Followers

Search Here...

Sunday, 3 May 2026

ஸ்கந்தம் 11: அத்யாயம் 10 (உலக சுகங்களில் சாரமில்லை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

உலக சுகங்களில் சாரமில்லை

ஸ்கந்தம் 11: அத்யாயம் 10

  

श्री-भगवान् उवाच

मया उदितेषु अवहितः स्व-धर्मेषु मद्-आश्रयः ।
वर्ण-आश्रम-कुल-आचारम् अ-काम-आत्मा समाचरेत् ॥ 1 ॥

अन्वीक्षेत विशुद्ध-आत्मा देहिनाम् विषय-आत्मनाम् ।
गुणेषु तत्त्व-ध्यानेन सर्व-आरम्भ-विपर्ययम् ॥ 2 ॥

सुप्तस्य विषय-आलोकः ध्यायतः वा मनोरथः ।
नाना-आत्मकत्वात् विफलः तथा भेद-आत्म-धीः गुणैः ॥ 3 ॥

निवृत्तम् कर्म सेवेत प्रवृत्तम् मत्-परः त्यजेत् ।
जिज्ञासायाम् सम्प्रवृत्तः न आद्रियेत कर्म-चोदनाम् ॥ 4 ॥

यमान् अभीक्ष्णम् सेवेत नियमान् मत्-परः क्वचित् ।
मद्-अभिज्ञम् गुरुम् शान्तम् उपासीत मद्-आत्मकम् ॥ 5 ॥

अमानि मत्सरः दक्षः निर्ममः दृढ-सौहृदः ।
असत्वरः अर्थ-जिज्ञासुः अनसूयुः अमोघ-वाक् ॥ 6 ॥

जाया-पत्य-गृह-क्षेत्र स्वजन-द्रविण-आदिषु ।
उदासीनः समम् पश्यन् सर्वेषु अर्थम् इव आत्मनः ॥ 7 ॥

विलक्षणः स्थूल-सूक्ष्मात् देहात् आत्मा ईक्षिता स्व-दृक् ।
यथा अग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः ॥ 8 ॥

निरोध-उत्पत्ति-अणु-बृहत् नानात्वम् तत्-कृतान् गुणान् ।
अन्तः प्रविष्टः आधत्ते एवम् देह-गुणान् परः ॥ 9 ॥

यः असौ गुणैः विरचितः देहः अयम् पुरुषस्य हि ।
संसारः तत्-निबन्धः अयम् पुंसः विद्यात् छिद्-आत्मनः ॥ 10 ॥

तस्मात् जिज्ञासया आत्मानम् आत्म-स्थम् केवलम् परम् ।
सङ्गम् निरसेत् एतत् वस्तु-बुद्धिम् यथा-क्रमम् ॥ 11 ॥

आचार्यः अरणिः आद्यः स्यात् अन्तेवासी उत्तर-अरणिः ।
तत्-सन्धानम् प्रवचनम् विद्या-सन्धिः सुख-आवहः ॥ 12 ॥

वैशारदी सा अति-विशुद्ध-बुद्धिः
धुनोति मायाम् गुण-सम्प्रसूताम् ।
गुणान् च सन्दह्य यत् आत्मम् एतत्
स्वयम् च शाम्यति असमित् यथा अग्निः ॥ 13 ॥

अथ एषाम् कर्म-कर्तॄणाम् भोक्तॄणाम् सुख-दुःखयोः ।
नानात्वम् अथ नित्यत्वम् लोक-काल-आगम-आत्मनाम् ॥ 14 ॥

मन्यसे सर्व-भावानाम् संस्था हि औत्पत्तिकी यथा ।
तत्-तत् आकृति-भेदेन जायते भिद्यते च धीः ॥ 15 ॥

एवम् अपि अङ्ग सर्वेषाम् देहिनाम् देह-योगतः ।
काल-अवयवतः सन्ति भावाः जन्म-आदयः असकृत् ॥ 16 ॥

अत्र अपि कर्मणाम् कर्तुः अ-स्वातन्त्र्यम् च लक्ष्यते ।
भोक्तुः च दुःख-सुखयोः कः नु अर्थः विवशम् भजेत् ॥ 17 ॥

न देहिनाम् सुखम् किञ्चित् विद्यते विदुषाम् अपि ।
तथा च दुःखम् मूढानाम् वृथा अहङ्करणम् परम् ॥ 18 ॥

यदि प्राप्तिम् विघातम् च जानन्ति सुख-दुःखयोः ।
ते अपि अद्धा न विदुः योगम् मृत्युः न प्रभवेत् यथा ॥ 19 ॥

कः नु अर्थः सुखयति एनम् कामः वा मृत्युः अन्तिके ।
आघातम् नीयमानस्य वध्यस्य इव न तुष्टि-दः ॥ 20 ॥

श्रुतम् च दृष्टवत् दुष्टम् स्पर्धा-असूया-अत्यय-व्ययैः ।
बहु-अन्तराय-कामत्वात् कृषिवत् च अपि निष्फलम् ॥ 21 ॥

अन्तरायैः अविहितः यदि धर्मः स्व-अनुष्ठितः ।
तेन अपि निर्जितम् स्थानम् यथा गच्छति तत् शृणु ॥ 22 ॥

इष्ट्वा इह देवताः यज्ञैः स्वः-लोकम् याति याज्ञिकः ।
भुञ्जीत देववत् तत्र भोगान् दिव्यान् निज-आर्जितान् ॥ 23 ॥

स्व-पुण्य-उपचिते शुभ्रे विमाने उपगीयते ।
गन्धर्वैः विहरन् मध्ये देवीनाम् हृद्य-वेष-धृक् ॥ 24 ॥

स्त्रीभिः काम-गयानेन किङ्किणी-जाल-मालिना ।
क्रीडन् न वेद आत्म-पातम् सुर-क्रीडेषु निर्वृतः ॥ 25 ॥

तावत् प्रमोदते स्वर्गे यावत् पुण्यम् समाप्यते ।
क्षीण-पुण्यः पतति अर्वाक् अनिच्छन् काल-चालितः ॥ 26 ॥

यदि अधर्म-रतः सङ्गात् असताम् वा अजितेन्द्रियः ।
काम-आत्मा कृपणः लुब्धः स्त्रैणः भूत-विहिंसकः ॥ 27 ॥

पशून् अविधिना आलभ्य प्रेत-भूत-गणान् यजन् ।
नरकान् अवशः जन्तुः गत्वा याति उल्बणम् तमः ॥ 28 ॥

कर्माणि दुःख-उदर्काणि कुर्वन् देहेन तैः पुनः ।
देहम् आभजते तत्र किम् सुखम् मर्त्य-धर्मिणः ॥ 29 ॥

लोकानाम् लोक-पालानाम् मद्-भयम् कल्प-जीविनाम् ।
ब्रह्मणः अपि भयम् मत्तः द्वि-परार्ध-पर-आयुषः ॥ 30 ॥

गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान् ।
जीवः तु गुण-संयुक्तः भुङ्क्ते कर्म-फलानि असौ ॥ 31 ॥

यावत् स्यात् गुण-वैषम्यम् तावत् नानात्वम् आत्मनः ।
नानात्वम् आत्मनः यावत् पारतन्त्र्यम् तदा एव हि ॥ 32 ॥

यावत् अस्य अ-स्वतन्त्रत्वम् तावत् ईश्वरतः भयम् ।
ये एतत् समुपासीरन् ते मुह्यन्ति शुचा-अर्पिताः ॥ 33 ॥

कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च ।
इति माम् बहुधा प्राहुः गुण-व्यतिकरे सति ॥ 34 ॥

श्री-उद्धवः उवाच

गुणेषु वर्तमानः अपि देह-जेषु अनपावृतः ।
गुणैः न बध्यते देही बध्यते वा कथम् विभो ॥ 35 ॥

कथम् वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः ।
किम् भुञ्जीत उत विसृजेत् शयीत आसीत् याति वा ॥ 36 ॥

एतत् अच्युत मे ब्रूहि प्रश्नम् प्रश्न-विदाम् वर ।
नित्य-मुक्तः नित्य-बद्धः एकः एव इति मे भ्रमः ॥ 37 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे भगवत्-उद्धव-संवादे दशमः अध्यायः ॥ 10 ॥


ஸ்கந்தம் 11: அத்யாயம் 9 (உலக விஷயங்களில் ஒட்டாதே - யதுவுக்கு உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

உலக விஷயங்களில் ஒட்டாதே - யதுவுக்கு உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 9

  

श्री-ब्राह्मणः उवाच

परिग्रहः हि दुःखाय यत् यत् प्रिय-तमम् नृणाम् ।
अनन्तम् सुखम् आप्नोति तत् विद्वान् यः तु अ-किञ्चनः ॥ 1 ॥

सामिषम् कुररम् जघ्नुः बलिनः ये निरामिषाः ।
तत् आमिषम् परित्यज्य सः सुखम् समविन्दत ॥ 2 ॥

न मे मान-अपमानौ स्तः न चिन्ता गेह-पुत्रिणाम् ।
आत्म-क्रीडः आत्म-रतिः विचरामि इह बाल-वत् ॥ 3 ॥

द्वौ एव चिन्तया मुक्तौ परम-आनन्द-आप्लुतौ ।
यः विमुग्धः जडः बालः यः गुणेभ्यः परम् गतः ॥ 4 ॥

क्वचित् कुमारी तु आत्मानम् वृणानान् गृहम् आगतान् ।
स्वयम् तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ 5 ॥

तेषाम् अभ्यवहार-अर्थम् शालीन् रहसि पार्थिव ।
अवघ्नन्त्याः प्रकोष्ठ-स्थाः चक्रुः शङ्खाः स्वनम् महत् ॥ 6 ॥

सा तत् जुगुप्सितम् मत्वा महती व्रीडिता ततः ।
बभञ्ज एक-एकशः शङ्खान् द्वौ द्वौ पाण्योः अशेषयत् ॥ 7 ॥

उभयोः अपि अभूत् घोषः हि अवघ्नन्त्याः स्म शङ्खयोः ।
तत्र अपि एकम् निरभिदत् एकस्मात् न अभवत् ध्वनिः ॥ 8 ॥

अन्वशिक्षम् इमम् तस्याः उपदेशम् अरि-दम ।
लोकान् अनुचरन् एतान् लोक-तत्त्व-विवित्सया ॥ 9 ॥

वासे बहूनाम् कलहः भवेत् वार्ता द्वयोः अपि ।
एकः एव चरेत् तस्मात् कुमार्याः इव कङ्कणः ॥ 10 ॥

मनः एकत्र संयुज्यत् जित-श्वासः जित-आसनः ।
वैराग्य-अभ्यास-योगेन ध्रियमाणम् अतन्द्रितः ॥ 11 ॥

यस्मिन् मनः लब्ध-पदम् यत् एतत्
शनैः शनैः मुञ्चति कर्म-रेणून् ।
सत्त्वेन वृद्धेन रजः तमः च
विधूय निर्वाणम् उपैति अनिन्धनम् ॥ 12 ॥

तदा एवम् आत्मनि अवरुद्ध-चित्तः
न वेद किञ्चित् बहिः अन्तरम् वा ।
यथा इषु-कारः नृपतिम् व्रजन्तम्
इषौ गत-आत्मा न ददर्श पार्श्वे ॥ 13 ॥

एक-चारि-निकेतः स्यात् अप्रमतः गुहा-आशयः ।
अलक्ष्यमाणः आचारैः मुनिः एकः अल्प-भाषणः ॥ 14 ॥

गृह-आरम्भः अति-दुःखाय विफलः च अध्रुव-आत्मनः ।
सर्पः पर-कृतम् वेश्म प्रविश्य सुखम् एधते ॥ 15 ॥

एकः नारायणः देवः पूर्व-सृष्टम् स्व-मायया ।
संहृत्य काल-कलया कल्प-अन्ते इदम् ईश्वरः ॥ 16 ॥

एकः एव अद्वितीयः अभूत् आत्म-आधारः अखिल-आश्रयः ।
कालेन आत्म-अनुभावेन साम्यम् नीतासु शक्तिषु ।
सत्त्व-आदिषु आदि-पुरुषः प्रधान-पुरुष-ईश्वरः ॥ 17 ॥

पर-अवराणाम् परमः आस्ते कैवल्य-संज्ञितः ।
केवल-अनुभव-आनन्द-सन्दोहः निरुपाधिकः ॥ 18 ॥

केवल-आत्म-अनुभावेन स्व-मायाम् त्रि-गुण-आत्मिकाम् ।
संक्षोभयन् सृजति आदौ तया सूत्रम् अरि-दम ॥ 19 ॥

ताम् आहुः त्रि-गुण-व्यक्तिम् सृजन्तीम् विश्वतः-मुखम् ।
यस्मिन् प्रोतम् इदम् विश्वम् येन संस्रते पुमान् ॥ 20 ॥

यथा ऊर्ण-नाभिः हृदयात् ऊर्णाम् सन्तत्य वक्त्रतः ।
तया विहृत्य भूयः ताम् ग्रसति एवम् महा-ईश्वरः ॥ 21 ॥

यत्र यत्र मनः देही धारयेत् सकलम् धिया ।
स्नेहात् द्वेषात् भयात् वा अपि याति तत्-तत् स्वरूपताम् ॥ 22 ॥

कीटः पेशस्-कृतम् ध्यायन् कुड्यां तेन प्रवेशितः ।
याति तत्-सात्मताम् राजन् पूर्व-रूपम् असन्त्यजन् ॥ 23 ॥

एवम् गुरुभ्यः एतेभ्यः एषा मे शिक्षिता मतिः ।
स्व-आत्म-उपशिक्षिताम् बुद्धिम् शृणु मे वदतः प्रभो ॥ 24 ॥

देहः गुरुः मम विरक्ति-विवेक-हेतुः
बिभ्रत् स्म सत्त्व-निधनम् सतत-आर्ति-उदर्कम् ।
तत्त्वानि अनेन विमृशामि यथा तथापि
पारक्यम् इति अवसितः विचरामि असङ्गः ॥ 25 ॥

जाय-आत्मज-अर्थ-पशु-भृत्य-गृह-आप्त-वर्गान्
पुष्णाति यत् प्रिय-चिकीर्षुतया वितन्वन् ।
स्व-अन्ते सकृत् श्रमम् अवरुद्ध-धनः सः देहः
सृष्ट्वा अस्य बीजम् अवसीदति वृक्ष-धर्मा ॥ 26 ॥

जिह्वा एकतः अमुम् अपकर्षति कर्हि तर्षा
शिश्नः अन्यतः त्वक् उदरम् श्रवणम् कुतः चित् ।
घ्राणः अन्यतः चपल-दृक् क्व च कर्म-शक्तिः
बह्व्यः सपत्न्यः इव गेह-पतिम् लुनन्ति ॥ 27 ॥

सृष्ट्वा पुराणि विविधानि अजयाः आत्म-शक्त्या
वृक्षान् सरीसृप-पशून् खग-दंश-मत्स्यान् ।
तैः तैः अतुष्ट-हृदयः पुरुषम् विधाय
ब्रह्म-अवलोक-धिषणम् मुदम् आप देवः ॥ 28 ॥

लब्ध्वा सु-दुर्लभम् इदम् बहु-सम्भव-अन्ते
मानुष्यम् अर्थ-दम् अनित्यम् अपि इह धीरः ।
तूर्णम् यतेत् न पतॆत् अनु-मृत्यु यावत्
निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ 29 ॥

एवम् सञ्जात-वैराग्यः विज्ञान-आलोकः आत्मनि ।
विचरामि महीम् एताम् मुक्त-सङ्गः अनहङ्कृतिः ॥ 30 ॥

न हि एकस्मात् गुरोः ज्ञानम् सु-स्थिरम् स्यात् सु-पुष्कलम् ।
ब्रह्म एतत् अद्वितीयम् वै गीयते बहुधा ऋषिभिः ॥ 31 ॥

श्री-भगवान् उवाच

इति उक्त्वा सः यदुम् विप्रः तम् आमन्त्र्य गभीर-धीः ।
वन्दितः अभ्यर्थितः राज्ञा ययौ प्रीतः यथा-आगतम् ॥ 32 ॥

अवधूत-वचः श्रुत्वा पूर्वेषाम् नः सः पूर्वजः ।
सर्व-सङ्ग-विनिर्मुक्तः सम-चित्तः बभूव ह ॥ 33 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे नवमः अध्यायः ॥ 9 ॥

ஸ்கந்தம் 11: அத்யாயம் 8 (ஒன்பது குரு - யதுவுக்கு உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஒன்பது குரு - யதுவுக்கு உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 8

 

श्री-ब्राह्मणः उवाच

सुखम् ऐन्द्रियकम् राजन् स्वर्गे नरके एव च ।
देहिनाम् यत् यथा दुःखम् तस्मात् न इच्छेत् तत् बुधः ॥ 1 ॥

ग्रासम् सु-मृष्टम् विरसम् महान्तम् स्तोकम् एव वा ।
यदृच्छया एव आपतितम् ग्रसेत् अजगरः अक्रियः ॥ 2 ॥

शयीत अहानि भूरीणि निराहारः अनुपक्रमः ।
यदि न उपनमेत् ग्रासः महा-अहिः इव दिष्ट-भुक् ॥ 3 ॥

ओजः-सहः-बल-युतम् बिभ्रत् देहम् अकर्मकम् ।
शयानः वीत-निद्रः च न ईहते इन्द्रिय-वान् अपि ॥ 4 ॥

मुनिः प्रसन्न-गम्भीरः दुर्विगाह्यः दुरत्ययः ।
अनन्त-पारः हि अक्षोभ्यः स्तिमित-उदः इव अर्णवः ॥ 5 ॥

समृद्ध-कामः हीनः वा नारायण-परः मुनिः ।
न उत्सर्पेत् न शुष्येत् सरिद्भिः इव सागरः ॥ 6 ॥

दृष्ट्वा स्त्रियम् देव-मायाम् तत्-भावैः अजित-इन्द्रियः ।
प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्ग-वत् ॥ 7 ॥

योषित्-हिरण्य-आभरण-अम्बर-आदि-
द्रव्येषु माया-रचितेषु मूढः ।
प्रलोभित-आत्मा हि उपभोग-बुद्ध्या
पतङ्ग-वत् नश्यति नष्ट-दृष्टिः ॥ 8 ॥

स्तोकम् स्तोकम् ग्रसेत् ग्रासम् देहः वर्तेत यावता ।
गृहान् अहिंसन् आतिष्ठेत् वृत्तिम् माधुकरीम् मुनिः ॥ 9 ॥

अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः ।
सर्वतः सारम् आदद्यात् पुष्पेभ्यः इव षट्-पदः ॥ 10 ॥

सायन्तनम् श्वस्तनम् वा न संगृह्णीत भिक्षितम् ।
पाणि-पात्र-उदर-अमत्रः मक्षिका इव न संग्रही ॥ 11 ॥

सायन्तनम् श्वस्तनम् वा न संगृह्णीत भिक्षुकः ।
मक्षिका इव संगृह्णन् सह तेन विनश्यति ॥ 12 ॥

पदा अपि युवतीम् भिक्षुः न स्पृशेत् दारवीम् अपि ।
स्पृशन् करी इव बध्येत् करिण्या अङ्ग-सङ्गतः ॥ 13 ॥

न अधिगच्छेत् स्त्रियम् प्राज्ञः कर्हिचित् मृत्युम् आत्मनः ।
बल-ाधिकैः सः हन्येत् गजैः अन्यैः गजः यथा ॥ 14 ॥

न देयम् न उपभोग्यम् च लुब्धैः यत् दुःख-सञ्चितम् ।
भुङ्क्ते तत् अपि तत् च अन्यः मधु-हा इव अर्थ-वित् मधु ॥ 15 ॥

सु-दुःख-उपार्जितैः वित्तैः आशासानाम् गृह-आशिषः ।
मधु-हा इव अग्रतः भुङ्क्ते यतिः वै गृह-मेधिनाम् ॥ 16 ॥

ग्राम्य-गीतम् न शृणुयात् यतिः वन-चरः क्वचित् ।
शिक्षेत हरिणात् बद्धात् मृगयोः गीत-मोहितात् ॥ 17 ॥

नृत्य-वादित्र-गीतानि जुषन् ग्राम्याणि योषिताम् ।
आसाम् क्रीडनकः वश्यः ऋष्य-शृङ्गः मृगी-सुतः ॥ 18 ॥

जिह्वया अति-प्रमाथिन्या जनः रस-विमोहितः ।
मृत्युम् ऋच्छति असत्-बुद्धिः मीनः तु बडिशैः यथा ॥ 19 ॥

इन्द्रियाणि जयन्ति आशु निराहाराः मनीषिणः ।
वर्जयित्वा तु रसनाम् तत् निरन्नस्य वर्धते ॥ 20 ॥

तावत् जित-इन्द्रियः न स्यात् विजित-अन्य-इन्द्रियः पुमान् ।
न जयेत् रसनाम् यावत् जितम् सर्वम् जिते रसे ॥ 21 ॥

पिङ्गला नाम वेश्या आसीत् विदेह-नगरे पुरा ।
तस्याः मे शिक्षितम् किञ्चित् निबोध नृप-नन्दन ॥ 22 ॥

सा स्वैरिणी एकदा कान्तम् सङ्केते उपनेष्यती ।
अभूत् काले बहिः द्वारि बिभ्रती रूपम् उत्तमम् ॥ 23 ॥

मार्गे आगच्छतः वीक्ष्य पुरुषान् पुरुष-ऋषभ ।
तान् शुल्क-दान् वित्त-वत् कान्तान् मेने अर्थ-कामुका ॥ 24 ॥

आगतेषु अपयातेषु सा सङ्केत-उपजीविनी ।
अपि अन्यः वित्त-वान् कः अपि माम् उपैष्यति भूरि-दः ॥ 25 ॥

एवम् दुराशया ध्वस्त-निद्रा द्वारि अवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथम् समपद्यत ॥ 26 ॥

तस्याः वित्त-आशया शुष्यत्-वक्त्रायाः दीन-चेतसः ।
निर्वेदः परमः जज्ञे चिन्ता-हेतुः सुख-आवहः ॥ 27 ॥

तस्याः निर्विण्ण-चित्तायाः गीतम् शृणु यथा मम ।
निर्वेदः आशा-पाशानाम् पुरुषस्य यथा हि असिः ॥ 28 ॥

न हि अङ्ग अजात-निर्वेदः देह-बन्धम् जिहासति ।
यथा विज्ञान-रहितः मनुजः ममताम् नृप ॥ 29 ॥

पिङ्गला उवाच

अहो मे मोह-विततिम् पश्यत अविजित-आत्मनः ।
या कान्तात् असतः कामम् कामये येन बालिशा ॥ 30 ॥

सन्तम् समीपे रमणम् रति-प्रदम्
वित्त-प्रदम् नित्यम् इमम् विहाय ।
अकाम-दम् दुःख-भय-आधि-शोक-
मोह-प्रदम् तुच्छम् अहम् भजे अज्ञा ॥ 31 ॥

अहो मया आत्मा परितापितः वृथा
साङ्केत्य-वृत्त्या अति-विगर्ह्य-वार्तया ।
स्त्रैणात् नरात् यार्थ-तृषः अनुशोच्यात्
क्रीतेन वित्तम् रतिम् आत्मने इच्छती ॥ 32 ॥

यत् अस्थिभिः निर्मित-वंश-वंश्य-
स्थूणम् त्वचा रोम-नखैः पिनद्धम् ।
क्षरन् नव-द्वारम् अगारम् एतत्
विण्-मूत्र-पूर्णम् मद् उपैति का अन्याः ॥ 33 ॥

विदेहानाम् पुरे हि अस्मिन् अहम् एकैव मूढ-धीः ।
यानि अमि इच्छन्ति असत् अस्मात् आत्म-दात् कामम् अच्युतात् ॥ 34 ॥

सुहृत् प्रेष्ठ-तमः नाथः आत्मा च अयम् शरीरिणाम् ।
तम् विक्रीय आत्मना एव अहम् रमे अनेन यथा रमा ॥ 35 ॥

कियत् प्रियम् ते व्यभजन् कामाः ये काम-दाः नराः ।
आदि-अन्त-वन्तः भार्यायाः देवाः वा काल-विद्रुताः ॥ 36 ॥

नूनम् मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा ।
निर्वेदः अयम् दुराशायाः यत् मे जातः सुख-आवहः ॥ 37 ॥

मा एवम् स्युः मन्द-भाग्यायाः क्लेशाः निर्वेद-हेतवः ।
येन अनुबन्धम् निर्हृत्य पुरुषः शमम् ऋच्छति ॥ 38 ॥

तेन उपकृतम् आदाय शिरसा ग्राम्य-सङ्गताः ।
त्यक्त्वा दुराशाः शरणम् व्रजामि तम् अधीश्वरम् ॥ 39 ॥

सन्तुष्टा श्रद्धधती एतत् यथा-लाभेन जीवती ।
विहरामि अमुना एव अहम् आत्मना रमणेन वै ॥ 40 ॥

संसार-कूपे पतितम् विषयैः मुषित-ईक्षणम् ।
ग्रस्तम् काल-अहिना आत्मानम् कः अन्यः त्रातुम् अधीश्वरः ॥ 41 ॥

आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदा अखिलात् ।
अप्रमत्तः इदम् पश्येत् ग्रस्तम् काल-अहिना जगत् ॥ 42 ॥

श्री-ब्राह्मणः उवाच

एवम् व्यवसित-मतिः दुराशाम् कान्त-तर्ष-जाम् ।
छित्त्वा उपशमम् आस्थाय शय्याम् उपविवेश सा ॥ 43 ॥

आशा हि परमम् दुःखम् नैराश्यम् परमम् सुखम् ।
यथा सञ्च्छिद्य कान्त-आशाम् सुखम् सुष्वाप पिङ्गला ॥ 44 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे अष्टमः अध्यायः ॥ 8 ॥ 


ஸ்கந்தம் 11: அத்யாயம் 7 (உத்தவருக்கு உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 உத்தவருக்கு உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 7

 

श्री-भगवान् उवाच

यत् आत्थ माम् महा-भाग तत् चिकीर्षितम् एव मे ।
ब्रह्मा भवः लोक-पालाः स्वः-वासम् मे अभिकाङ्क्षिणः ॥ 1 ॥

मया निष्पादितम् हि अत्र देव-कार्यं अशेषतः ।
यत्-अर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणा अर्थितः ॥ 2 ॥

कुलम् वै शाप-निर्दग्धम् नङ्क्ष्यति अन्योन्य-विग्रहात् ।
समुद्रः सप्तमे अह्नि एताम् पुरीम् च प्लावयिष्यति ॥ 3 ॥

यर्हि एव अयम् मया त्यक्तः लोकः अयम् नष्ट-मङ्गलः ।
भविष्यति अचिरात् साधो कलिना अपि निराकृतः ॥ 4 ॥

न वस्तव्यम् त्वया एव इह मया त्यक्ते मही-तले ।
जनः अधर्म-रुचिः भद्र भविष्यति कलौ युगे ॥ 5 ॥

त्वम् तु सर्वम् परित्यज्य स्नेहम् स्वजन-बन्धुषु ।
मयि आवेश्य मनः सम्यक् सम-दृक् विचरस्व गाम् ॥ 6 ॥

यत् इदम् मनसा वाचा चक्षुर्भ्याम् श्रवण-आदिभिः ।
नश्वरम् गृह्यमाणम् च विद्धि माया-मनो-मयम् ॥ 7 ॥

पुंसः अयुक्तस्य नाना-अर्थः भ्रमः सः गुण-दोष-भाक् ।
कर्म-अकर्म-विकर्म इति गुण-दोष-धियः भिदा ॥ 8 ॥

तस्मात् युक्त-इन्द्रिय-ग्रामः युक्त-चित्तः इदम् जगत् ।
आत्मनि ईक्षस्व विततम् आत्मानम् मयि अधीश्वरे ॥ 9 ॥

ज्ञान-विज्ञान-संयुक्तः आत्म-भूतः शरीरिणाम् ।
आत्म-अनुभव-तुष्ट-आत्मा न अन्तरायैः विहन्यसे ॥ 10 ॥

दोष-बुद्ध्या उभयातीतः निषेधात् न निवर्तते ।
गुण-बुद्ध्या च विहितम् न करोति यथा अर्भकः ॥ 11 ॥

सर्व-भूत-सुहृत् शान्तः ज्ञान-विज्ञान-निश्चयः ।
पश्यन् मद्-आत्मकम् विश्वम् न विपद्येत वै पुनः ॥ 12 ॥

श्री-शुकः उवाच

इति आदिष्टः भगवता महा-भागवतः नृप ।
उद्धवः प्रणिपत्य आह तत्त्व-जिज्ञासुः अच्युतम् ॥ 13 ॥

श्री-उद्धवः उवाच

योग-ईश योग-विन्यास योग-आत्मन् योग-सम्भव ।
निःश्रेयसाय मे प्रोक्तः त्यागः संन्यास-लक्षणः ॥ 14 ॥

त्यागः अयम् दुष्करः भूमन् कामानाम् विषय-आत्मभिः ।
सुतराम् त्वयि सर्व-आत्मन् अभक्तैः इति मे मतिः ॥ 15 ॥

सः अहम् मम अहम् इति मूढ-मतिः विगाढः
त्वत्-मायया विरचित-आत्मनि स-अनुबन्धे ।
तत् त्वम् अञ्जसा निगदितम् भवता यथा अहम्
संसाधयामि भगवन् अनुशाधि भृत्यम् ॥ 16 ॥

सत्यस्य ते स्व-दृशः आत्मनः आत्मनः अन्यं
वक्तारम् ईश विबुधेषु अपि न अनुचक्षे ।
सर्वे विमोहित-धियः तव मायया इमे
ब्रह्म-आदयः तनु-भृतः बहिः-अर्थ-भावाः ॥ 17 ॥

तस्मात् भवन्तम् अनवद्यम् अनन्त-पारम्
सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् ।
निर्विण्ण-धीः अहम् उ ह वृजिन-अभितप्तः
नारायणम् नर-सखम् शरणम् प्रपद्ये ॥ 18 ॥

श्री-भगवान् उवाच

प्रायेण मनुजाः लोके लोक-तत्त्व-विचक्षणाः ।
समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभ-आशयात् ॥ 19 ॥

आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः ।
यत् प्रत्यक्ष-अनुमानाभ्याम् श्रेयः असौ अनुविन्दते ॥ 20 ॥

पुरुषत्वे च माम् धीराः साङ्ख्य-योग-विशारदाः ।
आविस्तराम् प्रपश्यन्ति सर्व-शक्ति-उपबृंहितम् ॥ 21 ॥

एक-द्वि-त्रि-चतुः-पादः बहु-पादः तथा अपदः ।
बह्व्यः सन्ति पुरः सृष्टाः तासाम् मे पौरुषी प्रिया ॥ 22 ॥

अत्र माम् मार्गयन्ति अद्धा युक्ताः हेतुभिः ईश्वरम् ।
गृह्यमाणैः गुणैः लिङ्गैः अग्राह्यम् अनुमानतः ॥ 23 ॥

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् ।
अवधूतस्य संवादम् यदोः अमित-तेजसः ॥ 24 ॥

अवधूतम् द्विजम् कञ्चित् चरन्तम् अकुतो-भयम् ।
कविम् निरीक्ष्य तरुणम् यदुः पप्रच्छ धर्म-वित् ॥ 25 ॥

श्री-यदुः उवाच

कुतः बुद्धिः इयम् ब्रह्मन् अकर्तुः सु-विशारदा ।
याम् आसाद्य भवान् लोकम् विद्वान् चरति बालवत् ॥ 26 ॥

प्रायः धर्म-अर्थ-कामेषु विवित्सायाम् च मानवाः ।
हेतुना एव समीहन्ते आयुषः यशसः श्रियः ॥ 27 ॥

त्वम् तु कल्पः कविः दक्षः सु-भगः अमृत-भाषणः ।
न कर्ता न ईहसे किञ्चित् जड-उन्मत्त-पिशाच-वत् ॥ 28 ॥

जनेषु दह्यमानेषु काम-लोभ-दव-अग्निना ।
न तप्यसे अग्निना मुक्तः गङ्गा-अम्भः-स्थः इव द्विपः ॥ 29 ॥

त्वम् हि नः पृच्छताम् ब्रह्मन् आत्मनि आनन्द-कारणम् ।
ब्रूहि स्पर्श-विहीनस्य भवतः केवल-आत्मनः ॥ 30 ॥

श्री-भगवान् उवाच

यदुना एवम् महा-भागः ब्रह्मण्येन सु-मेधसा ।
पृष्टः स-भाजितः प्राह प्रश्रय-अवनतम् द्विजः ॥ 31 ॥

श्री-ब्राह्मणः उवाच

सन्ति मे गुरवः राजन् बहवः बुद्धि-उपश्रिताः ।
यतः बुद्धिम् उपादाय मुक्तः अटामि इह तत् शृणु ॥ 32 ॥

पृथिवी वायुः आकाशम् आपः अग्निः चन्द्रमाः रविः ।
कपोतः अजगरः सिन्धुः पतङ्गः मधु-कृत् गजः ॥ 33 ॥

मधु-हा हरिणः मीनः पिङ्गला कुररः अर्भकः ।
कुमारी शर-कृत् सर्पः ऊर्ण-नाभिः सुपेश-कृत् ॥ 34 ॥

एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः ।
शिक्षाः वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः ॥ 35 ॥

यतः यत् अनुशिक्षामि यथा वा नाहुष-आत्मज ।
तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते ॥ 36 ॥

भूतैः आक्रम्यमाणः अपि धीरः दैव-वश-अनुगैः ।
तत् विद्वान् न चलॆत् मार्गात् अन्वशिक्षम् क्षितेः व्रतम् ॥ 37 ॥

शश्वत् परार्थ-सर्व-ईहः परार्थ-एकान्त-सम्भवः ।
साधुः शिक्षेत भू-भृतः नग-शिष्यः पर-आत्मताम् ॥ 38 ॥

प्राण-वृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रिय-प्रियैः ।
ज्ञानम् यथा न नश्येत् न अवकीर्येत वाक्-मनः ॥ 39 ॥

विषयेषु आविशन् योगी नाना-धर्मेषु सर्वतः ।
गुण-दोष-व्यपेत-आत्मा न विषज्जेत वायु-वत् ॥ 40 ॥

पार्थिवेषु इह देहेषु प्रविष्टः तत्-गुण-आश्रयः ।
गुणैः न युज्यते योगी गन्धैः वायुः इव आत्म-दृक् ॥ 41 ॥

अन्तर्हितः च स्थिर-जङ्गमेषु
ब्रह्म-आत्म-भावेन समन्वयेन ।
व्याप्त्या अव्यवच्छेदम् असङ्गम् आत्मनः
मुनिः नभः त्वम् विततस्य भावयेत् ॥ 42 ॥

तेजः-अब्-अन्न-मयैः भावैः मेघ-आद्यैः वायुना ईरितैः ।
न स्पृश्यते नभः तद्वत् काल-सृष्टैः गुणैः पुमान् ॥ 43 ॥

स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थ-भूः नृणाम् ।
मुनिः पुनाति अपाम् मित्रम् ईक्षा-उपस्पर्श-कीर्तनैः ॥ 44 ॥

तेजस्वी तपसा दीप्तः दुर्धर्षः उदर-भाजनः ।
सर्व-भक्ष्यः अपि युक्त-आत्मा न आदत्ते मलम् अग्नि-वत् ॥ 45 ॥

क्वचित् छन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम् ।
भुङ्क्ते सर्वत्र दातॄणाम् दहन् प्राक्-उत्तर-अशुभम् ॥ 46 ॥

स्व-मायया सृष्टम् इदम् सत्-असत्-लक्षणम् विभुः ।
प्रविष्टः ईयते तत्-तत् स्वरूपः अग्निः इव एधसि ॥ 47 ॥

विसर्ग-आद्याः श्मशान-अन्ताः भावाः देहस्य न आत्मनः ।
कलानाम् इव चन्द्रस्य कालेन अव्यक्त-वर्त्मना ॥ 48 ॥

कालेन हि ओघ-वेगेन भूतानाम् प्रभव-अप्ययौ ।
नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ॥ 49 ॥

गुणैः गुणान् उपादत्ते यथा-कालम् विमुञ्चति ।
न तेषु युज्यते योगी गोभिः गाः इव गो-पतिः ॥ 50 ॥

बुध्यते स्वे न भेदेन व्यक्तिस्थः इव तत्-गतः ।
लक्ष्यते स्थूल-मतिभिः आत्मा च अवस्थितः अर्क-वत् ॥ 51 ॥

न अति-स्नेहः प्रसङ्गः वा कर्तव्यः क्वापि केनचित् ।
कुर्वन् विन्देत सन्तापम् कपोतः इव दीन-धीः ॥ 52 ॥

कपोतः कश्चन अरण्ये कृत-नीडः वनस्पतौ ।
कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ 53 ॥

कपोतौ स्नेह-गुणित-हृदयौ गृह-धर्मिणौ ।
दृष्टिम् दृष्ट्या अङ्गम् अङ्गेन बुद्धिम् बुद्ध्या बबन्धतुः ॥ 54 ॥

शय्या-आसन-आटन-स्थान-वार्ता-क्रीडा-आशन-आदिकम् ।
मिथुनी-भूय विस्त्रब्धौ चेरतुः वन-राजिषु ॥ 55 ॥

यम् यम् वाञ्छति सा राजन् तर्पयन्ती अनुकम्पिता ।
तम् तम् समनयत् कामम् कृच्छ्रेण अपि अजित-इन्द्रियः ॥ 56 ॥

कपोती प्रथमम् गर्भम् गृह्णती काले आगते ।
अण्डानि सुषुवे नीडे स्व-पत्युः सन्निधौ सती ॥ 57 ॥

तेषु काले व्यजायन्त रचित-अवयवाः हरेः ।
शक्तिभिः दुर्विभाव्याभिः कोमल-अङ्ग-तनु-रुहाः ॥ 58 ॥

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्र-वात्सलौ ।
शृण्वन्तौ कूजितम् तासाम् निर्वृतौ कल-भाषितैः ॥ 59 ॥

तासाम् पतत्रैः सु-स्पर्शैः कूजितैः मुग्ध-चेष्टितैः ।
प्रत्युद्गमैः अ-दीनानाम् पितरौ मुदम् आपतुः ॥ 60 ॥

स्नेह-अनुबद्ध-हृदयौ अन्योन्यम् विष्णु-मायया ।
विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः ॥ 61 ॥

एकदा जग्मतुः तासाम् अन्न-अर्थम् तौ कुटुम्बिनौ ।
परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ॥ 62 ॥

दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छया ततः वन-चरः ।
जगृहे जालम् आतत्य चरतः स्व-आलय-अन्तिके ॥ 63 ॥

कपोतः च कपोती च प्रजा-पोषे सदा उत्सुकौ ।
गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः ॥ 64 ॥

कपोती स्व-आत्मजान् वीक्ष्य बालकान् जाल-संवृतान् ।
तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृश-दुःखिता ॥ 65 ॥

सा सकृत् स्नेह-गुणिता दीन-चित्ता अज-मायया ।
स्वयम् च अबध्यत शिचा बद्धान् पश्यन्ती अपस्मृतिः ॥ 66 ॥

कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् ।
भार्याम् च आत्म-समाम् दीनः विललाप अति-दुःखितः ॥ 67 ॥

अहो मे पश्यत आपायम् अल्प-पुण्यस्य दुर्मतेः ।
अतृप्तस्य अ-कृत-अर्थस्य गृह-त्रैवर्गिकः हतः ॥ 68 ॥

अनुरूप-अनुकूला च यस्य मे पति-देवता ।
शून्ये गृहे माम् सन्त्यज्य पुत्रैः स्वर्गम् याति साधुभिः ॥ 69 ॥

सः अहम् शून्ये गृहे दीनः मृत-दारः मृत-प्रजः ।
जिजीविषे किम् अर्थम् वा विधुरः दुःख-जीवितः ॥ 70 ॥

तान् तथा एव आवृतान् शिग्भिः मृत्यु-ग्रस्तान् विचेष्टतः ।
स्वयम् च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ॥ 71 ॥

तम् लब्ध्वा लुब्धकः क्रूरः कपोतम् गृह-मेधिनम् ।
कपोतकान् कपोतीम् च सिद्ध-अर्थः प्रययौ गृहम् ॥ 72 ॥

एवम् कुटुम्बी अशान्त-आत्मा द्वन्द्व-आरामः पतत्रि-वत् ।
पुष्णन् कुटुम्बम् कृपणः स-अनुबन्धः अवसीदति ॥ 73 ॥

यः प्राप्य मानुषम् लोकम् मुक्ति-द्वारम् अपावृतम् ।
गृहेषु खग-वत् सक्तः तम् आरूढ-च्युतम् विदुः ॥ 74 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे सप्तमः अध्यायः ॥ 7 ॥


ஸ்கந்தம் 11: அத்யாயம் 6 (உத்தவர் வருகை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

உத்தவர் வருகை

ஸ்கந்தம் 11: அத்யாயம் 6

 

श्री-शुकः उवाच

अथ ब्रह्मा आत्म-जैः देवैः प्रज-ईशैः आवृतः अभ्यगात् ।
भवः च भूत-भव्य-ईशः ययौ भूत-गणैः वृतः ॥ 1 ॥

इन्द्रः मरुत्भिः भगवान् आदित्याः वसवः अश्विनौ ।
ऋभवः अङ्गिरसः रुद्राः विश्वे साध्याः च देवताः ॥ 2 ॥

गन्धर्वाः अप्सरसः नागाः सिद्ध-चारण-गुह्यकाः ।
ऋषयः पितरः च एव स-विद्याधर-किन्नराः ॥ 3 ॥

द्वारकाम् उपसञ्जग्मुः सर्वे कृष्ण-दिदृक्षवः ।
वपुषा येन भगवान् नर-लोक-मनो-रमः ।
यशः वितेने लोकेषु सर्व-लोक-मल-अपहम् ॥ 4 ॥

तस्याम् विभ्राजमानायाम् समृद्धायाम् महा-ऋद्धिभिः ।
व्यचक्षत अवितृप्त-अक्षाः कृष्णम् अद्भुत-दर्शनम् ॥ 5 ॥

स्वर्ग-उद्यान-उपगैः माल्यैः छादयन्तः यदु-उत्तमम् ।
गीर्भिः च चित्र-पदार्थाभिः तुष्टुवुः जगत्-ईश्वरम् ॥ 6 ॥

श्री-देवाः ऊचुः

नताः स्म ते नाथ पद-अरविन्दम्
बुद्धि-इन्द्रिय-प्राण-मनः-वचोभिः ।
यत् चिन्त्यते अन्तः-हृदि भाव-युक्तैः
मुमुक्षुभिः कर्म-मय-उरु-पाशात् ॥ 7 ॥

त्वम् मायया त्रि-गुणया आत्मनि दुर्विभाव्यम्
व्यक्तम् सृजसि अवसि लुम्पसि तत्-गुण-स्थः ।
न एतैः भवान् अजित कर्मभिः अज्यते वै
यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः ॥ 8 ॥

शुद्धिः नृणाम् न तु तथा ईड्य दुराशयानाम् ।
विद्या-श्रुत-अध्ययन-दान-तपः-क्रियाभिः ।
सत्त्व-आत्मनाम् ऋषभ ते यशसि प्रवृद्ध-
सत्-श्रद्धया श्रवण-सम्भृतया यथा स्यात् ॥ 9 ॥

स्यात् नः तव अङ्घ्रिः अशुभ-आशय-धूम-केतुः
क्षेमाय यः मुनिभिः आर्द्र-हृदः ऊह्यमानः ।
यः सात्वतैः सम-विभूतयः आत्म-वद्भिः
व्यूहे अर्चितः सवन-शः स्वरति-क्रमाय ॥ 10 ॥

यः चिन्त्यते प्रयत-पाणिभिः अध्वर-अग्नौ
त्रय्या निरुक्त-विधिना ईश हविः गृहीत्वा ।
अध्यात्म-योगे उत योगिभिः आत्म-मायाम्
जिज्ञासुभिः परम-भागवतैः परीष्टः ॥ 11 ॥

पर्युष्टया तव विभो वन-मालया इयम्
संस्पर्धिनी भगवती प्रति-पत्नि-वत् श्रीः ।
यः सुप्रणीतम् अमुया अर्हणम् आददन् नः
भूयात् सदा अङ्घ्रिः अशुभ-आशय-धूम-केतुः ॥ 12 ॥

केतुः त्रि-विक्रम-युतः त्रि-पतत्-पताकः
यः ते भय-अभय-करः असुर-देव-चम्वोः ।
स्वर्गाय साधुषु खलेषु इतराय भूमन्
पादः पुनातु भगवन् भजताम् अघम् नः ॥ 13 ॥

नस्य-उत-गावः इव यस्य वशे भवन्ति
ब्रह्म-आदयः तनु-भृतः मिथः उर्द्यमानाः ।
कालस्य ते प्रकृति-पुरुषयोः परस्य
शम् नः तनोतु चरणः पुरुष-उत्तमस्य ॥ 14 ॥

अस्य असि हेतुः उदय-स्थिति-संयमानाम्
अव्यक्त-जीव-महताम् अपि कालम् आहुः ।
सः अयम् त्रि-नाभिः अखिल-अपचये प्रवृत्तः
कालः गभीर-रयः उत्तम-पुरुषः त्वम् ॥ 15 ॥

त्वत्तः पुमान् समधिगम्य यया स्व-वीर्यम्
धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः ।
सः अयम् तया अनुगतः आत्मना आण्ड-कोशम्
हैमम् ससर्ज बहिः आवरणैः उपेतम् ॥ 16 ॥

तत् तस्थूषः च जगतः च भवान् अधीशः
यत् मायया उत्थ-गुण-विक्रियया उपनीतान् ।
अर्थान् जुषन् अपि हृषीक-पते न लिप्तः
ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म ॥ 17 ॥

स्माय-अवलोक-लव-दर्शित-भाव-हारि
भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः ।
पत्न्यः तु षोडश-सहस्रम् अनङ्ग-बाणैः
यस्य इन्द्रियम् विमथितुम् करणैः न विभ्व्यः ॥ 18 ॥

विभ्व्यः तव अमृत-कथा-उदवहाः त्रि-लोक्याः
पाद-अवनेज-सरितः शमलानि हन्तुम् ।
आनुश्रवम् श्रुतिभिः अङ्घ्रि-जम् अङ्ग-सङ्गैः
तीर्थ-द्वयम् शुचि-सदः उपस्पृशन्ति ॥ 19 ॥

श्री-बादरायणिः उवाच

इति अभिष्टूय विबुधैः स-ईशः शत-धृतिः हरिम् ।
अभ्यभाषत गोविन्दम् प्रणम्य अम्बरम् आश्रितः ॥ 20 ॥

श्री-ब्रह्मा उवाच

भूमेः भार-अवताराय पुरा विज्ञापितः प्रभो ।
त्वम् अस्माभिः अशेष-आत्मन् तत् तथा एव उपपादितम् ॥ 21 ॥

धर्मः च स्थापितः सत्सु सत्य-सन्धेषु वै त्वया ।
कीर्तिः च दिक्षु विक्षिप्ता सर्व-लोक-मल-अपहा ॥ 22 ॥

अवतीर्य यदु-वांशे बिभ्रत् रूपम् अनुत्तमम् ।
कर्माणि उद्दाम-वृत्तानि हिताय जगतः अकृथाः ॥ 23 ॥

यानि ते चरितानि ईश मनुष्याः साधवः कलौ ।
शृण्वन्तः कीर्तयन्तः च तरिष्यन्ति अञ्जसा तमः ॥ 24 ॥

यदु-वांशे अवतीर्णस्य भवतः पुरुष-उत्तम ।
शरत्-शतम् व्यतीयाय पञ्च-विंश-अधिकम् प्रभो ॥ 25 ॥

न अधुना ते अखिल-आधार देव-कार्य-अवशेषितम् ।
कुलम् च विप्र-शापेन नष्ट-प्रायम् अभूत् इदम् ॥ 26 ॥

ततः स्व-धाम परमम् विशस्व यदि मन्यसे ।
स-लोकान् लोक-पालान् नः पाहि वैकुण्ठ-किङ्करान् ॥ 27 ॥

श्री-भगवान् उवाच

अवधारितम् एतत् मे यत् आत्थ विबुध-ईश्वर ।
कृतम् वः कार्यम् अखिलम् भूमेः भारः अवतारितः ॥ 28 ॥

तत् इदम् यादव-कुलम् वीर्य-शौर्य-श्रिया उद्दतम् ।
लोकम् जिघृक्षत् रुद्धम् मे वेलया इव महा-अर्णवः ॥ 29 ॥

यदि असंहृत्य दृप्तानाम् यदूनाम् विपुलम् कुलम् ।
गन्ता अस्मि अनेन लोकः अयम् उद्वेलेन विनङ्क्ष्यति ॥ 30 ॥

इदानीम् नाशः आरब्धः कुलस्य द्विज-शाप-जः ।
यास्यामि भवनम् ब्रह्मन् एतत् अन्ते तव अनघ ॥ 31 ॥

श्री-शुकः उवाच

इति उक्तः लोक-नाथेन स्वयम्भूः प्रणिपत्य तम् ।
सह देव-गणैः देवः स्व-धाम समपद्यत ॥ 32 ॥

अथ तस्याम् महा-उत्पातान् द्वारवत्याम् समुत्थितान् ।
विलोक्य भगवान् आह यदु-वृद्धान् समागतान् ॥ 33 ॥

श्री-भगवान् उवाच

एते वै सु-महा-उत्पाताः व्युत्तिष्ठन्ति इह सर्वतः ।
शापः च नः कुलस्य आसीत् ब्राह्मणेभ्यः दुरत्ययः ॥ 34 ॥

न वस्तव्यम् इह अस्माभिः जिजीविषुभिः आर्यकाः ।
प्रभासम् सु-महत् पुण्यम् यास्यामः अद्य एव मा चिरम् ॥ 35 ॥

यत्र स्नात्वा दक्ष-शापात् गृहीतः यक्ष्मणा उडु-राट् ।
विमुक्तः किल्बिषात् सद्यः भेजे भूयः कल-उदयम् ॥ 36 ॥

वयम् च तस्मिन् आप्लुत्य तर्पयित्वा पितॄन् सुरान् ।
भोजयित्वा उशिजः विप्रान् नाना-गुण-वतान् धसा ॥ 37 ॥

तेषु दानानि पात्रेषु श्रद्धया उप्त्वा महान्ति वै ।
वृजिनानि तरिष्यामः दानैः नौभिः इव अर्णवम् ॥ 38 ॥

श्री-शुकः उवाच

एवम् भगवता आदिष्टाः यादवाः कुल-नन्दन ।
गन्तुम् कृत-धियः तीर्थम् स्यन्दनान् समयूयुजन् ॥ 39 ॥

तत् निरीक्ष्य उद्धवः राजन् श्रुत्वा भगवतः उदितम् ।
दृष्ट्वा अरिष्टानि घोराणि नित्यम् कृष्णम् अनुव्रतः ॥ 40 ॥

विविक्ते उपसङ्गम्य जगताम् ईश्वर-ईश्वरम् ।
प्रणम्य शिरसा पादौ प्राञ्जलिः तम् अभाषत ॥ 41 ॥

श्री-उद्धवः उवाच

देव-देव-ईश योग-ईश पुण्य-श्रवण-कीर्तन ।
संहृत्य एतत् कुलम् नूनम् लोकम् सन्त्यक्ष्यते भवान् ।
विप्र-शापम् समर्थः अपि प्रत्यहन् न यत् ईश्वरः ॥ 42 ॥

न अहम् तव अङ्घ्रि-कमलम् क्षण-अर्धम् अपि केशव ।
त्यक्तुम् समुत्सहे नाथ स्व-धाम नय माम् अपि ॥ 43 ॥

तव विक्रीडितम् कृष्ण नृणाम् परम-मङ्गलम् ।
कर्ण-पीयूषम् आसाद्य त्यजन्ति अन्य-स्पृहाम् जनाः ॥ 44 ॥

शय्या-आसन-आटन-स्थान स्नान-क्रीडा-आशन-आदिषु ।
कथम् त्वाम् प्रिय-आत्मानम् वयम् भक्ताः त्यजेमहि ॥ 45 ॥

त्वया उपभुक्त स्रक्-गन्ध-वासः अलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनः दासाः तव मायाम् जयेमहि ॥ 46 ॥

वात-रशनाः ये ऋषयः श्रमणाः ऊर्ध्व-मन्थिनः ।
ब्रह्म-अख्यम् धाम ते यान्ति शान्ताः संन्यासिनः अमलाः ॥ 47 ॥

वयम् तु इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु ।
त्वत्-वार्तया तरिष्यामः तावकैः दुस्तरम् तमः ॥ 48 ॥

स्मरन्तः कीर्तयन्तः ते कृतानि गदितानि च ।
गति-उत्स्मित-ईक्षण-क्ष्वेलि यत् नृ-लोक-विडम्बनम् ॥ 49 ॥

श्री-शुकः उवाच

एवम् विज्ञापितः राजन् भगवान् देवकी-सुतः ।
एकान्तिनम् प्रियम् भृत्यम् उद्धवम् समभाषत ॥ 50 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे षष्ठः अध्यायः ॥ 6 ॥


ஸ்கந்தம் 11: அத்யாயம் 5 (பூஜா விதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பூஜா விதி

ஸ்கந்தம் 11: அத்யாயம் 5

 

श्री-राजा उवाच

भगवन्तम् हरिम् प्रायः न भजन्ति आत्म-वित्तमाः । तेषाम् अशान्त-कामानाम् का निष्ठा अ-विजित-आत्मनाम् ॥ 1 ॥

श्री-चमसः उवाच

मुख-बाहु-ऊरु-पादेभ्यः पुरुषस्य आश्रमैः सह । चत्वारः जज्ञिरे वर्णाः गुणैः विप्र-आदयः पृथक् ॥ 2 ॥

यः एषाम् पुरुषम् साक्षात् आत्म-प्रभवम् ईश्वरम् । न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधः ॥ 3 ॥

दूरे हरि-कथाः केचित् दूरे च अच्युत-कीर्तनाः । स्त्रियः शूद्र-आदयः च एव ते अनुकम्प्याः भवत्-आदृशाम् ॥ 4 ॥

विप्रः राजन्यः वैश्यः च हरेः प्राप्ताः पद-अन्तिकम् । श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नाय-वादिनः ॥ 5 ॥

कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डित-मानिनः । वदन्ति चाटुकान् मूढाः यया माध्व्या गिरा उत्सुकाः ॥ 6 ॥

रजसा घोर-सङ्कल्पाः कामुकाः अहि-मन्यवः । दाम्भिकाः मानिनः पापाः विहसन्ति अच्युत-प्रियान् ॥ 7 ॥

वदन्ति ते अन्योन्यम् उपासिताः स्त्रियः गृहेषु मैथुन्य-परेषु च आशिषः । यजन्ति असृष्टान् अविधान-दक्षिणम् वृत्त्यै परम् घ्नन्ति पशून् अ-तत्-विदः ॥ 8 ॥

श्रिया विभूत्या अभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जात-स्मयेन अन्ध-धियः सह ईश्वरान् सताम् अवमन्यन्ति हरि-प्रियान् खलाः ॥ 9 ॥

सर्वेषु शश्वत् तनु-भृत्सु अवस्थितम् यथा खम् आत्मानम् अभीष्टम् ईश्वरम् । वेद-उपगीतं च न शृण्वन्ति अबुधाः मनोरथानाम् प्रवदन्ति वार्तया ॥ 10 ॥

लोके व्यवाय-आमिष-मद्य-सेवा नित्याः तु जन्तोः न हि तत्र चोदना । व्यवस्थितिः तेषु विवाह-यज्ञ- सुरा-ग्रहैः आसु निवृत्तिः इष्टा ॥ 11 ॥

धनम् च धर्म-एक-फलम् यतः वै ज्ञानम् स-विज्ञानम् अनुप्रशान्तिः । गृहेषु युञ्जन्ति कलेवरस्य मृत्युम् न पश्यन्ति दुरन्त-वीर्यम् ॥ 12 ॥

यत् घ्राण-भक्षः विहितः सुरायाः तथा पशोः आलभनम् न हिंसा । एवम् व्यवायः प्रजया न रत्या इमम् विशुद्धम् न विदुः स्व-धर्मम् ॥ 13 ॥

ये तु अनेवं-विदः असन्तः स्तब्धाः सत्-अभिमानिनः । पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ 14 ॥

द्विषन्तः पर-कायेषु स्व-आत्मानम् हरिम् ईश्वरम् । मृतके स-अनुबन्धे अस्मिन् बद्ध-स्नेहाः पतन्ति अधः ॥ 15 ॥

ये कैवल्यम् असम्प्राप्ताः ये च अतीताः च मूढताम् । त्रैवर्गिकाः हि अक्षणिकाः आत्मानम् घातयन्ति ते ॥ 16 ॥

एते आत्म-हनः अशान्ताः अज्ञाने ज्ञान-मानिनः । सीदन्ति अ-कृत-कृत्याः वै काल-ध्वस्त-मनोरथाः ॥ 17 ॥

हित्वा अति-आयास-रचिताः गृह-अपत्य-सुहृत्-श्रियः । तमः विशन्ति अनिच्छन्तः वासुदेव-पराङ्-मुखाः ॥ 18 ॥

श्री-राजा उवाच

कस्मिन् काले सः भगवान् किम् वर्णः कीदृशः नृभिः । नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ 19 ॥

श्री-करभाजनः उवाच

कृतम् त्रेता द्वापरम् च कलिः इति एषु केशवः । नाना-वर्ण-अभिधा-आकारः नाना एव विधिना इज्यते ॥ 20 ॥

कृते शुक्लः चतुर्बाहुः जटिलः वल्कल-अम्बरः । कृष्ण-अजिन-उपवीत-अक्षान् बिभ्रत् दण्ड-कमण्डलू ॥ 21 ॥

मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः । यजन्ति तपसा देवम् शमेन च दमेन च ॥ 22 ॥

हंसः सुपर्णः वैकुण्ठः धर्मः योग-ईश्वरः अमलः । ईश्वरः पुरुषः अव्यक्तः परम-आत्मा इति गीयते ॥ 23 ॥

त्रेतायाम् रक्त-वर्णः असौ चतुर्बाहुः त्रि-मेखलः । हिरण्य-केशः त्रय्या-आत्मा स्रुक्-स्रुव-आदि-उपलक्षणः ॥ 24 ॥

तम् तदा मनुजाः देवम् सर्व-देव-मयम् हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्म-वादिनः ॥ 25 ॥

विष्णुः यज्ञः पृश्नि-गर्भः सर्व-देवः उरु-क्रमः । वृषाकपिः जयन्तः च उरु-गायः इति ईर्यते ॥ 26 ॥

द्वापरे भगवान् श्यामः पीत-वासा निज-आयुधः । श्रीवत्स-आदिभिः अङ्कैः च लक्षणैः उपलक्षितः ॥ 27 ॥

तम् तदा पुरुषम् मर्त्याः महा-राज-उपलक्षणम् । यजन्ति वेद-तन्त्राभ्याम् परम् जिज्ञासवः नृप ॥ 28 ॥

नमः ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नाय अनिरुद्धाय तुभ्यम् भगवते नमः ॥ 29 ॥

नारायणाय ऋषये पुरुषाय महा-आत्मने । विश्व-ईश्वराय विश्वाय सर्व-भूत-आत्मने नमः ॥ 30 ॥

इति द्वापरे उर्वी-ईश स्तुवन्ति जगत्-ईश्वरम् । नाना-तन्त्र-विधानेन कलौ अपि यथा शृणु ॥ 31 ॥

कृष्ण-वर्णम् त्विषा अ-कृष्णम् स-अङ्ग-उपाङ्ग-अस्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैः यजन्ति हि सु-मेधसः ॥ 32 ॥

ध्येयम् सदा परिभव-घ्नम् अभीष्ट-दोहम् तीर्थ-आस्पदम् शिव-विरिञ्चि-नुतम् शरण्यम् । भृत्य-आर्ति-हम् प्रणत-पाल भव-अब्धि-पोतम् वन्दे महा-पुरुष ते चरण-अरविन्दम् ॥ 33 ॥

त्यक्त्वा सु-दुस्त्यज-सुर-इप्सित-राज्य-लक्ष्मीम् धर्मिष्ठः आर्य-वचसा यत् अगात् अरण्यम् । माया-मृगम् दयितया इप्सितम् अन्वधावत् वन्दे महा-पुरुष ते चरण-अरविन्दम् ॥ 34 ॥

एवम् युग-अनुरूपाभ्याम् भगवान् युग-वर्तिभिः । मनुजैः इज्यते राजन् श्रेयसाम् ईश्वरः हरिः ॥ 35 ॥

कलिम् सभाजयन्ति आर्याः गुण-ज्ञाः सार-भागिनः । यत्र सङ्कीर्तनेन एव सर्वः स्व-अर्थः अभिलभ्यते ॥ 36 ॥

न हि अतः परमः लाभः देहिनाम् भ्राम्यताम् इह । यतः विन्देत परमाम् शान्तिम् नश्यति संसृतिः ॥ 37 ॥

कृत-आदिषु प्रजाः राजन् कलौ इच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायण-परायणाः ॥ 38 ॥

क्वचित् क्वचित् महा-राज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृत-माला पयस्विनी ॥ 39 ॥

कावेरी च महा-पुण्या प्रतीची च महा-नदी । ये पिबन्ति जलम् तासाम् मनुजाः मनुज-ईश्वर । प्रायः भक्ताः भगवति वासुदेवे अमल-आशयाः ॥ 40 ॥

देव-ऋषि-भूत-आप्त-नृणाम् पितॄणाम् न किङ्करः न अयम् ऋणी च राजन् । सर्व-आत्मना यः शरणम् शरण्यम् गतः मुकुन्दम् परिहृत्य कर्तम् ॥ 41 ॥

स्व-पाद-मूलम् भजतः प्रियस्य त्यक्त-अन्य-भावस्य हरिः परेशः । विकर्म यत् च उत्पतितम् कथञ्चित् धुनोति सर्वम् हृदि सन्निविष्टः ॥ 42 ॥

श्री-नारदः उवाच

धर्मान् भागवतान् इत्थम् श्रुत्वा अथ मिथिला-ईश्वरः । जायन्तेयान् मुनीन् प्रीतः स-उपाध्यायः हि अपूजयत् ॥ 43 ॥

ततः अन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः । राजा धर्मान् उपातिष्ठन् अवाप परमाम् गतिम् ॥ 44 ॥

त्वम् अपि एतान् महा-भाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तः निः-सङ्गः यास्यसे परम् ॥ 45 ॥

युवयोः खलु दम्पत्योः यशसा पूरितम् जगत् । पुत्रताम् अगमत् यत् वाम् भगवान् ईश्वरः हरिः ॥ 46 ॥

दर्शन-आलिङ्गन-आलापैः शयन-आसन-भोजनैः । आत्मा वाम् पावितः कृष्णे पुत्र-स्नेहम् प्रकुर्वतोः ॥ 47 ॥

वैरेण यम् नृपतयः शिशुपाल-पौण्ड्र- शाल्व-आदयः गति-विलास-विलोकन-आद्यैः । ध्यायन्तः आकृत-धियः शयन-आसन-आदौ तत्-साम्यम् आपुः अनुरक्त-धियाम् पुनः किम् ॥ 48 ॥

मा अपत्य-बुद्धिम् अकृथाः कृष्णे सर्व-आत्मनि ईश्वरे । माया-मनुष्य-भावेन गूढ-ऐश्वर्ये परे अव्यये ॥ 49 ॥

भू-भार-असुर-राजन्य-हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ 50 ॥

श्री-शुकः उवाच

एतत् श्रुत्वा महा-भागः वसुदेवः अति-विस्मितः । देवकी च महा-भागा जहतुः मोहम् आत्मनः ॥ 51 ॥

इतिहासम् इमम् पुण्यम् धारयेत् यः समाहितः । सः विधूय इह शमलम् ब्रह्म-भूयाय कल्पते ॥ 52 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम् एकादश-स्कन्धे पञ्चमः अध्यायः ॥ 5 ॥


ஸ்கந்தம் 11: அத்யாயம் 4 (பகவானின் வர்ணனை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பகவானின் வர்ணனை

ஸ்கந்தம் 11: அத்யாயம் 4

 

श्री-राजा उवाच

यानि यानि इह कर्माणि यैः यैः स्वच्छन्द-जन्मभिः । चक्रे करोति कर्ता वा हरिः तानि ब्रुवन्तु नः ॥ 1 ॥

श्री-द्रुमिलः उवाच

यः वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् सः तु बाल-बुद्धिः । रजांसि भूमेः गणयेत् कथञ्चित् कालेन न एव अखिल-शक्ति-धाम्नः ॥ 2 ॥

भूतैः यदा पञ्चभिः आत्म-सृष्टैः पुरम् विराजम् विरचय्य तस्मिन् । स्व-अंशेन विष्टः पुरुष-अभिधानम् अवाप नारायणः आदि-देवः ॥ 3 ॥

यत्-कायः एषः भुवन-त्रय-सन्निवेशः यस्य इन्द्रियैः तनु-भृताम् उभय-इन्द्रियाणि । ज्ञानम् स्वतः श्वसनतः बलम् ओजः ईहा सत्त्व-आदिभिः स्थिति-लय-उद्भव आदि-कर्ता ॥ 4 ॥

आदौ अभूत् शत-धृतिः रजसा अस्य सर्गे विष्णुः स्थितौ क्रतु-पतिः द्विज-धर्म-सेतुः । रुद्रः अपि अप्ययाय तमसा पुरुषः सः आद्यः इति उद्भव-स्थिति-लयाः सततम् प्रजासु ॥ 5 ॥

धर्मस्य दक्ष-दुहितरि अजनिष्ट मूर्त्याम् नारायणः नर-ऋषि-प्रवरः प्रशान्तः । नैष्कर्म्य-लक्षणम् उवाच चचार कर्म यः अद्यापि च आस्ते ऋषि-वर्य-निषेवित-अङ्घ्रिः ॥ 6 ॥

इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति कामम् न्ययुङ्क्त स-गणम् सः बदरि-उपाख्यम् । गत्वा अप्सरः-गण-वसन्त-सुमन्द-वातैः स्त्री-प्रेक्षण-इषुभिः अविध्यत् अ-तत्-महिज्ञः ॥ 7 ॥

विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः प्राह प्रहस्य गत-विस्मय एजमानान् । मा भैष्ट भो मदन मारुत देव-वध्वः गृह्णीत नः बलिम् अशून्यम् इमम् कुरुध्वम् ॥ 8 ॥

इत्थम् ब्रुवति अभय-दे नर-देव देवाः स-व्रीड-नम्र-शिरसः स-घृणम् तम् ऊचुः । न एतत् विभो त्वयि परे अविकृते विचित्रम् स्व-आराम-धीर-निकर-अनत-पाद-पद्मे ॥ 9 ॥

त्वाम् सेवताम् सुर-कृताः बहवः अन्तरायाः स्व-ओकः विलङ्घ्य परमम् व्रजताम् पदम् ते । न अन्यस्य बर्हिषि बलीन् ददतः स्व-भागान् धत्ते पदम् त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ 10 ॥

क्षुत्-तृट्-त्रि-काल-गुण-मारुत-जैह्व्य-शैश्याः अस्मान् अपार-जलधीन् अतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वशम् पदे गोः मज्जन्ति दुश्चर-तपः च वृथा उत्सृजन्ति ॥ 11 ॥

इति प्रगृणताम् तेषाम् स्त्रियः अति-अद्भुत-दर्शनाः । दर्शयामास शुश्रूषाम् स्व-अर्चिताः कुर्वतीः विभुः ॥ 12 ॥

ते देव-अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः । गन्धेन मुमुहुः तासाम् रूप-औदार्य-हत-श्रियः ॥ 13 ॥

तान् आह देव-देव-ईशः प्रणतान् प्रहसन् इव । आसाम् एक-तमाम् वृण्ध्वम् स-वर्णाम् स्वर्ग-भूषणाम् ॥ 14 ॥

ॐ इति आदेशम् आदाय नत्वा तम् सुर-वन्दिनः । उर्वशीम् अप्सरः-श्रेष्ठाम् पुरस्कृत्य दिवम् ययुः ॥ 15 ॥

इन्द्राय अनम्य सदसि शृण्वताम् त्रि-दिव-ओकसाम् । ऊचुः नारायण-बलम् शक्रः तत्र आसीत् विस्मितः ॥ 16 ॥

हंस-स्वरूप्य अवदत् अच्युतः आत्म-योगम् दत्तः कुमारः ऋषभः भगवान् पिता नः । विष्णुः शिवाय जगताम् कलया अवतीर्णः तेन आहृताः मधु-भिदा श्रुतयः हय-आस्ये ॥ 17 ॥

गुप्तः अपि अये मनुः इला औषधयः च मात्स्ये क्रौडे हतः दितिजः उद्धरताम् अम्भसः क्ष्माम् । कौर्मे धृतः अद्रिः अमृत-उन्मथने स्व-पृष्ठे ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चत् आर्तम् ॥ 18 ॥

संस्तुन्वतः अब्धि-पतितान् श्रमणान् ऋषीन् च शक्रम् च वृत्र-वधतः तमसि प्रविष्टम् । देव-स्त्रियः असुर-गृहे पिहिताः अनाथाः जघ्ने असुर-इन्द्रम् अभयाय सताम् नृसिंहे ॥ 19 ॥

देव-असुरे युधि च दैत्य-पतीन् सुर-अर्थे हत्वा अन्तरेषु भुवनानि अदधात् कलाभिः । भूत्वा अथ वामनः इमाम् अहरत् बलेः क्ष्माम् याच्ञा-च्छलेन समदात् अदितेः सुतेभ्यः ॥ 20 ॥

निः-क्षत्रियाम् अकरोत् गाम् च त्रिः-सप्त-कृत्वः रामः तु हैहय-कुल-अप्यय-भार्गव-अग्निः । सः अब्धिम् बबन्ध दश-वक्त्रम् अहन् स-लङ्कम् सीता-पतिः जयति लोक-मल-घ्न-कीर्तिः ॥ 21 ॥

भूमेः भार-अवतरणाय यदुषु अजन्मा जातः करिष्यति सुरैः अपि दुष्कराणि । वादैः विमोहयति यज्ञ-कृतः अतत्-अर्हान् शूद्रान् कलौ क्षिति-भुजः न्यहनिष्यत् अन्ते ॥ 22 ॥

एवम्-विधानि कर्माणि जन्मानि च जगत्-पतेः । भूरीणि भूरि-यशसः वर्णितानि महा-भुज ॥ 23 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम् एकादश-स्कन्धे चतुर्थः अध्यायः ॥ 4 ॥


ஸ்கந்தம் 11: அத்யாயம் 3 (மோக்ஷ மார்க்கம், ரிஷப தேவரின் புத்திரர்கள் உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

மோக்ஷ மார்க்கம், ரிஷப தேவரின் புத்திரர்கள் உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 3

 

श्री-राजा उवाच

परस्य विष्णोः ईशस्य मायिनाम् अपि मोहिनीम् ।
मायाम् वेदितुम् इच्छामः भगवन्तः ब्रुवन्तु नः ॥ 1 ॥

न अनु-तृप्ये जुषन् युष्मत्-वचः हरि-कथा-अमृतम् ।
संसार-ताप-निस्तप्तः मर्त्यः तत्-ताप-भेषजम् ॥ 2 ॥

श्री-अन्तरिक्षः उवाच

एभिः भूतानि भूत-आत्मा महा-भूतैः महा-भुज ।
ससर्ज उच्च-अवचानि आद्यः स्व-मात्र-आत्म-प्रसिद्धये ॥ 3 ॥

एवम् सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः ।
एकधा दशधा आत्मानम् विभजन् जुषते गुणान् ॥ 4 ॥

गुणैः गुणान् सः भुञ्जानः आत्म-प्रद्योतितैः प्रभुः ।
मन्यमानः इदम् सृष्टम् आत्मानम् इह सज्जते ॥ 5 ॥

कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् ।
तत्-तत् कर्म-फलम् गृह्णन् भ्रमति इह सुख-इतरम् ॥ 6 ॥

इत्थम् कर्म-गतिः गच्छन् बहु-अभद्र-वहाः पुमान् ।
आ-भूत-सम्प्लवात् सर्ग-प्रलयौ अश्नुते अवशः ॥ 7 ॥

धातु-उपप्लवे आसन्ने व्यक्तम् द्रव्य-गुण-आत्मकम् ।
अनादि-निधनः कालः हि अव्यक्ताय अपकर्षति ॥ 8 ॥

शत-वर्षा हि अनावृष्टिः भविष्यति उल्बणा भुवि ।
तत्-काल-उपचित-उष्ण-अर्कः लोकान् त्रीन् प्रतपिष्यति ॥ 9 ॥

पाताल-तलम् आरभ्य सङ्कर्षण-मुख-अनलः ।
दहन् ऊर्ध्व-शिखः विष्वक् वर्धते वायु-नेरितः ॥ 10 ॥

सांवर्तकः मेघ-गणः वर्षति स्म शतम् समाः ।
धाराभिः हस्ति-हस्ताभिः लीयते सलिले विराट् ॥ 11 ॥

ततः विराजम् उत्सृज्य वैराजः पुरुषः नृप ।
अव्यक्तम् विशते सूक्ष्मम् निरिन्द्धनः इव अनलः ॥ 12 ॥

वायुना हृत-गन्धा भूः सलिलत्वाय कल्पते ।
सलिलम् तत् धृत-रसम् ज्योतिष्ट्वाय उपकल्पते ॥ 13 ॥

हृत-रूपम् तु तमसा वायौ ज्योतिः प्रलीयते ।
हृत-स्पर्शः अवकाशेन वायुः नभसि लीयते ॥ 14 ॥

काल-आत्मना हृत-गुणम् नभः आत्मनि लीयते ।
इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप ।
प्रविशन्ति हि अहङ्कारम् स्व-गुणैः अहम् आत्मनि ॥ 15 ॥

एषा माया भगवतः सर्ग-स्थिति-अन्त-कारिणी ।
त्रि-वर्णा वर्णिता अस्माभिः किम् भूयः श्रोतुम् इच्छसि ॥ 16 ॥

श्री-राजा उवाच

यथा एताम् ऐश्वरीम् मायाम् दुस्तराम् अ-कृत-आत्मभिः ।
तरन्ति अञ्जः स्थूल-धियः महर्षे इदम् उच्यताम् ॥ 17 ॥

श्री-प्रबुद्धः उवाच

कर्माणि आरभमाणानाम् दुःख-हत्यै सुखाय च ।
पश्येत् पाक-विपर्यासम् मिथुनी-चारिणाम् नृणाम् ॥ 18 ॥

नित्य-आर्ति-देन वित्तेन दुर्लभेन आत्म-मृत्युना ।
गृह-अपत्य-आप्त-पशुभिः का प्रीतिः साधितैः चलैः ॥ 19 ॥

एवम् लोकम् परम् विद्यात् नश्वरम् कर्म-निर्मितम् ।
स-तुल्य-अतिशय-ध्वंसम् यथा मण्डल-वर्तिनाम् ॥ 20 ॥

तस्मात् गुरुम् प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् ।
शाब्दे परे च निष्णातम् ब्रह्मणि उपशम-आश्रयम् ॥ 21 ॥

तत्र भागवतान् धर्मान् शिक्षेत् गुरु-आत्म-दैवतः ।
अमायया अनुवृत्त्या यैः तुष्येत् आत्मा आत्म-दः हरिः ॥ 22 ॥

सर्वतः मनसः असङ्गम् आदौ सङ्गम् च साधुषु ।
दयाम् मैत्रीम् प्रश्रयम् च भूतेषु अद्धा यथा-उचितम् ॥ 23 ॥

शौचम् तपः तितिक्षाम् च मौनम् स्वाध्यायम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसाम् च समत्वम् द्वन्द्व-संज्ञयोः ॥ 24 ॥

सर्वत्र आत्म-ईश्वर-अन्वीक्षाम् कैवल्यम् अनिकेतताम् ।
विविक्त-चीर-वसनम् सन्तोषम् येन केनचित् ॥ 25 ॥

श्रद्धाम् भागवते शास्त्रे अनिन्दाम् अन्यत्र च अपि हि ।
मनः-वाक्-कर्म-दण्डम् च सत्यम् शम-दमौ अपि ॥ 26 ॥

श्रवणम् कीर्तनम् ध्यानम् हरेः अद्भुत-कर्मणः ।
जन्म-कर्म-गुणानाम् च तत्-अर्थे अखिल-चेष्टितम् ॥ 27 ॥

इष्टम् दत्तम् तपः जप्तम् वृत्तम् यत् च आत्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ 28 ॥

एवम् कृष्ण-आत्म-नाथेषु मनुष्येषु च सौहृदम् ।
परिचर्याम् च उभयत्र महत्सु नृषु साधुषु ॥ 29 ॥

परस्पर-अनु-कथनम् पावनम् भगवत्-यशः ।
मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः ॥ 30 ॥

स्मरन्तः स्मारयन्तः च मिथः अघ-ओघ-हरम् हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकाम् तनुम् ॥ 31 ॥

क्वचित् रुदन्ति अच्युत-चिन्तया क्वचित्
हसन्ति नन्दन्ति वदन्ति अलौकिकाः ।
नृत्यन्ति गायन्ति अनुशीलयन्ति अजम्
भवन्ति तूष्णीम् परम् एत्य निर्वृताः ॥ 32 ॥

इति भागवतान् धर्मान् शिक्षन् भक्त्या तत्-उत्थया ।
नारायण-परः मायाम् अञ्जः तरति दुस्तराम् ॥ 33 ॥

श्री-राजा उवाच

नारायण-अभिधानस्य ब्रह्मणः परम-आत्मनः ।
निष्ठाम् अर्हथ नः वक्तुम् यूयम् हि ब्रह्म-वित्तमाः ॥ 34 ॥

श्री-पिप्पलायनः उवाच

स्थिति-उद्भव-प्रलय-हेतुः अहेतुः अस्य
यत् स्वप्न-जागर-सुषुप्तिषु सत् बहिः च ।
देह-इन्द्रिय-असु-हृदयानि चरन्ति येन
सञ्जीवितानि तत् अवेहि परम् नरेन्द्र ॥ 35 ॥

न एतत् मनः विशति वाक् उत चक्षुः आत्मा
प्राण-इन्द्रियाणि च यथा अनलम् अर्चिषः स्वाः ।
शब्दः अपि बोधक-निषेधतया आत्म-मूलम्
अर्थ-उक्तम् आह यत् ऋते न निषेध-सिद्धिः ॥ 36 ॥

सत्त्वम् रजः तमः इति त्रि-वृत् एकम् आदौ
सूत्रम् महान् अहम् इति प्रवदन्ति जीवम् ।
ज्ञान-क्रिया-अर्थ-फल-रूपतया उरु-शक्ति
ब्रह्म एव भाति सत्-असत् च तयोः परम् यत् ॥ 37 ॥

न आत्मा जजान न मरिष्यति न एधते असौ
न क्षीयते सवन-वित् व्यभिचारिणाम् हि ।
सर्वत्र शश्वत् अनपायी उपलब्धि-मात्रम्
प्राणः यथा इन्द्रिय-बलेन विकल्पितम् सत् ॥ 38 ॥

अण्डेषु पेशिषु तरुषु अविनिश्चितेषु
प्राणः हि जीवम् उपधावति तत्र तत्र ।
सन्ने यत् इन्द्रिय-गणे अहम् इति च प्रसुप्ते
कूटस्थः आशयम् ऋते तत् अनुस्मृतिः नः ॥ 39 ॥

यर्हि अब्ज-नाभ-चरण-एषणया उरु-भक्त्या
चेतः-मलानि विधमेत् गुण-कर्म-जानि ।
तस्मिन् विशुद्धे उपलभ्यते आत्म-तत्त्वम्
साक्षात् यथा अमल-दृशोः सवितृ-प्रकाशः ॥ 40 ॥

श्री-राजा उवाच

कर्म-योगम् वदत नः पुरुषः येन संस्कृतः ।
विधूय इह आशु कर्माणि नैष्कर्म्यम् विन्दते परम् ॥ 41 ॥

एवम् प्रश्नम् ऋषीन् पूर्वम् अपृच्छम् पितुः अन्तिके ।
न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणम् उच्यताम् ॥ 42 ॥

श्री-आविहोत्रः उवाच

कर्म-अकर्म-विकर्म इति वेद-वादः न लौकिकः ।
वेदस्य च ईश्वर-आत्मत्वात् तत्र मुह्यन्ति सूरयः ॥ 43 ॥

परोक्ष-वादः वेदः अयम् बालानाम् अनुशासनम् ।
कर्म-मोक्षाय कर्माणि विधत्ते हि अगदम् यथा ॥ 44 ॥

न आचरेत् यः तु वेद-उक्तम् स्वयम् अज्ञः अजित-इन्द्रियः ।
विकर्मणा हि अधर्मेण मृत्योः मृत्युम् उपैति सः ॥ 45 ॥

वेद-उक्तम् एव कुर्वाणः निः-सङ्गः अर्पितम् ईश्वरे ।
नैष्कर्म्यम् लभते सिद्धिम् रोचन-अर्था फल-श्रुतिः ॥ 46 ॥

यः आशु हृदय-ग्रन्थिम् निर्जिहीर्षुः पर-आत्मनः ।
विधिना उपचरेत् देवं तन्त्र-उक्तेन च केशवम् ॥ 47 ॥

लब्ध-अनुग्रहः आचार्यात् तेन सन्दर्शित-आगमः ।
महा-पुरुषम् अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ 48 ॥

शुचिः सम्मुखम् आसीनः प्राण-संयमन-आदिभिः ।
पिण्डम् विशोध्य संन्यास-कृत-रक्षः अर्चयेत् हरिम् ॥ 49 ॥

अर्चा-आदौ हृदये च अपि यथा-लब्ध-उपचारकैः ।
द्रव्य-क्षिति-आत्म-लिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम् ॥ 50 ॥

पाद्य-आदीन् उपकल्प्य अथ सन्निधाप्य समाहितः ।
हृद्-आदिभिः कृत-न्यासः मूल-मन्त्रेण च अर्चयेत् ॥ 51 ॥

स-अङ्ग-उपाङ्गाम् स-पार्षदाम् ताम् ताम् मूर्तिम् स्व-मन्त्रतः ।
पाद्य-अर्घ्य-आचमनीय-आद्यैः स्नान-वसः-विभूषणैः ॥ 52 ॥

गन्ध-माल्य-अक्षत-स्रग्भिः धूप-दीप-उपहारकैः ।
स-अङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ 53 ॥

आत्मानम् तत्-मयम् ध्यायन् मूर्तिम् सम्पूजयेत् हरेः ।
शेषाम् आधाय शिरसा स्व-धाम्नि उद्वास्य सत्-कृतम् ॥ 54 ॥

एवम् अग्नि-अर्क-तोय-आदौ अतिथौ हृदये च यः ।
यजति ईश्वरम् आत्मानम् अचिरात् मुच्यते हि सः ॥ 55 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
एकादश-स्कन्धे तृतीयः अध्यायः ॥ 3 ॥


ஸ்கந்தம் 11: அத்யாயம் 2 (நிமி சக்கரவர்த்தி, ரிஷப தேவரின் புத்திரர்கள் சம்வாதம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 நிமி சக்கரவர்த்தி, ரிஷப தேவரின் புத்திரர்கள் சம்வாதம்

ஸ்கந்தம் 11: அத்யாயம் 2

श्री-शुकः उवाच

गोविन्द-भुज-गुप्तायाम् द्वारवत्याम् कुरु-उद्वह ।
अवात्सीत् नारदः अभीक्ष्णम् कृष्ण-उपासन-लालसः ॥ 1 ॥

कः नु राजन् इन्द्रिय-वान् मुकुन्द-चरण-अम्बुजम् ।
न भजेत् सर्वतः मृत्युः उपास्यम् अमर-उत्तमैः ॥ 2 ॥

तम् एकदा तु देव-ऋषिम् वसुदेवः गृह-आगतम् ।
अर्चितम् सुखम् आसीनम् अभिवाद्य इदम् अब्रवीत् ॥ 3 ॥

श्री-वसुदेवः उवाच

भगवन् भवतः यात्रा स्वस्तये सर्व-देहिनाम् ।
कृपणानाम् यथा पित्रोः उत्तम-श्लोक-वर्त्मनाम् ॥ 4 ॥

भूतानाम् देव-चरितम् दुःखाय च सुखाय च ।
सुखाय एव हि साधूनाम् त्वादृशाम् अच्युत-आत्मनाम् ॥ 5 ॥

भजन्ति ये यथा देवान् देवाः अपि तथा एव तान् ।
छाया इव कर्म-सचिवाः साधवः दीन-वत्सलाः ॥ 6 ॥

ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव ।
यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः-भयात् ॥ 7 ॥

अहम् किल पुरा अनन्तम् प्रजा-अर्थः भुवि मुक्ति-दम् ।
अपूजयम् न मोक्षाय मोहितः देव-मायया ॥ 8 ॥

यथा विचित्र-व्यसनात् भवद्भिः विश्वतः-भयात् ।
मुच्येम हि अञ्जसा एव अद्य तथा नः शाधि सुव्रत ॥ 9 ॥

श्री-शुकः उवाच

राजन् एवम् कृत-प्रश्नः वसुदेवेन धीमता ।
प्रीतः तम् आह देव-ऋषिः हरेः संस्मारितः गुणैः ॥ 10 ॥

श्री-नारदः उवाच

सम्यक् एतत् व्यवसितम् भवता सात्वत-ऋषभ ।
यत् पृच्छसे भागवतान् धर्मान् त्वम् विश्व-भावनान् ॥ 11 ॥

श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः ।
सद्यः पुनाति सत्-धर्मः देव विश्व-द्रुहः अपि हि ॥ 12 ॥

त्वया परम-कल्याणः पुण्य-श्रवण-कीर्तनः ।
स्मारितः भगवान् अद्य देवः नारायणः मम ॥ 13 ॥

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् ।
आर्षभाणाम् च संवादम् विदेहस्य महात्मनः ॥ 14 ॥

प्रिय-व्रतः नाम सुतः मनोः स्वायम्भुवस्य यः ।
तस्य अग्नीध्रः ततः नाभिः ऋषभः तत्-सुतः स्मृतः ॥ 15 ॥

तम् आहुः वासुदेव-अंशम् मोक्ष-धर्म-विवक्षया ।
अवतीर्णम् सुत-शतम् तस्य आसीत् ब्रह्म-पारगम् ॥ 16 ॥

तेषाम् वै भरतः ज्येष्ठः नारायण-परायणः ।
विख्यातम् वर्षम् एतत् यत् नाम्ना भारतम् अद्भुतम् ॥ 17 ॥

सः भुक्त-भोगाम् त्यक्त्वा इमाम् निर्गतः तपसा हरिम् ।
उपासीनः तत्-पदवीम् लेभे वै जन्मभिः त्रिभिः ॥ 18 ॥

तेषाम् नव नव-द्वीप-पतयः अस्य समन्ततः ।
कर्म-तन्त्र-प्रणेतारः एक-अशीतिः द्विजातयः ॥ 19 ॥

नव अभवन् महा-भागाः मुनयः हि अर्थ-शंसिनः ।
श्रमणाः वात-रशनाः आत्म-विद्या-विशारदाः ॥ 20 ॥

कविः हरिः अन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रः अथ द्रुमिलः च चमसः करभाजनः ॥ 21 ॥

ते एते भगवत्-रूपम् विश्वम् सत्-असत्-आत्मकम् ।
आत्मनः अव्यतिरेकेण पश्यन्तः व्यचरन् महीम् ॥ 22 ॥

अव्याहत-इष्ट-गतयः सुर-सिद्ध-साध्य-
गन्धर्व-यक्ष-नर-किंनर-नाग-लोकान् ।
मुक्ताः चरन्ति मुनि-चारण-भूत-नाथ-
विद्याधर-द्विज-गवाम् भुवनानि कामम् ॥ 23 ॥

ते एकदा निमेः सत्रम् उपजग्मुः यदृच्छया ।
वितायमानम् ऋषिभिः अजनाभे महात्मनः ॥ 24 ॥

तान् दृष्ट्वा सूर्य-संकाशान् महा-भागवतान् नृप ।
यजमानः अग्नयः विप्राः सर्वे एव उपतस्थिरे ॥ 25 ॥

विदेहः तान् अभिप्रेत्य नारायण-परायणान् ।
प्रीतः सम्पूजयाम् चक्रे आसन-स्थान् यथा-अर्हतः ॥ 26 ॥

तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्र-उपमान् नव ।
पप्रच्छ परम-प्रीतः प्रश्रय-अवनतः नृपः ॥ 27 ॥

श्री-विदेहः उवाच

मन्ये भगवतः साक्षात् पार्षदान् वः मधु-द्विषः ।
विष्णोः भूतानि लोकानाम् पावनाय चरन्ति हि ॥ 28 ॥

दुर्लभः मानुषः देहः देहिनाम् क्षण-भङ्गुरः ।
तत्र अपि दुर्लभम् मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥ 29 ॥

अतः आत्यन्तिकम् क्षेमम् पृच्छामः भवतः अनघाः ।
संसारे अस्मिन् क्षण-अर्धः अपि सत्-सङ्गः शेवधिः नृणाम् ॥ 30 ॥

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानम् अपि अजः ॥ 31 ॥

श्री-नारदः उवाच

एवम् ते निमिना पृष्टाः वसुदेव महत्तमाः ।
प्रतिपूज्य अब्रुवन् प्रीत्या स-सदस्य-ऋत्विजम् नृपम् ॥ 32 ॥

श्री-कविः उवाच

मन्ये अकुतश्चित् भयम् अच्युतस्य
पाद-अम्बुज-उपासनम् अत्र नित्यम् ।
उद्विग्न-बुद्धेः असत्-आत्म-भावात्
विश्व-आत्मना यत्र निवर्तते भीः ॥ 33 ॥

ये वै भगवता प्रोक्ताः उपायाः हि आत्म-लब्धये ।
अञ्जः पुंसाम् अविदुषाम् विद्धि भागवतान् हि तान् ॥ 34 ॥

यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेत् न पतति इह ॥ 35 ॥

कायेन वाचा मनसा इन्द्रियैः वा
बुद्ध्या आत्मना वा अनुसृत-स्वभावात् ।
करोति यत् यत् सकलम् परस्मै
नारायणाय इति समर्पयेत् तत् ॥ 36 ॥

भयम् द्वितीय-अभिनिवेशतः स्यात्
ईशात् अपेतस्य विपर्ययः अस्मृतिः ।
तत् मायया अतः बुधः आभजेत् तम्
भक्त्या एकया ईशम् गुरु-देवता-आत्मा ॥ 37 ॥

अविद्यमानः अपि अवभाति हि द्वयोः
ध्यातुः धिया स्वप्न-मनोरथौ यथा ।
तत् कर्म-सङ्कल्प-विकल्पकम् मनः
बुधः निरुन्ध्यात् अभयम् ततः स्यात् ॥ 38 ॥

श्रृण्वन् सु-भद्राणि रथ-अङ्ग-पाणेः
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तत्-अर्थकानि
गायन् विलज्जः विचरेत् असङ्गः ॥ 39 ॥

एवम्-व्रतः स्व-प्रिय-नाम-कीर्त्या
जात-अनुरागः द्रुत-चित्तः उच्चैः ।
हसति अथ रोदिति रौति गायति
उन्माद-वत् नृत्यति लोक-बाह्यः ॥ 40 ॥

खम् वायुम् अग्निम् सलिलम् महीम् च
ज्योतींषि सत्त्वानि दिशः द्रुम-आदीन् ।
सरित्-समुद्रान् च हरेः शरीरम्
यत् किञ्चित् भूतम् प्रणमेत् अनन्यः ॥ 41 ॥

भक्तिः पर-ईश-अनुभवः विरक्तिः
अन्यत्र च एषः त्रिकः एक-कालः ।
प्रपद्यमानस्य यथा अश्नतः स्युः
तुष्टिः पुष्टिः क्षुत्-अपायः अनु-घासम् ॥ 42 ॥

इति अच्युत-अङ्घ्रिम् भजतः अनुवृत्त्या
भक्तिः विरक्तिः भगवत्-प्रबोधः ।
भवन्ति वै भागवतस्य राजन्
ततः पराम् शान्तिम् उपैति साक्षात् ॥ 43 ॥

श्री-राजा उवाच

अथ भागवतम् ब्रूत यत् धर्मः यादृशः नृणाम् ।
यथा चरति यत् ब्रूते यैः लिङ्गैः भगवत्-प्रियः ॥ 44 ॥

श्री-हरिः उवाच

सर्व-भूतेषु यः पश्येत् भगवत्-भावम् आत्मनः ।
भूतानि भगवति आत्मनि एषः भागवत-उत्तमः ॥ 45 ॥

ईश्वरे तत्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपा-उपेक्षा यः करोति सः मध्यमः ॥ 46 ॥

अर्चायाम् एव हरये पूजाम् यः श्रद्धया इहते ।
न तत्-भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः ॥ 47 ॥

गृहीत्वा अपि इन्द्रियैः अर्थान् यः न द्वेष्टि न हृष्यति ।
विष्णोः मायाम् इदम् पश्यन् सः वै भागवत-उत्तमः ॥ 48 ॥

देह-इन्द्रिय-प्राण-मनः-धियाम् यः
जन्म-अप्यय-क्षुत्-भय-तर्ष-कृच्छ्रैः ।
संसार-धर्मैः अविमुह्यमानः
स्मृत्या हरेः भागवत-प्रधानः ॥ 49 ॥

न काम-कर्म-बीजानाम् यस्य चेतसि सम्भवः ।
वासुदेव-एक-निलयः सः वै भागवत-उत्तमः ॥ 50 ॥


न यस्य जन्म-कर्मभ्याम् न वर्ण-आश्रम-जातिभिः ।
सज्जते अस्मिन् अहम्-भावः देहे वै सः हरेः प्रियः ॥ 51 ॥

न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा ।
सर्व-भूत-समः शान्तः सः वै भागवत-उत्तमः ॥ 52 ॥

त्रि-भुवन-विभव-हेतवे अपि अकुण्ठ-स्मृतिः
अजित-आत्म-सुर-आदिभिः विमृग्यात् ।
न चलति भगवत्-पाद-अरविन्दात्
लव-निमिष-अर्धम् अपि यः सः वैष्णव-अग्र्यः ॥ 53 ॥

भगवतः उरु-विक्रम-अङ्घ्रि-शाखा-
नख-मणि-चन्द्रिकया निरस्त-तापे ।
हृदि कथम् उपसीदताम् पुनः सः
प्रभवति चन्द्रः इव उदिते अर्क-तापः ॥ 54 ॥

विसृजति हृदयम् न यस्य साक्षात्
हरिः अवश-अभिहितः अपि अघ-ओघ-नाशः ।
प्रणय-रशनया धृत-अङ्घ्रि-पद्मः
सः भवति भागवत-प्रधानः उक्तः ॥ 55 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
एकादश-स्कन्धे द्वितीयः अध्यायः ॥ 2 ॥


ஸ்கந்தம் 11: அத்யாயம் 1 (யது குல சாபம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

யது குல சாபம்

ஸ்கந்தம் 11: அத்யாயம் 1

श्री-बादरायणिः उवाच

कृत्वा दैत्य-वधम् कृष्णः स-रामः यदुभिः वृतः ।
भुवः अवतारयत् भारम् जविष्ठम् जनयन् कलिम् ॥ 1 ॥

ये कोपिताः सु-बहु पाण्डु-सुताः स-पत्नैः
दुर्-द्यूत-हेलन-कच-ग्रहण-आदिभिः तान् ।
कृत्वा निमित्तम् इतरेतरतः समेतान्
हत्वा नृपान् निरहरत् क्षिति-भारम् ईशः ॥ 2 ॥

भू-भार-राज-पृतनाः यदुभिः निरस्य
गुप्तैः स्व-बाहुभिः अचिन्तयत् अप्रमेयः ।
मन्ये अवनेः ननु गतः अपि अगतम् हि भारम्
यत् यादवम् कुलम् अहो अविषह्यम् आस्ते ॥ 3 ॥

न एव अन्यतः परिभवः अस्य भवेत् कथञ्चित्
मत्-संश्रयस्य विभव-उन्नहनस्य नित्यम् ।
अन्तः कलिम् यदु-कुलस्य विधाय वेणु-
स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥ 4 ॥

एवम् व्यवसितः राजन् सत्य-सङ्कल्पः ईश्वरः ।
शाप-व्याजेन विप्राणाम् संजह्रे स्व-कुलम् विभुः ॥ 5 ॥

स्व-मूर्त्या लोक-लावण्य-निर्मुक्त्या लोचनम् नृणाम् ।
गीर्भिः ताः स्मरताम् चित्तम् पदैः तानि ईक्षताम् क्रियाः ॥ 6 ॥

आच्छिद्य कीर्तिम् सु-श्लोकाम् वितत्य हि अञ्जसा नु कौ ।
तमः अनया तरिष्यन्ति इति अगात् स्वम् पदम् ईश्वरः ॥ 7 ॥

श्री-राजा उवाच

ब्रह्मण्यानाम् वदान्यानाम् नित्यम् वृद्ध-उपसेविनाम् ।
विप्र-शापः कथम् अभूत् वृष्णीनाम् कृष्ण-चेतसाम् ॥ 8 ॥

यत्-निमित्तः सः वै शापः यादृशः द्विज-सत्तम ।
कथम् एक-आत्मनाम् भेदः एतत् सर्वम् वदस्व मे ॥ 9 ॥

श्री-शुकः उवाच

बिभ्रत् वपुः सकल-सुन्दर-सन्निवेशम्
कर्म आचरन् भुवि सु-मङ्गलम् आप्त-कामः ।
आस्थाय धाम रममाणः उदार-कीर्तिः
संहर्तुम् ऐच्छत् कुलम् स्थित-कृत्य-शेषः ॥ 10 ॥

कर्माणि पुण्य-निवहानि सु-मङ्गलानि
गायज्-जगत्-कलि-मल-अपहराणि कृत्वा ।
काल-आत्मना निवसता यदु-देव-गेहे
पिण्डारकम् समगमन् मुनयः निसृष्टाः ॥ 11 ॥

विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अङ्गिराः ।
कश्यपः वामदेवः अत्रिः वसिष्ठः नारद-आदयः ॥ 12 ॥

क्रीडन्तः तान् उपव्रज्य कुमाराः यदु-नन्दनाः ।
उप-संगृह्य पप्रच्छुः अविनीता विनीत-वत् ॥ 13 ॥

ते वेषयित्वा स्त्री-वेषैः साम्बम् जाम्बवती-सुतम् ।
एषा पृच्छति वः विप्राः अन्तर्-वत्नि असित-ईक्षणा ॥ 14 ॥

प्रष्टुम् विलज्जती साक्षात् प्रब्रूत अमोघ-दर्शनाः ।
प्रसोष्यन्ती पुत्र-कामा किम् स्वित् सञ्जनयिष्यति ॥ 15 ॥

एवम् प्रलब्धाः मुनयः तान् ऊचुः कुपिताः नृप ।
जनयिष्यति वः मन्दाः मुसलम् कुल-नाशनम् ॥ 16 ॥

तत् श्रुत्वा ते अति-सन्त्रस्ताः विमुच्य सह-उदरम् ।
साम्बस्य ददृशुः तस्मिन् मुसलम् खलु अयस्-मयम् ॥ 17 ॥

किम् कृतम् मन्द-भाग्यैः नः किम् वदिष्यन्ति नः जनाः ।
इति विह्वलिताः गेहान् आदाय मुसलम् ययुः ॥ 18 ॥

तत् च उपनीय सदसि परिम्लान-मुख-श्रियम् ।
राज्ञे आवेदयाम् चक्रुः सर्व-यादव-सन्निधौ ॥ 19 ॥

श्रुत्वा अमोघम् विप्र-शापम् दृष्ट्वा च मुसलम् नृप ।
विस्मिताः भय-सन्त्रस्ताः बभूवुः द्वारका-ओकसः ॥ 20 ॥

तत् चूर्णयित्वा मुसलम् यदु-राजः सः आहुकः ।
समुद्र-सलिले प्रास्यत् लोहम् च अस्य अवशेषितम् ॥ 21 ॥

कश्चित् मत्स्यः अग्रसीत् लोहम् चूर्णानि तरलैः ततः ।
उह्यमानानि वेलायाम् लग्नानि आसन् किल एरकाः ॥ 22 ॥

मत्स्यः गृहीतः मत्स्य-घ्नैः जालेन अन्यैः सह अर्णवे ।
तस्य उदर-गतम् लोहम् सः शल्ये लुब्धकः अकरोत् ॥ 23 ॥

भगवान् ज्ञात-सर्व-अर्थः ईश्वरः अपि तत् अन्यथा ।
कर्तुम् न ऐच्छत् विप्र-शापम् काल-रूपी अन्वमोदत् ॥ 24 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
एकादश-स्कन्धे प्रथमः अध्यायः ॥ 1 ॥


ஸ்கந்தம் 5: அத்யாயம் 18 (எங்கும் பரவாசுதேவன் வழிபாடு) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

எங்கும் பரவாசுதேவன் வழிபாடு

ஸ்கந்தம் 5: அத்யாயம் 18

श्री-शुकः उवाच

तथा च भद्र-श्रवाः नाम धर्म-सुतः तत्-कुल-पतयः पुरुषाः भद्राश्व-वर्षे साक्षात् भगवतः वासुदेवस्य प्रियाम् तनुम् धर्म-मयीम् हय-शीर्ष-अभिधानाम् परमेण समाधिना सन्निधाप्य इदम् अभिगृणन्तः उपधावन्ति ॥ १ ॥

भद्र-श्रवसः ऊचुः

ॐ नमः भगवते धर्माय आत्म-विशोधनाय नमः इति ॥ २ ॥

अहो विचित्रम् भगवत्-विचेष्टितम्
घ्नन्तम् जनः अयम् हि मिषन् न पश्यति ।
ध्यायन् असत् यर्हि विकर्म सेवितुम्
निर्हृत्य पुत्रम् पितरम् जिजीविषति ॥ ३ ॥

वदन्ति विश्वम् कवयः स्म नश्वरम्
पश्यन्ति च अध्यात्म-विदः विपश्चितः ।
तथा अपि मुह्यन्ति तव अज मायया
सु-विस्मितम् कृत्यम् अजम् नतः अस्मि तम् ॥ ४ ॥

विश्व-उद्भव-स्थान-निरोध-कर्म ते
हि अकर्तुः अङ्गीकृतम् अपि अपावृतः ।
युक्तम् न चित्रम् त्वयि कार्य-कारणे
सर्व-आत्मनि व्यतिरिक्ते च वस्तुतः ॥ ५ ॥

वेदान् युग-अन्ते तमसा तिरस्कृतान्
रसातलात् यः नृ-तुरङ्ग-विग्रहः ।
प्रत्याददे वै कवये अभियाचते
तस्मै नमः ते अवितथ-ईहिताय इति ॥ ६ ॥

हरि-वर्षे च अपि भगवान् नर-हरि-रूपेण आस्ते ।
तत्-रूप-ग्रहण-निमित्तम् उत्तरत्र अभिधास्ये ।
तत्-दयितम् रूपम् महा-पुरुष-गुण-भाजनः महा-भागवतः दैत्य-दानव-कुल-तीर्थी-करण-शील-चरितः प्रह्लादः अव्यवधान-अनन्य-भक्ति-योगेन सह तत्-वर्ष-पुरुषैः उपास्ते इदम् च उदाहरति ॥ ७ ॥

ॐ नमः भगवते नरसिंहाय नमः तेजस्-तेजसे आविर् आविर्भव वज्र-नख वज्र-दंष्ट्र कर्म-आशयान् रन्धय रन्धय तमः ग्रस ग्रस ॐ स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठाः ॐ क्ष्रौम् ॥ ८ ॥

स्वस्ति अस्तु विश्वस्य खलः प्रसीदताम्
ध्यायन्तु भूतानि शिवम् मिथः धिया ।
मनः च भद्रम् भजताम् अधोक्षजे
आवेश्यताम् नः मतिः अपि अहैतुकी ॥ ९ ॥

मा गार-दार-आत्मज-वित्त-बन्धुषु
सङ्गः यदि स्यात् भगवत्-प्रियेषु नः ।
यः प्राण-वृत्त्या परितुष्टः आत्मवान्
सिद्ध्यति अदूरात् न तथा इन्द्रिय-प्रियः ॥ १० ॥

यत्-सङ्ग-लब्धं निज-वीर्य-वैभवं
तीर्थं मुहुः संस्पृशताम् हि मानसम् ।
हरति अजः अन्तः श्रुतिभिः गतः अङ्गजम्
कः वै न सेवेत मुकुन्द-विक्रमम् ॥ ११ ॥

यस्य अस्ति भक्तिः भगवति अकिञ्चना
सर्वैः गुणैः तत्र समासते सुराः ।
हरौ अभक्तस्य कुतः महत्-गुणाः
मनोरथेन असति धावतः बहिः ॥ १२ ॥

हरिः हि साक्षात् भगवान् शरीरिणाम्
आत्मा झषाणाम् इव तोयम् ईप्सितम् ।
हित्वा महान्तम् तम् यदि सज्जते गृहे
तदा महत्त्वम् वयसा दम्पतीनाम् ॥ १३ ॥

तस्मात् रजः-राग-विषाद-मन्यु-
मान-स्पृहा-भय-दैन्य-आधि-मूलम् ।
हित्वा गृहम् संसृति-चक्र-वालम्
नृसिंह-पादम् भजत अकुतो-भयम् इति ॥ १४ ॥

केतु-माले अपि भगवान् काम-देव-स्वरूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेः दुहितॄणाम् पुत्राणाम् तत्-वर्ष-पतीनाम् पुरुष-आयुष-अहः-रात्र-परिसङ्ख्यानानाम् यासाम् गर्भाः महा-पुरुष-महा-अस्त्र-तेजसा उद्वेजित-मनसाम् विध्वस्ताः व्यसवः संवत्सर-अन्ते विनिपतन्ति ॥ १५ ॥

अतीव सुललित-गति-विलास-विलसित-रुचिर-हास-लेश-अवलोक-लीलया किञ्चित् उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदन-अरविन्द-श्रिया रमाम् रमयन् इन्द्रियाणि रमयते ॥ १६ ॥

तत् भगवतः माया-मयम् रूपम् परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेः दुहितृभिः उपेता अहःसु च तत्-भर्तृभिः उपास्ते इदम् च उदाहरति ॥ १७ ॥

ॐ ह्रां ह्रीं ह्रूं ॐ नमः भगवते हृषीकेशाय सर्व-गुण-विशेषैः विलक्षित-आत्मने आकूतीनाम् चित्तीनाम् चेतसाम् विशेषाणाम् च अधिपतये षोडश-कलाय छन्दः-मयाय अन्न-मयाय अमृत-मयाय सर्व-मयाय सहसे ओजसे बलाय कान्ताय कामाय नमः ते उभयत्र भूयात् ॥ १८ ॥

स्त्रियः व्रतैः त्वा हृषीकेश्वरम् स्वतः हि आराध्य लोके पतिम् आशासते अन्यम् ।
तासाम् न ते वै परिपान्ति अपत्यम् प्रियं धन-आयूंषि यतः अस्वतन्त्राः ॥ १९ ॥

सः वै पतिः स्यात् अकुतो-भयः स्वयम्
समन्ततः पाति भय-आतुरम् जनम् ।
सः एकः एव इतरथा मिथः भयम्
न एव आत्म-लाभात् अधि मन्यते परम् ॥ २० ॥

या तस्य ते पाद-सरोरुह-अर्हणम्
निकामयेत् सा अखिल-काम-लम्पटा ।
तत् एव रासि-ईप्सितम् ईप्सितः अर्चितः
यत् भग्न-याच्ञा भगवन् प्रतप्यते ॥ २१ ॥

मत्-प्राप्तये अज-ईश-सुर-असुर-आदयः
तप्यन्ते उग्रं तपः ऐन्द्रिये धियः ।
ऋते भवत्-पाद-परायणात् न माम्
विन्दन्ति अहम् त्वत्-हृदयः यतः अजित ॥ २२ ॥

सः त्वम् मम अपि अच्युत शीर्ष्णि वन्दितम्
कर-अम्बुजम् यत् त्वत् अधायि सात्वताम् ।
बिभर्षि माम् लक्ष्म वरेण्य मायया
कः ईश्वरस्य ईहितम् ऊहितुम् विभुः इति ॥ २३ ॥

रम्यके च भगवतः प्रिय-तमम् मात्स्य-अवतार-रूपम् तत्-वर्ष-पुरुषस्य मनोः प्राक्-प्रदर्शितम् सः इदानीम् अपि महता भक्ति-योगेन आराधयति इदम् च उदाहरति ॥ २४ ॥

ॐ नमः भगवते मुख्य-तमाय नमः सत्त्वाय प्राणाय ओजसे सहसे बलाय महा-मत्स्याय नमः इति ॥ २५ ॥

अन्तः बहिः च अखिल-लोक-पालकैः
अदृष्ट-रूपः विचरसि उरु-स्वनः ।
सः ईश्वरः त्वम् यः इदम् वशे अनयन्
नाम्ना यथा दारु-मयीम् नरः स्त्रियम् ॥ २६ ॥

यम् लोक-पालाः किल मत्सर-ज्वराः
हित्वा यतन्तः अपि पृथक् समेत्य च ।
पातुम् न शेकुः द्विपदः चतुष्पदः
सरीसृपम् स्थाणु यत् अत्र दृश्यते ॥ २७ ॥

भवान् युग-अन्त-अर्णवे ऊर्मि-मालिनि
क्षोणीम् इमाम् ओषधि-वीरुधाम् निधिम् ।
मया सह उरु क्रमते अज ओजसा
तस्मै जगत्-प्राण-गण-आत्मने नमः इति ॥ २८ ॥

हिरण्मये अपि भगवान् निवसति कूर्म-तनुम् बिभ्राणः तस्य तत्-प्रिय-तमाम् तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गण-अधिपतिः उपधावति मन्त्रम् इमम् च अनुजपति ॥ २९ ॥

ॐ नमः भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणाय अनुपलक्षित-स्थानाय नमः वर्ष्मणे नमः भूम्ने नमः नमः अवस्थानाय नमः ते ॥ ३० ॥

यत्-रूपम् एतत् निज-मायया अर्पितम्
अर्थ-स्वरूपम् बहु-रूप-रूपितम् ।
सङ्ख्या न यस्य अस्ति अयथा-उपलम्भनात्
तस्मै नमः ते अव्यपदेश-रूपिणे ॥ 31 ॥

जरायु-जम् स्वेद-जम् अण्ड-जम् उद्भिदम्
चर-अचरम् देव-ऋषि-पितृ-भूत-मैन्द्रियम् ।
द्यौः खम् क्षितिः शैल-सरित्-समुद्र
द्वीप-ग्रह-ऋक्ष इति अभिधेयः एकः ॥ 32 ॥

यस्मिन् असङ्ख्येय-विशेष-नाम
रूप-आकृतौ कविभिः कल्पिता इयम् ।
सङ्ख्या यया तत्त्व-दृशा अपनीयते
तस्मै नमः साङ्ख्य-निदर्शनाय ते इति ॥ 33 ॥

उत्तरेषु च कुरुषु भगवान् यज्ञ-पुरुषः कृत-वराह-रूपः आस्ते ।
तम् तु देवी एषा भूः सह कुरुभिः अस्खलित-भक्ति-योगेन उपधावति ।
इमाम् च परमाम् उपनिषदम् आवर्तयति ॥ 34 ॥

ॐ नमः भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ-क्रतवे महा-अध्वर-अवयवाय महा-पुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमः ते ॥ 35 ॥

यस्य स्वरूपम् कवयः विपश्चितः
गुणेषु दारुषु इव जात-वेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवः
गूढम् क्रिया-अर्थैः नमः ईरित-आत्मने ॥ 36 ॥

द्रव्य-क्रिया-हेतु-अयन-ईश-कर्तृभिः
माया-गुणैः वस्तु-निरीक्षित-आत्मने ।
अन्वीक्षया अङ्ग-अतिशय-आत्म-बुद्धिभिः
निरस्त-माया-कृतये नमः नमः ॥ 37 ॥

करोति विश्व-स्थिति-संयम-उदयम्
यस्य ईप्सितम् न ईप्सितम् ईक्षितुः गुणैः ।
माया यथा अयः भ्रमते तत्-आश्रयम्
ग्राव्णः नमः ते गुण-कर्म-साक्षिणे ॥ 38 ॥

प्रमथ्य दैत्यम् प्रति-वारणम् मृधे
यः माम् रसाया जगत्-आदि-सूकरः ।
कृत्वा अग्र-दंष्ट्रे निरगात् उदन्वतः
क्रीडन् इव इभः प्रणतः अस्मि तम् विभुम् इति ॥ 39 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भुवन-कोश-वर्णनम् नाम अष्टादशः अध्यायः ॥ 18 ॥