Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 9 (வ்ருத்தாசுரன்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

வ்ருத்தாசுரன்

ஸ்கந்தம் 6: அத்யாயம் 9

 

श्री-शुक उवाच
तस्यास् अन्न् विश्व-रूपस्य शिरांसि त्रीणि भारत।
सोम-पीठं सुर-पीठम् अन्नादम् इति शुश्रुम् ॥ १ ॥

स वै बर्हिषि देवेभ्यः भागं प्रत्यक्षम् उच्छकैः।
अवदद् यस्य पितरो देवाः सप्रश्रयं नृप ॥ २ ॥

स एव हि ददौ भागं परोक्ष-मसुरान् प्रति।
यजमानोऽवहद् भागं मातृ-स्नेह-वशानुगः ॥ ३ ॥

तद् देव-हेलनं तस्य धर्म-आलीकं सुर-ईश्वरः।
आलक्ष्य तरसा भीतस्तच्छीर्षाणि अच्छिनद् रुषा ॥ ४ ॥

सोम-पीठं तु यत् तस्य शिर आसीत् कपि-ञ्जलः।
कल-विङ्कः सुर-पीठम् अन्नादं यत् स तित्तिरिः ॥ ५ ॥

ब्रह्म-हत्या-मेंजलिना जгрाह यद्-अपि ईश्वरः।
संवत्सरान्ते तद् घं भूतानां स विशुद्धये।
भूम्यां-बुद्रुम-योषिभ्यः चतुर्धा व्यभजद्धरिः ॥ ६ ॥

भूमि-स्तुरीयं जгрाह खात-पूर-वरेण वै।
ईरिणं ब्रह्म-हत्या-या रूपं भूमौ प्रदृश्यते ॥ ७ ॥

तुर्यं छेद-विरोहेण वरेण जгрुर्ह्द्रुमाः।
तेषां निर्यास-रूपेण ब्रह्म-हत्या प्रदृश्यते ॥ ८ ॥

शश्वत्-काम-वरेणां हस्-तुरीयं जग्रुः स्त्रियः।
रजोरूपेण तास्वं हो मासि मासि प्रदृश्यते ॥ ९ ॥

द्रव्य-भूयो वरेणापस्तुरीयं जग्रुर्मलम्।
तासु बुद्बुद-फेना-भ्यां दृष्टं तद्धरति क्षिपन् ॥ १० ॥

हत-पुत्रः ततस्त्वष्टा जुहावे इन्द्राय शत्रवे।
इन्द्र-शत्रो विवर्धस्व माचिरं जहि विद्विषम् ॥ ११ ॥

अथान्वाहार्य-पचनादुत्थितो घोर-दर्शनः।
कृतान्त इव लोकानां युगान्त-समये यथा ॥ १२ ॥

विष्वग्विवर्धमानं तमि-शुमात्रं दिने दिने।
दग्ध-शैल-प्रतीकाशं सन्ध्या-भ्रानी-कवर्चसम् ॥ १३ ॥

तप्त-ताम्र-शिखा-श्म-श्रुं मध्याह्न-र्क-ओग्र-लोचनम् ॥ १४ ॥

देदीप्यमाने त्रि-शिखे शूल आरोप्य रोदसी।
नृत्यन्तम् उन्नदन्तं च चालयन्तं पदा महीम् ॥ १५ ॥

दरी-गम्भीर-वक्त्रेण पिबता च नभस्तलम्।
लिहता जिह्वा-यर्-क्षा-णि ग्रसता भुवन-त्रयम् ॥ १६ ॥

महता रौद्र-दंष्ट्रेण जृम्भ-माणं मुहुर्मुहुः।
वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७ ॥

येनावृता इमे लोकास्तपसा त्वाष्ट्र-मूर्तिना।
स वै वृत्र इति प्रोक्तः पापः परम-दारुणः ॥ १८ ॥

तं निज-घ्नुरभिद्रुत्य सगणा विबुध-र्षभाः।
स्वैः स्वैः दिव्य-अस्त्र-शस्त्र-औघैः सोऽग्रसत् तानि कृत्स्नशः ॥ १९ ॥

ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्त-तेजसः।
प्रत्यञ्चम् आदि-पुरुषम् उपतस्थुः समाहिताः ॥ २० ॥

श्री-देव उवाच
वाय्व-म्बर-अग्न्य-अप्क्षितयः त्रि-लोकाः
ब्रह्मादयः ये वयम् उद्द्विजन्तः।
हराम् यस्मै बलिमन्तः कोऽसौ
बिभेति यस्माद् अरणं ततो नः ॥ २१ ॥

अविस्मितं तं परिपूर्ण-कामं
स्वेनैव लाभेन समं प्रशान्तम्।
विनो-अपसर्पत्यपरं हि बालिशः
श्वलाङ्गुलेन अतितितर्ति सिन्धुम् ॥ २२ ॥

यस्यों-रुशृङ्गे जगतीं स्वनावम्
मनुः यथाऽऽबध्य ततार दुर्गम्।
स एव नः त्वाष्ट्र-भयाद् दुरन्तात्
त्राताः आश्रितान् वारि-चरः अपि नूनम् ॥ २३ ॥

पुरा स्वयम्भूरपि संयमाम्भ
स्युः दीर्ण-वातोर्मिरवैः कराले।
एकोऽरविन्दात् पतितस्ततार
तस्माद् भयाद् येन स नोऽस्तु पारः ॥ २४ ॥

य एक ईशः निजमायया नः
स सर्ज येनानुसृजाम् विश्वम्।
वयं न यस्यापि पुरः समीहतः
पश्याम् लिङ्गं पृथगीशमानिनः ॥ २५ ॥

यो नः सपत्नैः भृशम् अर्द्यमानान्
देवर्षितिर् यङ् नृषु नित्य एव।
कृतावतारस्तनुभिः स्वमायया
कृत्वा आत्मसात् पाति युगे युगे च ॥ २६ ॥

तमेव देवं वयम् आत्म-दैवतं
परं प्रधानं पुरुषं विश्वमन्यम्।
व्रजाम् सर्वे शरणं शरण्यं
स्वानां स नो धास्यति शं महात्मा ॥ २७ ॥

श्री-शुक उवाच
इति तेषां महाराज सुराणाम् उपतिष्ठताम्।
प्रतीच्यां दिश्याभूदाविः शङ्ख-चक्र-गदाधरः ॥ २८ ॥

आत्म-तुल्यैः षोडश-भिः बिना श्रीवत्स-कौस्तुभौ।
पर्युपासितम् उन्निद्र-शरद-अम्बुरुहेक्षणम् ॥ २९ ॥

दृष्ट्वा तम् अवनौ सर्व ईक्षण-आह्लाद-विक्लवाः।
दण्डवत् पतिता राजन् छनैः उत्थाय तुष्टुवुः ॥ ३० ॥

श्री-देव उवाच
नमस्ते यज्ञ-वीर्याय वयसे उत ते नमः।
नमस्ते ह्यस्त-चक्राय नमः सुपुरु-हूतये ॥ ३१ ॥

यत् ते गतीनां तिसृणाम् ईशितुः परमं पदम्।
नार्वाचीनो विसर्गस्य धातर् वेदितुम् अर्हति ॥ ३२ ॥

ॐ नमस्तेऽस्तु भगवन् नारायण-वासुदेव-आदि-पुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोक-ऐकनाथ सर्वेश्वर लक्ष्मी-नाथ परम-हंस-परिव्राजकैः परमेण आत्म-योग-समाधिना परिभावित-परिस्फुट-पारमहंस्य-धर्मेणोद्घाटित-तमः-कपाट-द्वारे चित्तेऽपावृत आत्म-लोके स्वयमुपलब्ध निज-सुखानुभवो भवान् ॥ ३३ ॥

दुरवबोध इव तव आयं विहार-योगो यद् अशरणोऽशरीर इदम् अनवेक्षितास्मात् समवाय आत्मनैव आविक्रियमाणेन सगुण-अगुणः सृजसि पासि हरसि ॥ ३४ ॥

अथ तत्र भवान् किं देवदत्त-वदिह गुणविसर्ग-पतितः पारतन्त्र्येण स्वकृत-कुशल-अकुशलं फलम् उपाददाति। अहो स्विद् आत्म-आराम उपशम-शीलः समञ्जस-दर्शन उदास्त इति ह वाव न विदामः ॥ ३५ ॥

न हि विरोध उभयं भगवत्य-अप-परिणित-गुण-गणो ईश्वर-एऽनवगाह्य-माहात्म्येऽर्वाचीन विकल्प-वितर्क-विचार-प्रमाणा-भासक-उतर्क-शास्त्र-कलिलान्तःकरण-आश्रय-दुरवग्रह-वादिनां विवाद-अनवसर उपरत-समस्त-मायामये केवल एव आत्म-मायाम् अन्तर्धाय। को न्वर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात् ॥ ३६ ॥

समविषम-मतीनां मतम् अनुसारसि यथा रज्जु-खण्डः सर्पादि धियाम् ॥ ३७ ॥

स एव हि पुनः सर्व-वस्तुनि वस्तु-स्वरूपः सर्वेश्वरः सकल-जगत् कारण-कारण-भूतः सर्व-प्रत्यगात्मत्वात् सर्व-गुण-आभास-उप-लक्षितः एक एव पर्यवशेषितः ॥ ३८ ॥

अथ ह वाव तव महिमा-अमृत-रस-समुद्र-विपृषा सकृद् अवलीढया स्व-मनसि निष्यन्द-मानान वरत-सुखेन विस्मारित-दृष्ट-श्रुत-विषय-सुख-लेशाभासाः परम-भागवता एकान्तिनो भगवति सर्व-भूत-प्रिय-सुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृत-अनसः कथम् उ ह वा एते मधु-मथन पुनः स्वार्थ-कुशला हि आत्म-प्रिय-सुहृदः साधवस्त्वच्चरणां-बुजानु-सेवां विसृजन्ति न यत्र पुनरयं संसार-पर्यावर्तः ॥ ३९ ॥

त्रि-भुवन-आत्म-भवन त्रि-विक्रम त्रि-नयन त्रि-लोक-मनोहरानुभाव तवैव विभूतयः दितिज-जनुजा-दयश्च अपि तेषाम् अनुपक्रम-समयः अयमिति स्व-आत्म-मायया सुर-नर-मृग- मिश्रित-जलक-र-आकृतिभिर्यथा पराधं दण्डं दण्ड-धर दधर्थ एवमेनेमपि भगवन् जहि त्वाष्ट्रम् यदि मन्यसे ॥ ४० ॥

श्री-शुक उवाच

अस्माकं तावकानां तव नतानां तत ततामह
तव चरण-नलिन-युगल-ध्यानानुबद्ध-हृदय-निगडानां
स्व-लिङ्ग-विवरणेन आत्मसात् कृतानाम् अनु-कम्पानुरञ्जित
विशद-रुचिर-शिशिर-स्मित-आलोकेन
विगलित-मधुर-मुख-रसामृत-कलया चान्त-स्ताप-मनघार्हसि शमयितुम् ॥ ४१ ॥

अथ भगवंस्त्वा अस्माभि-रखिल-जगद्-उत्पत्ति-स्थिति-लय-निमित्ताय
मानदिव्यमाया-विनोदस्य सकल-जीव-निकायानाम् अन्तर्-हृदयेषु
बहिर् अपि च ब्रह्म-प्रत्यगात्म-स्वरूपेण प्रधान-रूपेण च
यथा-देश-काल-देह-आवस्था-विशेषं
तद् उपादान-उपलम्भ-कटयानुभवतः सर्व-प्रत्यय-साक्षिण
आकाश-शरीरस्य साक्षात् परब्रह्मणः परमात्मनः
कियानिह वा अर्थ-विशेषो विज्ञापनीयः स्याद् विस्फुलिङ्ग-ादिभिरिव हिरण्य-रेतसः ॥ ४२ ॥

अत एव स्वयं तद् उपकल्पयास्माकं भगवतः परम-गुरुः
तव चरण-शत-पलाश-छायां विविध-वृजिन-संसार-परिश्रम-उपशमनी-मुपसृतानां
वयं यत् कामेन उपसादिताः ॥ ४३ ॥

अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवन-त्रयम्।
ग्रस्तानि येन नः कृष्ण-तेजांसि त्रा-युधानि च ॥ ४४ ॥

हंसाय दह्र-निलयाय निरीक्षकाय
कृष्णाय मृष्ट-यशसे निरुपक्रमाय।
सत्-सङ्ग्रहाय भव-पान्थ-निजाश्रम-आप्तावन्ते परीष्ट-गतये हरये नमस्ते ॥ ४५ ॥

श्री-शुक उवाच
अथैवमीडितो राजन् सादरं त्रिदशैः हरिः।
स्वमुपस्थानमाकर्ण्य प्राह तान् अभिनन्दितः ॥ ४६ ॥

श्री-भगवान् उवाच
प्रीतः अहं वः सुर-श्रेष्ठा मद्-उपस्थान-विद्यया।
आत्म-ईश्वर्य-स्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥

किं दुरापं मयि प्रीते तथापि वि-बुध-र्षभाः।
मय्येकान्त-मतिर्नान्यं मत्तो वाञ्छति तत्त्व-वित् ॥ ४८ ॥

न वेद कृपणः श्रेय आत्मनो गुणवस्तु दृक्।
तस्य तानिच्छतो यच्छेद् यद्यपि सोऽपि तथाविधः ॥ ४९ ॥

स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि।
न राति रोगिणोऽपथ्यं वाञ्छतो हि भिषक्तमः ॥ ५० ॥

मघवन् यात् भद्रं वो दध्यञ्च मृषि-सत्तमम्।
विद्या-व्रत-तपस् सारं गात्रं याचत मा चिरम् ॥ ५१ ॥

स वा अधिगतो दध्यङ्ग-श्विभ्यां ब्रह्म निष्कलम्।
यद् वा अश्व-शिरो नाम तयोर् अमरतां व्यधात् ॥ ५२ ॥

दध्यङ्ग-आथर्वणस्त्वष्ट्रे वर्माभेद्यं मद-आत्मकम्।
विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः ॥ ५३ ॥

युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति।
ततस्तैर् आयुध-श्रेष्ठो विश्वकर्म-विनिर्मितः।
येन वृत्र-शिरो हर्ता मत्तेज् उपबृंहितः ॥ ५४ ॥

तस्मिन् विनिहते यूयं तेजोऽस्त्रायुध-सम्पदः।
भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्-परान् ॥ ५५ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे नवमोऽध्यायः ॥ ९ ॥

No comments: