Followers

Search Here...

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 22 (பலி சக்கரவர்த்தி தன்னையே கொடுத்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பலி சக்கரவர்த்தி தன்னையே கொடுத்தார்

ஸ்கந்தம் 8: அத்யாயம் 22

श्रीशुक उवाच
एवम् विप्रकृतः राजन् बलिः भगवता असुरः
भिद्यमानः अपि अभिन्नात्मा प्रत्याह अविक्लवम् वचः॥1॥

श्रीबलिः उवाच
यदि उत्तमश्लोक भवान् मम इरितम्
वचः व्यम्-लीकं सुरवर्य मन्यते
करोमि ऋतम् तत् भवेत् प्रलम्भनम्
पदम् तृतीयम् कुरु शीर्ष्णि मे निजम्॥2॥

बिभेमि अहम् निरयात् पदच्युतः
पाशबन्धात् व्यसनात् दुरत्ययात्
एव अर्थकृच्छ्रात् भवतः विनिग्रहात्
असाधुवादात् भृशम् उद्विजे यथा॥3॥

पुंसाम् श्लाघ्यतमम् मन्ये दण्डम् अर्हत्तमम् अर्पितम्
यम् माता पिता भ्राता सुहृदः आदिशन्ति हि॥4॥

त्वम् नूनम् असुराणाम् नः परोक्ष्यः परमः गुरुः
यः नः अनेकम् मद-अन्धानाम् विभ्रंशम् चक्षुः आदिशत्॥5॥

यस्मिन् वैर-अनुबन्धेन व्यूढेन विभुध-इतराः
बहवः लेभिरे सिद्धिम् याम्  एकान्त-योगिनः॥6॥

तेन अहम् निगृहीतः अस्मि भवता भूरि-कर्मणा
बद्धः वारुणैः पाशैः अति-व्रीडे  व्यथे॥7॥

पितामहः मे भवदीय-सम्मतः
प्रह्लादः आविष्कृत-साधु-वादः
भवत्-विपक्षेण विचित्र-वैशसम्
संप्रापितः त्वत्-परमः स्व-पित्रा॥8॥

किम् आत्मना अन्येन जहाति यः अन्ततः
किम् रिक्थ-हारैः स्वजन-आख्य-डस्युभिः
किम् जायया संसृति-हेतु-भूतया
मर्त्यस्य गेहैः किम् इह आयुषः व्ययः॥9॥

इत्थम् सः निश्चित्य पितामहः महा-
नग-अध-बोधः भवतः पाद-पद्मम्
ध्रुवम् प्रपेदे हि अकुतः-भयम् जनात्
भीतः स्व-पक्ष-क्षपणस्य सत्तम॥10॥

अथ अहम् अपि आत्म-रिपः तव अन्तिकम्
दैवेन नीतः प्रसभम् त्याजित-श्रीः
इदम् कृतान्त-अन्तिक-वर्ति जीवितम्
यया अध्रुवम् स्तब्ध-मतिः  बुध्यते॥11॥

श्रीशुकः उवाच
तस्य एवम् भाषमाणस्य प्रह्लादः भगवत्-प्रियः
आजगाम कुरु-श्रेष्ठ राका-पतिः इव उत्थितः॥12॥

तम् इन्द्रसेनः स्व-पितामहम् श्रियाः
विराजमानम् नलिन-आयतेक्षणम्
प्रांशुम् पिशङ्ग-अम्बरम् अञ्जन-त्विषम्
प्रलम्ब-बाहुम् सुभगम् समैक्षत॥13॥

तस्मै बलिः वारुण-पाश-यन्त्रितः
समर्हणम् उपजहार पूर्ववत्
ननाम मूर्ध्ना अश्रु-विलोल-लोचनः
व्रीड-नीचीन-मुखः बभूव ह॥14॥

सः तत्र हासीनम् उदीक्ष्य सत्पतिम्
सुनन्दन-आदि-अनुगैः उपासितम्
उपेत्य भूमौ शिरसा महा-मनाः
ननाम मूर्ध्ना पुलक-अश्रु-विक्लवः॥15॥

श्री-प्रह्लादः उवाच
त्वया एव दत्तम् पदम् ऐन्द्रम् ऊर्जितम्
हृतम् तत् एव अद्य तथैव शोभनम्
मन्ये महत् अस्य कृतः हि अनुग्रहः
विभ्रंशितः यत् श्रियः आत्म-मोहनात्॥16॥

यया हि विद्वान् अपि मुह्यते यतः
तत् कः विचष्टे गतिम् आत्मनः यथा
तस्मै नमः ते जगत्-ईश्वराय वै
नारायणाय अखिल-लोक-साक्षिणे॥17॥

श्रीशुकः उवाच
तस्य अनुश्रृण्वतः राजन् प्रह्लादस्य कृत-अञ्जलेः
हिरण्यगर्भः भगवान् उवाच मधुसूदनम्॥18॥

बद्धम् वीक्ष्य पतिम् साध्वी तत्-पत्नी भय-विह्वला।
प्राञ्जलिः प्रणतः उपेन्द्रम् बभाषे अवांमुखी नृप॥19॥

श्री-विन्ध्यावलीः उवाच
क्रीड-अर्थम् आत्मनः इदम् त्रिजगत् कृतम् ते
स्वाम्यम् तु तत्र कु-धियः अपरे ईश कुर्युः।
कर्तुः प्रभोः तव किम् अस्य अथ आवहन्ति
त्यक्त-ह्रियः त्वत्-अवरोपित-कर्तृवादाः॥20॥

श्री-ब्रह्मा उवाच —
भूत-भावन भूतेश देव-देव जगत्-मय।
मुञ्च एनम् हृत-सर्व-स्वम् न अयम् अर्हति निग्रहम्॥ 21 ॥

कृत्स्ना ते अनेन दत्ता भूः-लोकाः कर्म-अर्जिताः च ये।
निवेदितम् च सर्व-स्वम् आत्मा अविक्लवया धिया॥ 22 ॥

यत् पादयोः अ-शठ-धीः सलिलम् प्रदाय
दूर्वा-अङ्कुरैः अपि विधाय सतीम् सपर्याम्।
अपि उत्तमाम् गतिम् असौ भजते त्रि-लोकीम्
दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत्॥ 23 ॥

श्री-भगवान् उवाच —
ब्रह्मन् यम् अनुगृह्णामि तत् विशः विधुनोमि अहम्।
यत् मदः पुरुषः स्तब्धः लोकम् माम् च अवमन्यते॥ 24 ॥

यदा कदा चित् जीवात्मा संसरण् निज-कर्मभिः।
नाना-योनि-षु अनीशः अयम् पौरुषीम् गतिम् आव्रजेत्॥ 25 ॥

जन्म-कर्म-वयः-रूप-विद्या-ऐश्वर्य-धन-आदिभिः।
यत् यस्य न भवेत् स्तम्भः तत्र अयम् मद्-अनुग्रहः॥ 26 ॥

मान-स्तम्भ-निमित्तानाम् जन्म-आदीनाम् समन्ततः।
सर्व-श्रेयः-प्रतीपानाम् हन्त मुह्येत् न मत्-परः॥ 27 ॥

एष दानव-दैत्यानाम् अग्रणीः कीर्ति-वर्धनः।
अजैषीत् अजयाम् मायाम् सीदन् अपि न मुह्यति॥ 28 ॥

क्षीण-रिक्थः च्युतः स्थानात् क्षिप्तः बद्धः च शत्रुभिः।
ज्ञातिभिः च परित्यक्तः यातनाम् अनुयापितः॥ 29 ॥

गुरुणा भर्त्सितः शप्तः जहौ सत्यम् न सु-व्रतः।
छलैः उक्तः मया धर्मः न अयम् त्यजति सत्य-वाक्॥ 30 ॥

एष मे प्रापितः स्थानम् दुष्प्रापम् अमरैः अपि।
सावर्णेः अन्तरस्य अयम् भविता इन्द्रः मत्-आश्रयः॥ 31 ॥

तावत् सुतलम् अध्यास्ताम् विश्व-कर्मा-विनिर्मितम्।
यत् न आढयः व्याधयः च क्लमः तन्द्रा पराभवः।
न उपसर्गाः निवसताम् सम्भवन्ति मम् ईक्षया॥ 32 ॥

इन्द्रसेन महा-राज याहि भो भद्रम् अस्तु ते।
सुतलम् स्वर्गिभिः प्रार्थ्यम् ज्ञातिभिः परिवारितः॥ 33 ॥

न त्वाम् अभिभविष्यन्ति लोक-ईशाः किम् उत अपरे।
त्वत्-शासनाति-गान् दैत्यान् चक्रम् मे सूदयिष्यति॥ 34 ॥

रक्षिष्ये सर्वतः अहम् त्वाम् स-अनुगम् स-परिच्छदम्।
सदा सन्निहितम् वीर तत्र माम् द्रक्ष्यते भवान्॥ 35 ॥

तत्र दानव-दैत्यानाम् सङ्गात् ते भावः आसुरः।
दृष्ट्वा मत्-अनुभावम् वै सद्यः कुण्ठः विनङ्क्ष्यति॥ 36 ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भवे बलिवामनसंवादे नाम द्वाविंशोऽध्यायः॥ 22 ॥

No comments: