Followers

Search Here...

Showing posts with label அத்யாயம் 19. Show all posts
Showing posts with label அத்யாயம் 19. Show all posts

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 19 - சுகப்பிரம்ம ரிஷி காட்சி கொடுக்கிறார் - ஸ்ரீமத் பாகவதம்

சுகப்பிரம்ம ரிஷி காட்சி கொடுக்கிறார்

ஸ்கந்தம் 1: அத்யாயம் 18

सूत उवाच

महीपति: त्वथ तत्कर्म गर्ह्यं विचिन्तयन् आत्म-कृतं सु-दुर्मना: ।

अहो मया नीचम् अनार्य वत्कृतं निरागसि ब्रह्मणि गूढ तेजसि ॥


ध्रुवं तता: मे कृत-देव-हेलनाद् दुरत्ययं व्यसनं न अति दीर्घात् ।

तद् अस्तु कामं हि अघ निष्कृताय मे यथा न कुर्यां पुन: एवम् अद्धा ॥


अद्य एव राज्यं बलम् रुद्ध कोशं प्रकोपित ब्रह्म-कुल अनलो मे ।

दहतु अभद्रस्य पुन: न मे अभूत् पापीयसी धी: द्विज देव-गोभ्य: ॥


स चिन्तयन् इत्थम् अथ अश‍ृणोद् यथा मुने: सुत:-उक्त: निऋर्ति: तक्षक आख्य: ।

स साधु मेने न चिरेण तक्षका- नलं प्रसक्तस्य विरक्ति कारणम् ॥


अथो विहाय इमम् अमुं च लोकं विमर्शितौ हेयतया पुरस्तात् ।

कृष्ण अङ्‌घ्रि सेवाम् अधिमन्यमान उपाविशत् प्रायम् अमर्त्य-नद्याम् ॥


या वै लसद् श्री-तुलसी विमिश्र कृष्ण-अङ्‌घ्रि रेणु अभ्यधिक अम्बु नेत्री ।

पुनाति लोकान् उभयत्र स-ईशान् क: तां न सेवेत मरिष्यमाण: ॥


इति व्यवच्छिद्य स पाण्डवेय: प्राय उपवेशं प्रति विष्णु-पद्याम् ।

दधौ मुकुन्द-अङ्‌घ्रिम् अनन्य भावो मुनि व्रतो मुक्त समस्त सङ्ग: ॥


तत्र उपजग्मु: भुवनं पुनाना महा-अनुभावा मुनय: स-शिष्या: ।

प्रायेण तीर्थ अभिगम अपदेशै: स्वयं हि तीर्थानि पुनन्ति सन्त: ॥


अत्रि: वसिष्ठ: च्यवन: शरद्वान् -अरिष्टनेमि: भृगु: अङ्गिरा: च ।

पराशरो गाधि-सुतो अथ राम उतथ्य इन्द्रप्रमद इध्मवाहौ ॥


मेधातिथि: देवल आर्ष्टिषेण: भारद्वाज: गौतम: पिप्पलाद: ।

मैत्रेय और्व: कवष: कुम्भयोनि: द्वैपायनो भगवान् नारद: च ॥


अन्ये च देवर्षि ब्रह्मर्षि वर्या राजर्षि वर्या अरुण आदयश्च ।

नाना आर्षेय प्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥


सुख उपविष्टेषु अथ तेषु भूय: कृत प्रणाम: स्व चिकीर्षितं यत् ।

विज्ञापयाम् आस विविक्त-चेता उपस्थित: अग्रे अभिगृहीत पाणि: ॥


राजोवाच

अहो वयं धन्य-तमा नृपाणां महत्-तम अनुग्रहणीय शीलाः

राज्ञां कुलं ब्राह्मण-पाद शौचाद् दूराद् विसृष्टं बत गर्ह्य कर्म


तस्यैव मे अघस्य परा अवर ईश: व्यासक्त चित्तस्य गृहेषु अभीक्ष्णम् ।

निर्वेद-मूलो द्विज-शाप रूपो यत्र प्रसक्तो भयम् आशु धत्ते ॥


तं मा उपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृत चित्तम् ईशे ।

द्विज उपसृष्ट: कुहक: तक्षक: वा दशतु अलं गायत विष्णु गाथा: ॥


पुन: च भूयात् भगवति अनन्ते रति: प्रसङ्ग: च तद् आश्रयेषु ।

महत्सु यां यां उपयामि सृष्टिं मैत्री अस्तु सर्वत्र नमो द्विजेभ्य: ॥


इति स्म राजा अध्यवसाय युक्त: प्राचीन मूलेषु कुशेषु धीर: ।

उदङ्‍-मुखो दक्षिण कूल आस्ते समुद्र पत्‍न्‍या: स्व-सुत न्यस्त भार: ॥


एवं च तस्मिन् नर-देव देवे प्राय-उपविष्टे दिवि देव सङ्घा: ।

प्रशस्य भूमौ व्यकिरन् प्रसूनै: मुदा मुहु: दुन्दुभय: च नेदु: ॥


महर्षयो वै समुपागता ये प्रशस्य साधु इति अनुमोदमाना: ।

ऊचु: प्रजा अनुग्रह शील सारा यद् उत्तम-श्लोक गुण-अभिरूपम् ॥


न वा इदं राजर्षि वर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु ।

ये अध्यासनं राज-किरीट जुष्टं सद्य: जहु भगवत् पार्श्व कामा: ॥


सर्वे वयं तावद् इह आस्महे अथ कलेवरं यावद् असौ विहाय ।

लोकं परं विरजस्कं विशोकं यास्यति अयं भागवत प्रधान: ॥


आश्रुत्य तद् ऋषि-गण वच: परीक्षित् समं मधुच्युद् गुरु च अव्यलीकम् ।

आभाषत एनान् अभिनन्द्य युक्तान् शुश्रूषमाण: चरितानि विष्णो: ॥


समागता: सर्वत एव सर्वे वेदा यथा मूर्ति धरा: त्रिपृष्ठे ।

न इह अथ न अमुत्र च कश्चन अर्थ ऋते पर अनुग्रहम् आत्म शीलम् ॥


तत: च व: पृच्छ्‍यम् इमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् ।

सर्व आत्मना म्रियमाणै: च कृत्यं शुद्धं च तत्र अमृशत अभि युक्ता: ॥


तत्र अभवद भगवान् व्यास-पुत्रो यद‍ृच्छया गाम् अटमान: अनपेक्ष: ।

अलक्ष्य लिङ्गो निज-लाभ तुष्ट: वृत: च बालै: अवधूत वेष: ॥


तं द्वि-अष्ट वर्षं सुकुमार पाद कर उरु बाहु अंस कपोल गात्रम् ।

चारु आयत अक्ष उन्नस तुल्य कर्ण सुभ्रु आननं कम्बु सुजात कण्ठम् ॥


निगूढ जत्रुं पृथु तुङ्ग वक्षसम् आवर्त नाभिं वलि-वल्गु उदरं च ।

दिगम्बरं वक्त्र विकीर्ण केशं प्रलम्ब बाहुं सु अमर-उत्तम आभम् ॥


श्यामं सदा अपीव्य वय: अङ्ग लक्ष्म्या स्त्रीणां मनोज्ञं रुचिर स्मितेन ।

प्रत्युत्थिता: ते मुनय: स्व आसनेभ्य तत्  लक्षणज्ञा अपि गूढ वर्चसम् ॥


स विष्णु रात: अतिथय आगताय तस्मै सपर्यां शिरसा आजहार ।

ततो निवृत्ता हि अबुधा: स्त्रिय: अर्भका महासने स: उपविवेश पूजित: ॥


स संवृत: तत्र महान् महीयसां ब्रह्मर्षि राजर्षि देवर्षि सङ्घै: ।

व्यरोचत अलं भगवान्  यथा इन्दु: ग्रहर्क्ष तारा निकरै: परीत: ॥


प्रशान्तम् आसीनम् अकुण्ठ मेधसं मुनिं नृप: भागवत: अभ्युपेत्य ।

प्रणम्य मूर्ध्ना अवहित: कृत-अञ्जलि: नत्वा गिरा सूनृतया अन्वपृच्छत् ॥


परीक्षिद् उवाच

अहो अद्य वयं ब्रह्मन् सत्सेव्या: क्षत्र बन्धव: ।

कृपया अतिथि रूपेण भवद्भ‍ि: तीर्थका: कृता: ॥


येषां संस्मरणात् पुंसां सद्य: शुद्ध्यन्ति वै गृहा: ।

किं पुन: दर्शन स्पर्श पाद शौच आसन आदिभि: ॥


सान्निध्यात् ते महा-योगिन् पातकानि महान्ति अपि ।

सद्यो नश्यन्ति वै पुंसां विष्णो: इव सुर-इतरा: ॥


अपि मे भगवान् प्रीत: कृष्ण: पाण्डु सुत प्रिय: ।

पैतृ: स्वसेय प्रीति अर्थं तद् गोत्रस्य आत्त बान्धव: ॥


अन्यथा ते अव्यक्त गते: दर्शनं न: कथं नृणाम् ।

नितरां म्रियमाणानां संसिद्धस्य वनीयस: ॥


अत: पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।

पुरुषस्य इह यत् कार्यं म्रियमाणस्य सर्वथा ॥


यत् श्रोतव्यं अथो जप्यं यत् कर्तव्यं नृभि: प्रभो ।

स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥


नूनं भगवतो ब्रह्मन् गृहेषु गृह मेधिनाम् ।

न लक्ष्यते हि अवस्थानम् अपि गो-दोहनं क्‍वचित् ॥


सूत उवाच

एवम् आभाषित: पृष्ट: स राज्ञा श्लक्ष्णया गिरा ।

प्रत्यभाषत धर्मज्ञो भगवान् बादरायणि: ॥


अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।

पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥