Followers

Search Here...

Tuesday, 2 June 2026

ஸ்கந்தம் 11: அத்யாயம் 11 (பந்தபட்ட, பந்தபடாத ஜனங்களின் லக்ஷணங்கள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பந்தபட்ட, பந்தபடாத ஜனங்களின் லக்ஷணங்கள்

ஸ்கந்தம் 11: அத்யாயம் 11

  

श्रीभगवान् उवाच

बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः ।
गुणस्य माया-मूलत्वात् न मे मोक्षः न बन्धनम् ॥ १ ॥

शोक-मोहौ सुखं दुःखं देह-आपत्तिः च मायया ।
स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ॥ २ ॥

विद्या-अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् ।
मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते ॥ ३ ॥

एकस्य एव मम अंशस्य जीवस्य एव महा-मते ।
बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ॥ ४ ॥

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्ध-धर्मिणोः तात स्थित्योः एक-धर्मिणि ॥ ५ ॥

सुपर्णौ एतौ सदृशौ सखायौ
यदृच्छया एतौ कृत-नीडौ च वृक्षे ।
एकः तयोः खादति पिप्पलान्नम्
अन्यः निरन्नः अपि बलेन भूयान् ॥ ६ ॥

आत्मानम् अन्यं च सः वेद विद्वान्
अपिप्पलादः न तु पिप्पलादः ।
यः अविद्यया युक् सः तु नित्य-बद्धः
विद्या-मयः यः सः तु नित्य-मुक्तः ॥ ७ ॥

देह-स्थः अपि न देह-स्थः विद्वान् स्वप्नात् यथा उत्थितः ।
अदेह-स्थः अपि देह-स्थः कुमतिः स्वप्न-दृक् यथा ॥ ८ ॥

इन्द्रियैः इन्द्रिय-अर्थेषु गुणैः अपि गुणेषु च ।
गृह्यमाणेषु अहं कुर्यात् न विद्वान् यः तु अविक्रियः ॥ ९ ॥

दैव-अधीने शरीरे अस्मिन् गुण-भाव्येन कर्मणा ।
वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते ॥ १० ॥

एवम् विरक्तः शयने आसन-अटन-मज्जने ।
दर्शन-स्पर्शन-घ्राण-भोजन-श्रवण-आदिषु ॥ ११ ॥

न तथा बद्ध्यते विद्वान् तत्र तत्र आदयन् गुणान् ।
प्रकृति-स्थः अपि असंसक्तः यथा खम् सविता अनिलः ॥ १२ ॥

वैशारद्य-ईक्षा-असङ्ग-शितया छिन्न-संशयः ।
प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ॥ १३ ॥

यस्य स्युः वीत-सङ्कल्पाः प्राण-इन्द्रिय-मनः-धियाम् ।
वृत्तयः सः विनिर्मुक्तः देह-स्थः अपि हि तत्-गुणैः ॥ १४ ॥

यस्य आत्मा हिंस्यते हिंस्रैः येन किञ्चित् यदृच्छया ।
अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ १५ ॥

न स्तुवीत न निन्देत कुर्वतः साधु-असाधु वा ।
वदतः गुण-दोषाभ्याम् वर्जितः सम-दृक् मुनिः ॥ १६ ॥

न कुर्यात् न वदेत् किञ्चित् न ध्यायेत् साधु-असाधु वा ।
आत्मारामः अनया वृत्त्या विचरेत् जड-वद् मुनिः ॥ १७ ॥

शब्द-ब्रह्मणि निष्णातः न निष्णायात् परे यदि ।
श्रमः तस्य श्रम-फलः हि अधेनुम् इव रक्षतः ॥ १८ ॥

गाम् दुग्ध-दोहाम् असतीम् च भार्याम्
देहम् पर-अधीनम् असत्-प्रजाम् च ।
वित्तम् तु अतीर्थी-कृतम् अङ्ग वाचम्
हीनाम् मया रक्षति दुःख-दुःखी ॥ १९ ॥

यस्याम् न मे पावनम् अङ्ग कर्म
स्थिति-उद्भव-प्राण-निरोधम् अस्य ।
लीला-अवतार-ईप्सित-जन्म वा स्यात्
वन्ध्याम् गिरम् ताम् बिभृयात् न धीरः ॥ २० ॥


एवम् जिज्ञासया अपोह्य नानात्व-भ्रमम् आत्मनि ।
उपारमेत विरजम् मनः मयि अर्प्य सर्व-गे ॥ २१ ॥

यदि अनीशः धारयितुम् मनः ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ २२ ॥

श्रद्धालुः मे कथाः शृण्वन् सुभद्राः लोक-पावनीः ।
गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः ॥ २३ ॥

मत्-अर्थे धर्म-काम-अर्थान् आचरन् मत्-अपाश्रयः ।
लभते निश्चलाम् भक्तिम् मयि उद्धव सनातने ॥ २४ ॥

सत्-सङ्ग-लब्धया भक्त्या मयि माम् सः उपासिता ।
सः वै मे दर्शितम् सद्भिः अञ्जसा विन्दते पदम् ॥ २५ ॥

श्री-उद्धवः उवाच ।

साधुः तव उत्तम-श्लोक मतः कीदृक्-विधः प्रभो ।
भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ॥ २६ ॥

एतत् मे पुरुष-अध्यक्ष लोक-अध्यक्ष जगत्-प्रभो ।
प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ॥ २७ ॥

त्वम् ब्रह्म परमम् व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णः असि भगवन् स्वेच्छा-उपात्त-पृथक्-वपुः ॥ २८ ॥

श्री-भगवान् उवाच ।

कृपालुः अकृत-द्रोहः तितिक्षुः सर्व-देहिनाम् ।
सत्य-सारः अनवद्य-आत्मा समः सर्व-उपकारकः ॥ २९ ॥

कामैः अहत-धीः दान्तः मृदुः शुचिः अकिञ्चनः ।
अनीहः मित-भुक् शान्तः स्थिरः मत्-शरणः मुनिः ॥ ३० ॥

अप्रमत्तः गभीर-आत्मा धृतिमान् जित-षड्-गुणः ।
अमानी मान-दः कल्यः मैत्रः कारुणिकः कविः ॥ ३१ ॥

आज्ञाय एवम् गुणान् दोषान् मया आदिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् माम् भजेत सः सत्-तमः ॥ ३२ ॥

ज्ञात्वा अज्ञात्वा अथ ये वै माम् यावान् यः च अस्मि यादृशः ।
भजन्ति अनन्य-भावेन ते मे भक्त-तमाः मताः ॥ ३३ ॥

मत्-लिङ्ग-मत्-भक्त-जन-दर्शन-स्पर्शन-अर्चनम् ।
परिचर्या स्तुतिः प्रह्व-गुण-कर्म-अनुकीर्तनम् ॥ ३४ ॥

मत्-कथा-श्रवणे श्रद्धा मत्-अनुध्यानम् उद्धव ।
सर्व-लाभ-उपहरणम् दास्येन आत्म-निवेदनम् ॥ ३५ ॥

मत्-जन्म-कर्म-कथनम् मम पर्व-अनुमोदनम् ।
गीत-ताण्डव-वादित्र-गोष्ठीभिः मत्-गृह-उत्सवः ॥ ३६ ॥

यात्रा बलि-विधानम् च सर्व-वार्षिक-पर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् ॥ ३७ ॥

मम अर्चा-स्थापने श्रद्धा स्वतः संहत्य च उद्यमः ।
उद्यान-उपवन-आक्रीड-पुर-मन्दिर-कर्मणि ॥ ३८ ॥

सम्मार्जन-उपलेपाभ्याम् सेक-मण्डल-वर्तनैः ।
गृह-शुश्रूषणम् मह्यम् दास-वत् यत् अमायया ॥ ३९ ॥

अमानित्वम् अदम्भित्वम् कृतस्य अपरिकीर्तनम् ।
अपि दीप-अवलोकम् मे न उपयुञ्ज्यात् अनिवेदितम् ॥ ४० ॥


यत् यत् इष्ट-तमम् लोके यत् च अति-प्रियम् आत्मनः ।
तत् तत् निवेदयेत् मह्यम् तत् आनन्त्याय कल्पते ॥ ४१ ॥

सूर्यः अग्निः ब्राह्मणः गावः वैष्णवः खम् मरुत्-जलम् ।
भूः आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥ ४२ ॥

सूर्ये तु विद्यया त्रय्या हविषा अग्नौ यजेत माम् ।
आतिथ्येन तु विप्र-अग्र्ये गोषु अङ्ग यवस-आदिना ॥ ४३ ॥

वैष्णवे बन्धु-सत्कृत्या हृदि खे ध्यान-निष्ठया ।
वायौ मुख्य-धिया तोये द्रव्यैः तोय-पुरस्कृतैः ॥ ४४ ॥

स्थण्डिले मन्त्र-हृदयैः भोगैः आत्मानम् आत्मनि ।
क्षेत्र-ज्ञम् सर्व-भूतेषु समत्वेन यजेत माम् ॥ ४५ ॥

धिष्ण्येषु एषु इति मत्-रूपम् शङ्ख-चक्र-गदा-अम्बुजैः ।
युक्तम् चतुर्भुजम् शान्तम् ध्यायन् अर्चेत् समाहितः ॥ ४६ ॥

इष्ट-पूर्तेन माम् एवम् यः यजेत समाहितः ।
लभते मयि सत्-भक्तिम् मत्-स्मृतिः साधु-सेवया ॥ ४७ ॥

प्रायेण भक्ति-योगेन सत्-सङ्गेन विना उद्धव ।
न उपायः विद्यते सम्यक् प्रायणम् हि सताम् अहम् ॥ ४८ ॥

अथ एतत् परमम् गुह्यम् शृण्वतः यदु-नन्दन ।
सु-गोप्यम् अपि वक्ष्यामि त्वम् मे भृत्यः सुहृत् सखा ॥ ४९ ॥

इति श्रीमत्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् ।
एकादश-स्कन्धे एकादशः अध्यायः ॥ ११ ॥