மத்ஸ்ய அவதாரம் இரண்டு முறை எடுத்தார் பரவாசுதேவர்
ஸ்கந்தம் 8: அத்யாயம் 24
श्री-राजा उवाच
भगवन् श्रोतुम् इच्छामि हरेः अद्भुत-कर्मणः।
अवतार-कथाम् आद्याम् माया-मत्स्य-विडम्बनम् ॥ १ ॥
यत्-अर्थम् अदधात् रूपम् मात्स्यम् लोक-जुगुप्सितम्।
तमः-प्रकृतिः दुर्मर्षम् कर्म-ग्रस्तः इव ईश्वरः ॥ २ ॥
एतत् नः भगवन् सर्वम् यथावत् वक्तुम् अर्हसि।
उत्तम-श्लोक-चरितम् सर्व-लोक-सुख-अवहम् ॥ ३ ॥
श्री-सूत उवाच
इति उक्तः विष्णु-रातेन भगवान् बादरायणिः।
उवाच चरितम् विष्णोः मत्स्य-रूपेण यत् कृतम् ॥ ४ ॥
श्री-शुक उवाच
गो-विप्र-सुर-साधूनाम् छन्दसाम् अपि च ईश्वरः।
रक्षाम् इच्छन् तनुम् धत्ते धर्मस्य अर्थस्य च एव हि ॥ ५ ॥
उच्चावचेषु भूतेषु चरन् वायुः इव ईश्वरः।
न उच्छावचत्वम् भजते निर्गुणत्वात् धियः गुणैः ॥ ६ ॥
आसीत् अतीत-कल्प-अन्ते ब्राह्मः नैमित्तिकः लयः।
समुद्र-उपप्लुताः तत्र लोकाः भूः-आदयः नृप ॥ ७ ॥
कालेन आगत-निद्रस्य धातुः शिशयिषोः बली।
मुखतः निःसृतान् वेदान् हयग्रीवः अन्तिके अहरत् ॥ ८ ॥
ज्ञात्वा तत् दानव-इन्द्रस्य हयग्रीवस्य चेष्टितम्।
दधार शफरी-रूपम् भगवान् हरिः ईश्वरः ॥ ९ ॥
तत्र राज-ऋषिः कश्चित् नाम्ना सत्यव्रतः महान्।
नारायण-परः अतप्यत् तपः सः सलिल-आशनः ॥ १० ॥
यः असौ अस्मिन् महा-कल्पे तनयः सः विवस्वतः।
श्राद्ध-देवः इति ख्यातः मनुत्वे हरिणा अर्पितः ॥ ११ ॥
एकदा कृत-मालायाम् कुर्वतः जल-तर्पणम्।
तस्य अञ्जलि-उदके काचित् शफरी एका अभ्यपद्यत ॥ १२ ॥
सत्यव्रतः अञ्जलि-गताम् सह तोयेन भारत।
उत्ससर्ज नदी-तोये शफरीम् द्रविड-ईश्वरः ॥ १३ ॥
तम् आह स-आतिकरुणम् महा-कारुणिकम् नृपम्।
यादोभ्यः ज्ञाति-घातिभ्यः दीनाम् माम् दीन-वत्सल।
कथम् विसृजसे राजन् भीताम् अस्मिन् सरित्-जले ॥ १४ ॥
तम् आत्मनः अनु-ग्रह-अर्थम् प्रीत्या मत्स्य-वपुः धरम्।
अजानन् रक्षण-अर्थाय शफर्याः सः मनः दधे ॥ १५ ॥
तस्याः दीन-तरम् वाक्यम् आश्रुत्य सः मही-पतिः।
कलशे अप्सु निधाय एनाम् दयालुः निन्ये आश्रमम् ॥ १६ ॥
सा तु तत्र एका-रात्रेण वर्धमाना कमण्डलौ।
अलब्ध्वा आत्म-अवकाशम् वा इदम् आह मही-पतिम् ॥ १७ ॥
न अहम् कमण्डलु-अवस्मिन् कृच्छ्रम् वस्तुम् इह उत्सहे।
कल्पय औकः सु-विपुलम् यत्र अहम् निवसे सुखम् ॥ १८ ॥
सः एनाम् तत् आदाय न्यधात् औदञ्चन-उदके।
तत्र क्षिप्ता मुहूर्तेन हस्त-त्रयम् अवर्धत ॥ १९ ॥
न मे एतत् अलम् राजन् सुखम् वस्तुम् उदञ्चनम्।
पृथु देहि पदम् मह्यम् यत् त्वा अहम् शरणम् गता ॥ २० ॥
तत् आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे।
तत् आवृत्य आत्मना सः अयम् महा-मीन् अन्ववर्धत॥ 21
न एतत् मे स्वस्तये राजन् उदकम् सलिल-ओकसः।
निधेहि रक्षायोगेन ह्रदे माम् अविदासिनि॥ 22
इति उक्तः सः अनयन् मत्स्यम् तत्र तत्र अविदासिनि।
जलाशये सम्मितम् तम् समुद्रे प्राक्षिपत् झषम्॥ 23
क्षिप्यमाणः तम् आह एतत् इह माम् मकर-आदयः।
अदन्ति अति-बलाः वीर माम् न इह उत्स्रष्टुम् अर्हसि॥ 24
एवम् विमोहितः तेन वदता वल्गु-भारतीम्।
तम् आह कः भवाञ् अस्मान् मत्स्य-रूपेण मोहयन्॥ 25
न एवम्-वीर्यः जल-चरः दृष्टः अस्माभिः श्रुतः अपि वा।
यः भवान् योजन-शतम् अह्ना अभिव्यानशे सरः॥ 26
नूनम् त्वम् भगवान् साक्षात् हरिः नारायणः अव्ययः।
अनुग्रहाय भूतानाम् धत्से रूपम् जल-ओकसाम्॥ 27
नमः ते पुरुष-श्रेष्ठ स्थित्य्-उत्पत्ति-अप्यय-ईश्वर।
भक्तानाम् नः प्रपन्नानाम् मुख्यः हि आत्म-गतिः विभो॥ 28
सर्वे लीला-अवताराः ते भूतानाम् भूति-हेतवः।
ज्ञातुम् इच्छामि अदः रूपम् यत् अर्थम् भवता धृतम्॥ 29
न ते अरविन्द-आक्ष पद-उपसर्पणम्
मृषा भवेत् सर्व-सुहृत्-प्रिय-आत्मनः।
यथा इतर-एषाम् पृथक्-आत्मनाम् सताम्
अद्-ईदृशः यत् वपुः अद्भुतम् हि नः॥ 30
श्री-शुकः उवाच —
इति ब्रुवाणम् नृपतिम् जगत्-पतिः
सत्यव्रतम् मत्स्य-वपुः युग-क्षये।
विहर्तु-कामः प्रलय-अर्णवे अब्रवीत्
चिकीर्षुः एकान्त-जन-प्रियः प्रियम्॥ 31
श्रीभगवानुवाच —
सप्तमे अद्य-तनात् ऊर्ध्वम् अहनि एतत् अरिन्दम।
निमङ्क्ष्यति अप्यय-अम्भोधौ त्रैलोक्यम् भूः-भुवः-आदिकम्॥ 32
त्रिलोक्याम् लीयमानायाम् संवर्त-अम्भसि वै तदा।
उपस्थास्यति नौः काचित् विशाला त्वाम् मया इरिता॥ 33
त्वम् तावत् ओषधीः सर्वाः बीजानि उच्चावचानि च।
सप्त-ऋषिभिः परिवृतः सर्व-सत्त्व-उपबृंहितः॥ 34
आरुह्य बृहतीम् नावम् विचरिष्यसि अविक्लवः।
एक-अर्णवे निरालोके ऋषीणाम् एव वर्चसा॥ 35
दोधूयमानाम् ताम् नावम् समीरेण बलीयसा।
उपस्थितस्य मे शृङ्गे निबध्नीहि महा-अहिना॥ 36
अहम् त्वाम् ऋषिभिः साकम् सह नावम् उदन्वति।
विकर्षन् विचरिष्यामि यावत् ब्राह्मी निशा प्रभो॥ 37
मदीयम् महिमानम् च परम् ब्रह्म इति शब्दितम्।
वेत्स्यसि अनुगृहीतम् मे संप्रश्नैः विवृतम् हृदि॥ 38
इत्थम् आदिश्य राजानम् हरिः अन्तर्धीयत।
सः अन्ववैक्षत तम् कालम् यम् हृषीकेशः आदिशत्॥ 39
आस्तीर्य दर्भान् प्राक्-कूलान् राज-ऋषिः प्राक्-उदङ्मुखः।
निषसाद हरेः पादौ चिन्तयन् मत्स्य-रूपिणः॥ 40
ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम्।
वर्धमानो महामेघैः वर्षद्भिः समदृश्यत॥ 41
ध्यायन् भगवत्-आदेशं ददृशे नावम् आगताम्।
ताम् आरुरोह विप्रेन्द्रैः आदाय ओषधि-वीरुधः॥ 42
तम् ऊचुः मुनयः प्रीताः राजन् ध्यायस्व केशवम्।
सः वै नः संकटात् अस्मात् अविता शम् विधास्यति॥ 43
सः अनुध्यातः ततः राज्ञा प्रादुरासीन् महा-अर्णवे।
एक-शृंग-धरः मत्स्यः हैमः नियुत-योजनः॥ 44
निबध्य नावम् तत्-शृंगे यथा उक्तः हरिणा पुरा।
वरत्रेण अहिना तुष्टः तुष्टाव मधुसूदनम्॥ 45
श्री-राजा उवाच –
अनादि-अविद्या-उपहत-आत्म-संविदः
तत्-मूल-संसार-परिश्रम-आतुराः।
यदृच्छया इह उपसृताः यम् आप्नुयुः
विमुक्तिदः नः परमः गुरुः भवान्॥ 46
जनः अबुधः अयम् निज-कर्म-बन्धनः
सुख-इच्छया कर्म समीहते असुखम्।
यत्-सेवया ताम् विधुनोति असन्-मतिम्
ग्रन्थिम् सः भिन्द्यात् हृदयं सः नः गुरुः॥ 47
यत्-सेवया अग्नेः इव रुद्र-रोदनम्
पुमान् विजह्यात् मलम् आत्मनः तमः।
भजेत वर्णम् निजम् एषः सः अव्ययः
भूयात् सः ईशः परमः गुरोः गुरुः॥ 48
न यत्-प्रसाद-आयुत-भाग-लेशम्
अन्ये च देवाः गुरवः जनाः स्वयं।
कर्तुम् समेताः प्रभवन्ति पुंसः
तम् ईश्वरं त्वाम् शरणं प्रपद्ये॥ 49
अचक्षुः-अन्धस्य यथा अग्रणीः कृतः
तथा जनस्य अविदुषः अबुधः गुरुः।
त्वम् अर्क-दृक् सर्व-दृशाम् समीक्षणः
वृतः गुरुः नः स्व-गतिम् बुभुत्सताम्॥ 50
जनः जनस्य आदिशते असतीम् मतिम्
यया प्रपद्येत दुरत्ययम् तमः।
त्वम् तु अव्ययम् ज्ञानम् अमोघम् अञ्जसा
प्रपद्यते येन जनः निजम् पदम्॥ 51
त्वम् सर्व-लोकस्य सुहृत् प्रिय-ईश्वरः
हि आत्मा गुरुः ज्ञानम् अभीष्ट-सिद्धिः।
तथापि लोकः न भवन्तम् अन्ध-धीः
जानाति सन्तम् हृदि बद्ध-कामः॥ 52
तम् त्वाम् अहम् देव-वरम् वरेण्यम्
प्रपद्य ईशम् प्रति-बोधनाय।
छिन्धि अर्थ-दीपैः भगवन् वचोभिः
ग्रन्थीन् हृदय्यान् विवृणु स्व-मोक्षः॥ 53
श्री-शुकः उवाच –
इति उक्तवन्तम् नृपतिम् भगवान् आदि-पुरुषः।
मत्स्य-रूपी महा-अम्भोधौ विहरन् तत्त्वम् अब्रवीत्॥ 54
पुराण-संहिताम् दिव्याम् सांख्य-योग-क्रिया-वतीम्।
सत्यव्रतस्य राजर्षेः आत्म-गुह्यम् अशेषतः॥ 55
अश्रौषीत् ऋषिभिः साकम् आत्म-तत्त्वम् अशंशयम्।
नावि आसीनः भगवता प्रोक्तम् ब्रह्म सनातनम्॥ 56
अतीत-प्रलय-अपायः उत्थिताय सः वेधसे।
हत्वा असुरम् हयग्रीवम् वेदान् प्रत्याहरत् हरिः॥ 57
सः तु सत्यव्रतः राजा ज्ञान-विज्ञान-संयुतः।
विष्णोः प्रसादात् कल्पे अस्मिन् आसीत् वैवस्वतः मनुः॥ 58
सत्यव्रतस्य राजर्षेः माया-मत्स्यस्य शार्ङ्गिणः।
संवादम् महत् आख्यानम् श्रुत्वा मुच्येत किल्बिषात्॥ 59
अवतारः हरेः यः अयम् कीर्तयेत् अन्वहम् नरः।
सङ्कल्पाः तस्य सिध्यन्ति सः याति परमाम् गतिम्॥ 60
प्रलय-पयसि धातुः सुप्त-शक्तेः-मुखेभ्यः
श्रुति-गणम् अपनीतं प्रत्युपादत्त हत्वा।
दिति-जम् अकथयत् यः ब्रह्म सत्यव्रतानाम्
तम् अहम् अखिल-हेतुम् जिह्म-मीनम् नतः-अस्मि॥ ६१॥
No comments:
Post a Comment