्रयोदशममं एव च ।

अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ 17


चतुर्दशं नारसिंहं बिभ्रद् दैत्य इन्द्रम् ऊर्जितम् ।

ददार करजै: ऊरौ एरकां कटकृद् यथा ॥ 18


पञ्च-दशं वामनकं कृत्वा अगाद् आध्वरं बले: ।

पदत्रयं याचमान: प्रत्यादित्सु: त्रिपिष्टपम् ॥ 19


अवतारे षोडशमे पश्यन् ब्रह्म द्रुहो नृपान् ।

त्रि:सप्त कृत्व: कुपितो नि:क्षत्राम्.अकरोन् महीम् ॥ 20


तत: सप्तदशे जात: सत्यवत्यां पराशरात् ।

चक्रे वेदतरो: शाखा द‍ृष्ट्वा पुंसो अल्प मेधस: ॥ 21


नर.देवत्वम् आपन्न: सुर कार्य चिकीर्षया ।

समुद्र.निग्रह आदीनि चक्रे वीर्याणि अत: परम् ॥ 22


एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।

राम कृष्णौ इति भुवो भगवान् अहरद् भरम् ॥ 23


तत: कलौ सम्प्रवृत्ते सम्मोहाय सुर द्विषाम् ।

बुद्धो नाम्ना अञ्जन सुत: कीकटेषु भविष्यति ॥ 24


अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु ।

जनिता विष्णु यशसो नाम्ना कल्कि: जगत्पति: ॥ 25


अवतारा हि असङ्ख्येया हरे: सत्त्वनिधे: द्विजा: ।

यथा विदासिन: कुल्या: सरस: स्यु: सहस्रश: ॥.26


ऋषयो मनवो देवा मनुपुत्रा महौजस: ।

कला: सर्वे हरेरेव स-प्रजापतय: स्मृता: ॥ 27


एते च अंश कला: पुंस: कृष्णस्तु भगवान् स्वयम् ।

इन्द्रारि व्याकुलं लोकं मृडयन्ति युगे युगे ॥ 28


जन्म गुह्यं भगवतो य एतत्प्रयतो नर: ।

सायं प्रातर्गृणन् भक्त्या दु:ख ग्रामाद् विमुच्यते ॥ 29


एतद् रूपं भगवतो हि अरूपस्य चिदात्मन: ।

माया गुणै: विरचितं महदादिभि: आत्मनि ॥ 30


यथा नभसि मेघ ओघो रेणुर्वा पार्थिवो अनिले ।

एवं द्रष्टरि द‍ृश्यत्वम् आरोपितम् अबुद्धिभि: ॥ 31


अत: परं यद् अव्यक्तम् अव्यूढ गुण बृंहितम् ।

अद‍ृष्ट अश्रुत वस्तुत्वात् स जीवो यत् पुनर्भव: ॥ 32


यत्र इमे सद्.असद् रूपे प्रतिषिद्धे स्वसंविदा ।

अविद्यया आत्मनि कृते इति तद् ब्रह्म दर्शनम् ॥ 33


यद्येष उपरता देवी माया वैशारदी मति: ।

सम्पन्न एवेति विदु: महिम्नि स्वे महीयते ॥ 34


एवं जन्मानि कर्माणि हि अकर्तु: अजनस्य च ।

वर्णयन्ति स्म कवयो वेद-गुह्यानि हृत् पते: ॥ 35


स वा इदं विश्वम् अमोघलील:

सृजति अवत्यत्ति न सज्जते अस्मिन् ।

भूतेषु च अन्तर्हित आत्म तन्त्र:

षाड्‍ वर्गिकं जिघ्रति षड्‍-गुणेश: ॥ 36


न च अस्य कश्चित् निपुणेन धातु:

अवैति जन्तु: कुमनीष ऊती: ।

नामानि रूपाणि मनो वचोभि:

सन्तन्वतो नट-चर्याम् इवाज्ञ: ॥ 37


स वेद धातु: पदवीं परस्य

दुरन्त वीर्यस्य रथाङ्ग पाणे: ।

यो अमायया सन्ततया अनुवृत्त्या

भजेत तत्पाद सरोज गन्धम् ॥ 38


अथेह धन्या भगवन्त इत्थं

यद् वासुदेवे अखिल लोकनाथे ।

कुर्वन्ति सर्वात्मकम् आत्मभावं

न यत्र भूय: परिवर्त उग्र: ॥ 39


इदं भागवतं नाम पुराणं ब्रह्म सम्मितम् ।

उत्तम श्लोक चरितं चकार भगवान् त्रृषि: ।

नि:श्रेयसाय लोकस्य धन्यं स्वस्ति अयनं महत् ॥ 40


तद् इदं ग्राहयाम् आस सुतम् आत्मवतां वरम् ।

सर्व वेद इतिहासानां सारं सारं समुद्‍धृतम् ॥ 41


स तु संश्रावयाम् आस महाराजं परीक्षितम् ।

प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ 42


कृष्णे स्वधाम उपगते धर्म ज्ञान आदिभि: सह ।

कलौ नष्ट द‍ृशाम् एष पुराण अर्को अधुना उदित: ॥ 43


तत्र कीर्तयतो विप्रा विप्रर्षे: भूरि-तेजस: ।

अहं च अध्यगमं तत्र निविष्ट: तद् अनुग्रहात् ।

सोऽहं व: श्रावयिष्यामि यथा-अधीतं यथा-मति ॥ 44


No comments: