Followers

Search Here...

Saturday, 13 December 2025

ஸ்கந்தம் 6: அத்யாயம் 13 (இந்திரன் தபசு செய்ய சென்றான்.) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

இந்திரன் தபசு செய்ய சென்றான்

ஸ்கந்தம் 6: அத்யாயம் 13

 

श्री-शुक उवाच
वृत्रे हते त्रयः लोकाः विना शक्रेण भूरिद।
स-पाला हि अभवन् सद्यः विज्वरा निर्वृत-इन्द्रियाः ॥ १ ॥

देव-ऋषि-पितृ-भूतानि दैत्याः देव-अनुगाः स्वयम्।
प्रतिजग्मुः स्व-धिष्ण्यानि ब्रह्म-ईश-इन्द्र-आदयः ततः ॥ २ ॥

श्री-राजा उवाच
इन्द्रस्य अनिर्वृतेः हेतुम् श्रोतुम् इच्छामि भो मुने।
येन आसन् सुखिनः देवाः हरेः दुःखम् कुतः अभवत् ॥ ३ ॥

श्री-शुक उवाच
वृत्र-विक्रम-संविग्नाः सर्वे देवाः सह-ऋषिभिः।
तत्-वधाय अर्थयन् इन्द्रम् न ऐच्छत् भीतः बृहद्-वधात् ॥ ४ ॥

इन्द्र उवाच
स्त्री-भू-जल-द्रुमैः एनः विश्व-रूप-वध-उद्भवम्।
विभक्तम् अनुगृह्णद्भिः वृत्र-हत्याम् क्व मार्ज्मि अहम् ॥ ५ ॥

श्री-शुक उवाच
ऋषयः तत् उपाकर्ण्य महा-इन्द्रम् इदम् अब्रुवन्।
याजयिष्यामः भद्रम् ते हय-मेधेन मा स्म भैः ॥ ६ ॥

हय-मेधेन पुरुषम् परम-आत्मानम् ईश्वरम्।
इष्ट्वा नारायणम् देवम् मोक्ष्यसे अपि जगत्-वधात् ॥ ७ ॥

ब्रह्म-हा पितृ-हा गो-घ्नः मातृ-हा आचार्य-हा अघवान्।
श्वादः पुल्कसकः वा अपि शुद्ध्येरन् यस्य कीर्तनात् ॥ ८ ॥

तम् अश्व-मेधेन महा-मखेन
श्रद्धा-अन्वितः अस्माभिः अनुष्ठितेन।
हत्वा अपि स-ब्रह्म चर-अचरम् त्वम्
न लिप्यसे किम् खल-निग्रहेण ॥ ९ ॥

श्री-शुक उवाच
एवम् सञ्चोदितः विप्रैः मरुत्वान् अहनत् रिपुम्।
ब्रह्म-हत्या हते तस्मिन् आससाद वृषाकपिम् ॥ १० ॥

तया इन्द्रः स्म असहत् तापम् निर्वृतिः नाम उम् आविशत्।
ह्री-मन्तम् वाच्यताम् प्राप्तम् सुखयन्ति अपि नः गुणाः ॥ ११ ॥

ताम् ददर्श अनुधावन्तीम् चाण्डालीम् इव रूपिणीम्।
जरया वेपमान-अङ्गीम् यक्ष्म-ग्रस्ताम् असृक्-पटाम् ॥ १२ ॥

विकीर्य पलितान् केशान् तिष्ठ तिष्ठ इति भाषिणीम्।
मीन-गन्धी-असु-गन्धेन कुर्वतीम् मार्ग-दूषणम् ॥ १३ ॥

नभः गतः दिशः सर्वाः सहस्र-अक्षः विशाम्-पते।
प्राक्-उदीचीम् दिशम् तूर्णम् प्रविष्टः नृप मानसम् ॥ १४ ॥

सः आवसत् पुष्कर-नाल-तन्तून्
अलब्ध-भोगः यत् इह अग्नि-दूतः।
वर्षाणि साहस्रम् अलक्षितः अन्तः
सः चिन्तयन् ब्रह्म-वधात् विमोक्षम् ॥ १५ ॥

तावत् त्रि-नाकम् नहुषः शशास
विद्या-तपः-योग-बल-अनुभावः।
सः सम्पत्-ऐश्वर्य-मद-अन्ध-बुद्धिः
नीतः तिरश्चाम् गतिम् इन्द्र-पत्न्या ॥ १६ ॥

ततः गतः ब्रह्म-गिरा उपहूतः
ऋतम्-भर-ध्यान-निवारित-अघः।
पापः तु दिक्-देवतया हत-ओजाः
तम् न अभ्यभूत् अवितम् विष्णु-पत्न्या ॥ १७ ॥

तम् च ब्रह्म-ऋषयः अभ्येत्य हय-मेधेन भारत।
यथा-वत् दीक्षया अञ्चक्रुः पुरुष-आराधनेन ह ॥ १८ ॥

अथ इज्यमाने पुरुषे सर्व-देव-मय-आत्मनि।
अश्व-मेधे महा-इन्द्रेण वितते ब्रह्म-वादिभिः ॥ १९ ॥

सः वै त्वाष्ट्र-वधः भूयान् अपि पाप-चयः नृप।
नीतः तेन एव शून्याय नीहारः इव भानुना ॥ २० ॥

सः वाजि-मेधेन यथा-उदितेन
वितायमानेन मरीचि-मिश्रैः।
इष्ट्वा अधि-यज्ञम् पुरुषम् पुराणम्
इन्द्रः महान् आस विधूत-पापः ॥ २१ ॥

इदम् महा-आख्यानम् अशेष-पाप्मनाम्
प्रक्षालनम् तीर्थ-पद-अनुकीर्तनम्।
भक्ति-उच्छ्रयम् भक्ति-जन-अनुवर्णनम्
महा-इन्द्र-मोक्षम् विजयम् मरुत्वतः ॥ २२ ॥

पठेयुः आख्यानम् इदम् सदा बुधाः
शृण्वन्ति अथो पर्वणि पर्वणि इन्द्रियम्।
धन्यम् यशस्यम् निखिल-अघ-मोचनम्
रिपु-उञ्जयम् स्वस्ति-अयनम् तथा आयुषम् ॥ २३ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे इन्द्र-विजयः नाम त्रयोदशः अध्यायः ॥ १३ ॥

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 12 (வ்ருத்தாசுரன் மோக்ஷம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

வ்ருத்தாசுரன் மோக்ஷம்

ஸ்கந்தம் 6: அத்யாயம் 12

 

श्री-ऋषि उवाच
एवं जिहा-असुर् नृप देहम् आजौ
मृत्युं वरं विजयन् मन्यमानः।
शूलं प्रगृह्य अभ्यपतत् सुरेन्द्रम्
यथा महापुरुषं कैटभ-अप्सु ॥ १ ॥

ततः युगान्त-अग्नि-कठोर-जिह्व
माविध्य शूलं तरसा-सुरेन्द्रः।
क्षिप्त्वा महेन्द्राय विनद्य वीरो
हतोऽसि पापेति रुषा जगाद ॥ २ ॥

ख आपतत् तद् विचलद् ग्रह-ओल्कवन्
निरीक्ष्य दु:प्रेक्ष्य-अजात-विक्लवः।
वज्रेण वज्री शत-पर्वणात् छिनद्
भुजं च तस्योर्ग-राज-भोगम् ॥ ३ ॥

छिन्न-एक-बाहुः परिघेण वृत्रः
संरब्ध आसाद्य गृहीत-वज्रम्।
हनौ तत् आदेन्द्रम् अथाम-रेभम्
वज्रं च हस्तान् अपतन् मघोनः ॥ ४ ॥

वृत्रस्य कर्म-अति-महाद्भुतं तत्
सुरा-असुरा-चराण-सिद्ध-सङ्‌घाः।
अपूजयंस्तत् पुरु-हूत-सङ्‌कटं
निरीक्ष्य हा हेति विचुक्रुशुः भृशम् ॥ ५ ॥

इन्द्रो न वज्रं जगृहे विलज्जित
श्च्युतं स्वहस्तादरि-सन्निधौ पुनः।
तमाह वृत्रो हर आत्त-वज्रो
जहि स्वशत्रुं न विषाद-कालः ॥ ६ ॥

युयुत्सतां कुत्रचित् आततायिनां
जयः स-एकत्र न वै परात्म-नाम्।
विनैक-मुत्पत्ति-लय-स्थित-ईश्वरं
सर्वज्ञ-माद्यं पुरुषं सनातनम् ॥ ७ ॥

लोकाः स-पाला यस्ये मे श्वसन्ति विवशा वशे।
द्विजा इव शिचा बध्धाः स काल इह कारणम् ॥ ८ ॥

ओजः सहो बलं प्राणम् अमृतं मृत्युमेव च।
तम् अज्ञाय जनो हेतुम् आत्मानं मन्यते जडम् ॥ ९ ॥

यथा दारु-मयी नारी यथा यंत्र-मयः मृगः।
एवं भूतानि मघवन् नीश-तन्त्राणि विद्धि भोः ॥ १० ॥

पुरुषः प्रकृति-व्यक्त-आत्मा भूत-इन्द्रिय-आशयाः।
शक्नुवन्ति अस्य सर्गादौ न विना यद् अनुग्रहात् ॥ ११ ॥

अविद्वानेवम् आत्मानं मन्यतेऽनीश-मीश्वरम्।
भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ १२ ॥

आयुः श्रीः कीर्ति-ऐश्वर्यम् आशीः पुरुषस्य याः।
भवन्त्येव हि तत् काले यथानिच्छोः विपर्ययाः ॥ १३ ॥

तस्माद् कीर्ति-यशसोर्जया अपजय-योरपि।
समः स्यात् सुख-दुःखाभ्यां मृत्यु-जीवित-योः तथा ॥ १४ ॥

सत्त्वं रजस् तम इति प्रकृतेर्नात्मनो गुणाः।
तत्र साक्षिन् आत्मानं यो वेद न स बध्यते ॥ १५ ॥

पश्य मां निर्जितं शत्रु वृक्ण-आयुध-भुजं मृधे।
घटमानं यथा शक्ति तव प्राण-जिहीर्षया ॥ १६ ॥

प्राण-ग्लहोऽयं समर इष्वक्षो वाहन-आसनः।
अत्र न ज्ञायते अमुष्य जयः अमुष्य पराजयः ॥ १७ ॥

श्री-शुक उवाच
इन्द्रो वृत्र-वचः श्रुत्वा गत-आलीकम् पूजयत्।
गृहीत-वज्रः प्रहसंस्तमाह गत-विस्मयः ॥ १८ ॥

इन्द्र उवाच
अहो दानव-सिद्धोऽसि यस्य ते मति-रीदृशी।
भक्तः सर्व-आत्मनाऽऽत्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥

भवान् अतार्षिन् माया-ं वै वैष्णवीं जन-मोहिनीम्।
यद् विहाय असुरं भावं महापुरुष-तां गतः ॥ २० ॥

खल्-इदं महत् आश्चर्यं यत् रजः-प्रकृतेः तव।
वासुदेवे भगवति सत्त्व-आत्मनि दृढा मतिः ॥ २१ ॥

यस्यम् भक्तिः भगवति हरौ निःश्रेयसे-ईश्वर।
विक्रीडतः अमृत-आम्भोधौ किं क्षुद्रैः खातक-उदकैः ॥ २२ ॥

श्री-शुक उवाच
इति ब्रुवाणाः अन्योन्यम् धर्म-जिज्ञासया नृप।
युयुधाते महा-वीर्य-आविन्द्र-वृत्रौ युधाम्पती ॥ २३ ॥

आविध्य परिघम् वृत्रः कार्ष्णाय समरिन्दमः।
इन्द्राय प्राहिणोऽद् घोरं वाम-हस्तेन मारिष ॥ २४ ॥

स तु वृत्रस्य परिघम् करम् च कर-भोपमम्।
चिच्छेद् युगपद् देवः वज्रेण शत-पर्वणा ॥ २५ ॥

दोर्भ्याम् उत्कृत्त-मूलाभ्यां बभौ रक्त-स्रवोऽसुरः।
छिन्न-पक्षो यथा गोत्रः खाद् भ्रष्टो वज्रि-णा हतः ॥ २६ ॥

कृत्-आधरां हनुं भूमौ दैत्यः दिव्य-उत्तरां हनुम्
नभोगम् भीर-वक्त्रेण लेलि-होल्बण-जिह्वया ॥ २७ ॥

दंष्ट्राभिः काल-कल्पाभिः ग्रसन्निव जगत्-त्रयम्।
अति-मात्र-महाकाय आक्षिपन्त् तरसा गिरीन् ॥ २८ ॥

गिरिराट् पाद-चारीव पद्भ्यां निर्जरयन् महीम्।
जग्रास स समासाद्य वज्रिणं सह-वाहनम् ॥ २९ ॥

महाप्राणो महा-वीर्यो महा-सर्प एव द्विपम्।
वृत्र-ग्रस्तं तम् आलक्ष्य स प्रजापतयः सुराः।
हा कष्टम् इति निर्विण्णाः चुक्रुशुः सम-हर्षयः ॥ ३० ॥

निगीर्णोऽपि असुरेन्द्रेण न मम आरोदरं गतः।
महापुरुष-सन्नद्धो योग-माया-बलेन च ॥ ३१ ॥

भित्त्वा वज्रेण तत् कुक्‍षिं निष्क्रम्य बल-भिद् विभुः।
उच्च-कर्त शिरः शत्रोः गिरि-श्रृङ्‍ग-मिव ओजसा ॥ ३२ ॥

वज्रः तु तत् कन्धरम् आशु-वेगः
कृन्तन् समन्तात् परिवर्तमानः।
न्यपातयत् तावद् अहर्ग-णेन
यो ज्योतिषाम् अयने वार्त-रहत्ये ॥ ३३ ॥

तदा च खे दुन्दुभयो विनेदुः-
र्गन्धर्व-सिद्धाः सम-हर्षि-सङ्‍घाः।
वार्त्र-घ्न-लिङ्गैः तम् अभिष्टुवाना
मन्त्रैः मुदा कुसुमैः अभ्यवर्षन् ॥ ३४ ॥

वृत्रस्य देह-आन्निष्क्रान्तम् आत्म-ज्योति-ररिन्दम।
पश्यतां सर्व-लोकानाम् अलोकं समपद्यत ॥ ३५ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां
षष्ठ-संखदे वृत्रो-वधो नाम द्वादशोऽध्यायः ॥ १२ ॥

ஸ்கந்தம் 6: அத்யாயம் 11 (வ்ருத்தாசுரன் ஆச்சர்யமான குணம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

வ்ருத்தாசுரன் ஆச்சர்யமான குணம்

ஸ்கந்தம் 6: அத்யாயம் 11

 

श्री-शुक उवाच –

त एवम् शंसतो धर्मं वचः पत्युरचेतसः।
नैवागृह्णन् भय-त्रस्ताः पलायन-परा नृप ॥ १ ॥

विशीर्यमाणां पृत्नामासुरीमसुर-र्षभः।
कालानुकूलैः त्रिदशैः काल्यमानामनाथवत् ॥ २ ॥

दृष्ट्वा तप्यत सङ्‌क्रुद्ध इन्द्र-शत्रुर् अमर्षितः।
तान् निवार्यौजसा राजन् निर्भर्त्स्ये दमुवाच ह ॥ ३ ॥

किं व उच्चरितैः मातुर्धावद्भिः पृष्ठतो हतैः।
न हि भीत-वधः श्लाघ्यो न स्वर्ग्यः शूर-मानिनाम् ॥ ४ ॥

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि।
अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्य-सुखे स्पृहा ॥ ५ ॥

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून्।
व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥ ६ ॥

तेन देवगणाः सर्वे वृत्र-विस्फोटनेन वै।
निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ ७ ॥

ममर्द पद्भ्यां सुर-सैन्यमातुरं
निमीलिताक्षं रण-रङ्ग-दुर्मदः।
गां कम्पयन्नुद्यत-शूल ओजसा
नालं वनं यूथपतिर् यथोन्मदः ॥ ८ ॥

विलोक्य तं वज्रधरोऽत्यमर्षितः
स्वशत्रवेऽभिद्रवते महा-गदाम्।
चिक्षेप ताम् आपततीं सुदुःसहां
जग्राह वामेन करेण लीलया ॥ ९ ॥

स इन्द्रशत्रुः कुपितो भृशं तया
महेन्द्र-वाहं गद-योग्र-विक्रमः।
जघान कुम्भस्थल उन्नदन् मृधे
तत्कर्म सर्वे समपूजयन् नृप ॥ १० ॥

ऐरावतो वृत्र-गदाभि-मृष्टो
विघूर्णितोऽद्रिः कुलिशा-हतो यथा।
अपासरद् भिन्नमुखः सहेन्द्रो
मुञ्चन्नसृक् सप्त-धनुर्भृश-आर्तः ॥ ११ ॥

न सन्न-वाहाय विषण्ण-चेतसे
प्रायुङ्क्त भूयः स गदां महात्मा।
इन्द्रोऽमृत-स्यन्दिकराभि-मर्श
वीत-व्यथ-क्षत-वाहितोऽवतस्थे ॥ १२ ॥

स तं नृपेन्द्र-आहव-काम्यया रिपुं
वज्रायुधं भ्रातृहणं विलोक्य।
स्मरंश्च तत्कर्म नृशंसमंहः
शोकेन मोहेन हसञ्जगाद् ॥ १३ ॥

श्री-वृत्र उवाच –

दिष्ट्या भवान् मे समवस्थितो रिपुः
यो ब्रह्म-हा गुरु-हा भ्रातृ-हा च।
दिष्ट्या नृणोऽद्याहमसत्तम त्वया
मच्छूल-निर्भिन्न-दृषद्‌धृदाचिरात् ॥ १४ ॥

यो नोऽग्रजस्य आत्म-विदो द्विजातेः
गुरोर् अपापस्य च दीक्षितस्य।
विश्रभ्य खड्गेन शिरांस्य-वृश्चय्
पशोरिवाकरुणः स्वर्ग-कामः ॥ १५ ॥

ह्री-श्री-दया-कीर्तिभिर् उज्झितं त्वां
स्वकर्मणा पुरुषादैश्च गर्ह्यम्।
कृच्छ्रेण मच्छूल-विभिन्न-दहं
अस्पृष्ट-वह्निं समदन्ति गृध्राः ॥ १६ ॥

अन्येऽनु ये त्वेह नृशंस-मज्ञा
ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम्।
तैर्भूत-नाथान् सगणान् निशात्
त्रिशूल-निर्भिन्न-गलैर्यजामि ॥ १७ ॥

अथो हरे मे कुलिशेन वीर
हर्ता प्रमथ्यैव शिरो यदीह।
तत्रानृणो भूत-बलं विधाय
मनस्विनां पाद-रजः प्रपत्स्ये ॥ १८ ॥

सुरेश कस्मान्न हिनोषि वज्रं
पुरः स्थिते वैरिणि मय्यमोघम्।
मा संशयिष्ठा न गदेव वज्रं
स्यान् निष्फलं कृपणार्थेव याच्ञा ॥ १९ ॥

नन्वेष वज्रस्तव शक्र-तेजसा
हरेर्दधी-चेस्तपसा च तेजितः।
तेनैव शत्रुं जहि विष्णु-यन्त्रितो
यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २० ॥

श्री-शुक उवाच –

अहं समाधाय मनो यथाऽऽह
सङ्‌कर्षणस्तच्चरणारविन्दे।
त्वद्वज्र-रं होलुलित-ग्राम्य-पाशो
गतिं मुनेर्याम्यपविद्ध-लोकः ॥ २१ ॥

पुंसां किलैकान्त-धियां स्वकानां
याः सम्पदो दिवि भूमौ रसायाम्।
न राति यद् द्वेष उद्वेग-आधिः
मदः कलिर्व्यसनं सम्प्रयासः ॥ २२ ॥

त्रैवर्गिकायास-विघातमस्मत्
पतिर्विधत्ते पुरुषस्य शक्र।
ततोऽनुमेयो भगवतः प्रसादो
यो दुर्लभोऽकिञ्चन-गोचरोऽन्यैः ॥ २३ ॥

अहं हरे तव पादैक-मूल
दासानुदासो भवितास्मि भूयः।
मनः स्मरेतासुपतेर्गुणांस्ते
गृणीत वाक् कर्म करोतु कायः ॥ २४ ॥

न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम्।
न योग-सिद्धीरपुनर्भवं वा
समञ्जस त्वा विरहय्य काङ्‌क्षे ॥ २५ ॥

अजात-पक्षा इव मातरं खगाः
स्तन्यं यथा वत्स-तराः क्षुधार्ताः।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६ ॥

ममोत्तम-श्लोक-जनेषु सख्यं
संसार-चक्रे भ्रमतः स्वकर्मभिः।
त्वन्माययाऽऽत्म-आत्मज-दार-गहे
ष्वासक्त-चित्तस्य न नाथ भूयात् ॥ २७ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे वृत्रास्येन्द्रोप्देशो नामैकादशोऽध्यायः ॥ ११ ॥

ஸ்கந்தம் 6: அத்யாயம் 10 (தேவர்கள் வ்ருத்தாசுரன் யுத்தம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தேவர்கள் வ்ருத்தாசுரன் யுத்தம்

ஸ்கந்தம் 6: அத்யாயம் 10

 

श्री-शुक उवाच –

इन्द्रमेवं समादिश्य भगवान् विश्व-भावनः।
पश्यताम् अनिमेषाणां तत्र एव अन्तर्दधे हरिः ॥ १ ॥

तथाभियाचितो देवैः ऋषिराथर्वणो महान्।
मोदमान उवाच एदं प्रहसन्निव भारत ॥ २ ॥

अपि वृन्दारका यूयं न जानीथ शरीरिणाम्।
संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतना-पहः ॥ ३ ॥

जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः।
कः उत्सहेतं तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥

श्री-देवा ऊचुः –

किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानु-कम्पिनाम्।
भवद्विधानां महतां पुण्य-श्लोके ड्यकर्मणाम् ॥ ५ ॥

ननु स्वार्थ-परो लोको न वेद परसङ्कटम्।
यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥

श्री-ऋषिर् उवाच –

धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः।
एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान्।
ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥

एतावान् अव्ययो धर्मः पुण्य-श्लोकैः उपासितः।
यो भूत-शोक-हर्षाभ्यामात्मा शोचति हृष्यति ॥ ९ ॥

अहो दैन्यमहो कष्टं पारक्यैः क्षण-भङ्गुरैः।
यन्नोपकुर्याद् स्वार्थैः मृत्यः स्व-जाती-विग्रहैः ॥ १० ॥

श्री-शुक उवाच –

एवं कृतव्य-व्यसितो दध्यङ्ग-आथर्वण-तनुम्।
परे भगवति ब्रह्मण्यात्मानं सन्नयन् जहौ ॥ ११ ॥

यत् अक्षासु मनो-बुद्धिस्तत्त्व-दृग् ध्वस्त-बन्धनः।
आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥

अथ इन्द्रो वज्र-मुद्यम्य निर्मितं विश्वकर्मणा।
मुनेः शक्तिभिर् उत्सिक्तो भगवत्तेज-सान्वितः ॥ १३ ॥

वृतो देवगणैः सर्वैः गजेन्द्र-पर्यशोभत।
स्तूयमानो मुनिगणैः त्रैलोक्यं हर्षयन्निव ॥ १४ ॥

वृत्रम् अभ्यद्रवच्छेत्तु म असुर-नीक-यूथ-पैः।
पर्यस्तम् ओजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥

ततः सुराणाम् असुरैः रणः परम-दारुणः।
त्रेतामुखे नर्मदायाम् अभवत् प्रथमे युगे ॥ १६ ॥

रुद्रैः वसुभिर् आदित्यैर् अश्विभ्यां पितृवह्निभिः।
मरुद्भिः ऋभुभिः साध्यैः विश्वेदेवैर् मरुत्पतिम् ॥ १७ ॥

दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया।
नामृष्यन् असुरा राजन् मृधे वृत्र-पुरः सराः ॥ १८ ॥

नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः।
हयग्रीवः शङ्कु-शिरा विप्र-चित्तिर-योमुखः ॥ १९ ॥

पुलोमा वृषपर्वा च प्रहेतिर्हेतिर् उत्कलः।
दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ २० ॥

श्री-शुक उवाच –

सुमालि-मालि-प्रमुखाः कार्त-स्वर-परिच्छदाः।
प्रतिषिध्येन्द्र-सेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥

अभ्यर्दयन् न-सम्भ्रान्ताः सिंह-नादेन दुर्मदाः।
गदाभिः परिघैः बाणैः प्रास-मुद्-गरतोमरैः ॥ २२ ॥

शूलैः परश्वधैः खड्गैः शत-घ्नीभिः भुशुण्डिभिः।
सर्वतोऽवाकिरन् शस्त्रैर् अस्त्रैः च विवुध-र्षभान् ॥ २३ ॥

न ते अदृश्यन्त सञ्ज्छन्नाः शर-जालैः समन्ततः।
पुङ्खानु-पुङ्ख-पतितैर्ज्योतींषीव नभो-घनैः ॥ २४ ॥

न ते शस्त्रास्त्र-वर्ष-उघाः ह्याः एदुः सुर-सैनिकान्।
छिन्नाः सिद्ध-पथे देवैः लघु-हस्तैः सहस्रधा ॥ २५ ॥

अथ क्षीणास्त्र-शस्त्र-उघाः गिरि-श्रृङ्ग-द्रुम-उपलैः।
अभ्यवर्षन् सुरबलं च छिद्दुस्तांश्च पूर्ववत् ॥ २६ ॥

तान् अक्षितान् स्वस्तिमतो निशाम्य
शस्त्रास्त्र-पूगैरथ वृत्रनाथाः।
द्रुमैर्दृषद्भिर्विविधाद्रि-श्रृङ्गैः
अविक्षतांस्तत्र सुरिन्द्र-सैनिकान् ॥ २७ ॥

सर्वे प्रयासाः अभवन् विमोघाः
कृताः कृता देवगणेषु दैत्यैः।
कृष्णानु-कूलेषु यथा महत्सु
क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः ॥ २८ ॥

ते स्व-प्रयासं वितथं निरीक्ष्य
हरा-भक्ताः हत-युद्ध-दर्पाः।
पलायनाय अजिमुखे विसृज्य
पतिं मनस्ते दधुरात्तसाराः ॥ २९ ॥

वृत्रोऽसुरान् तान् अनुगान् मनस्वी
प्रधावतः प्रेक्ष्य बभाष एतत्।
पलायितं प्रेक्ष्य बलं च भग्नं
भयेन तीव्रेण विहस्य वीरः ॥ ३० ॥

कालोपपन्नां रुचिरां मनस्विना-
मुवाच वाचं पुरुष-प्रवीरः।
हे विप्रचित्ते नमुचे पुलोमन्
मयानर्वं चम्बर मे श्रृणुध्वम् ॥ ३१ ॥

जातस्य मृत्युर्ह्रुव एव सर्वतः
प्रतिक्रिया यस्य न चेह कृप्ता।
लोको यशश्चाथ ततो यदि ह्यम् उं
को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥

द्वौ सम्मताविह मृत्यू दुरापौ
यद् ब्रह्म-सन्धारणया जितासुः।
कलेवरं योग-रतो विजह्याद्
यद् अग्रणीर्वीर-शयेऽनिवृत्तः ॥ ३३ ॥

॥ इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे इन्द्र-वृत्र-आसुर-युद्ध-वर्णनं नाम दशमोऽध्यायः ॥ १० ॥

ஸ்கந்தம் 6: அத்யாயம் 9 (வ்ருத்தாசுரன்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

வ்ருத்தாசுரன்

ஸ்கந்தம் 6: அத்யாயம் 9

 

श्री-शुक उवाच
तस्यास् अन्न् विश्व-रूपस्य शिरांसि त्रीणि भारत।
सोम-पीठं सुर-पीठम् अन्नादम् इति शुश्रुम् ॥ १ ॥

स वै बर्हिषि देवेभ्यः भागं प्रत्यक्षम् उच्छकैः।
अवदद् यस्य पितरो देवाः सप्रश्रयं नृप ॥ २ ॥

स एव हि ददौ भागं परोक्ष-मसुरान् प्रति।
यजमानोऽवहद् भागं मातृ-स्नेह-वशानुगः ॥ ३ ॥

तद् देव-हेलनं तस्य धर्म-आलीकं सुर-ईश्वरः।
आलक्ष्य तरसा भीतस्तच्छीर्षाणि अच्छिनद् रुषा ॥ ४ ॥

सोम-पीठं तु यत् तस्य शिर आसीत् कपि-ञ्जलः।
कल-विङ्कः सुर-पीठम् अन्नादं यत् स तित्तिरिः ॥ ५ ॥

ब्रह्म-हत्या-मेंजलिना जгрाह यद्-अपि ईश्वरः।
संवत्सरान्ते तद् घं भूतानां स विशुद्धये।
भूम्यां-बुद्रुम-योषिभ्यः चतुर्धा व्यभजद्धरिः ॥ ६ ॥

भूमि-स्तुरीयं जгрाह खात-पूर-वरेण वै।
ईरिणं ब्रह्म-हत्या-या रूपं भूमौ प्रदृश्यते ॥ ७ ॥

तुर्यं छेद-विरोहेण वरेण जгрुर्ह्द्रुमाः।
तेषां निर्यास-रूपेण ब्रह्म-हत्या प्रदृश्यते ॥ ८ ॥

शश्वत्-काम-वरेणां हस्-तुरीयं जग्रुः स्त्रियः।
रजोरूपेण तास्वं हो मासि मासि प्रदृश्यते ॥ ९ ॥

द्रव्य-भूयो वरेणापस्तुरीयं जग्रुर्मलम्।
तासु बुद्बुद-फेना-भ्यां दृष्टं तद्धरति क्षिपन् ॥ १० ॥

हत-पुत्रः ततस्त्वष्टा जुहावे इन्द्राय शत्रवे।
इन्द्र-शत्रो विवर्धस्व माचिरं जहि विद्विषम् ॥ ११ ॥

अथान्वाहार्य-पचनादुत्थितो घोर-दर्शनः।
कृतान्त इव लोकानां युगान्त-समये यथा ॥ १२ ॥

विष्वग्विवर्धमानं तमि-शुमात्रं दिने दिने।
दग्ध-शैल-प्रतीकाशं सन्ध्या-भ्रानी-कवर्चसम् ॥ १३ ॥

तप्त-ताम्र-शिखा-श्म-श्रुं मध्याह्न-र्क-ओग्र-लोचनम् ॥ १४ ॥

देदीप्यमाने त्रि-शिखे शूल आरोप्य रोदसी।
नृत्यन्तम् उन्नदन्तं च चालयन्तं पदा महीम् ॥ १५ ॥

दरी-गम्भीर-वक्त्रेण पिबता च नभस्तलम्।
लिहता जिह्वा-यर्-क्षा-णि ग्रसता भुवन-त्रयम् ॥ १६ ॥

महता रौद्र-दंष्ट्रेण जृम्भ-माणं मुहुर्मुहुः।
वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७ ॥

येनावृता इमे लोकास्तपसा त्वाष्ट्र-मूर्तिना।
स वै वृत्र इति प्रोक्तः पापः परम-दारुणः ॥ १८ ॥

तं निज-घ्नुरभिद्रुत्य सगणा विबुध-र्षभाः।
स्वैः स्वैः दिव्य-अस्त्र-शस्त्र-औघैः सोऽग्रसत् तानि कृत्स्नशः ॥ १९ ॥

ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्त-तेजसः।
प्रत्यञ्चम् आदि-पुरुषम् उपतस्थुः समाहिताः ॥ २० ॥

श्री-देव उवाच
वाय्व-म्बर-अग्न्य-अप्क्षितयः त्रि-लोकाः
ब्रह्मादयः ये वयम् उद्द्विजन्तः।
हराम् यस्मै बलिमन्तः कोऽसौ
बिभेति यस्माद् अरणं ततो नः ॥ २१ ॥

अविस्मितं तं परिपूर्ण-कामं
स्वेनैव लाभेन समं प्रशान्तम्।
विनो-अपसर्पत्यपरं हि बालिशः
श्वलाङ्गुलेन अतितितर्ति सिन्धुम् ॥ २२ ॥

यस्यों-रुशृङ्गे जगतीं स्वनावम्
मनुः यथाऽऽबध्य ततार दुर्गम्।
स एव नः त्वाष्ट्र-भयाद् दुरन्तात्
त्राताः आश्रितान् वारि-चरः अपि नूनम् ॥ २३ ॥

पुरा स्वयम्भूरपि संयमाम्भ
स्युः दीर्ण-वातोर्मिरवैः कराले।
एकोऽरविन्दात् पतितस्ततार
तस्माद् भयाद् येन स नोऽस्तु पारः ॥ २४ ॥

य एक ईशः निजमायया नः
स सर्ज येनानुसृजाम् विश्वम्।
वयं न यस्यापि पुरः समीहतः
पश्याम् लिङ्गं पृथगीशमानिनः ॥ २५ ॥

यो नः सपत्नैः भृशम् अर्द्यमानान्
देवर्षितिर् यङ् नृषु नित्य एव।
कृतावतारस्तनुभिः स्वमायया
कृत्वा आत्मसात् पाति युगे युगे च ॥ २६ ॥

तमेव देवं वयम् आत्म-दैवतं
परं प्रधानं पुरुषं विश्वमन्यम्।
व्रजाम् सर्वे शरणं शरण्यं
स्वानां स नो धास्यति शं महात्मा ॥ २७ ॥

श्री-शुक उवाच
इति तेषां महाराज सुराणाम् उपतिष्ठताम्।
प्रतीच्यां दिश्याभूदाविः शङ्ख-चक्र-गदाधरः ॥ २८ ॥

आत्म-तुल्यैः षोडश-भिः बिना श्रीवत्स-कौस्तुभौ।
पर्युपासितम् उन्निद्र-शरद-अम्बुरुहेक्षणम् ॥ २९ ॥

दृष्ट्वा तम् अवनौ सर्व ईक्षण-आह्लाद-विक्लवाः।
दण्डवत् पतिता राजन् छनैः उत्थाय तुष्टुवुः ॥ ३० ॥

श्री-देव उवाच
नमस्ते यज्ञ-वीर्याय वयसे उत ते नमः।
नमस्ते ह्यस्त-चक्राय नमः सुपुरु-हूतये ॥ ३१ ॥

यत् ते गतीनां तिसृणाम् ईशितुः परमं पदम्।
नार्वाचीनो विसर्गस्य धातर् वेदितुम् अर्हति ॥ ३२ ॥

ॐ नमस्तेऽस्तु भगवन् नारायण-वासुदेव-आदि-पुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोक-ऐकनाथ सर्वेश्वर लक्ष्मी-नाथ परम-हंस-परिव्राजकैः परमेण आत्म-योग-समाधिना परिभावित-परिस्फुट-पारमहंस्य-धर्मेणोद्घाटित-तमः-कपाट-द्वारे चित्तेऽपावृत आत्म-लोके स्वयमुपलब्ध निज-सुखानुभवो भवान् ॥ ३३ ॥

दुरवबोध इव तव आयं विहार-योगो यद् अशरणोऽशरीर इदम् अनवेक्षितास्मात् समवाय आत्मनैव आविक्रियमाणेन सगुण-अगुणः सृजसि पासि हरसि ॥ ३४ ॥

अथ तत्र भवान् किं देवदत्त-वदिह गुणविसर्ग-पतितः पारतन्त्र्येण स्वकृत-कुशल-अकुशलं फलम् उपाददाति। अहो स्विद् आत्म-आराम उपशम-शीलः समञ्जस-दर्शन उदास्त इति ह वाव न विदामः ॥ ३५ ॥

न हि विरोध उभयं भगवत्य-अप-परिणित-गुण-गणो ईश्वर-एऽनवगाह्य-माहात्म्येऽर्वाचीन विकल्प-वितर्क-विचार-प्रमाणा-भासक-उतर्क-शास्त्र-कलिलान्तःकरण-आश्रय-दुरवग्रह-वादिनां विवाद-अनवसर उपरत-समस्त-मायामये केवल एव आत्म-मायाम् अन्तर्धाय। को न्वर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात् ॥ ३६ ॥

समविषम-मतीनां मतम् अनुसारसि यथा रज्जु-खण्डः सर्पादि धियाम् ॥ ३७ ॥

स एव हि पुनः सर्व-वस्तुनि वस्तु-स्वरूपः सर्वेश्वरः सकल-जगत् कारण-कारण-भूतः सर्व-प्रत्यगात्मत्वात् सर्व-गुण-आभास-उप-लक्षितः एक एव पर्यवशेषितः ॥ ३८ ॥

अथ ह वाव तव महिमा-अमृत-रस-समुद्र-विपृषा सकृद् अवलीढया स्व-मनसि निष्यन्द-मानान वरत-सुखेन विस्मारित-दृष्ट-श्रुत-विषय-सुख-लेशाभासाः परम-भागवता एकान्तिनो भगवति सर्व-भूत-प्रिय-सुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृत-अनसः कथम् उ ह वा एते मधु-मथन पुनः स्वार्थ-कुशला हि आत्म-प्रिय-सुहृदः साधवस्त्वच्चरणां-बुजानु-सेवां विसृजन्ति न यत्र पुनरयं संसार-पर्यावर्तः ॥ ३९ ॥

त्रि-भुवन-आत्म-भवन त्रि-विक्रम त्रि-नयन त्रि-लोक-मनोहरानुभाव तवैव विभूतयः दितिज-जनुजा-दयश्च अपि तेषाम् अनुपक्रम-समयः अयमिति स्व-आत्म-मायया सुर-नर-मृग- मिश्रित-जलक-र-आकृतिभिर्यथा पराधं दण्डं दण्ड-धर दधर्थ एवमेनेमपि भगवन् जहि त्वाष्ट्रम् यदि मन्यसे ॥ ४० ॥

श्री-शुक उवाच

अस्माकं तावकानां तव नतानां तत ततामह
तव चरण-नलिन-युगल-ध्यानानुबद्ध-हृदय-निगडानां
स्व-लिङ्ग-विवरणेन आत्मसात् कृतानाम् अनु-कम्पानुरञ्जित
विशद-रुचिर-शिशिर-स्मित-आलोकेन
विगलित-मधुर-मुख-रसामृत-कलया चान्त-स्ताप-मनघार्हसि शमयितुम् ॥ ४१ ॥

अथ भगवंस्त्वा अस्माभि-रखिल-जगद्-उत्पत्ति-स्थिति-लय-निमित्ताय
मानदिव्यमाया-विनोदस्य सकल-जीव-निकायानाम् अन्तर्-हृदयेषु
बहिर् अपि च ब्रह्म-प्रत्यगात्म-स्वरूपेण प्रधान-रूपेण च
यथा-देश-काल-देह-आवस्था-विशेषं
तद् उपादान-उपलम्भ-कटयानुभवतः सर्व-प्रत्यय-साक्षिण
आकाश-शरीरस्य साक्षात् परब्रह्मणः परमात्मनः
कियानिह वा अर्थ-विशेषो विज्ञापनीयः स्याद् विस्फुलिङ्ग-ादिभिरिव हिरण्य-रेतसः ॥ ४२ ॥

अत एव स्वयं तद् उपकल्पयास्माकं भगवतः परम-गुरुः
तव चरण-शत-पलाश-छायां विविध-वृजिन-संसार-परिश्रम-उपशमनी-मुपसृतानां
वयं यत् कामेन उपसादिताः ॥ ४३ ॥

अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवन-त्रयम्।
ग्रस्तानि येन नः कृष्ण-तेजांसि त्रा-युधानि च ॥ ४४ ॥

हंसाय दह्र-निलयाय निरीक्षकाय
कृष्णाय मृष्ट-यशसे निरुपक्रमाय।
सत्-सङ्ग्रहाय भव-पान्थ-निजाश्रम-आप्तावन्ते परीष्ट-गतये हरये नमस्ते ॥ ४५ ॥

श्री-शुक उवाच
अथैवमीडितो राजन् सादरं त्रिदशैः हरिः।
स्वमुपस्थानमाकर्ण्य प्राह तान् अभिनन्दितः ॥ ४६ ॥

श्री-भगवान् उवाच
प्रीतः अहं वः सुर-श्रेष्ठा मद्-उपस्थान-विद्यया।
आत्म-ईश्वर्य-स्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥

किं दुरापं मयि प्रीते तथापि वि-बुध-र्षभाः।
मय्येकान्त-मतिर्नान्यं मत्तो वाञ्छति तत्त्व-वित् ॥ ४८ ॥

न वेद कृपणः श्रेय आत्मनो गुणवस्तु दृक्।
तस्य तानिच्छतो यच्छेद् यद्यपि सोऽपि तथाविधः ॥ ४९ ॥

स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि।
न राति रोगिणोऽपथ्यं वाञ्छतो हि भिषक्तमः ॥ ५० ॥

मघवन् यात् भद्रं वो दध्यञ्च मृषि-सत्तमम्।
विद्या-व्रत-तपस् सारं गात्रं याचत मा चिरम् ॥ ५१ ॥

स वा अधिगतो दध्यङ्ग-श्विभ्यां ब्रह्म निष्कलम्।
यद् वा अश्व-शिरो नाम तयोर् अमरतां व्यधात् ॥ ५२ ॥

दध्यङ्ग-आथर्वणस्त्वष्ट्रे वर्माभेद्यं मद-आत्मकम्।
विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः ॥ ५३ ॥

युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति।
ततस्तैर् आयुध-श्रेष्ठो विश्वकर्म-विनिर्मितः।
येन वृत्र-शिरो हर्ता मत्तेज् उपबृंहितः ॥ ५४ ॥

तस्मिन् विनिहते यूयं तेजोऽस्त्रायुध-सम्पदः।
भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्-परान् ॥ ५५ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे नवमोऽध्यायः ॥ ९ ॥