Followers

Search Here...

Saturday, 7 March 2026

ஸ்கந்தம் 5: அத்யாயம் 17 (கங்கை ப்ரம்ம லோகத்திலிருந்து பூமிக்கு வருகை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

கங்கை ப்ரம்ம லோகத்திலிருந்து பூமிக்கு வருகை

ஸ்கந்தம் 5: அத்யாயம் 17

श्री-शुकः उवाच

तत्र भगवतः साक्षात् यज्ञ-लिङ्गस्य विष्णोः विक्रमतः वाम-पाद-अङ्गुष्ठ-नख-निर्भिन्न-ऊर्ध्व-अण्ड-कटाह-विवरेण अन्तः-प्रविष्टा या बाह्य-जल-धारा तत्-चरण-पङ्कज-अवनेजन-अरुण-किञ्जल्क-उप-रञ्जित-अखिल-जगत्-अघ-मल-अपह-उपस्पर्शन-अमला साक्षात् भगवत्-पदी इति अनुपलक्षित-वचः अभिधीयमाना अति-महता कालेन युग-सहस्र-उपलक्षणेन दिवः मूर्धनि अवततार यत् तत् विष्णु-पदम् आहुः ॥ १ ॥

यत्र ह वाव वीर-व्रतः औत्तानपादिः परम-भागवतः अस्मत्-कुल-देवता-चरण-अरविन्द-उदकम् इति याम् अनु-सवनम् उत्कृष्यमाण-भगवत्-भक्ति-योगेन दृढम् क्लिद्यमान-अन्तः-हृदयः औत्कण्ठ्य-विवश-अमीलित-लोचन-युगल-कुड्मल-विगलित-अमल-बाष्प-कलया अभिव्यज्यमान-रोम-पुलक-कुलकः अधुना अपि परम-आदरेण शिरसा बिभर्ति ॥ २ ॥

ततः सप्त ऋषयः तत्-प्रभाव-अभिज्ञाः याम् ननु तपसः आत्यन्तिकी सिद्धिः एतावती भगवति सर्व-आत्मनि वासुदेवे अनुपरत-भक्ति-योग-लाभेन एव उपेक्षित-अन्य-अर्थ-आत्म-गतयः मुक्तिम् इव आगताम् मुमुक्षवः इव स-बहुमानम् अद्य-अपि जटा-जूटैः उद्वहन्ति ॥ ३ ॥

ततः अनेक-सहस्र-कोटि-विमान-अनीक-सङ्कुल-देव-यानेन अवतरन्ती इन्दु-मण्डलम् आवार्य ब्रह्म-सदने निपतति ॥ ४ ॥

तत्र चतुर्धा भिद्यमाना चतुर्भिः नामभिः चतुर्दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एव अभिनिविशति सीता-अलकनन्दा-चक्षुः-भद्रा इति ॥ ५ ॥

सीता तु ब्रह्म-सदनात् केसर-अचल-आदि-गिरि-शिखरेभ्यः अधः-अधः प्रस्रवन्ती गन्धमादन-मूर्धसु पतित्वा अन्तरेण भद्राश्व-वर्षम् प्राच्याम् दिशि क्षार-समुद्रम् अभि-प्रविशति ॥ ६ ॥

एवम् माल्यवत्-शिखरात् निष्पतन्ती ततः अनुपरत-वॆगा केतुमालम् अभि चक्षुः प्रतीच्याम् दिशि सरित्-पतिम् प्रविशति ॥ ७ ॥

भद्रा च उत्तरतः मेरु-शिरसः निपतिता गिरि-शिखरात् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गात् अवस्यन्दमाना उत्तरान् तु कुरून् अभितः उदीच्याम् दिशि जलधिम् अभि-प्रविशति ॥ ८ ॥

तथा एव अलकनन्दा दक्षिणेन ब्रह्म-सदनात् बहूनि गिरि-कूटानि अतिक्रम्य हेम-कूटात् हैम-कूटानि अति-रभस-तर-रंहसा लुठयन्ती भारतम् अभि वर्षम् दक्षिणस्याम् दिशि जलधिम् अभि-प्रविशति यस्याम् स्नान-अर्थम् च आगच्छतः पुंसः पदे पदे अश्वमेध-राजसूय-आदीनाम् फलम् न दुर्लभम् इति ॥ ९ ॥

अन्ये च नदाः नद्यः च वर्षे वर्षे सन्ति बहुशः मेरु-आदि-गिरि-दुहितरः शतशः ॥ १० ॥

तत्र अपि भारतम् एव वर्षम् कर्म-क्षेत्रम् अन्यानि अष्ट वर्षाणि स्वर्गिणाम् पुण्य-शेष-उपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति ॥ ११ ॥

एषु पुरुषाणाम् अयुत-पुरुष-आयुः-वर्षाणाम् देव-कल्पानाम् नाग-अयुत-प्राणानाम् वज्र-संहनन-बल-वयः-मोद-प्रमुदित-महा-सौरत-मिथुन-व्यवाय-अपवर्ग-वर्ष-धृत-एक-गर्भ-कलत्राणाम् तत्र तु त्रेता-युग-समः कालः वर्तते ॥ १२ ॥

यत्र ह देव-पतयः स्वैः स्वैः गण-नायकैः विहित-महा-अर्हणाः सर्व-ऋतु-कुसुम-स्तबक-फल-किसलय-श्रिया आनम्यमान-विटप-लता-विटपिभिः उपशुम्भमान-रुचिर-कानन-आश्रम-आयतन-वर्ष-गिरि-द्रोणीषु तथा च अमल-जल-आशयेषु विकच-विविध-नव-वन-रुह-आमोद-मुदित-राज-हंस-जल-कुक्कुट-कारण्डव-सारस-चक्रवाक-आदिभिः मधुकर-निकर-आकृतिभिः उप-कूजितेषु जल-क्रीडा-आदिभिः विचित्र-विनोदैः सुललित-सुर-सुन्दरीणाम् काम-कलिल-विलास-हास-लीला-अवलोक-आकृष्ट-मनः-दृष्टयः स्वैरम् विहरन्ति ॥ १३ ॥

नवसु अपि वर्षेषु भगवान् नारायणः महा-पुरुषः पुरुषाणाम् तत्-अनुग्रहाय आत्म-तत्त्व-व्यूहेन आत्मना अद्य-अपि सन्निधीयते ॥ १४ ॥

इलावृते तु भगवान् भवः एकः एव पुमान् न हि अन्यः तत्र अपरः निर्विशति भवान्याः शाप-निमित्त-ज्ञः यत् प्रवेक्ष्यतः स्त्री-भावः तत् पश्चात् वक्ष्यामि ॥ १५ ॥

भवानी-नाथैः स्त्री-गण-अर्बुद-सहस्रैः अवरुध्यमानः भगवतः चतुर्मूर्तेः महा-पुरुषस्य तुरीयाम् तामसीम् मूर्तिम् प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्य एतत् अभिगृणन् भवः उपधावति ॥ १६ ॥

श्री-भगवान् उवाच

ॐ नमः भगवते महा-पुरुषाय सर्व-गुण-सङ्ख्यानाय अनन्ताय अव्यक्ताय नमः इति ॥ १७ ॥

भजे भजन्य-अरण-पाद-पङ्कजम्
भगस्य कृत्स्नस्य परम् परायणम् ।
भक्तेषु अलम् भावित-भूत-भावनम्
भव-अपहम् त्वा भव-भावम् ईश्वरम् ॥ १८ ॥

न यस्य माया-गुण-चित्त-वृत्तिभिः
निरिक्षतः हि अणु अपि दृष्टिः अज्यते ।
ईशे यथा नः अजित-मन्युः अंहसाम्
कः तम् न मन्येत जिगीषुः आत्मनः ॥ १९ ॥

असत्-दृशः यः प्रतिभाति मायया
क्षीबः इव मधु-आसव-ताम्र-लोचनः ।
न नाग-वध्वः अर्हणे ईशिरे ह्रिया
यत् पादयोः स्पर्शन-धर्षित-इन्द्रियाः ॥ २० ॥

यम् आहुः अस्य स्थिति-जन्म-संयमम्
त्रिभिः विहीनम् यम् अनन्तम् ऋषयः ।
न वेद सिद्ध-अर्थम् इव क्वचित् स्थितम्
भूमण्डलम् मूर्ध-सहस्र-धामसु ॥ २१ ॥

यस्य आद्यः आसीत् गुण-विग्रहः महान्
विज्ञान-धिष्ण्यः भगवान् अजः किल ।
यत् सम्भवः अहम् त्रिवृता स्व-तेजसा
वैकारिकम् तामसम् ऐन्द्रियम् सृजे ॥ २२ ॥

एते वयम् यस्य वशे महा-आत्मनः
स्थिताः शकुन्ताः इव सूत्र-यन्त्रिताः ।
महान् अहम् वैकृत-तामस-इन्द्रियाः
सृजामः सर्वे यत्-अनुग्रहात् इदम् ॥ २३ ॥

यत् निर्मिताम् कर्हि अपि कर्म-पर्वणीम्
मायाम् जनः अयम् गुण-सर्ग-मोहितः ।
न वेद निस्तारण-योगम् अञ्जसा
तस्मै नमः ते विलय-उदय-आत्मने ॥ २४ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे सप्त-दशः अध्यायः ॥ १७ ॥


ஸ்கந்தம் 5: அத்யாயம் 16 (ஜம்பு த்வீபத்தின் வர்ணனை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஜம்பு த்வீபத்தின் வர்ணனை

ஸ்கந்தம் 5: அத்யாயம் 16

राजा उवाच ॥

उक्तः त्वया भूमण्डलायाम् अविशेषः यावत् आदित्यः तपति यत्र च असौ ज्योतिषाम् गणैः चन्द्रमाः वा सह दृश्यते ॥ १ ॥

तत्र अपि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धवः उपकॢप्ता यतः एतस्याः सप्त-द्वीप-विशेष-विकल्पः त्वया भगवन् खलु सूचितः एतत् एव अखिलम् अहम् मानतः लक्षणतः च सर्वम् विजिज्ञासामि ॥ २ ॥

भगवतः गुण-मये स्थूल-रूपे आवेशितम् मनः हि अगुणे अपि सूक्ष्म-तम् आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेव-आख्ये क्षमम् आवेशितुम् तत् उ ह एतत् गुरो अर्हसि अनुवर्णयितुम् इति ॥ ३ ॥

ऋषिः उवाच ॥

न वै महा-राज भगवतः माया-गुण-विभूतेः काष्ठाम् मनसा वचसा वा अधिगन्तुम् अलम् विबुध-आयुषा अपि पुरुषः तस्मात् प्राधान्येन एव भू-गोलक-विशेषम् नाम-रूप-मान-लक्षणतः व्याख्यास्यामः ॥ ४ ॥

यः वै अयम् द्वीपः कुवलय-कमल-कोश-अभ्यन्तर-कोशः नियुत-योजन-विशालः सम-वर्तुलः यथा पुष्कर-पत्रम् ॥ ५ ॥

यस्मिन् नव वर्षाणि नव-योजन-सहस्र-आयामानि अष्टभिः मर्यादा-गिरिभिः सु-विभक्तानि भवन्ति ॥ ६ ॥

एषाम् मध्ये इलावृतम् नाम अभ्यन्तर-वर्षम् यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुल-गिरि-राजः मेरुः द्वीप-आयाम-समुन्नाहः कर्णिका-भूतः कुवलय-कमलस्य मूर्धनि द्वात्रिंशत् सहस्र-योजन-विततः मूले षोडश-सहस्रम् तावत् अन्तः-भूम्याम् प्रविष्टः ॥ ७ ॥

उत्तर-उत्तरेण इलावृतम् नीलः श्वेतः शृङ्गवान् इति त्रयः रम्यक-हिरण्मय-कुरूणाम् वर्षाणाम् मर्यादा-गिरयः प्राक्-आयताः उभयतः क्षार-उद-अवधयः द्वि-सहस्र-पृथवः एकैकशः पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः दश-अंश-अधिक-अंशेन दैर्घ्ये एव ह्रसन्ति ॥ ८ ॥

एवम् दक्षिणेन इलावृतम् निषधः हेम-कूटः हिमालयः इति प्राक्-आयताः यथा नील-आदयः अयुत-योजन-उत्सेधाः हरि-वर्ष-किम्पुरुष-भारतानाम् यथा-सङ्ख्यम् ॥ ९ ॥

तथा एव इलावृतम् अपरेण पूर्वेण च माल्यवत् गन्ध-मादनौ आ-नील-निषध-आयतौ द्वि-सहस्रम् पप्रथतुः केतुमाल-भद्राश्वयोः सीमानम् विदधाते ॥ १० ॥

मन्दरः मेरु-मन्दरः सुपार्श्वः कुमुदः इति अयुत-योजन-विस्तार-उन्नाहाः मेरोः चतुर्दिशम् अवष्टम्भ-गिरयः उपकॢप्ताः ॥ ११ ॥

चतुर्षु एतेषु चूत-जम्बू-कदम्ब-न्यग्रोधाः चत्वारः पादप-प्रवराः पर्वत-केतवः इव अधि-सहस्र-योजन-उन्नाहाः तावत् विटप-विततयः शत-योजन-परिणाहाः ॥ १२ ॥

ह्रदाः चत्वारः पयः-मधु-इक्षु-रस-अमृष्ट-जलाः यत् उपस्पर्शिनः उप-देव-गणाः योग-ऐश्वर्याणि स्वाभाविकानि भरत-ऋषभ धारयन्ति ॥ १३ ॥

देव-उद्यानानि च भवन्ति चत्वारि नन्दनम् चैत्र-रथम् वैभ्राजकम् सर्वतः-भद्रम् इति ॥ १४ ॥

येषु अमर-परिवृढाः सह सुर-ललना-ललाम-यूथ-पतयः उप-देव-गणैः उप-गीयमान-महिमानः किल विहरन्ति ॥ १५ ॥

मन्दर-उत्सङ्गे एकादश-शत-योजन-उत्तुङ्ग-देव-चूत-शिरसः गिरि-शिखर-स्थूलानि फलानि अमृत-कल्पानि पतन्ति ॥ १६ ॥

तेषाम् विशीर्यमाणानाम् अति-मधुर-सुरभि-सुगन्धि-बहुल-अरुण-रस-उदेन अरुणोदा नाम नदी मन्दर-गिरि-शिखरात् निपतन्ती पूर्वेण इलावृतम् उपप्लावयति ॥ १७ ॥

यत् उपजोषणात् भवानीयाः अनुचरीणाम् पुण्य-जन-वधूनाम् अवयव-स्पर्श-सुगन्ध-वातः दश-योजनम् समन्तात् अनुवासयति ॥ १८ ॥

एवम् जम्बू-फलानाम् अति-उच्च-निपात-विशीर्णानाम् अनस्थि-प्रायाणाम् इभ-काय-निभानाम् रसेन जम्बू नाम नदी मेरु-मन्दर-शिखरात् अयुत-योजनात् अवनि-तले निपतन्ती दक्षिणेन आत्मानम् यावत् इलावृतम् उपस्यन्दयति ॥ १९ ॥

तावत् उभयोः अपि रोधसोः या मृत्तिका तत् रसेन अनुविध्यमाना वायु-अर्क-संयोग-विपाकेन सदा अमर-लोक-आभरणम् जाम्बूनदम् नाम सुवर्णम् भवति ॥ २० ॥

यदु ह वाव विबुध-आदयः सह युवतिभिः मुकुट-कटक-कटि-सूत्र-आदि-आभरण-रूपेण खलु धारयन्ति ॥ २१ ॥

यः तु महा-कदम्बः सु-पार्श्व-निरूढः याः तस्य कोटरेभ्यः विनिःसृताः पञ्च-आयाम-परिणाहाः पञ्च मधु-धाराः सु-पार्श्व-शिखरात् पतन्त्यः अपरेण आत्मानम् इला-वृतम् अनुमोदयन्ति ॥ २२ ॥

याः हि उपयुञ्जानानाम् मुख-निर्वासितः वायुः समन्तात् शत-योजनम् अनुवासयति ॥ २३ ॥

एवम् कुमुद-निरूढः यः शत-वल्शः नाम वटः तस्य स्कन्धेभ्यः नीचीनाः पयः-दधि-मधु-घृत-गुड-अन्न-आदि-अम्बर-शय्या-आसन-आभरण-आदयः सर्वे एव काम-दुघाः नदाः कुमुद-अग्रात् पतन्तः तम् उत्तरेण इला-वृतम् उपयोजयन्ति ॥ २४ ॥

यान् उपजुषाणानाम् न कदाचित् अपि प्रजानाम् वली-पलित-क्लम-स्वेद-दौर्गन्ध्य-जरा-अमय-मृत्यु-शीत-उष्ण-वैवर्ण्य-उपसर्ग-आदयः ताप-विशेषाः भवन्ति यावत् जीवम् सुखम् निरतिशयम् एव ॥ २५ ॥

कुरङ्ग-कुरर-कुसुम्भ-वैकङ्क-त्रिकूट-शिशिर-पतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारद-आदयः विंशति-गिरयः मेरोः कर्णिकायाः इव केसर-भूताः मूल-देशे परितः उपकॢप्ताः ॥ २६ ॥

जठर-देव-कूटौ मेरुम् पूर्वेण अष्टादश-योजन-सहस्रम् उदगायतौ द्वि-सहस्रम् पृथु-तुङ्गौ भवतः ।
एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राक्-आयातौ एवम् उत्तरतः त्रि-शृङ्ग-मकरौ अष्टभिः एतैः परिसृतः अग्निः इव परितः चकास्ति काञ्चन-गिरिः ॥ २७ ॥

मेरोः मूर्धनि भगवतः आत्म-योनेः मध्यतः उपकॢप्ताम् पुरीम् अयुत-योजन-साहस्रीम् सम-चतुरस्राम् शात-कौम्भीम् वदन्ति ॥ २८ ॥

ताम् अनु परितः लोक-पालानाम् अष्टानाम् यथा-दिशम् यथा-रूपम् तुरीय-मानेन पुरः अष्टौ उपकॢप्ताः ॥ २९ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भुवन-कोश-वर्णनम् नाम षोडशः अध्यायः ॥ १६ ॥


ஸ்கந்தம் 5: அத்யாயம் 15 (ப்ரியவ்ரதன் வம்சத்தின் வர்ணனை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ப்ரியவ்ரதன் வம்சத்தின் வர்ணனை

ஸ்கந்தம் 5: அத்யாயம் 15

श्री-शुकः उवाच ॥

भरतस्य आत्मजः सुमतिः नाम अभिहितः यम् उ ह वाव केचित् पाखण्डिनः ऋषभ-पदवीम् अनुवर्तमानम् च अनार्याः अवेद-समाम्नाताम् देवताम् स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ १ ॥

तस्मात् वृद्ध-सेनायाम् देवताजित् नाम पुत्रः अभवत् ॥ २ ॥

अथ असुर्याम् तत्-तनयः देव-द्युम्नः ततः धेनुमत्याम् सुतः परमेष्ठी तस्य सुवर्चलायाम् प्रतीहः उपजातः ॥ ३ ॥

यः आत्म-विद्याम् आख्याय स्वयम् संशुद्धः महा-पुरुषम् अनुसस्मार ॥ ४ ॥

प्रतीहात् सुवर्चलायाम् प्रतिहर्तृ-आदयः त्रयः आसन् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अज-भूमा-नौ अजनिषाताम् ॥ ५ ॥

भूम्नः ऋषि-कुल्यायाम् उद्गीथः ततः प्रस्तावः देव-कुल्यायाम् प्रस्तावात् नियुत्सायाम् हृदय-जः आसीत् विभुः विभोः रत्याम् च पृथु-सेनः तस्मात् नक्तः आकूत्याम् जज्ञे नक्तात् द्रुति-पुत्रः गयः राजर्षि-प्रवरः उदार-श्रवाः अजायत साक्षात् भगवतः विष्णोः जगत्-रिरक्षिषया गृहीत-सत्त्वस्य कला-आत्मवत्-आदि-लक्षणेन महा-पुरुषताम् प्राप्तः ॥ ६ ॥

सः वै स्व-धर्मेण प्रजा-पालन-पोषण-प्रीणन-उपलालन-अनुशासन-लक्षणेन इज्या-आदिना च भगवति महा-पुरुषे पर-अवरे ब्रह्मणि सर्व-आत्मना अर्पित-परमार्थ-लक्षणेन ब्रह्म-वित्-चरण-अनुसेवया आपादित-भगवत्-भक्ति-योगेन च अभीक्ष्णशः परिभावित-अति-शुद्ध-मतिः उपरत-अनात्म्यः आत्मनि स्वयम् उपलभ्यमान-ब्रह्म-आत्म-अनुभवः अपि निरभिमानः एव अवनिम् अजूगुपत् ॥ ७ ॥

तस्य इमाम् गाथाम् पाण्डवेय पुरा-विदः उपगायन्ति ॥ ८ ॥

गयम् नृपः कः प्रतियाति कर्मभिः
यज्वा अभिमानी बहु-वित् धर्म-गोप्ता ।
समागत-श्रीः सदसः पतिः सताम्
सत्-सेवकः अन्यः भगवत्-कलाम् ऋते ॥ ९ ॥

यम् अभ्यषिञ्चन् परया मुदा सतीः
सत्य-आशिषः दक्ष-कन्याः सरिद्भिः ।
यस्य प्रजानाम् दुदुहे धरा आशिषः
निराशिषः गुण-वत्स-स्नुत-ओधाः ॥ १० ॥

छन्दांसि अकामस्य च यस्य कामान्
दुदूहुः आजह्रुः अथो बलिम् नृपाः ।
प्रत्यञ्चिताः युधि धर्मेण विप्राः
यत् आशिषाम् षष्ठम् अंशम् परेत्य ॥ ११ ॥

यस्य अध्वरे भगवान् अध्वर-आत्मा
मघोनि माद्यति उरु-सोम-पीथे ।
श्रद्धा-विशुद्ध-अचल-भक्ति-योग-
समर्पित-इज्या-फलम् आजहार ॥ १२ ॥

यत् प्रीणनात् बर्हिषि देव-तिर्यङ्
मनुष्य-वीरुत्-तृणम् आ-विरिञ्चात् ।
प्रीयेत सद्यः सः हि विश्व-जीवः
प्रीतः स्वयम् प्रीतिम् अगात् गयस्य ॥ १३ ॥

गयात् गयन्त्याम् चित्र-रथः सु-गतिः अवरोधनः इति त्रयः पुत्राः बभूवुः चित्र-रथात् ऊर्णायाम् सम्राट् अजनिष्ट ॥ १४ ॥

ततः उत्कलायाम् मरीचिः मरीचेः बिन्दुमत्याम् बिन्दुमान् उदपद्यत तस्मात् सरघायाम् मधुः नाम अभवत् मधोः सुमनसि वीर-व्रतः ततः भोजायाम् मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायाम् भौवनः ततः दूषणायाम् त्वष्टा अजनिष्ट त्वष्टुः विरोचनायाम् विरजः विरजस्य शतजित्-प्रवरम् पुत्र-शतम् कन्या च विषूच्याम् किल जातम् ॥ १५ ॥

तत्र अयम् श्लोकः —
प्रैयव्रतम् वंशम् इमम् विरजः चरम-उद्भवः ।
अकरोत् अति-अलम् कीर्त्या विष्णुः सुर-गणम् यथा ॥ १६ ॥


इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे प्रियव्रत-वंश-अनुकीर्तनम् नाम पञ्चदशः अध्यायः ॥ १५ ॥


ஸ்கந்தம் 5: அத்யாயம் 14 (மனித வாழ்க்கை = ஒரு காட்டுப் பயணம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

மனித வாழ்க்கை = ஒரு காட்டுப் பயணம்

ஸ்கந்தம் 5: அத்யாயம் 14

 

सः ह उवाच

सः एषः देह-आत्म-मानिनाम् सत्त्व-आदि-गुण-विशेष-विकल्पित-कुशल-अकुशल-समवहार-विनिर्मित-विविध-देह-आवलिभिः वियोग-संयोग-आदि-अनादि-संसार-अनुभवस्य द्वार-भूतेन षट्-इन्द्रिय-वर्गेण तस्मिन् दुर्ग-अध्व-वद् अ-सुगमे अध्वनि आपतितः ईश्वरस्य भगवतः विष्णोः वश-वर्तिन्या मायया जीव-लोकः अयम् यथा वणिक्-सार्थः अर्थ-परः स्व-देह-निष्पादित-कर्म-अनुभवः श्मशान-वद् अशिव-तमायाम् संसार-अटव्याम् गतः न अद्य अपि विफल-बहु-प्रति-योग-ईहः तत्-ताप-उपशमनीम् हरि-गुरु-चरण-अरविन्द-मधुकर-अनुपदवीम् अवरुन्धे यस्याम् उ ह वा एते षट्-इन्द्रिय-नामानः कर्मणा दस्यवः एव ते ॥ १ ॥

तत् यथा पुरुषस्य धनम् यत् किञ्चित् धर्म-औपयिकम् बहु-कृच्छ्र-अधिगतं साक्षात् परम-पुरुष-आराधन-लक्षणः यः असौ धर्मः तम् तु साम्पराये उदाहरन्ति । तत् धर्म्यम् धनम् दर्शन-स्पर्शन-श्रवण-आस्वादन-अवघ्राण-सङ्कल्प-व्यवसाय-गृह-ग्राम्य-उप-भोगेन कु-नाथस्य अ-जित-आत्मनः यथा सार्थस्य विलुम्पन्ति ॥ २ ॥

अथ च यत्र कौटुम्बिकाः दार-अपत्य-आदयः नाम्ना कर्मणा वृक-सृगालाः एव अनिच्छतः अपि कदर्यस्य कुटुम्बिनः उरणक-वद् संरक्ष्यमाणम् मिषतः अपि हरन्ति ॥ ३ ॥

यथा हि अनु-वत्सरम् कृष्यमाणम् अपि अदग्ध-बीजम् क्षेत्रम् पुनः एव अवपन-काले गुल्म-तृण-वीरुद्भिः गह्वरम् इव भवति एवम् एव गृह-आश्रमः कर्म-क्षेत्रम् यस्मिन् न हि कर्माणि उत्सीदन्ति यत् अयम् काम-करण्डः एषः आवसथः ॥ ४ ॥

तत्र गतः दंश-मशक-सम-अपसदैः मनुजैः शलभ-शकुन्त-तस्कर-मूषक-आदिभिः उपरुध्यमान-बहिः-प्राणः क्वचित् परिवर्तमानः अस्मिन् अध्वनि अविद्या-काम-कर्मभिः उपरक्त-मनसा अनुपपन्न-अर्थम् नर-लोकम् गन्धर्व-नगरम् उपपन्नम् इति मिथ्या-दृष्टिः अनुपश्यति ॥ ५ ॥

तत्र च क्वचित् आतप-उदक-निभान् विषयान् उपधावति पान-भोजन-व्यवाय-आदि-व्यसन-लोलुपः ॥ ६ ॥

क्वचित् च अशेष-दोष-निषदनम् पुरीष-विशेषम् तत्-वर्ण-गुण-निर्मित-मतिः सुवर्णम् उपादित्सति अग्नि-काम-कातरः इव उल्मुक-पिशाचम् ॥ ७ ॥

अथ कदाचित् निवास-पानीय-द्रविण-आदि-अनेक-आत्म-उपजीवन-अभिनिवेशः एतस्याम् संसार-अटव्याम् इतः ततः परिधावति ॥ ८ ॥

क्वचित् च वात्य-औपम्यया प्रमदया आरोप-मारोपितः तत्-काल-रजसा रजनी-भूतः इव असाधु-मर्यादः रजस्वल-अक्षः अपि दिक्-देवताः अति-रजस्वल-मतिः न विजानाति ॥ ९ ॥

क्वचित् सकृत् अवगत-विषय-वैतथ्यः स्वयम् पर-अभिध्यानेन विभ्रंशित-स्मृतिः तया एव मरीचि-तोय-प्रायान् तान् एव अभिधावति ॥ १० ॥

क्वचित् उलूक-झिल्ली-स्वन-वद् अति-परुष-रभस-आटोपम् प्रत्यक्षम् परोक्षम् वा रिपु-राज-कुल-निर्भर्त्सितेन अति-व्यथित-कर्ण-मूल-हृदयः ॥ ११ ॥

सः यदा दुग्ध-पूर्व-सुकृतः तदा कारस्कर-काक-तुण्ड-आदि-अपुण्य-द्रुम-लता-विष-उद-पान-वद् उभय-अर्थ-शून्य-द्रविणान् जीवन्-मृतान् स्वयम् जीवन् म्रियमाणः उपधावति ॥ १२ ॥

एकदा सत्-प्रसङ्गात् निकृत-मतिः व्युदक-स्रोतः-स्खलन-वद् उभयतः अपि दुःख-दम् पाखण्डम् अभियाति ॥ १३ ॥

यदा तु पर-बाधया अन्धः आत्मने न उपनमति तदा हि पितृ-पुत्र-बर्हिष्मतः पितृ-पुत्रान् वा सः खलु भक्षयति ॥ १४ ॥

क्वचित् आसाद्य गृहम् दाव-वद् प्रिय-अर्थ-विधुरम् अ-सुख-उदर्कम् शोक-अग्निना दह्यमानः भृशम् निर्वेदम् उपगच्छति ॥ १५ ॥

क्वचित् काल-विषमित-राज-कुल-रक्षसा अपहृत-प्रियतम-धन-आसुः प्रमृतकः इव विगत-जीव-लक्षणः आस्ते ॥ १६ ॥

कदाचित् मनो-रथ-उपगत-पितृ-पितामह-आदि-असत्-सत् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति ॥ १७ ॥

क्वचित् गृह-आश्रम-कर्म-चोदना-अति-भर-गिरिम् आरुरुक्षमाणः लोक-व्यसन-कर्षित-मनाः कण्टक-शर्करा-क्षेत्रम् प्रविशन् इव सीदति ॥ १८ ॥

क्वचित् च दुःसहेन काय-अभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति ॥ १९ ॥

सः एव पुनः निद्रा-अजगर-गृहीतः अन्धे तमसि मग्नः शून्य-अरण्ये इव शेते न अन्यत् किञ्चन वेद शवः इव अपविद्धः ॥ २० ॥

कदाचित् भग्न-मान-दंष्ट्रः दुर्जन-दन्दशूकैः अलब्ध-निद्रः क्षणः व्यथित-हृदयेन अनुक्षीयमाण-विज्ञानः अन्ध-कूपे अन्ध-वद् पतति ॥ २१ ॥

कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार-पर-द्रव्याणि अवरुन्धानः राज्ञा स्वामिभिः वा निहतः पतति अपारे निरये ॥ २२ ॥

अथ च तस्मात् उभयथा अपि हि कर्म अस्मिन् आत्मनः संसार-अवपनम् उदाहरन्ति ॥ २३ ॥

मुक्तः ततः यदि बन्धात् देव-दत्तः उपाच्छिनत्ति तस्मात् अपि विष्णु-मित्रः इति अनवस्थितिः ॥ २४ ॥

क्वचित् च शीत-वात-आदि-अनेक-अधिदैविक-भौतिक-आत्मीयानाम् दशानाम् प्रतिनिवारणे अकल्पः दुरन्त-चिन्तया विषण्णः आस्ते ॥ २५ ॥

क्वचित् मिथः व्यवहरन् यत् किञ्चित् धनम् अन्येभ्यः वा काकिणिका-मात्रम् अपि अपहरन् यत् किञ्चित् वा विद्वेषम् एति वित्त-शाठ्यात् ॥ २६ ॥

अध्वनि अमुष्मिन् इमे उपसर्गाः तथा सुख-दुःख-राग-द्वेष-भय-अभिमान-प्रमाद-उन्माद-शोक-मोह-लोभ-मात्सर्य-ईर्ष्या-अवमान-क्षुत्-पिपासा-आधि-व्याधि-जन्म-जरा-मरण-आदयः ॥ २७ ॥

क्वापि देव-मायया स्त्रिया भुज-लता-उपगूढः प्रस्कन्न-विवेक-विज्ञानः यत् विहार-गृह-आरम्भ-आकुल-हृदयः तत् आश्रय-आवसक्त-सुत-दुहितृ-कलत्र-भाषित-अवलोक-विचेष्टित-अपहृत-हृदयः आत्मानम् अजित-आत्मा अपारे अन्धे तमसि प्रहिणोति ॥ २८ ॥

कदाचित् ईश्वरस्य भगवतः विष्णोः चक्रात् परम-अणु-आदि द्वि-परार्ध-अपवर्ग-काल-उपलक्षणात् परिवर्तितेन वयसा रंहसा हरतः आ-ब्रह्म-तृण-स्तम्ब-आदीनाम् भूतानाम् अनिमिषतः मिषताम् वित्रस्त-हृदयः तम् एव ईश्वरम् काल-चक्र-निज-आयुधम् साक्षात् भगवन्तम् यज्ञ-पुरुषम् अनादृत्य पाखण्ड-देवताः कङ्क-गृध्र-बक-वट-प्रायाः आर्य-समय-परिहृताः साङ्केत्येन अभिधत्ते ॥ २९ ॥

यदा पाखण्डिभिः आत्म-वञ्चितैः तैः उरु वञ्चितः ब्रह्म-कुलम् समावसन् तेषाम् शीलम् उपनयन-आदि-श्रौत-स्मार्त-कर्म-अनुष्ठानेन भगवतः यज्ञ-पुरुषस्य आराधनम् एव तत् अरोचयन् शूद्र-कुलम् भजते निगम-आचारे अशुद्धितः यस्य मिथुनी-भावः कुटुम्ब-भरणम् यथा वानर-जातॆः ॥ ३० ॥

तत्र अपि निरवरोधः स्वैरेण विहरन् अति-कृपण-बुद्धिः अन्योन्य-मुख-निरीक्षण-आदिना ग्राम्य-कर्मणा एव विस्मृत-काल-अवधिः ॥ ३१ ॥

क्वचित् द्रुम-वद् ऐहिक-अर्थेषु गृहेषु रंस्यन् यथा वानरः सुत-दार-वात्सलः व्यवाय-क्षणः ॥ ३२ ॥

एवम् अध्वनि अवरुन्धानः मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये ॥ ३३ ॥

क्वचित् शीत-वात-आदि-अनेक-दैविक-भौतिक-आत्मीयानाम् दुःखानाम् प्रतिनिवारणे अकल्पः दुरन्त-विषय-विषण्णः आस्ते ॥ ३४ ॥

क्वचित् मिथः व्यवहरन् यत् किञ्चित् धनम् उपयाति वित्त-शाठ्येन ॥ ३५ ॥

क्वचित् क्षीण-धनः शय्या-आसन-आशन-आदि-उपभोग-विहीनः यावत् अप्रतिलब्ध-मनोरथ-उपगत-आदाने अवसित-मतिः ततः ततः अवमान-आदीनि जनात् अभिलभते ॥ ३६ ॥

एवम् वित्त-व्यतिषङ्ग-विवृद्ध-वैर-अनुबन्धः अपि पूर्व-वासना-या मिथः उद्वहति अथ अपवहति ॥ ३७ ॥

एतस्मिन् संसार-अध्वनि नाना-क्लेश-उपसर्ग-बाधितः आपन्न-विपन्नः यत्र यः तम् उ ह वाव एतरः तत्र विसृज्य जातम् जातम् उपादाय शोचन् मुह्यन् बिभ्यत् विवदन् क्रन्दन् संहृष्यन् गायन् अह्यमानः साधु-वर्जितः न एव आवर्तते अद्यापि यतः आरब्धः एष नर-लोक-सार्थः यम् अध्वनः पारम् उपदिशन्ति ॥ ३८ ॥

यत् इदम् योग-अनुशासनम् न वा एतत् अवरुन्धते यत् न्यस्त-दण्डाः मुनयः उपशम-शीलाः उपरत-आत्मानः समवगच्छन्ति ॥ ३९ ॥

यत् अपि दिग्-इभ-जयिनः यज्विनः ये वै राजर्षयः किम् तु परम् मृधे शयीरण् अस्याम् एव मम इयम् इति कृत-वैर-अनुबन्धायाम् विसृज्य स्वयम् उपसंहृताः ॥ ४० ॥

कर्म-वल्लीम् अवलम्ब्य ततः आपदः कथञ्चित् नरकात् विमुक्तः पुनः अपि एवम् संसार-अध्वनि वर्तमानः नर-लोक-सार्थम् उपयाति एवम् उपरि गतः अपि ॥ ४१ ॥

तस्य इदम् उपगायन्ति —
आर्षभस्य इह राजर्षेः मनसा अपि महा-आत्मनः ।
न अनुवर्त्म अर्हति नृपः मक्षिका इव गरुत्मतः ॥ ४२ ॥

यः दुस्त्यजान् दार-सुतान् सुहृत्-राज्यम् हृदि-स्पृशः ।
जहौ युवा एव मल-वद् उत्तम-श्लोक-लालसः ॥ ४३ ॥

यः दुस्त्यजान् क्षिति-सुत-स्वजन-अर्थ-दारान्
प्रार्थ्याम् श्रियम् सुर-वरैः सदय-अवलोकाम् ।
न ऐच्छत् नृपः तत् उचितम् महताम् मधु-द्विट्-
सेवा-अनुरक्त-मनसाम् अभवः अपि फल्गुः ॥ ४४ ॥

यज्ञाय धर्म-पतये विधि-नैपुणाय
योगाय साङ्ख्य-शिरसे प्रकृति-ईश्वराय ।
नारायणाय हरये नमः इति उदारम्
हास्यन् मृग-त्वम् अपि यः समुदाजहार ॥ ४५ ॥

यः इदम् भागवत-सभाजित-अवदात-गुण-कर्मणः राजर्षेः भरतस्य अनुचरितम् स्वस्त्ययनम् आयुष्यम् धन्यम् यशस्यम् स्वर्ग्य-अपवर्ग्यम् वा अनुशृणोति आख्यास्यति अभिनन्दति च सर्वाः एव आशिषः आत्मनः आशास्ते न काञ्चन परतः इति ॥ ४६ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भरत-उपाख्याने पारोक्ष्य-विवरणम् नाम चतुर्दशः अध्यायः ॥ १४ ॥

ஸ்கந்தம் 5: அத்யாயம் 13 (ரஹுகனன் கேள்வி, ஜடபரதர் பதில்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 ரஹுகனன் கேள்வி, ஜடபரதர் பதில்

ஸ்கந்தம் 5: அத்யாயம் 13

ब्राह्मण उवाच

दुरत्यये अध्वनि अजया निवेशितः
रजः-तमः-सत्त्व-विभक्त-कर्म-दृक् ।
सः एषः सार्थः अर्थ-परः परिभ्रमन्
भव-अटवीं याति न शर्म विन्दति ॥ १ ॥

यस्याम् इमे षट् नर-देव दस्यवः
सार्थम् विलुम्पन्ति कु-नायकम् बलात् ।
गोमायवः यत्र हरन्ति सार्थिकम्
प्रमत्तम् आविश्य यथा उरणम् वृकाः ॥ २ ॥

प्रभूत-वीरुत्-तृण-गुल्म-गह्वरे
कठोर-दंशैः मशकैः उपद्रुतः ।
क्वचित् तु गन्धर्व-पुरम् प्रपश्यति
क्वचित् क्वचित् च आशु रयः-उल्मुक-ग्रहम् ॥ ३ ॥

निवास-तोय-द्रविण-आत्म-बुद्धिः
ततः ततः धावति भो अटव्याम् ।
क्वचित् च वात्य-उत्थित-पांसु-धूम्राः
दिशः न जानाति रजस्वल-अक्षः ॥ ४ ॥

अदृश्य-झिल्ली-स्वन-कर्ण-शूलः
उलूक-वाग्भिः व्यथित-अन्तर-आत्मा ।
अपुण्य-वृक्षान् श्रयते क्षुधा-अर्दितः
मरीचि-तोयानि अभिधावति क्वचित् ॥ ५ ॥

क्वचित् वि-तोयाः सरितः अभियाति
परस्परम् च आलषते निरन्धः ।
आसाद्य दावम् क्वचित् अग्नि-तप्तः
निर्विद्यते क्व च यक्षैः हृत-आसुः ॥ ६ ॥

शूरैः हृत-स्वः क्व च निर्विण्ण-चेताः
शोचन् विमुह्यन् उपयाति कश्मलम् ।
क्वचित् च गन्धर्व-पुरम् प्रविष्टः
प्रमोदते निर्वृत-वत् मुहूर्तम् ॥ ७ ॥

चलन् क्वचित् कण्टक-शर्करा-अङ्घ्रिः
नग-अरु-रुक्षुः विमनाः इव आस्ते ।
पदे पदे अभ्यन्तर-वह्निना अर्दितः
कौटुम्बिकः क्रुध्यति वै जनाय ॥ ८ ॥

क्वचित् निगीर्णः अजगर-अहिना जनः
न अवैति किञ्चित् विपिने अपविद्धः ।
दष्टः स्म शेते क्व च दन्दशूकैः
अन्धः अन्ध-कूपे पतितः तमिस्रे ॥ ९ ॥

कर्हि स्म चित् क्षुद्र-रसान् विचिन्वन्
तत् मक्षिकाभिः व्यथितः विमानः ।
तत्र अति-कृच्छ्रात् प्रतिलब्ध-मानः
बलात् विलुम्पन्ति अथ तम् ततः अन्ये ॥ १० ॥

क्वचित् च शीत-आतप-वात-वर्ष
प्रतिक्रियाम् कर्तुम् अनीशः आस्ते ।
क्वचित् मिथः विपणन् यत् च किञ्चित्
विद्वेषम् ऋच्छति उत वित्त-शाठ्यात् ॥ ११ ॥

क्वचित् क्वचित् क्षीण-धनः तु तस्मिन्
शय्या-आसन-स्थान-विहार-हीनः ।
याचन् परात् अप्रतिलब्ध-कामः
पारक्य-दृष्टिः लभते अवमानम् ॥ १२ ॥

अन्योन्य-वित्त-व्यतिषङ्ग-वृद्ध-
वैर-अनुबन्धः विवहन् मिथः च ।
अध्वनि अमुष्मिन् उरु-कृच्छ्र-वित्त-
बाध-उपसर्गैः विहरन् विपन्नः ॥ १३ ॥

तान् तान् विपन्नान् सः हि तत्र तत्र
विहाय जातम् परिगृह्य सार्थः ।
आवर्तते अद्य अपि न कश्चित् अत्र
वीर अध्वनः पारम् उपैति योगम् ॥ १४ ॥

मनस्विनः निर्जित-दिग्गज-इन्द्राः
मम इति सर्वे भुवि बद्ध-वैराः ।
मृधे शयीरण् न तु तत् व्रजन्ति
यत् न्यस्त-दण्डः गत-वैरः अभियाति ॥ १५ ॥

प्रसज्जति क्व अपि लता-भुज-आश्रयः
तत्-आश्रय-अव्यक्त-पद-द्विज-स्पृहः ।
क्वचित् कदा-चित् हरि-चक्रतः त्रसन्
सख्यम् विधत्ते बक-कङ्क-गृध्रैः ॥ १६ ॥

तैः वञ्चितः हंस-कुलम् समाविशन्
न रोचयन् शीलम् उपैति वानरान् ।
तत्-जाति-रासेन सु-निर्वृत-इन्द्रियः
परस्पर-उद्वीक्षण-विस्मृत-अवधिः ॥ १७ ॥

द्रुमेषु रंस्यन् सुत-दार-वत्सलः
व्यवाय-दीनः विवशः स्व-बन्धने ।
क्वचित् प्रमादात् गिरि-कन्दरे पतन्
वल्लीम् गृहीत्वा गज-भीतः आस्थितः ॥ १८ ॥

अतः कथञ्चित् सः विमुक्तः आपदः
पुनः च सार्थम् प्रविशति अरिन्दम ।
अध्वनि अमुष्मिन् अजया निवेशितः
भ्रमन् जनः अद्य अपि न वेद कश्चन ॥ १९ ॥

रहूगण त्वम् अपि हि अध्वनः अस्य
सन्न्यस्त-दण्डः कृत-भूत-मैत्रः ।
असज्जित-आत्मा हरि-सेवया शितम्
ज्ञान-असिम् आदाय तर अति-पारम् ॥ २० ॥


राजा उवाच

अहो नृ-जन्म अखिल-जन्म-शोभनम्
किम् जन्मभिः तु अपरैः अपि अमुष्मिन् ।
न यत् हृषीकेश-यशः-कृत-आत्मनाम्
महा-आत्मनाम् वः प्रचुरः समागमः ॥ २१ ॥

न हि अद्भुतम् त्वत्-चरण-अब्ज-रेणुभिः
हत-अंहसः भक्ति: अधोक्षजे अमला ।
मौहूर्तिकात् यस्य समागमात् च मे
दुस्तर्क-मूलः अपहतः अविवेकः ॥ २२ ॥

नमः महद्भ्यः अस्तु नमः शिशुभ्यः
नमः युवभ्यः नमः आवटुभ्यः ।
ये ब्राह्मणाः गाम् अवधूत-लिङ्गाः
चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम् ॥ २३ ॥

श्री-शुकः उवाच

इति एवम् उत्तराम् आतः सः वै ब्रह्म-ऋषि-सुतः सिन्धु-पतये आत्म-सतत्त्वम् विगणयतः पर-अनुभावः परम-कारुणिकतया उपदिश्य रहूगणेन स-करुणम् अभिवन्दित-चरणः आपूर्ण-अर्णवः इव निभृत-करण-ऊर्मि-आशयः धरणिम् इमाम् विचचार ॥ २४ ॥

सौवीर-पतिः अपि सुजन-समवगत-परमात्म-सतत्त्वः आत्मनि अविद्या-अध्यारोपिताम् च देह-आत्म-मतिम् विससर्ज ।
एवम् हि नृप भगवत्-आश्रित-आश्रित-अनुभावः ॥ २५ ॥

राजा उवाच

यः ह वै इह बहु-विदा महा-भागवत त्वया अभिहितः परोक्षेण वचसा जीव-लोक-भव-अध्वा सः हि आर्य-मनीषया कल्पित-विषयः न अञ्जसा अव्युत्पन्न-लोक-समधिगमः ।
अथ तत् एव एतत् दुरवगमम् समवेत-अनुकल्पेन निर्दिश्यताम् इति ॥ २६ ॥

इति श्रीमत्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे त्रयोदशः अध्यायः ॥ १३ ॥


ஸ்கந்தம் 5: அத்யாயம் 12 (ரஹுகனன் கேள்வி, ஜடபரதர் பதில்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ரஹுகனன் கேள்வி, ஜடபரதர் பதில்

ஸ்கந்தம் 5: அத்யாயம் 12

रहूगण उवाच

नमः नमः कारण-विग्रहाय
स्वरूप-तुच्छीकृत-विग्रहाय ।
नमः अवधूत द्विज-बन्धु-लिङ्ग-
निगूढ-नित्य-अनुभवाय तुभ्यम् ॥ १ ॥

ज्वर-आमय-आर्तस्य यथा अगदम् सत्
निदाघ-दग्धस्य यथा हिम-अम्भः ।
कु-देह-मान-अहि-विदष्ट-दृष्टेः
ब्रह्मन् वचः ते अमृतम् औषधम् मे ॥ २ ॥

तस्मात् भवन्तम् मम संशय-अर्थम्
प्रक्ष्यामि पश्चात् अधुना सु-बोधम् ।
अध्यात्म-योग-ग्रथितम् तव उक्तम्
आख्याहि कौतूहल-चेतसः मे ॥ ३ ॥

यत् आह योग-ईश्वर दृश्य-मानम्
क्रिया-फलम् सत्-व्यवहार-मूलम् ।
न हि अञ्जसा तत्त्व-विमर्शनाय
भवान् अमुष्मिन् भ्रमते मनः मे ॥ ४ ॥

ब्राह्मण उवाच

अयम् जनः नाम चलन् पृथिव्याम्
यः पार्थिवः पार्थिव कस्य हेतोः ।
तस्य अपि च अङ्घ्र्योः अधि गुल्फ-जङ्घा-
जानु-ऊरु-मध्य-उरः-शिरः-धर-अंसाः ॥ ५ ॥

अंसे अधि दार्वी शिबिका च यस्याम्
सौवीर-राजा इति अपदेशः आस्ते ।
यस्मिन् भवान् रूढ-निज-अभिमानः
राजा अस्मि सिन्धुषु इति दुर्मद-अन्धः ॥ ६ ॥

शोच्यान् इमान् त्वम् अधिक-कष्ट-दीनान्
विष्ट्या निगृह्णन् निर-अनुग्रहः असि ।
जनस्य गोप्ता अस्मि विकत्थ-मानः
न शोभसे वृद्ध-सभासु धृष्टः ॥ ७ ॥

यदा क्षितौ एव चर-अचरस्य
विदाम निष्ठाम् प्रभवम् च नित्यम् ।
तत् नामतः अन्यत् व्यवहार-मूलम्
निरूप्यताम् सत्-क्रियया अनुमेयम् ॥ ८ ॥

एवम् निरुक्तम् क्षिति-शब्द-वृत्तम्
असन्निधानात् परमाणवः ये ।
अविद्यया मनसा कल्पिताः ते
येषाम् समूह-एन कृतः विशेषः ॥ ९ ॥

एवम् कृशम् स्थूलम् अणुः बृहत् यत्
असत् च सत् जीवम् अजीवम् अन्यत् ।
द्रव्य-स्वभाव-आशय-काल-कर्म-
नाम्ना अजय आवेहि कृतम् द्वितीयम् ॥ १० ॥

ज्ञानम् विशुद्धम् परमार्थम् एकम्
अनन्तरम् तु अबहिः ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तम् भगवत्-शब्द-संज्ञम्
यत् वासुदेवम् कवयः वदन्ति ॥ ११ ॥

रहूगण एतत् तपसा न याति
न च इज्यया निर्वपणात् गृहात् वा ।
न छन्दसा न एव जल-अग्नि-सूर्यैः
विना महत्-पाद-रजः-अभिषेकम् ॥ १२ ॥

यत्र उत्तम-श्लोक-गुण-अनुवादः
प्रस्तूयते ग्राम्य-कथा-विघातः ।
निषेव्यमाणः अनु-दिनम् मुमुक्षोः
मतिम् सतीम् यच्छति वासुदेवे ॥ १३ ॥

अहम् पुरा भरतः नाम राजा
विमुक्त-दृष्ट-श्रुत-सङ्ग-बन्धः ।
आराधनम् भगवतः ईहमानः
मृगः अभवम् मृग-सङ्गात् हत-अर्थः ॥ १४ ॥

सा माम् स्मृतिः मृग-देहे अपि वीर
कृष्ण-अर्चन-प्रभवा न जहाति ।
अथो अहम् जन-सङ्गात् असङ्गः
विशङ्कमानः अविवृतः चरामि ॥ १५ ॥

तस्मात् नरः असङ्ग-सु-सङ्ग-जात-
ज्ञान-असिना इह एव विवृक्ण-मोहः ।
हरिम् तत्-ईहा-कथन-श्रुताभ्याम्
लब्ध-स्मृतिः याति अति-पारम् अध्वनः ॥ १६ ॥

इति श्रीमत्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे ब्राह्मण-रहूगण-संवादे द्वादशः अध्यायः ॥ १२ ॥


ஸ்கந்தம் 5: அத்யாயம் 11 (ஜடபரதர் ரஹுகனனுக்கு உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஜடபரதர் ரஹுகனனுக்கு உபதேசம்

ஸ்கந்தம் 5: அத்யாயம் 11

ब्राह्मण उवाच

अ-कोविदः कोविद-वाद-वादान्
वदसि अथो न अति-विदाम् वरिष्ठः।
न सूरयः हि व्यवहारम् एनम्
तत्त्व-अवमर्शेन सह आमनन्ति ॥ १ ॥

तथा एव राजन् उरु-गार्ह-मेध-
वितान-विद्या-उरु-विजृम्भितेषु।
न वेद-वादेषु हि तत्त्व-वादः
प्रायेण शुद्धः नु चकास्ति साधुः ॥ २ ॥

न तस्य तत्त्व-ग्रहणाय साक्षात्
वरीयसीः अपि वाचः समासन्।
स्वप्ने निरुक्त्या गृह-मेधि-सौख्यम्
न यस्य हेय-अनुमितम् स्वयम् स्यात् ॥ ३ ॥

यावत् मनः रजसा पूरुषस्य
सत्त्वेन वा तमसा वा अनुरुद्धम्।
चेतोभिः आकूतिभिः आतनोति
निरङ्कुशम् कुशलम् चेतरम् वा ॥ ४ ॥

सः वासना-आत्मा विषय-उपरक्तः
गुण-प्रवाहः विकृतः षोडश-आत्मा।
बिभ्रत् पृथक्-नाम-भिः रूप-भेदम्
अन्तः-बहिः-त्वम् च पुरैः तनोति ॥ ५ ॥

दुःखम् सुखम् व्यतिरिक्तम् च तीव्रम्
काल-उपपन्नम् फलम् आव्यनक्ति।
आलिङ्ग्य माया-रचित-अन्तर-आत्मा
स्व-देहिनम् संसृति-चक्र-कूटः ॥ ६ ॥

तावान् अयम् व्यवहारः सदा-अविः
क्षेत्रज्ञ-साक्ष्यः भवति स्थूल-सूक्ष्मः।
तस्मात् मनः लिङ्गम् अदः वदन्ति
गुण-अगुण-त्वस्य पर-अवरस्य ॥ ७ ॥

गुण-अनुरक्तम् व्यसनाय जन्तोः
क्षेमाय नैर्गुण्यम् अथो मनः स्यात्।
यथा प्रदीपः घृत-वर्तिम् अश्नन्
शिखाः स-धूमाः भजति हि अन्यदा स्वम्।
पदम् तथा गुण-कर्म-अनुबद्धम्
वृत्तीः मनः श्रयते अन्यत्र तत्त्वम् ॥ ८ ॥

एकादश आसन् मनसः हि वृत्तयः
आकूतयः पञ्च धियः अभिमानः।
मात्राणि कर्माणि पुरम् च तासाम्
वदन्ति हि एकादश वीर भूमीः ॥ ९ ॥

गन्ध-आकृति-स्पर्श-रस-श्रवांसि
विसर्ग-रति-आर्ति-अभिजल्प-शिल्पाः।
एकादशम् स्वीकरणम् मम इति
शय्याम् अहम् द्वादशम् एकः आहुः ॥ १० ॥

द्रव्य-स्वभाव-आशय-कर्म-कालैः
एकादशामि मनसः विकाराः।
सहस्रशः शतशः कोटिशः च
क्षेत्रज्ञतः न मिथः न स्वतः स्युः ॥ ११ ॥

क्षेत्रज्ञः एताः मनसः विभूतयः
जीवस्य माया-रचितस्य नित्याः।
आविर्हिताः क्व अपि तिरोहिताः च
शुद्धः विचष्टे हि अविशुद्ध-कर्तुः ॥ १२ ॥

क्षेत्रज्ञः आत्मा पुरुषः पुराणः
साक्षात् स्वयम् ज्योतिः अजः पर-ईशः।
नारायणः भगवान् वासुदेवः
स्व-मायया आत्मनि अवधीयमानः ॥ १३ ॥

यथा अनिलः स्थावर-जङ्गमानाम्
आत्म-स्वरूपेण निविष्टः ईशेत्।
एवम् परः भगवान् वासुदेवः
क्षेत्रज्ञः आत्मा इदम् अनुप्रविष्टः ॥ १४ ॥

न यावत् एताम् तनु-भृत् नरेन्द्र
विधूय मायाम् वयुन-उदयेन।
विमुक्त-सङ्गः जित-षट्-सपत्नः
वेद आत्म-तत्त्वम् भ्रमति इह तावत् ॥ १५ ॥

न यावत् एतत् मनः आत्म-लिङ्गम्
संसार-ताप-आवपनम् जनस्य।
यत् शोक-मोह-आमय-राग-लोभ-
वैर-अनुबन्धम् ममताम् विधत्ते ॥ १६ ॥

भ्रातृव्यम् एनम् तत् अदभ्र-वीर्यम्
उपेक्षया अध्येधितम् अप्रमतः।
गुरोः हरेः चरण-उपासना-अस्त्रः
जहि व्यलीकम् स्वयम् आत्म-मोषम् ॥ १७ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे ब्राह्मण-रहूगण-संवादे एकादशः अध्यायः ॥ ११ ॥


ஸ்கந்தம் 5: அத்யாயம் 10 (ஜடபரதர் ரஹுகனனுக்கு சந்திப்பு) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஜடபரதர் ரஹுகனனுக்கு சந்திப்பு

ஸ்கந்தம் 5: அத்யாயம் 10

श्रीशुक उवाच

अथ सिन्धु-सौवीर-पतेः रहूगणस्य व्रजतः इक्षुमत्याः तटे तत्-कुल-पतिना शिबिका-वाह-पुरुष-अन्वेषण-समये दैवेन उपसादितः स द्विज-वरः उपलब्धः एषः पीवा युवा संहनन-अङ्गः गो-खर-वद् धुरं वोढुम् अलम् इति पूर्व-विष्टि-गृहीतैः सह गृहीतः प्रसभम् अतद्-अर्हः उवाह शिबिकाम् स महानुभावः ॥ १ ॥

यदा हि द्विज-वरस्य ईषु-मात्र-अवलोक-अनुगतेः न समाहिता पुरुष-गतिः तदा विषम-गताम् स्व-शिबिकाम् रहूगणः उपधार्य पुरुषान् अधि-वहतः आह हे वोढारः साधु अतिक्रमत किम् इति विषमम् मुह्यते यानम् इति ॥ २ ॥

अथ ते ईश्वर-वचः स-उपालम्भम् उपाकर्ण्य उपाय-तुरीयात् शङ्कित-मनसः तम् विज्ञापयाम् बभूवुः ॥ ३ ॥

न वयम् नर-देव प्रमत्ताः भवत्-नियमान् अनुपथाः साधु एव वहामः ।
अयम् अधुनैव नियुक्तः अपि न द्रुतम् व्रजति न अनेन सह वोढुम् उ ह वयम् पारयामः इति ॥ ४ ॥

सांसर्गिकः दोषः एव नूनम् एकस्य अपि सर्वेषाम् सांसर्गिकाणाम् भवितुम् अर्हति इति निश्चित्य निशम्य कृपण-वचः राजा रहूगणः उपासित-वृद्धः अपि निसर्गेण बलात्-कृतः ईषत् उत्थित-मन्युः अविस्पष्ट-ब्रह्म-तेजसम् जात-वेदसम् इव रजसा आवृत-मतिः आह ॥ ५ ॥

अहो कष्टम् भ्रातर् व्यक्तम् उरु-परिश्रान्तः दीर्घम् अध्वानम् एकः एव ऊहिवान् सु-चिरम् न अति-पीवः न संहनन-अङ्गः जरसा च उपद्रुतः भवान् सखे नु एव अपर एते सङ्घट्टिनः इति बहु-विप्रलब्धः अपि अविद्यया रचित-द्रव्य-गुण-कर्म-आशय-स्व-चरम-कलेवरे अवस्तुनि संस्थान-विशेषे अहम् मम इति अनध्यारोपित-मिथ्या-प्रत्ययः ब्रह्म-भूतः तूष्णीम् शिबिकाम् पूर्व-वत् उवाह ॥ ६ ॥

अथ पुनः स्व-शिबिकायाम् विषम-गतायाम् प्रकुपितः उवाच रहूगणः किम् इदम् अरे त्वम् जीवन्-मृतः माम् कदर्थीकृत्य भर्तृ-शासनम् अति-चरसि प्रमत्तस्य च ते करोमि चिकित्साम् दण्ड-पाणिः इव जनतायाः यथा प्रकृतिम् स्वाम् भजिष्यसि इति ॥ ७ ॥

एवम् बहु-अबद्धम् अपि भाषमाणम् नर-देव-अभिमानम् रजसा तमसा अनुविद्धेन मदेन तिरस्कृत-अशेष-भगवत्-प्रिय-निकेतम् पण्डित-मानिनम् स भगवान् ब्राह्मणः ब्रह्म-भूत-सर्व-भूतः सुहृत्-आत्मा योगेश्वर-चर्यायाम् न अति-व्युत्पन्न-मतिम् स्मयमानः इव विगत-स्मयः इदम् आह ॥ ८ ॥

अहं च योगेश्वरमात्मतत्त्व- विदां मुनीनां परमं गुरुं वै। प्रष्टुं प्रवृत्तः किमिहारणं तत् साक्षाद्धरिं ज्ञानकलावतीर्णम्॥ १९ स वै भवाल्लोँकनिरीक्षणार्थ- मव्यक्तलिङ्गो विचरत्यपि स्वित्। योगेश्वराणां गतिमन्धबुद्धिः कथं विचक्षीत गृहानुबन्धः॥ २० दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चानुमन्ये। यथासतोदानयनाद्यभावात् समूल इष्टो व्यवहारमार्गः॥ २१

स्थालि-अग्नि-तापात् पयसः अभि-तापः
तत्-तापतः तण्डुल-गर्भ-रन्धिः।
देह-इन्द्रिय-असु-आशय-सन्निकर्षात्
तत्-संसृतिः पुरुषस्य अनुरोधात् ॥ २२ ॥

शास्ता अभि-गोप्ता नृपतिः प्रजानाम्
यः किङ्करः वै न पिनष्टि पिष्टम्।
स्व-धर्म-आराधनम् अच्युतस्य
यदि ईहमानः विजहाति अघ-ओघम् ॥ २३ ॥

तत् मे भवान् नर-देव-अभिमान
मदेन तुच्छीकृत-सत्-तमस्य।
कृषीष्ट मैत्री-दृशम् आर्त-बन्धो
यथा तरे सत्-अवध्यानम् अंहः ॥ २४ ॥

न विक्रिया विश्व-सुहृत्-सखस्य
साम्येन वीत-अभिमतेः तव अपि।
महत्-विमानात् स्व-कृतात् हि मादृक्
नङ्क्ष्यति अदूरात् अपि शूल-पाणिः ॥ २५ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे दशमः अध्यायः ॥ १० ॥


ஸ்கந்தம் 5: அத்யாயம் 9 (ஜடபரதர் பிறப்பும் அவர் நிலையும்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஜடபரதர் பிறப்பும் அவர் நிலையும்

ஸ்கந்தம் 5: அத்யாயம் 9

श्री-शुकः उवाच ॥

अथ कस्यचित् द्विज-वरस्य आङ्गिरः-प्रवरस्य शम-दम-तपः-स्वाध्याय-अध्ययन-त्याग-सन्तोष-तितिक्षा-प्रश्रय-विद्या-अनसूया-आत्म-ज्ञान-आनन्द-युक्तस्य आत्म-सदृश-श्रुत-शील-आचार-रूप-औदार्य-गुणाः नव सोदर्याः अङ्गजाः बभूवुः मिथुनम् च यवीयस्याम् भार्यायाम् ॥ १ ॥

यः तु तत्र पुमान् तम् परम-भागवतम् राजर्षि-प्रवरम् भरतम् उत्सृष्ट-मृग-शरीरम् चरम-शरीरेण विप्रत्वम् गतम् आहुः ॥ २ ॥

तत्र अपि स्व-जन-सङ्गात् च भृशम् उद्विजमानः भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरण-अरविन्द-युगलम् मनसा विदधत् आत्मनः प्रतिघातम् आशङ्कमानः भगवत्-अनुग्रहेण अनुस्मृत-स्व-पूर्व-जन्म-आवलिः आत्मानम् उन्मत्त-जड-अन्ध-बधिर-स्वरूपेण दर्शयामास लोकस्य ॥ ३ ॥

तस्य अपि ह वा आत्मजस्य विप्रः पुत्र-स्नेह-अनुबद्ध-मनाः आसमावर्तनात् संस्कारान् यथा-उपदेशम् विदधानः उपनीतस्य च पुनः शौच-आचमन-आदीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयत् अनुशिष्टेन हि भाव्यम् पितुः पुत्रेण इति ॥ ४ ॥

सः च अपि तत् उ ह पितृ-सन्निधौ एव असध्रीचीनम् इव स्म करोति छन्दांसि अध्यापयिष्यन् सह व्याहृतिभिः स-प्रणव-शिरः-त्रिपदीम् सावित्रीम् ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अपि असमवेत-रूपम् ग्राहयामास ॥ ५ ॥

एवम् स्व-तनुजम् आत्मनि अनुराग-आवेशित-चित्तः शौच-अध्ययन-व्रत-नियम-गुरु-अनल-शुश्रूषण-आदि-औपकुर्वाणक-कर्माणि अनभियुक्तानि अपि समनुशिष्टेन भाव्यम् इति असत्-आग्रहः पुत्रम् अनुशास्य स्वयम् तावत् अनधिगत-मनोरथः कालेन अप्रमत्तेन स्वयम् गृहे एव प्रमत्तः उपसंहृतः ॥ ६ ॥

अथ यवीयसी द्विज-सती स्व-गर्भ-जातम् मिथुनम् सपत्न्यै उपन्यस्य स्वयम् अनुसंस्थया पति-लोकम् अगात् ॥ ७ ॥

पितरि उपरते भ्रातरः एनम् अतत्-प्रभाव-विदः त्रय्याम् विद्यायाम् एव पर्यवसित-मतयः न पर-विद्यायाम् जड-मतिः इति भ्रातुः अनुशासन-निर्बन्धात् न्यवर्त्सन्त ॥ ८ ॥

सः च प्राकृतैः द्विपद-पशुभिः उन्मत्त-जड-बधिरः इति अभिभाष्यमाणः यदा तत्-अनुरूपाणि प्रभाषते कर्माणि च सः कार्यमाणः पर-इच्छया करोति विष्टितः वेतनतः वा याच्ञया यदृच्छया वा उपसादितम् अल्पम् बहु मृष्टम् कदन्नम् वा अभ्यवहरति परम् न इन्द्रिय-प्रीति-निमित्तम् नित्य-निवृत्त-निमित्त-स्व-सिद्ध-विशुद्ध-अनुभव-आनन्द-स्व-आत्म-लाभ-अधिगमः सुख-दुःखयोः द्वन्द्व-निमित्तयोः असम्भावित-देह-अभिमानः ॥ ९ ॥

शीत-उष्ण-वात-वर्षेषु वृषः इव अनावृत-अङ्गः पीनः संहनन-अङ्गः स्थण्डिल-संवेशन-अनुन्मर्दन-अमज्जन-रजसा महा-मणिः इव अनभिव्यक्त-ब्रह्म-वर्चसः कुपट-आवृत-कटिः उपवीतेन उरु-मषिणा द्विजातिः इति ब्रह्म-बन्धुः इति संज्ञया तत्-ज्ञ-जन-अवमतः विचचार ॥ १० ॥

यदा तु परतः आहारम् कर्म-वेतनतः ईहमानः स्व-भ्रातृभिः अपि केदार-कर्मणि निरूपितः तत् अपि करोति किन्तु न समम् विषमम् न्यूनम् अधिकम् इति वेद कण-पिण्याक-फली-करण-कुल्माष-स्थाली-पुरीष-आदीनि अपि अमृत-वत् अभ्यवहरति ॥ ११ ॥

अथ कदाचित् कश्चित् वृषल-पतिः भद्र-काल्यै पुरुष-पशुम् आलभत अपत्य-कामः ॥ १२ ॥

तस्य ह दैव-मुक्तस्य पशोः पदवीं तत्-अनुचराः परिधावन्तः निशि निशीथ-समये तमसा आवृतायाम् अनधिगत-पशवः आकस्मिकेन विधिना केदारान् वीर-आसनेन मृग-वराह-आदिभ्यः संरक्षमाणम् आङ्गिरः-प्रवर-सुतम् अपश्यन् ॥ १३ ॥

अथ ते एनम् अनवद्य-लक्षणम् अवमृश्य भर्तृ-कर्म-निष्पत्तिम् मन्यमानाः बद्ध्वा रशनया चण्डिका-गृहम् उपनिन्युः मुदा विकसित-वदनाः ॥ १४ ॥

अथ पणयः तम् स्व-विधिना अभिषिच्य आहत-वाससा आच्छाद्य भूषण-आलेप-स्रक्-तिलक-आदिभिः उपस्कृतम् भुक्त-वन्तम् धूप-दीप-माल्य-लाज-किसलय-अङ्कुर-फल-उपहार-उपेतया वैशस-संस्थया महता गीत-स्तुति-मृदङ्ग-पणव-घोषेण च पुरुष-पशुम् भद्र-काल्याः पुरतः उपवेशयामासुः ॥ १५ ॥

अथ वृषल-राज-पणिः पुरुष-पशोः असृक्-आसवेन देवीं भद्र-कालिम् यक्ष्यमाणः तत्-अभिमन्त्रितम् असिम् अति-कराल-निशितम् उपाददे ॥ १६ ॥

इति तेषाम् वृषलानाम् रजस्-तमः-प्रकृतीनाम् धन-मद-रजः-उत्सिक्त-मनसाम् भगवत्-कला-वीर-कुलम् कदर्थीकृत्य उत्पथेन स्वैरम् विहरताम् हिंसा-विहाराणाम् कर्म अति-दारुणम् यत् ब्रह्म-भूतस्य साक्षात् ब्रह्मर्षि-सुतस्य निर्वैरस्य सर्व-भूत-सुहृदः सूनायाम् अपि अननुमतम् आलम्भनम् तत् उपलभ्य ब्रह्म-तेजसा अति-दुर्विषहेण दन्दह्यमानेन वपुषा सहसा उच्चचाट सा एव देवी भद्र-काली ॥ १७ ॥

भृशम् अमर्ष-रोष-आवेश-रभस-विलसित-भ्रुकुटि-विटप-कुटिल-दंष्ट्रा-अरुण-ईक्षण-आटोप-अति-भयानक-वदना हन्तु-कामा एव इदम् महा-अट्ट-हासम् अति-संरम्भेण विमुञ्चन्ती ततः उत्पत्य पापीयसाम् दुष्टानाम् तेन एव असिना विवृक्ण-शीर्ष्णाम् गलात् स्रवन्तम् असृक्-आसवम् अति-उष्णम् सह गणेन निपीय अति-पान-मद-विह्वलः उच्चैः-तराम् स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक-लीलया ॥ १८ ॥

एवम् एव खलु महत्-अभिचार-अतिक्रमः कार्त्स्न्येन आत्मने फलति ॥ १९ ॥

न वा एतत् विष्णु-दत्त महत् अद्भुतम् यत् असम्भ्रमः स्व-शिरः-छेदने आपतिते अपि विमुक्त-देह-आदि-आत्म-भाव-सुदृढ-हृदय-ग्रन्थीनाम् सर्व-सत्त्व-सुहृद्-आत्मनाम् निर्वैराणाम् साक्षात् भगवता अनिमिष-अरि-वर-आयुधेन अप्रमत्तेन तैः तैः भावैः परिरक्ष्यमाणानाम् तत्-पाद-मूलम् अकुतः-चित्-भयम् उपसृतानाम् भागवत-परमहंसानाम् ॥ २० ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जडभरत चरिते नवमोऽध्यायः॥ ९



ஸ்கந்தம் 5: அத்யாயம் 8 (மானால் மோக்ஷத்தை இழந்த பரதர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

மானால் மோக்ஷத்தை இழந்த பரதர்

ஸ்கந்தம் 5: அத்யாயம் 8

श्री-शुकः उवाच

एकदा तु महा-नद्याम् कृत-अभिषेक-नैमित्तिक-आवश्यकः ब्रह्म-अक्षरम् अभिगृणानः मुहूर्त-त्रयम् उदक-अन्ते उपविवेश ॥ १ ॥

तत्र तदा राजन् हरिणी पिपासया जल-आशय-अभ्याशम् एका एव उपजगाम ॥ २ ॥

तया पेपीयमाने उदके तावत् एव अविदूरेण नदतः मृग-पतेः उन्नादः लोक-भयङ्करः उदपतत् ॥ ३ ॥

तम् उपश्रुत्य सा मृग-वधूः प्रकृति-विक्लवा चकित-निरीक्षणा सुतराम् अपि हरि-भय-अभिनिवेश-व्यग्र-हृदया पारिप्लव-दृष्टिः अगत-तृषा भयात् सहसा एव उच्चक्राम ॥ ४ ॥

तस्याः उत्पतन्त्याः अन्तर्वत्न्याः उरु-भय-आवगलितः योनि-निर्गतः गर्भः स्रोतसि निपपात ॥ ५ ॥

तत्-प्रसव-उत्सर्पण-भय-खेद-आतुरा स्व-गणेन वियुज्यमाना कस्याञ्चित् दर्याम् कृष्णसार-सती निपपात अथ च ममार ॥ ६ ॥

तम् तु एण-कुणकम् कृपणम् स्रोतसा अनूह्यमानम् अभिवीक्ष्य अपविद्धम् बन्धुम् इव अनुकम्पया राज-ऋषिः भरतः आदाय मृत-मातरम् इति आश्रम-पदम् अनयत् ॥ ७ ॥

तस्य ह वा एण-कुणकः उच्चैः एतस्मिन् कृत-निज-अभिमानस्य अहः-अहः तत्-पोषण-पालन-लालन-प्रीणन-अनुध्यानेन आत्म-नियमाः सह-यमाः पुरुष-परिचर्या-आदयः एक-एकशः कतिपयेन अहर्गणेन वियुज्यमानाः किल सर्वे एव उदवसन् ॥ ८ ॥

अहो बत अयम् हरिण-कुणकः कृपणः ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण-सुहृत्-बन्धुभ्यः परिवर्जितः शरणम् च मम् उपसादितः माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् यौथिकान् च एव उपेयाय न अन्यं कञ्चन वेद मयि अति-विस्रब्धः च अतः एव मया मत्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुना अनुष्ठेयम् शरण्य-उपेक्षा-दोष-विदुषा ॥ ९ ॥

नूनम् हि आर्याः साधवः उपशम-शीलाः कृपण-सुहृदः एवम्-विध-अर्थे स्व-अर्थान् अपि गुरु-तरान् उपेक्षन्ते ॥ १० ॥


इति कृत-अनुषङ्गः आसन-शयन-आटन-स्नान-आशन-आदिषु सह मृग-शावकेन स्नेह-अनुबद्ध-हृदयः आसीत् ॥ ११ ॥

कुश-कुसुम-समित्-पलाश-फल-मूल-उदकानि आहरिष्यमाणः वृक-सालावृक-आदिभ्यः भयम् आशंसमानः यदा सह हरिण-कुणकेन वनम् समा-विशति ॥ १२ ॥

पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति-प्रणय-भर-हृदयः कार्पण्यात् स्कन्धेन उद्वहति एवम् उत्सङ्गे उरसि च आधाय उपलालयन् मुदम् परमाम् अवाप ॥ १३ ॥

क्रियायाम् निर्वर्त्यमानायाम् अन्तराले अपि उत्थाय उत्थाय यदा एनम् अभिचक्षीत तर्हि वाव सः वर्ष-पतिः प्रकृति-स्थेन मनसा तस्मै आशिषः आशास्ते स्वस्ति स्तात् वत्स ते सर्वतः इति ॥ १४ ॥

अन्यदा भृशम् उद्विग्न-मनाः नष्ट-द्रविणः इव कृपणः स-करुणम् अति-तर्षेण हरिण-कुणक-विरह-विह्वल-हृदय-सन्तापः तम् एव अनुशोचन् किल कश्मलम् महत् अभिरम्भितः इति ह उवाच ॥ १५ ॥

अपि बत सः वै कृपणः एण-बालकः मृत-हरिणी-सुतः अहो मम अनार्यस्य शठ-किरात-मतेः अकृत-सुकृतस्य कृत-विस्रम्भः आत्म-प्रत्ययेन तत् अविगणयन् सुजनः इव आगमिष्यति इति ॥ १६ ॥

अपि क्षेमेण अस्मिन् आश्रम-उपवने शष्पाणि चरन्तम् देव-गुप्तम् द्रक्ष्यामि ॥ १७ ॥

अपि च न वृकः सालावृकः अन्यतमः वा न एक-चरः एक-चरः वा भक्षयति ॥ १८ ॥

निम्लोचति ह भगवान् सकल-जगत्-क्षेम-उदयः त्रयी-आत्मा अद्य अपि मम न मृग-वधू-न्यासः आगच्छति ॥ १९ ॥

अपि स्वित् अकृत-सुकृतम् आगत्य माम् सुखयिष्यति हरिण-राज-कुमारः विविध-रुचिर-दर्शनीय-निज-मृग-दारक-विनोदः असन्तोषम् स्वानाम् अपनुदन् ॥ २० ॥

क्ष्वेलिकायाम् माम् मृषा-समाधिना अमीलित-दृशम् प्रेम-संरम्भेण चकित-चकितः आगत्य पृषत् अपरुष-विषाण-अग्रेण लुठति ॥ २१ ॥

आसादित-हविषि बर्हिषि दूषिते मया उपालब्धः भीत-भीतः सपदि उपरत-रासः ऋषि-कुमार-वत् अवहित-करण-कलापः आस्ते ॥ २२ ॥

किम् वा अरे आचरितम् तपः तपस्विन्या अनया यत् इयम् अवनिः स-विनय-कृष्णसार-तनय-तनुतर-सुभग-शिवतम-आखर-खुर-पद-पङ्क्तिभिः द्रविण-विधुर-आतुरस्य कृपणस्य मम द्रविण-पदवीं सूचयन्ती आत्मानम् च सर्वतः कृत-कौतुकम् द्विजानाम् स्वर्ग-अपवर्ग-कामानाम् देव-यजनम् करोति ॥ २३ ॥


अपि स्वित् असौ भगवान् उडु-पतिः एनम् मृग-पति-भयात् मृत-मातरम् मृग-बालकम् स्व-आश्रम-परिभ्रष्टम् अनुकम्पया कृपण-जन-वत्सलः परिपाति ॥ २४ ॥

किम् वा आत्मज-विश्लेष-ज्वर-दव-दहन-शिखाभिः उपतप्यमान-हृदय-स्थल-नलिनीकम् माम् उपसृतम् मृगी-तनयम् शिशिर-शान्त-अनुराग-गुणित-निज-वदन-सलिल-अमृत-मय-गभस्तिभिः स्वधयति इति च ॥ २५ ॥

एवम् अघटमान-मनोरथ-आकुल-हृदयः मृग-दारक-आभासेन स्व-आरब्ध-कर्मणा योग-आरम्भणतः विभ्रंशितः स योग-तापसः भगवत्-आराधन-लक्षणात् च कथम् इतरथा जात्यन्तर एण-कुणक-आसङ्गः साक्षात् निःश्रेयस-प्रतिपक्षतया प्राक्-परित्यक्त-दुस्त्यज-हृदय-अभिजातस्य तस्य एवम् अन्तराय-विहत-योग-आरम्भणस्य राजर्षेः भरतस्य तावन् मृग-अर्भक-पोषण-पालन-प्रीणन-लालन-अनुषङ्गेण अविगणयतः आत्मानम् अहिः इव आखु-बिलम् दुरतिक्रमः कालः कराल-रभसः आपद्यत ॥ २६ ॥

तदानीम् अपि पार्श्व-वर्तिनम् आत्मजम् इव अनुशोचन्तम् अभिवीक्षमाणः मृगः एव अभिनिवेशित-मनाः विसृज्य लोकम् इमम् सह मृगेण कलेवरम् मृतम् अनु न मृत-जन्म-अनुस्मृतिः इतर-वत् मृग-शरीरम् अवाप ॥ २७ ॥

तत्र अपि ह वा आत्मनः मृगत्व-कारणम् भगवत्-आराधन-समीहा-अनुभावेन अनुस्मृत्य भृशम् अनुतप्यमानः आह ॥ २८ ॥

अहो कष्टम् भ्रष्टः अहम् आत्म-वताम् अनुपथात् यत् विमुक्त-समस्त-सङ्गस्य विविक्त-पुण्य-अरण्य-शरणस्य आत्म-वत् आत्मनि सर्वेषाम् आत्मनाम् भगवति वासुदेवे तत् अनुश्रवण-मनन-सङ्कीर्तन-आराधन-अनुस्मरण-अभियोगेन अशून्य-सकल-यामेन कालेन समावेशितम् समाहितम् कार्त्स्न्येन मनः तत् तु पुनः मम अबुधस्य आरात् मृग-सुतम् अनु परिसुस्राव ॥ २९ ॥

इति एवम् निगूढ-निर्वेदः विसृज्य मृगीम् मातरम् पुनः भगवत्-क्षेत्रम् उपशम-शील-मुनि-गण-दयितम् शालग्रामम् पुलस्त्य-पुलह-आश्रमम् कालञ्जरात् प्रत्याजगाम ॥ ३० ॥

तस्मिन् अपि कालम् प्रतीक्षमाणः सङ्गात् च भृशम् उद्विग्नः आत्म-सहचरः शुष्क-पर्ण-तृण-वीरुधा वर्तमानः मृगत्व-निमित्त-अवसानम् एव गणयन् मृग-शरीरम् तीर्थ-उदक-क्लिन्नम् उत्ससर्ज ॥ ३१ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम् पञ्चम-स्कन्धे भरत-चरिते अष्टमः अध्यायः ॥ ८ ॥


ஸ்கந்தம் 5: அத்யாயம் 7 (பாரத வர்ஷம் என்ற பெயருக்கு காரணமான பரதர் சரித்திரம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பாரத வர்ஷம் என்ற பெயருக்கு காரணமான பரதர் சரித்திரம்

ஸ்கந்தம் 5: அத்யாயம் 7

श्री-शुकः उवाच

भरतः तु महा-भागवतः यदा भगवता अवनि-तल-परिपालनाय सञ्चिन्तितः तत्-अनु-शासन-परः पञ्चजनीम् विश्वरूप-दुहितरम् उपयेमे ॥ १ ॥

तस्याम् उ ह वा आत्म-जान् कार्त्स्न्येन अनुरूपान् आत्मनः पञ्च जनयामास भूत-आदिः इव भूत-सूक्ष्माणि सुमतिम् राष्ट्र-भृतम् सुदर्शनम् आवरणम् धूम्र-केतुम् इति ॥ २ ॥

अजनाभम् नाम एतत् वर्षम् भारतम् इति यतः आरभ्य व्यपदिशन्ति ॥ ३ ॥

सः बहु-वित् मही-पतिः पितृ-पितामह-वत् उरु-वत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्व-धर्मम् अनु-वर्तमानः पर्यपालयत् ॥ ४ ॥

ईजे च भगवन्तम् यज्ञ-क्रतु-रूपम् क्रतुभिः उच्च-अवचैः श्रद्धया आहृत-अग्नि-होत्र-दर्श-पूर्णमास-चातुर्मास्य-पशु-सोमानाम् प्रकृति-विकृतिभिः अनु-सवनम् चातुः-होत्र-विधिना ॥ ५ ॥

सम्प्रचरत्सु नाना-यागेषु विरचित-अङ्ग-क्रियेषु अपूर्वम् यत् तत् क्रिया-फलम् धर्म-आख्यम् परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानाम् मन्त्राणाम् अर्थ-नियामकतया साक्षात् कर्तरि पर-देवतायाम् भगवति वासुदेवः एव भावयमानः आत्म-नैपुण्य-मृदित-कषायः हविःषु अध्वर्युभिः गृह्यमाणेषु सः यजमानः यज्ञ-भाजः देवान् तान् पुरुष-अवयवेषु अभ्यध्यायत् ॥ ६ ॥

एवम् कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्य अन्तः-हृदय-आकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महा-पुरुष-रूप-उपलक्षणे श्रीवत्स-कौस्तुभ-वनमाला-शङ्ख-चक्र-गदा-आदिभिः उपलक्षिते निज-पुरुष-हृत्-लिखितेन आत्मनि पुरुष-रूपेण विरोचमानः उच्चैः-तराम् भक्ति: अनु-दिनम् एधमाना रया अजायत ॥ ७ ॥

एवम् वर्ष-अयुत-सहस्र-पर्यन्त-अवसित-कर्म-निर्वाण-अवसरः अधि-भुज्यमानम् स्व-तनयेभ्यः रिक्थम् पितृ-पैतामहम् यथा-दायम् विभज्य स्वयम् सकल-सम्पत्-निकेतात् स्व-निकेतात् पुलह-आश्रमम् प्रवव्राज ॥ ८ ॥

यत्र ह वा वै भगवान् हरिः अद्य अपि तत्र-त्यानाम् निज-जनानाम् वात्सल्येन सन्निधाप्यते इच्छा-रूपेण ॥ ९ ॥

यत्र आश्रम-पदानि उभयतः नाभिभिः दृशत्-चक्रैः चक्र-नदी नाम सरित्-प्रवरा सर्वतः पवित्री करोति ॥ १० ॥

तस्मिन् वा वै किल सः एकलः पुलह-आश्रम-उपवने विविध-कुसुम-किसलय-तुलसिका-अम्बुभिः कन्द-मूल-फल-उपहारैः च समीहमानः भगवतः आराधनम् विविक्तः उपरत-विषय-अभिलाषः उपभृत-उपशमः पराम् निर्वृतिम् अवाप ॥ ११ ॥

तया इत्थम् अविरत-पुरुष-परिचर्यया भगवति प्रवर्धमान-अनुराग-भर-द्रुत-हृदय-शैथिल्यः प्रहर्ष-वेगेन आत्मनि उद्भिद्यमान-रोम-पुलक-कुलकः औत्कण्ठ्य-प्रवृत्त-प्रणय-बाष्प-निरुद्ध-अवलोकन-नयनः एवम् निज-रमण-अरुण-चरण-अरविन्द-अनुध्यान-परिचित-भक्ति-योगेन परिप्लुत-परम-आह्लाद-गम्भीर-हृदय-ह्रद-अवगाढ-धिषणः ताम् अपि क्रियमाणाम् भगवत्-सपर्याम् न सस्मार ॥ १२ ॥

इत्थम् धृत-भगवत्-व्रतः ऐणेय-अजिन-वाससा अनु-सवन-अभिषेक-आर्द्र कपिश-कुटिल-जटा-कलापेन च विरोचमानः सूर्य-अर्चा भगवन्तम् हिरण्मयम् पुरुषम् उज्जिहाने सूर्य-मण्डले अभ्युपतिष्ठन् एतत् उ होवाच ॥ १३ ॥

परः रजः सवितुः जात-वेदः
देवस्य भर्गः मनसा इदम् जजान ।
सु-रेतसा अदः पुनः आविश्य चष्टे
हंसम् गृध्राणम् नृ-सत्-ऋङ्गिराम् इमः ॥ १४ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भरत-चरिते भगवत्-परिचर्यायाम् सप्तमः अध्यायः ॥ ७ ॥


ஸ்கந்தம் 5: அத்யாயம் 6 (ரிஷப தேவரின் தேக தியாகம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ரிஷப தேவரின் தேக தியாகம்

ஸ்கந்தம் 5: அத்யாயம் 6

राजोवाच
न नूनं भगव आत्मारामाणां योग-समीरित-ज्ञान-आवभर्जित-कर्म-बीजानाम् ऐश्वर्याणि पुनः क्लेश-दानि भवितुम्र्हन्ति यदृच्छया उपगतानि ॥ १ ॥

ऋषिरुवाच
सत्यम् उक्तं किन्तु इह वा एके न मनसः अध्धा विश्रम्भ-मनवस्थानस्य शठ-किरात् इव सङ्गच्छन्ते ॥ २ ॥

तथा चोक्तम्
न कुर्यात् कर्हिचित् सख्यं मनसि हि अनवस्थिते ।
यद् विश्रम्भाच् चिराच् चीर्णं च स्कन्द तप ऐश्वर्यम् ॥ ३ ॥

नित्यं ददाति कामस्य छिद्रं तत् अनु येऽरयः।
योगिनः कृत-मैत्रस्य पत्युर्जाय एव पुंश्चली ॥ ४ ॥

कामः मन्युर्मदः लोभः शोक-मोह-भयादयः।
कर्म-बन्धश्च यत् मूलः स्वीकुर्यात् को नु तत् बुधः ॥ ५ ॥

अथैवम् अखिल-लोक-पाल-ललामोऽपि विलक्षणैः जड-वद-अवधूत-वेणु-भाषा-चरितैः अविलक्षित भगवत्-प्रभावः योगिनां साम्पराय-विधि-म् अनुशिक्षयन् स्व-कलेवरम् जिहा-असुरात्मनि आत्मानम् असं-व्यवहितम् अनर्थान्तर-भावेन अन्वीक्षमाण उपरता-नुवृत्ति-रुपरराम् ॥ ६ ॥

तस्य ह वा एवं मुक्त-लिङ्गस्य भगवत् ऋषभस्य योग-माया-वासना-या देह इमां जगतीम् अभिमान-आभासेन सङ्क्रम-माणः कोङ्कव-एङ्क-कुटकान् दक्षिण-कर्णाटका-न्देशान् यदृच्छया उपगतः कुटक-चल-उपवन आस्य कृताश्म-कल् उन्माद इव मुक्त-मूर्धजः असंवीत एव विचचार ॥ ७ ॥

अथ समीर-वॆग-विधूत-वेणु-विकर्षण-जात-ओग्र-दावानल-स्तद् वन-मालेलिहानः सह तेन ददाह ॥ ८ ॥

यस्य किल अनुचरितम् उपाकर्ण्य कोङ्कव-एङ्क-कुटकानाम् राजार्हन् नामोपशिक्ष्य कलाव-धर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्व-धर्म-पथ-मकुटोभयम् अपहाय कुपथ-पाखण्ड-समञ्जसं निज-मनीषया मन्दः सम्प्रवर्तयिष्यते ॥ ९ ॥

येन ह वाव कलौ मनुज-अपसदा देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीना देव-हेलनानि अपव्रतानि निज-निजेच्छया गृह्णाना अस्नानानि अचमनाशौच-केश-उल्लुञ्चनादीनि कलिनाधर्म-बहु-लेनोपहत-धियो ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति ॥ १० ॥

ते च हि RVाक्त-नया निज-लोक-यात्रा-आन्ध-परम्परयाऽऽश्वस्ता तस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ ११ ॥

अयं अवतारो रजस-उपप्लुत-कैवल्य-उप-शिक्षणार्थः ॥ १२ ॥

तस्य अनुगुणान् श्लोकान् गायन्ति –
अहो भुवः सप्त-समुद्र-वत्या
द्वीपेषु वर्षेषु अधि-पुण्यं एतत् ।
गायन्ति यत्र त्यजना मुरारेः
कर्माणि भद्राणि अवतारवन्ति ॥ १३ ॥

अहो नु वंशो यशसाव-दातः
प्रैयव्रतो यत्र पुमान् पुराणः ।
कृत-अवतारः पुरुषः स आद्य-
श्चचार धर्मं यद् कर्म-हेतुम् ॥ १४ ॥

को न्वस्य काष्ठम् अपरोऽनुगच्छे-
न मनोरथेन अपि अभवस्य योगी ।
यो योग-माया-आः स्पृहयति उदस्ता
हि असत्तया येन कृत-प्रयत्नाः ॥ १५ ॥

इति ह स्म सकल-वेद-लोक-देव-ब्राह्मण-गवाम् परम-गुरोः भगवत् ऋषभ-आख्यस्य विशुद्ध-चरितम् ईरितम् पुंसाम् समस्त-दुश्चरित-अभि-हरणम् परम-महा-मङ्गलायनम् इदम् अनु-श्रद्धया उपचित्या अनु-शृणोति आश्रावयति वा अवहितः भगवति तस्मिन् वासुदेव एकान्ततः भक्तिः अनयोः अपि समनुवर्तते ॥ १६ ॥

यस्याम् एव कवयः आत्मानम् अविरतम् विविध-वृजिन-संसार-परिताप-उप-तप्यमानम् अनुसवनम् स्नापयन्तः तया एव परया निर्वृत्या हि अपवर्गम् आत्यन्तिकम् परम-पुरुष-अर्थम् अपि स्वयम् आसादितम् न एव आद्रियन्ते भगवदीयत्वेन एव परिसमाप्त-सर्व-अर्थाः ॥ १७ ॥

राजन् पतिः गुरुः अलम् भवताम् यदूनाम्
दैवम् प्रियः कुल-पतिः क्व च किङ्करः वः ।
अस्तु एवम् अङ्ग भगवान् भजताम् मुकुन्दः
मुक्तिम् ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ १८ ॥

नित्य-अनुभूत-निज-लाभ-निवृत्त-तृष्णः
श्रेयसि तत्-रचनया चिर-सुप्त-बुद्धेः ।
लोकस्य यः करुणया अभयम् आत्म-लोकम्
आख्यात् नमः भगवते ऋषभाय तस्मै ॥ १९ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम् पञ्चम-स्कन्धे ऋषभ-देव-अनु-चरिते षष्ठः अध्यायः ॥ ६ ॥