Followers

Search Here...

Sunday, 3 May 2026

ஸ்கந்தம் 5: அத்யாயம் 18 (எங்கும் பரவாசுதேவன் வழிபாடு) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

எங்கும் பரவாசுதேவன் வழிபாடு

ஸ்கந்தம் 5: அத்யாயம் 18

श्री-शुकः उवाच

तथा च भद्र-श्रवाः नाम धर्म-सुतः तत्-कुल-पतयः पुरुषाः भद्राश्व-वर्षे साक्षात् भगवतः वासुदेवस्य प्रियाम् तनुम् धर्म-मयीम् हय-शीर्ष-अभिधानाम् परमेण समाधिना सन्निधाप्य इदम् अभिगृणन्तः उपधावन्ति ॥ १ ॥

भद्र-श्रवसः ऊचुः

ॐ नमः भगवते धर्माय आत्म-विशोधनाय नमः इति ॥ २ ॥

अहो विचित्रम् भगवत्-विचेष्टितम्
घ्नन्तम् जनः अयम् हि मिषन् न पश्यति ।
ध्यायन् असत् यर्हि विकर्म सेवितुम्
निर्हृत्य पुत्रम् पितरम् जिजीविषति ॥ ३ ॥

वदन्ति विश्वम् कवयः स्म नश्वरम्
पश्यन्ति च अध्यात्म-विदः विपश्चितः ।
तथा अपि मुह्यन्ति तव अज मायया
सु-विस्मितम् कृत्यम् अजम् नतः अस्मि तम् ॥ ४ ॥

विश्व-उद्भव-स्थान-निरोध-कर्म ते
हि अकर्तुः अङ्गीकृतम् अपि अपावृतः ।
युक्तम् न चित्रम् त्वयि कार्य-कारणे
सर्व-आत्मनि व्यतिरिक्ते च वस्तुतः ॥ ५ ॥

वेदान् युग-अन्ते तमसा तिरस्कृतान्
रसातलात् यः नृ-तुरङ्ग-विग्रहः ।
प्रत्याददे वै कवये अभियाचते
तस्मै नमः ते अवितथ-ईहिताय इति ॥ ६ ॥

हरि-वर्षे च अपि भगवान् नर-हरि-रूपेण आस्ते ।
तत्-रूप-ग्रहण-निमित्तम् उत्तरत्र अभिधास्ये ।
तत्-दयितम् रूपम् महा-पुरुष-गुण-भाजनः महा-भागवतः दैत्य-दानव-कुल-तीर्थी-करण-शील-चरितः प्रह्लादः अव्यवधान-अनन्य-भक्ति-योगेन सह तत्-वर्ष-पुरुषैः उपास्ते इदम् च उदाहरति ॥ ७ ॥

ॐ नमः भगवते नरसिंहाय नमः तेजस्-तेजसे आविर् आविर्भव वज्र-नख वज्र-दंष्ट्र कर्म-आशयान् रन्धय रन्धय तमः ग्रस ग्रस ॐ स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठाः ॐ क्ष्रौम् ॥ ८ ॥

स्वस्ति अस्तु विश्वस्य खलः प्रसीदताम्
ध्यायन्तु भूतानि शिवम् मिथः धिया ।
मनः च भद्रम् भजताम् अधोक्षजे
आवेश्यताम् नः मतिः अपि अहैतुकी ॥ ९ ॥

मा गार-दार-आत्मज-वित्त-बन्धुषु
सङ्गः यदि स्यात् भगवत्-प्रियेषु नः ।
यः प्राण-वृत्त्या परितुष्टः आत्मवान्
सिद्ध्यति अदूरात् न तथा इन्द्रिय-प्रियः ॥ १० ॥

यत्-सङ्ग-लब्धं निज-वीर्य-वैभवं
तीर्थं मुहुः संस्पृशताम् हि मानसम् ।
हरति अजः अन्तः श्रुतिभिः गतः अङ्गजम्
कः वै न सेवेत मुकुन्द-विक्रमम् ॥ ११ ॥

यस्य अस्ति भक्तिः भगवति अकिञ्चना
सर्वैः गुणैः तत्र समासते सुराः ।
हरौ अभक्तस्य कुतः महत्-गुणाः
मनोरथेन असति धावतः बहिः ॥ १२ ॥

हरिः हि साक्षात् भगवान् शरीरिणाम्
आत्मा झषाणाम् इव तोयम् ईप्सितम् ।
हित्वा महान्तम् तम् यदि सज्जते गृहे
तदा महत्त्वम् वयसा दम्पतीनाम् ॥ १३ ॥

तस्मात् रजः-राग-विषाद-मन्यु-
मान-स्पृहा-भय-दैन्य-आधि-मूलम् ।
हित्वा गृहम् संसृति-चक्र-वालम्
नृसिंह-पादम् भजत अकुतो-भयम् इति ॥ १४ ॥

केतु-माले अपि भगवान् काम-देव-स्वरूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेः दुहितॄणाम् पुत्राणाम् तत्-वर्ष-पतीनाम् पुरुष-आयुष-अहः-रात्र-परिसङ्ख्यानानाम् यासाम् गर्भाः महा-पुरुष-महा-अस्त्र-तेजसा उद्वेजित-मनसाम् विध्वस्ताः व्यसवः संवत्सर-अन्ते विनिपतन्ति ॥ १५ ॥

अतीव सुललित-गति-विलास-विलसित-रुचिर-हास-लेश-अवलोक-लीलया किञ्चित् उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदन-अरविन्द-श्रिया रमाम् रमयन् इन्द्रियाणि रमयते ॥ १६ ॥

तत् भगवतः माया-मयम् रूपम् परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेः दुहितृभिः उपेता अहःसु च तत्-भर्तृभिः उपास्ते इदम् च उदाहरति ॥ १७ ॥

ॐ ह्रां ह्रीं ह्रूं ॐ नमः भगवते हृषीकेशाय सर्व-गुण-विशेषैः विलक्षित-आत्मने आकूतीनाम् चित्तीनाम् चेतसाम् विशेषाणाम् च अधिपतये षोडश-कलाय छन्दः-मयाय अन्न-मयाय अमृत-मयाय सर्व-मयाय सहसे ओजसे बलाय कान्ताय कामाय नमः ते उभयत्र भूयात् ॥ १८ ॥

स्त्रियः व्रतैः त्वा हृषीकेश्वरम् स्वतः हि आराध्य लोके पतिम् आशासते अन्यम् ।
तासाम् न ते वै परिपान्ति अपत्यम् प्रियं धन-आयूंषि यतः अस्वतन्त्राः ॥ १९ ॥

सः वै पतिः स्यात् अकुतो-भयः स्वयम्
समन्ततः पाति भय-आतुरम् जनम् ।
सः एकः एव इतरथा मिथः भयम्
न एव आत्म-लाभात् अधि मन्यते परम् ॥ २० ॥

या तस्य ते पाद-सरोरुह-अर्हणम्
निकामयेत् सा अखिल-काम-लम्पटा ।
तत् एव रासि-ईप्सितम् ईप्सितः अर्चितः
यत् भग्न-याच्ञा भगवन् प्रतप्यते ॥ २१ ॥

मत्-प्राप्तये अज-ईश-सुर-असुर-आदयः
तप्यन्ते उग्रं तपः ऐन्द्रिये धियः ।
ऋते भवत्-पाद-परायणात् न माम्
विन्दन्ति अहम् त्वत्-हृदयः यतः अजित ॥ २२ ॥

सः त्वम् मम अपि अच्युत शीर्ष्णि वन्दितम्
कर-अम्बुजम् यत् त्वत् अधायि सात्वताम् ।
बिभर्षि माम् लक्ष्म वरेण्य मायया
कः ईश्वरस्य ईहितम् ऊहितुम् विभुः इति ॥ २३ ॥

रम्यके च भगवतः प्रिय-तमम् मात्स्य-अवतार-रूपम् तत्-वर्ष-पुरुषस्य मनोः प्राक्-प्रदर्शितम् सः इदानीम् अपि महता भक्ति-योगेन आराधयति इदम् च उदाहरति ॥ २४ ॥

ॐ नमः भगवते मुख्य-तमाय नमः सत्त्वाय प्राणाय ओजसे सहसे बलाय महा-मत्स्याय नमः इति ॥ २५ ॥

अन्तः बहिः च अखिल-लोक-पालकैः
अदृष्ट-रूपः विचरसि उरु-स्वनः ।
सः ईश्वरः त्वम् यः इदम् वशे अनयन्
नाम्ना यथा दारु-मयीम् नरः स्त्रियम् ॥ २६ ॥

यम् लोक-पालाः किल मत्सर-ज्वराः
हित्वा यतन्तः अपि पृथक् समेत्य च ।
पातुम् न शेकुः द्विपदः चतुष्पदः
सरीसृपम् स्थाणु यत् अत्र दृश्यते ॥ २७ ॥

भवान् युग-अन्त-अर्णवे ऊर्मि-मालिनि
क्षोणीम् इमाम् ओषधि-वीरुधाम् निधिम् ।
मया सह उरु क्रमते अज ओजसा
तस्मै जगत्-प्राण-गण-आत्मने नमः इति ॥ २८ ॥

हिरण्मये अपि भगवान् निवसति कूर्म-तनुम् बिभ्राणः तस्य तत्-प्रिय-तमाम् तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गण-अधिपतिः उपधावति मन्त्रम् इमम् च अनुजपति ॥ २९ ॥

ॐ नमः भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणाय अनुपलक्षित-स्थानाय नमः वर्ष्मणे नमः भूम्ने नमः नमः अवस्थानाय नमः ते ॥ ३० ॥

यत्-रूपम् एतत् निज-मायया अर्पितम्
अर्थ-स्वरूपम् बहु-रूप-रूपितम् ।
सङ्ख्या न यस्य अस्ति अयथा-उपलम्भनात्
तस्मै नमः ते अव्यपदेश-रूपिणे ॥ 31 ॥

जरायु-जम् स्वेद-जम् अण्ड-जम् उद्भिदम्
चर-अचरम् देव-ऋषि-पितृ-भूत-मैन्द्रियम् ।
द्यौः खम् क्षितिः शैल-सरित्-समुद्र
द्वीप-ग्रह-ऋक्ष इति अभिधेयः एकः ॥ 32 ॥

यस्मिन् असङ्ख्येय-विशेष-नाम
रूप-आकृतौ कविभिः कल्पिता इयम् ।
सङ्ख्या यया तत्त्व-दृशा अपनीयते
तस्मै नमः साङ्ख्य-निदर्शनाय ते इति ॥ 33 ॥

उत्तरेषु च कुरुषु भगवान् यज्ञ-पुरुषः कृत-वराह-रूपः आस्ते ।
तम् तु देवी एषा भूः सह कुरुभिः अस्खलित-भक्ति-योगेन उपधावति ।
इमाम् च परमाम् उपनिषदम् आवर्तयति ॥ 34 ॥

ॐ नमः भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ-क्रतवे महा-अध्वर-अवयवाय महा-पुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमः ते ॥ 35 ॥

यस्य स्वरूपम् कवयः विपश्चितः
गुणेषु दारुषु इव जात-वेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवः
गूढम् क्रिया-अर्थैः नमः ईरित-आत्मने ॥ 36 ॥

द्रव्य-क्रिया-हेतु-अयन-ईश-कर्तृभिः
माया-गुणैः वस्तु-निरीक्षित-आत्मने ।
अन्वीक्षया अङ्ग-अतिशय-आत्म-बुद्धिभिः
निरस्त-माया-कृतये नमः नमः ॥ 37 ॥

करोति विश्व-स्थिति-संयम-उदयम्
यस्य ईप्सितम् न ईप्सितम् ईक्षितुः गुणैः ।
माया यथा अयः भ्रमते तत्-आश्रयम्
ग्राव्णः नमः ते गुण-कर्म-साक्षिणे ॥ 38 ॥

प्रमथ्य दैत्यम् प्रति-वारणम् मृधे
यः माम् रसाया जगत्-आदि-सूकरः ।
कृत्वा अग्र-दंष्ट्रे निरगात् उदन्वतः
क्रीडन् इव इभः प्रणतः अस्मि तम् विभुम् इति ॥ 39 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भुवन-कोश-वर्णनम् नाम अष्टादशः अध्यायः ॥ 18 ॥



Saturday, 7 March 2026

ஸ்கந்தம் 5: அத்யாயம் 17 (கங்கை ப்ரம்ம லோகத்திலிருந்து பூமிக்கு வருகை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

கங்கை ப்ரம்ம லோகத்திலிருந்து பூமிக்கு வருகை

ஸ்கந்தம் 5: அத்யாயம் 17

श्री-शुकः उवाच

तत्र भगवतः साक्षात् यज्ञ-लिङ्गस्य विष्णोः विक्रमतः वाम-पाद-अङ्गुष्ठ-नख-निर्भिन्न-ऊर्ध्व-अण्ड-कटाह-विवरेण अन्तः-प्रविष्टा या बाह्य-जल-धारा तत्-चरण-पङ्कज-अवनेजन-अरुण-किञ्जल्क-उप-रञ्जित-अखिल-जगत्-अघ-मल-अपह-उपस्पर्शन-अमला साक्षात् भगवत्-पदी इति अनुपलक्षित-वचः अभिधीयमाना अति-महता कालेन युग-सहस्र-उपलक्षणेन दिवः मूर्धनि अवततार यत् तत् विष्णु-पदम् आहुः ॥ १ ॥

यत्र ह वाव वीर-व्रतः औत्तानपादिः परम-भागवतः अस्मत्-कुल-देवता-चरण-अरविन्द-उदकम् इति याम् अनु-सवनम् उत्कृष्यमाण-भगवत्-भक्ति-योगेन दृढम् क्लिद्यमान-अन्तः-हृदयः औत्कण्ठ्य-विवश-अमीलित-लोचन-युगल-कुड्मल-विगलित-अमल-बाष्प-कलया अभिव्यज्यमान-रोम-पुलक-कुलकः अधुना अपि परम-आदरेण शिरसा बिभर्ति ॥ २ ॥

ततः सप्त ऋषयः तत्-प्रभाव-अभिज्ञाः याम् ननु तपसः आत्यन्तिकी सिद्धिः एतावती भगवति सर्व-आत्मनि वासुदेवे अनुपरत-भक्ति-योग-लाभेन एव उपेक्षित-अन्य-अर्थ-आत्म-गतयः मुक्तिम् इव आगताम् मुमुक्षवः इव स-बहुमानम् अद्य-अपि जटा-जूटैः उद्वहन्ति ॥ ३ ॥

ततः अनेक-सहस्र-कोटि-विमान-अनीक-सङ्कुल-देव-यानेन अवतरन्ती इन्दु-मण्डलम् आवार्य ब्रह्म-सदने निपतति ॥ ४ ॥

तत्र चतुर्धा भिद्यमाना चतुर्भिः नामभिः चतुर्दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एव अभिनिविशति सीता-अलकनन्दा-चक्षुः-भद्रा इति ॥ ५ ॥

सीता तु ब्रह्म-सदनात् केसर-अचल-आदि-गिरि-शिखरेभ्यः अधः-अधः प्रस्रवन्ती गन्धमादन-मूर्धसु पतित्वा अन्तरेण भद्राश्व-वर्षम् प्राच्याम् दिशि क्षार-समुद्रम् अभि-प्रविशति ॥ ६ ॥

एवम् माल्यवत्-शिखरात् निष्पतन्ती ततः अनुपरत-वॆगा केतुमालम् अभि चक्षुः प्रतीच्याम् दिशि सरित्-पतिम् प्रविशति ॥ ७ ॥

भद्रा च उत्तरतः मेरु-शिरसः निपतिता गिरि-शिखरात् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गात् अवस्यन्दमाना उत्तरान् तु कुरून् अभितः उदीच्याम् दिशि जलधिम् अभि-प्रविशति ॥ ८ ॥

तथा एव अलकनन्दा दक्षिणेन ब्रह्म-सदनात् बहूनि गिरि-कूटानि अतिक्रम्य हेम-कूटात् हैम-कूटानि अति-रभस-तर-रंहसा लुठयन्ती भारतम् अभि वर्षम् दक्षिणस्याम् दिशि जलधिम् अभि-प्रविशति यस्याम् स्नान-अर्थम् च आगच्छतः पुंसः पदे पदे अश्वमेध-राजसूय-आदीनाम् फलम् न दुर्लभम् इति ॥ ९ ॥

अन्ये च नदाः नद्यः च वर्षे वर्षे सन्ति बहुशः मेरु-आदि-गिरि-दुहितरः शतशः ॥ १० ॥

तत्र अपि भारतम् एव वर्षम् कर्म-क्षेत्रम् अन्यानि अष्ट वर्षाणि स्वर्गिणाम् पुण्य-शेष-उपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति ॥ ११ ॥

एषु पुरुषाणाम् अयुत-पुरुष-आयुः-वर्षाणाम् देव-कल्पानाम् नाग-अयुत-प्राणानाम् वज्र-संहनन-बल-वयः-मोद-प्रमुदित-महा-सौरत-मिथुन-व्यवाय-अपवर्ग-वर्ष-धृत-एक-गर्भ-कलत्राणाम् तत्र तु त्रेता-युग-समः कालः वर्तते ॥ १२ ॥

यत्र ह देव-पतयः स्वैः स्वैः गण-नायकैः विहित-महा-अर्हणाः सर्व-ऋतु-कुसुम-स्तबक-फल-किसलय-श्रिया आनम्यमान-विटप-लता-विटपिभिः उपशुम्भमान-रुचिर-कानन-आश्रम-आयतन-वर्ष-गिरि-द्रोणीषु तथा च अमल-जल-आशयेषु विकच-विविध-नव-वन-रुह-आमोद-मुदित-राज-हंस-जल-कुक्कुट-कारण्डव-सारस-चक्रवाक-आदिभिः मधुकर-निकर-आकृतिभिः उप-कूजितेषु जल-क्रीडा-आदिभिः विचित्र-विनोदैः सुललित-सुर-सुन्दरीणाम् काम-कलिल-विलास-हास-लीला-अवलोक-आकृष्ट-मनः-दृष्टयः स्वैरम् विहरन्ति ॥ १३ ॥

नवसु अपि वर्षेषु भगवान् नारायणः महा-पुरुषः पुरुषाणाम् तत्-अनुग्रहाय आत्म-तत्त्व-व्यूहेन आत्मना अद्य-अपि सन्निधीयते ॥ १४ ॥

इलावृते तु भगवान् भवः एकः एव पुमान् न हि अन्यः तत्र अपरः निर्विशति भवान्याः शाप-निमित्त-ज्ञः यत् प्रवेक्ष्यतः स्त्री-भावः तत् पश्चात् वक्ष्यामि ॥ १५ ॥

भवानी-नाथैः स्त्री-गण-अर्बुद-सहस्रैः अवरुध्यमानः भगवतः चतुर्मूर्तेः महा-पुरुषस्य तुरीयाम् तामसीम् मूर्तिम् प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्य एतत् अभिगृणन् भवः उपधावति ॥ १६ ॥

श्री-भगवान् उवाच

ॐ नमः भगवते महा-पुरुषाय सर्व-गुण-सङ्ख्यानाय अनन्ताय अव्यक्ताय नमः इति ॥ १७ ॥

भजे भजन्य-अरण-पाद-पङ्कजम्
भगस्य कृत्स्नस्य परम् परायणम् ।
भक्तेषु अलम् भावित-भूत-भावनम्
भव-अपहम् त्वा भव-भावम् ईश्वरम् ॥ १८ ॥

न यस्य माया-गुण-चित्त-वृत्तिभिः
निरिक्षतः हि अणु अपि दृष्टिः अज्यते ।
ईशे यथा नः अजित-मन्युः अंहसाम्
कः तम् न मन्येत जिगीषुः आत्मनः ॥ १९ ॥

असत्-दृशः यः प्रतिभाति मायया
क्षीबः इव मधु-आसव-ताम्र-लोचनः ।
न नाग-वध्वः अर्हणे ईशिरे ह्रिया
यत् पादयोः स्पर्शन-धर्षित-इन्द्रियाः ॥ २० ॥

यम् आहुः अस्य स्थिति-जन्म-संयमम्
त्रिभिः विहीनम् यम् अनन्तम् ऋषयः ।
न वेद सिद्ध-अर्थम् इव क्वचित् स्थितम्
भूमण्डलम् मूर्ध-सहस्र-धामसु ॥ २१ ॥

यस्य आद्यः आसीत् गुण-विग्रहः महान्
विज्ञान-धिष्ण्यः भगवान् अजः किल ।
यत् सम्भवः अहम् त्रिवृता स्व-तेजसा
वैकारिकम् तामसम् ऐन्द्रियम् सृजे ॥ २२ ॥

एते वयम् यस्य वशे महा-आत्मनः
स्थिताः शकुन्ताः इव सूत्र-यन्त्रिताः ।
महान् अहम् वैकृत-तामस-इन्द्रियाः
सृजामः सर्वे यत्-अनुग्रहात् इदम् ॥ २३ ॥

यत् निर्मिताम् कर्हि अपि कर्म-पर्वणीम्
मायाम् जनः अयम् गुण-सर्ग-मोहितः ।
न वेद निस्तारण-योगम् अञ्जसा
तस्मै नमः ते विलय-उदय-आत्मने ॥ २४ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे सप्त-दशः अध्यायः ॥ १७ ॥


ஸ்கந்தம் 5: அத்யாயம் 16 (ஜம்பு த்வீபத்தின் வர்ணனை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஜம்பு த்வீபத்தின் வர்ணனை

ஸ்கந்தம் 5: அத்யாயம் 16

राजा उवाच ॥

उक्तः त्वया भूमण्डलायाम् अविशेषः यावत् आदित्यः तपति यत्र च असौ ज्योतिषाम् गणैः चन्द्रमाः वा सह दृश्यते ॥ १ ॥

तत्र अपि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धवः उपकॢप्ता यतः एतस्याः सप्त-द्वीप-विशेष-विकल्पः त्वया भगवन् खलु सूचितः एतत् एव अखिलम् अहम् मानतः लक्षणतः च सर्वम् विजिज्ञासामि ॥ २ ॥

भगवतः गुण-मये स्थूल-रूपे आवेशितम् मनः हि अगुणे अपि सूक्ष्म-तम् आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेव-आख्ये क्षमम् आवेशितुम् तत् उ ह एतत् गुरो अर्हसि अनुवर्णयितुम् इति ॥ ३ ॥

ऋषिः उवाच ॥

न वै महा-राज भगवतः माया-गुण-विभूतेः काष्ठाम् मनसा वचसा वा अधिगन्तुम् अलम् विबुध-आयुषा अपि पुरुषः तस्मात् प्राधान्येन एव भू-गोलक-विशेषम् नाम-रूप-मान-लक्षणतः व्याख्यास्यामः ॥ ४ ॥

यः वै अयम् द्वीपः कुवलय-कमल-कोश-अभ्यन्तर-कोशः नियुत-योजन-विशालः सम-वर्तुलः यथा पुष्कर-पत्रम् ॥ ५ ॥

यस्मिन् नव वर्षाणि नव-योजन-सहस्र-आयामानि अष्टभिः मर्यादा-गिरिभिः सु-विभक्तानि भवन्ति ॥ ६ ॥

एषाम् मध्ये इलावृतम् नाम अभ्यन्तर-वर्षम् यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुल-गिरि-राजः मेरुः द्वीप-आयाम-समुन्नाहः कर्णिका-भूतः कुवलय-कमलस्य मूर्धनि द्वात्रिंशत् सहस्र-योजन-विततः मूले षोडश-सहस्रम् तावत् अन्तः-भूम्याम् प्रविष्टः ॥ ७ ॥

उत्तर-उत्तरेण इलावृतम् नीलः श्वेतः शृङ्गवान् इति त्रयः रम्यक-हिरण्मय-कुरूणाम् वर्षाणाम् मर्यादा-गिरयः प्राक्-आयताः उभयतः क्षार-उद-अवधयः द्वि-सहस्र-पृथवः एकैकशः पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः दश-अंश-अधिक-अंशेन दैर्घ्ये एव ह्रसन्ति ॥ ८ ॥

एवम् दक्षिणेन इलावृतम् निषधः हेम-कूटः हिमालयः इति प्राक्-आयताः यथा नील-आदयः अयुत-योजन-उत्सेधाः हरि-वर्ष-किम्पुरुष-भारतानाम् यथा-सङ्ख्यम् ॥ ९ ॥

तथा एव इलावृतम् अपरेण पूर्वेण च माल्यवत् गन्ध-मादनौ आ-नील-निषध-आयतौ द्वि-सहस्रम् पप्रथतुः केतुमाल-भद्राश्वयोः सीमानम् विदधाते ॥ १० ॥

मन्दरः मेरु-मन्दरः सुपार्श्वः कुमुदः इति अयुत-योजन-विस्तार-उन्नाहाः मेरोः चतुर्दिशम् अवष्टम्भ-गिरयः उपकॢप्ताः ॥ ११ ॥

चतुर्षु एतेषु चूत-जम्बू-कदम्ब-न्यग्रोधाः चत्वारः पादप-प्रवराः पर्वत-केतवः इव अधि-सहस्र-योजन-उन्नाहाः तावत् विटप-विततयः शत-योजन-परिणाहाः ॥ १२ ॥

ह्रदाः चत्वारः पयः-मधु-इक्षु-रस-अमृष्ट-जलाः यत् उपस्पर्शिनः उप-देव-गणाः योग-ऐश्वर्याणि स्वाभाविकानि भरत-ऋषभ धारयन्ति ॥ १३ ॥

देव-उद्यानानि च भवन्ति चत्वारि नन्दनम् चैत्र-रथम् वैभ्राजकम् सर्वतः-भद्रम् इति ॥ १४ ॥

येषु अमर-परिवृढाः सह सुर-ललना-ललाम-यूथ-पतयः उप-देव-गणैः उप-गीयमान-महिमानः किल विहरन्ति ॥ १५ ॥

मन्दर-उत्सङ्गे एकादश-शत-योजन-उत्तुङ्ग-देव-चूत-शिरसः गिरि-शिखर-स्थूलानि फलानि अमृत-कल्पानि पतन्ति ॥ १६ ॥

तेषाम् विशीर्यमाणानाम् अति-मधुर-सुरभि-सुगन्धि-बहुल-अरुण-रस-उदेन अरुणोदा नाम नदी मन्दर-गिरि-शिखरात् निपतन्ती पूर्वेण इलावृतम् उपप्लावयति ॥ १७ ॥

यत् उपजोषणात् भवानीयाः अनुचरीणाम् पुण्य-जन-वधूनाम् अवयव-स्पर्श-सुगन्ध-वातः दश-योजनम् समन्तात् अनुवासयति ॥ १८ ॥

एवम् जम्बू-फलानाम् अति-उच्च-निपात-विशीर्णानाम् अनस्थि-प्रायाणाम् इभ-काय-निभानाम् रसेन जम्बू नाम नदी मेरु-मन्दर-शिखरात् अयुत-योजनात् अवनि-तले निपतन्ती दक्षिणेन आत्मानम् यावत् इलावृतम् उपस्यन्दयति ॥ १९ ॥

तावत् उभयोः अपि रोधसोः या मृत्तिका तत् रसेन अनुविध्यमाना वायु-अर्क-संयोग-विपाकेन सदा अमर-लोक-आभरणम् जाम्बूनदम् नाम सुवर्णम् भवति ॥ २० ॥

यदु ह वाव विबुध-आदयः सह युवतिभिः मुकुट-कटक-कटि-सूत्र-आदि-आभरण-रूपेण खलु धारयन्ति ॥ २१ ॥

यः तु महा-कदम्बः सु-पार्श्व-निरूढः याः तस्य कोटरेभ्यः विनिःसृताः पञ्च-आयाम-परिणाहाः पञ्च मधु-धाराः सु-पार्श्व-शिखरात् पतन्त्यः अपरेण आत्मानम् इला-वृतम् अनुमोदयन्ति ॥ २२ ॥

याः हि उपयुञ्जानानाम् मुख-निर्वासितः वायुः समन्तात् शत-योजनम् अनुवासयति ॥ २३ ॥

एवम् कुमुद-निरूढः यः शत-वल्शः नाम वटः तस्य स्कन्धेभ्यः नीचीनाः पयः-दधि-मधु-घृत-गुड-अन्न-आदि-अम्बर-शय्या-आसन-आभरण-आदयः सर्वे एव काम-दुघाः नदाः कुमुद-अग्रात् पतन्तः तम् उत्तरेण इला-वृतम् उपयोजयन्ति ॥ २४ ॥

यान् उपजुषाणानाम् न कदाचित् अपि प्रजानाम् वली-पलित-क्लम-स्वेद-दौर्गन्ध्य-जरा-अमय-मृत्यु-शीत-उष्ण-वैवर्ण्य-उपसर्ग-आदयः ताप-विशेषाः भवन्ति यावत् जीवम् सुखम् निरतिशयम् एव ॥ २५ ॥

कुरङ्ग-कुरर-कुसुम्भ-वैकङ्क-त्रिकूट-शिशिर-पतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारद-आदयः विंशति-गिरयः मेरोः कर्णिकायाः इव केसर-भूताः मूल-देशे परितः उपकॢप्ताः ॥ २६ ॥

जठर-देव-कूटौ मेरुम् पूर्वेण अष्टादश-योजन-सहस्रम् उदगायतौ द्वि-सहस्रम् पृथु-तुङ्गौ भवतः ।
एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राक्-आयातौ एवम् उत्तरतः त्रि-शृङ्ग-मकरौ अष्टभिः एतैः परिसृतः अग्निः इव परितः चकास्ति काञ्चन-गिरिः ॥ २७ ॥

मेरोः मूर्धनि भगवतः आत्म-योनेः मध्यतः उपकॢप्ताम् पुरीम् अयुत-योजन-साहस्रीम् सम-चतुरस्राम् शात-कौम्भीम् वदन्ति ॥ २८ ॥

ताम् अनु परितः लोक-पालानाम् अष्टानाम् यथा-दिशम् यथा-रूपम् तुरीय-मानेन पुरः अष्टौ उपकॢप्ताः ॥ २९ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भुवन-कोश-वर्णनम् नाम षोडशः अध्यायः ॥ १६ ॥


ஸ்கந்தம் 5: அத்யாயம் 15 (ப்ரியவ்ரதன் வம்சத்தின் வர்ணனை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ப்ரியவ்ரதன் வம்சத்தின் வர்ணனை

ஸ்கந்தம் 5: அத்யாயம் 15

श्री-शुकः उवाच ॥

भरतस्य आत्मजः सुमतिः नाम अभिहितः यम् उ ह वाव केचित् पाखण्डिनः ऋषभ-पदवीम् अनुवर्तमानम् च अनार्याः अवेद-समाम्नाताम् देवताम् स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ १ ॥

तस्मात् वृद्ध-सेनायाम् देवताजित् नाम पुत्रः अभवत् ॥ २ ॥

अथ असुर्याम् तत्-तनयः देव-द्युम्नः ततः धेनुमत्याम् सुतः परमेष्ठी तस्य सुवर्चलायाम् प्रतीहः उपजातः ॥ ३ ॥

यः आत्म-विद्याम् आख्याय स्वयम् संशुद्धः महा-पुरुषम् अनुसस्मार ॥ ४ ॥

प्रतीहात् सुवर्चलायाम् प्रतिहर्तृ-आदयः त्रयः आसन् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अज-भूमा-नौ अजनिषाताम् ॥ ५ ॥

भूम्नः ऋषि-कुल्यायाम् उद्गीथः ततः प्रस्तावः देव-कुल्यायाम् प्रस्तावात् नियुत्सायाम् हृदय-जः आसीत् विभुः विभोः रत्याम् च पृथु-सेनः तस्मात् नक्तः आकूत्याम् जज्ञे नक्तात् द्रुति-पुत्रः गयः राजर्षि-प्रवरः उदार-श्रवाः अजायत साक्षात् भगवतः विष्णोः जगत्-रिरक्षिषया गृहीत-सत्त्वस्य कला-आत्मवत्-आदि-लक्षणेन महा-पुरुषताम् प्राप्तः ॥ ६ ॥

सः वै स्व-धर्मेण प्रजा-पालन-पोषण-प्रीणन-उपलालन-अनुशासन-लक्षणेन इज्या-आदिना च भगवति महा-पुरुषे पर-अवरे ब्रह्मणि सर्व-आत्मना अर्पित-परमार्थ-लक्षणेन ब्रह्म-वित्-चरण-अनुसेवया आपादित-भगवत्-भक्ति-योगेन च अभीक्ष्णशः परिभावित-अति-शुद्ध-मतिः उपरत-अनात्म्यः आत्मनि स्वयम् उपलभ्यमान-ब्रह्म-आत्म-अनुभवः अपि निरभिमानः एव अवनिम् अजूगुपत् ॥ ७ ॥

तस्य इमाम् गाथाम् पाण्डवेय पुरा-विदः उपगायन्ति ॥ ८ ॥

गयम् नृपः कः प्रतियाति कर्मभिः
यज्वा अभिमानी बहु-वित् धर्म-गोप्ता ।
समागत-श्रीः सदसः पतिः सताम्
सत्-सेवकः अन्यः भगवत्-कलाम् ऋते ॥ ९ ॥

यम् अभ्यषिञ्चन् परया मुदा सतीः
सत्य-आशिषः दक्ष-कन्याः सरिद्भिः ।
यस्य प्रजानाम् दुदुहे धरा आशिषः
निराशिषः गुण-वत्स-स्नुत-ओधाः ॥ १० ॥

छन्दांसि अकामस्य च यस्य कामान्
दुदूहुः आजह्रुः अथो बलिम् नृपाः ।
प्रत्यञ्चिताः युधि धर्मेण विप्राः
यत् आशिषाम् षष्ठम् अंशम् परेत्य ॥ ११ ॥

यस्य अध्वरे भगवान् अध्वर-आत्मा
मघोनि माद्यति उरु-सोम-पीथे ।
श्रद्धा-विशुद्ध-अचल-भक्ति-योग-
समर्पित-इज्या-फलम् आजहार ॥ १२ ॥

यत् प्रीणनात् बर्हिषि देव-तिर्यङ्
मनुष्य-वीरुत्-तृणम् आ-विरिञ्चात् ।
प्रीयेत सद्यः सः हि विश्व-जीवः
प्रीतः स्वयम् प्रीतिम् अगात् गयस्य ॥ १३ ॥

गयात् गयन्त्याम् चित्र-रथः सु-गतिः अवरोधनः इति त्रयः पुत्राः बभूवुः चित्र-रथात् ऊर्णायाम् सम्राट् अजनिष्ट ॥ १४ ॥

ततः उत्कलायाम् मरीचिः मरीचेः बिन्दुमत्याम् बिन्दुमान् उदपद्यत तस्मात् सरघायाम् मधुः नाम अभवत् मधोः सुमनसि वीर-व्रतः ततः भोजायाम् मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायाम् भौवनः ततः दूषणायाम् त्वष्टा अजनिष्ट त्वष्टुः विरोचनायाम् विरजः विरजस्य शतजित्-प्रवरम् पुत्र-शतम् कन्या च विषूच्याम् किल जातम् ॥ १५ ॥

तत्र अयम् श्लोकः —
प्रैयव्रतम् वंशम् इमम् विरजः चरम-उद्भवः ।
अकरोत् अति-अलम् कीर्त्या विष्णुः सुर-गणम् यथा ॥ १६ ॥


इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे प्रियव्रत-वंश-अनुकीर्तनम् नाम पञ्चदशः अध्यायः ॥ १५ ॥


ஸ்கந்தம் 5: அத்யாயம் 14 (மனித வாழ்க்கை = ஒரு காட்டுப் பயணம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

மனித வாழ்க்கை = ஒரு காட்டுப் பயணம்

ஸ்கந்தம் 5: அத்யாயம் 14

 

सः ह उवाच

सः एषः देह-आत्म-मानिनाम् सत्त्व-आदि-गुण-विशेष-विकल्पित-कुशल-अकुशल-समवहार-विनिर्मित-विविध-देह-आवलिभिः वियोग-संयोग-आदि-अनादि-संसार-अनुभवस्य द्वार-भूतेन षट्-इन्द्रिय-वर्गेण तस्मिन् दुर्ग-अध्व-वद् अ-सुगमे अध्वनि आपतितः ईश्वरस्य भगवतः विष्णोः वश-वर्तिन्या मायया जीव-लोकः अयम् यथा वणिक्-सार्थः अर्थ-परः स्व-देह-निष्पादित-कर्म-अनुभवः श्मशान-वद् अशिव-तमायाम् संसार-अटव्याम् गतः न अद्य अपि विफल-बहु-प्रति-योग-ईहः तत्-ताप-उपशमनीम् हरि-गुरु-चरण-अरविन्द-मधुकर-अनुपदवीम् अवरुन्धे यस्याम् उ ह वा एते षट्-इन्द्रिय-नामानः कर्मणा दस्यवः एव ते ॥ १ ॥

तत् यथा पुरुषस्य धनम् यत् किञ्चित् धर्म-औपयिकम् बहु-कृच्छ्र-अधिगतं साक्षात् परम-पुरुष-आराधन-लक्षणः यः असौ धर्मः तम् तु साम्पराये उदाहरन्ति । तत् धर्म्यम् धनम् दर्शन-स्पर्शन-श्रवण-आस्वादन-अवघ्राण-सङ्कल्प-व्यवसाय-गृह-ग्राम्य-उप-भोगेन कु-नाथस्य अ-जित-आत्मनः यथा सार्थस्य विलुम्पन्ति ॥ २ ॥

अथ च यत्र कौटुम्बिकाः दार-अपत्य-आदयः नाम्ना कर्मणा वृक-सृगालाः एव अनिच्छतः अपि कदर्यस्य कुटुम्बिनः उरणक-वद् संरक्ष्यमाणम् मिषतः अपि हरन्ति ॥ ३ ॥

यथा हि अनु-वत्सरम् कृष्यमाणम् अपि अदग्ध-बीजम् क्षेत्रम् पुनः एव अवपन-काले गुल्म-तृण-वीरुद्भिः गह्वरम् इव भवति एवम् एव गृह-आश्रमः कर्म-क्षेत्रम् यस्मिन् न हि कर्माणि उत्सीदन्ति यत् अयम् काम-करण्डः एषः आवसथः ॥ ४ ॥

तत्र गतः दंश-मशक-सम-अपसदैः मनुजैः शलभ-शकुन्त-तस्कर-मूषक-आदिभिः उपरुध्यमान-बहिः-प्राणः क्वचित् परिवर्तमानः अस्मिन् अध्वनि अविद्या-काम-कर्मभिः उपरक्त-मनसा अनुपपन्न-अर्थम् नर-लोकम् गन्धर्व-नगरम् उपपन्नम् इति मिथ्या-दृष्टिः अनुपश्यति ॥ ५ ॥

तत्र च क्वचित् आतप-उदक-निभान् विषयान् उपधावति पान-भोजन-व्यवाय-आदि-व्यसन-लोलुपः ॥ ६ ॥

क्वचित् च अशेष-दोष-निषदनम् पुरीष-विशेषम् तत्-वर्ण-गुण-निर्मित-मतिः सुवर्णम् उपादित्सति अग्नि-काम-कातरः इव उल्मुक-पिशाचम् ॥ ७ ॥

अथ कदाचित् निवास-पानीय-द्रविण-आदि-अनेक-आत्म-उपजीवन-अभिनिवेशः एतस्याम् संसार-अटव्याम् इतः ततः परिधावति ॥ ८ ॥

क्वचित् च वात्य-औपम्यया प्रमदया आरोप-मारोपितः तत्-काल-रजसा रजनी-भूतः इव असाधु-मर्यादः रजस्वल-अक्षः अपि दिक्-देवताः अति-रजस्वल-मतिः न विजानाति ॥ ९ ॥

क्वचित् सकृत् अवगत-विषय-वैतथ्यः स्वयम् पर-अभिध्यानेन विभ्रंशित-स्मृतिः तया एव मरीचि-तोय-प्रायान् तान् एव अभिधावति ॥ १० ॥

क्वचित् उलूक-झिल्ली-स्वन-वद् अति-परुष-रभस-आटोपम् प्रत्यक्षम् परोक्षम् वा रिपु-राज-कुल-निर्भर्त्सितेन अति-व्यथित-कर्ण-मूल-हृदयः ॥ ११ ॥

सः यदा दुग्ध-पूर्व-सुकृतः तदा कारस्कर-काक-तुण्ड-आदि-अपुण्य-द्रुम-लता-विष-उद-पान-वद् उभय-अर्थ-शून्य-द्रविणान् जीवन्-मृतान् स्वयम् जीवन् म्रियमाणः उपधावति ॥ १२ ॥

एकदा सत्-प्रसङ्गात् निकृत-मतिः व्युदक-स्रोतः-स्खलन-वद् उभयतः अपि दुःख-दम् पाखण्डम् अभियाति ॥ १३ ॥

यदा तु पर-बाधया अन्धः आत्मने न उपनमति तदा हि पितृ-पुत्र-बर्हिष्मतः पितृ-पुत्रान् वा सः खलु भक्षयति ॥ १४ ॥

क्वचित् आसाद्य गृहम् दाव-वद् प्रिय-अर्थ-विधुरम् अ-सुख-उदर्कम् शोक-अग्निना दह्यमानः भृशम् निर्वेदम् उपगच्छति ॥ १५ ॥

क्वचित् काल-विषमित-राज-कुल-रक्षसा अपहृत-प्रियतम-धन-आसुः प्रमृतकः इव विगत-जीव-लक्षणः आस्ते ॥ १६ ॥

कदाचित् मनो-रथ-उपगत-पितृ-पितामह-आदि-असत्-सत् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति ॥ १७ ॥

क्वचित् गृह-आश्रम-कर्म-चोदना-अति-भर-गिरिम् आरुरुक्षमाणः लोक-व्यसन-कर्षित-मनाः कण्टक-शर्करा-क्षेत्रम् प्रविशन् इव सीदति ॥ १८ ॥

क्वचित् च दुःसहेन काय-अभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति ॥ १९ ॥

सः एव पुनः निद्रा-अजगर-गृहीतः अन्धे तमसि मग्नः शून्य-अरण्ये इव शेते न अन्यत् किञ्चन वेद शवः इव अपविद्धः ॥ २० ॥

कदाचित् भग्न-मान-दंष्ट्रः दुर्जन-दन्दशूकैः अलब्ध-निद्रः क्षणः व्यथित-हृदयेन अनुक्षीयमाण-विज्ञानः अन्ध-कूपे अन्ध-वद् पतति ॥ २१ ॥

कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार-पर-द्रव्याणि अवरुन्धानः राज्ञा स्वामिभिः वा निहतः पतति अपारे निरये ॥ २२ ॥

अथ च तस्मात् उभयथा अपि हि कर्म अस्मिन् आत्मनः संसार-अवपनम् उदाहरन्ति ॥ २३ ॥

मुक्तः ततः यदि बन्धात् देव-दत्तः उपाच्छिनत्ति तस्मात् अपि विष्णु-मित्रः इति अनवस्थितिः ॥ २४ ॥

क्वचित् च शीत-वात-आदि-अनेक-अधिदैविक-भौतिक-आत्मीयानाम् दशानाम् प्रतिनिवारणे अकल्पः दुरन्त-चिन्तया विषण्णः आस्ते ॥ २५ ॥

क्वचित् मिथः व्यवहरन् यत् किञ्चित् धनम् अन्येभ्यः वा काकिणिका-मात्रम् अपि अपहरन् यत् किञ्चित् वा विद्वेषम् एति वित्त-शाठ्यात् ॥ २६ ॥

अध्वनि अमुष्मिन् इमे उपसर्गाः तथा सुख-दुःख-राग-द्वेष-भय-अभिमान-प्रमाद-उन्माद-शोक-मोह-लोभ-मात्सर्य-ईर्ष्या-अवमान-क्षुत्-पिपासा-आधि-व्याधि-जन्म-जरा-मरण-आदयः ॥ २७ ॥

क्वापि देव-मायया स्त्रिया भुज-लता-उपगूढः प्रस्कन्न-विवेक-विज्ञानः यत् विहार-गृह-आरम्भ-आकुल-हृदयः तत् आश्रय-आवसक्त-सुत-दुहितृ-कलत्र-भाषित-अवलोक-विचेष्टित-अपहृत-हृदयः आत्मानम् अजित-आत्मा अपारे अन्धे तमसि प्रहिणोति ॥ २८ ॥

कदाचित् ईश्वरस्य भगवतः विष्णोः चक्रात् परम-अणु-आदि द्वि-परार्ध-अपवर्ग-काल-उपलक्षणात् परिवर्तितेन वयसा रंहसा हरतः आ-ब्रह्म-तृण-स्तम्ब-आदीनाम् भूतानाम् अनिमिषतः मिषताम् वित्रस्त-हृदयः तम् एव ईश्वरम् काल-चक्र-निज-आयुधम् साक्षात् भगवन्तम् यज्ञ-पुरुषम् अनादृत्य पाखण्ड-देवताः कङ्क-गृध्र-बक-वट-प्रायाः आर्य-समय-परिहृताः साङ्केत्येन अभिधत्ते ॥ २९ ॥

यदा पाखण्डिभिः आत्म-वञ्चितैः तैः उरु वञ्चितः ब्रह्म-कुलम् समावसन् तेषाम् शीलम् उपनयन-आदि-श्रौत-स्मार्त-कर्म-अनुष्ठानेन भगवतः यज्ञ-पुरुषस्य आराधनम् एव तत् अरोचयन् शूद्र-कुलम् भजते निगम-आचारे अशुद्धितः यस्य मिथुनी-भावः कुटुम्ब-भरणम् यथा वानर-जातॆः ॥ ३० ॥

तत्र अपि निरवरोधः स्वैरेण विहरन् अति-कृपण-बुद्धिः अन्योन्य-मुख-निरीक्षण-आदिना ग्राम्य-कर्मणा एव विस्मृत-काल-अवधिः ॥ ३१ ॥

क्वचित् द्रुम-वद् ऐहिक-अर्थेषु गृहेषु रंस्यन् यथा वानरः सुत-दार-वात्सलः व्यवाय-क्षणः ॥ ३२ ॥

एवम् अध्वनि अवरुन्धानः मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये ॥ ३३ ॥

क्वचित् शीत-वात-आदि-अनेक-दैविक-भौतिक-आत्मीयानाम् दुःखानाम् प्रतिनिवारणे अकल्पः दुरन्त-विषय-विषण्णः आस्ते ॥ ३४ ॥

क्वचित् मिथः व्यवहरन् यत् किञ्चित् धनम् उपयाति वित्त-शाठ्येन ॥ ३५ ॥

क्वचित् क्षीण-धनः शय्या-आसन-आशन-आदि-उपभोग-विहीनः यावत् अप्रतिलब्ध-मनोरथ-उपगत-आदाने अवसित-मतिः ततः ततः अवमान-आदीनि जनात् अभिलभते ॥ ३६ ॥

एवम् वित्त-व्यतिषङ्ग-विवृद्ध-वैर-अनुबन्धः अपि पूर्व-वासना-या मिथः उद्वहति अथ अपवहति ॥ ३७ ॥

एतस्मिन् संसार-अध्वनि नाना-क्लेश-उपसर्ग-बाधितः आपन्न-विपन्नः यत्र यः तम् उ ह वाव एतरः तत्र विसृज्य जातम् जातम् उपादाय शोचन् मुह्यन् बिभ्यत् विवदन् क्रन्दन् संहृष्यन् गायन् अह्यमानः साधु-वर्जितः न एव आवर्तते अद्यापि यतः आरब्धः एष नर-लोक-सार्थः यम् अध्वनः पारम् उपदिशन्ति ॥ ३८ ॥

यत् इदम् योग-अनुशासनम् न वा एतत् अवरुन्धते यत् न्यस्त-दण्डाः मुनयः उपशम-शीलाः उपरत-आत्मानः समवगच्छन्ति ॥ ३९ ॥

यत् अपि दिग्-इभ-जयिनः यज्विनः ये वै राजर्षयः किम् तु परम् मृधे शयीरण् अस्याम् एव मम इयम् इति कृत-वैर-अनुबन्धायाम् विसृज्य स्वयम् उपसंहृताः ॥ ४० ॥

कर्म-वल्लीम् अवलम्ब्य ततः आपदः कथञ्चित् नरकात् विमुक्तः पुनः अपि एवम् संसार-अध्वनि वर्तमानः नर-लोक-सार्थम् उपयाति एवम् उपरि गतः अपि ॥ ४१ ॥

तस्य इदम् उपगायन्ति —
आर्षभस्य इह राजर्षेः मनसा अपि महा-आत्मनः ।
न अनुवर्त्म अर्हति नृपः मक्षिका इव गरुत्मतः ॥ ४२ ॥

यः दुस्त्यजान् दार-सुतान् सुहृत्-राज्यम् हृदि-स्पृशः ।
जहौ युवा एव मल-वद् उत्तम-श्लोक-लालसः ॥ ४३ ॥

यः दुस्त्यजान् क्षिति-सुत-स्वजन-अर्थ-दारान्
प्रार्थ्याम् श्रियम् सुर-वरैः सदय-अवलोकाम् ।
न ऐच्छत् नृपः तत् उचितम् महताम् मधु-द्विट्-
सेवा-अनुरक्त-मनसाम् अभवः अपि फल्गुः ॥ ४४ ॥

यज्ञाय धर्म-पतये विधि-नैपुणाय
योगाय साङ्ख्य-शिरसे प्रकृति-ईश्वराय ।
नारायणाय हरये नमः इति उदारम्
हास्यन् मृग-त्वम् अपि यः समुदाजहार ॥ ४५ ॥

यः इदम् भागवत-सभाजित-अवदात-गुण-कर्मणः राजर्षेः भरतस्य अनुचरितम् स्वस्त्ययनम् आयुष्यम् धन्यम् यशस्यम् स्वर्ग्य-अपवर्ग्यम् वा अनुशृणोति आख्यास्यति अभिनन्दति च सर्वाः एव आशिषः आत्मनः आशास्ते न काञ्चन परतः इति ॥ ४६ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे भरत-उपाख्याने पारोक्ष्य-विवरणम् नाम चतुर्दशः अध्यायः ॥ १४ ॥