Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 10 - ஸ்ரீகிருஷ்ணர் துவாரகை திரும்புகிறார் - ஸ்ரீமத் பாகவதம்

ஸ்ரீகிருஷ்ணர்
துவாரகை திரும்புகிறார்
ஸ்கந்தம் 1: அத்யாயம் 10

शौनक उवाच

हत्वा स्वरिक्थ स्पृध आततायिनो

युधिष्ठिरो धर्म-भृतां वरिष्ठ: ।

सह-अनुजै: प्रत्य-वरुद्ध भोजन:

कथं प्रवृत्त: किम् अकारषीत् तत: ॥


सूत उवाच

वंशं कुरो: वंश-दव-अग्निनि: हृतं

संरोहयित्वा भव-भावनो हरि: ।

निवेशयित्वा निज-राज्य ईश्वरो

युधिष्ठिरं प्रीत-मना बभूव ह ॥


निशम्य भीष्म-उक्तम् अथ अच्युत-उक्तं

प्रवृत्त विज्ञान विधूत विभ्रम: ।

शशास गाम् इन्द्र इव-अजित-आश्रय:

परिधि उपान्ताम् अनुज अनुवर्तित: ॥


कामं ववर्ष पर्जन्य: सर्व काम-दुघा मही ।

सिषिचु: स्म व्रजान् गाव: पयसा उधस्वती: मुदा ॥


नद्य: समुद्रा गिरय: सवनस्पति वीरुध: ।

फलन्ति ओषधय: सर्वा: कामम् अन्वृतु तस्य वै ॥


न आधयो व्याधय: क्लेशा दैव-भूत-आत्म हेतव: ।

अजात-शत्रौ अभवन् जन्तूनां राज्ञि कर्हिचित् ॥


उषित्वा हास्तिनपुरे मासान् कतिपयान् हरि: ।

सुहृदां च विशोकाय स्वसु: च प्रिय काम्यया ॥


आमन्‍त्र्य च अभ्यनुज्ञात: परिष्वज्य अभिवाद्य तम् ।

आरुरोह रथं कैश्चित् परिष्वक्त: अभिवादित: ॥


सुभद्रा द्रौपदी कुन्ती विराट-तनया तथा ।

गान्धारी धृतराष्ट्र: च युयुत्सु: गौतमो यमौ ॥


वृकोदर: च धौम्य: च स्त्रियो मत्स्य-सुता-आदय: ।

न सेहिरे विमुह्यन्तो विरहं शार्ङ्ग धन्वन: ॥


सत् सङ्गात् मुक्त-दु:सङ्गो हातुं न: उत्सहते बुध: ।

कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् ॥


तस्मिन् न्यस्त-धिय: पार्था: सहेरन् विरहं कथम् ।

दर्शन स्पर्श संलाप शयन आसन भोजनै: ॥


सर्वे ते अनिमिषै: अक्षै: तम् अनु द्रुत चेतस: ।

वीक्षन्त: स्‍नेह सम्बद्धा विचेलु: तत्र तत्र ह ॥


न्यरुन्धन् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते ।

निर्याति अगारात् न: अभद्रम् इति स्याद् बान्धव स्त्रिय: ॥


मृदङ्ग शङ्ख भेर्य: च वीणा पणव गोमुखा: ।

धुन्धुरी आनक घण्टा आद्या नेदु: दुन्दुभय: तथा ॥


प्रासाद शिखर आरूढा: कुरु-नार्यो दिद‍ृक्षया ।

ववृषु: कुसुमै: कृष्णं-प्रेम व्रीडा स्मित ईक्षणा: ॥


सित-आतपत्रं जग्राह मुक्ता-दाम विभूषितम् ।

रत्न दण्डं गुडाकेश: प्रिय: प्रियतमस्य ह ॥


उद्धव: सात्यकि: च एव व्यजने परम अद्भुते ।

विकीर्यमाण: कुसुमै रेजे मधु-पति: पथि ॥


अश्रूयन्त आशिष: सत्या: तत्र तत्र द्विज-ईरिता: ।

न अनुरूप अनुरूपा: च निर्गुणस्य गुण आत्मन: ॥


अन्योन्यम् आसीत् सञ्जल्प उत्तम-श्लोक चेतसाम् ।

कौरव-इन्द्र पुर स्त्रीणां सर्व श्रुति मनोहर: ॥


स वै किल अयं पुरुष: पुरातनो

य एक आसीद् अविशेष आत्मनि ।

अग्रे गुणेभ्यो जगद् आत्मनी ईश्वरे

निमीलित आत्मन् निशि सुप्तश क्तिषु ॥


स एव भूयो निज वीर्य चोदितां

स्व जीव मायां प्रकृतिं सिसृक्षतीम् ।

अनाम रूप आत्मनि रूप नामनी

विधित्समानो अनुससार शास्त्र-कृत् ॥


स वा अयं यत् पदम् अत्र सूरयो

जितेन्द्रिया निर्जित मातरिश्वन: ।

पश्यन्ति भक्ति उत्कलित अमल-आत्मना

ननु येष सत्त्वं परिमार्ष्टुम् अर्हति ॥


स वा अयं सखि अनुगीत सत्कथो

वेदेषु गुह्येषु च गुह्य वादिभि: ।

य एक ईशो जगद् आत्म लीलया

सृजति अवति अत्ति न तत्र सज्जते ॥


यदा हि अधर्मेण तम: धिय: नृपा

जीवन्ति तत्रैष हि सत्त्वत: किल ।

धत्ते भगं सत्यम् ऋतं दयां यशो

भवाय रूपाणि दधद् युगे युगे ॥


अहो अलं श्लाघ्य तमं यदो: कुलम् 

अहो अलं पुण्यतमं मधो: वनम् ।

यदेष पुंसाम् ऋषभ: श्रिय: पति:

स्वजन्मना चङ्‍क्रमणेन च अञ्चति ॥


अहो बत स्व: यशस: तिरस्करी

कुशस्थली पुण्य यशस्करी भुव: ।

पश्यन्ति नित्यं यद् अनुग्रह इषितं

स्मित अवलोकं स्वपतिं स्म यत्प्रजा: ॥


नूनं व्रत स्‍नान हुत आदिना ईश्वर:

समर्चितो  हि अस्य गृहीत पाणिभि: ।

पिबन्ति या: सखि अधरामृतं मुहु:

व्रज स्त्रिय: सम्मुमुहु: यद् आशया: ॥


या वीर्य शुल्केन हृता: स्वयंवरे

प्रमथ्य चैद्य प्रमुखान् हि शुष्मिण: ।

प्रद्युम्न साम्ब अम्ब सुत-आदय: अपरा

य: च आहृता भौम-वधे सहस्रश: ॥


एता: परं स्त्रीत्वम् अपास्तपेशलं

निरस्त शौचं बत साधु कुर्वते ।

यासां गृहात् पुष्कर-लोचन: पति:

न जातु अपैति आहृतिभि: हृदि स्पृशन् ॥


एवंविधा गदन्तीनां स गिर: पुर-योषिताम् ।

निरीक्षणेन अभिनन्दन् स-स्मितेन ययौ हरि: ॥


अजात-शत्रु: पृतनां गोपीथाय मधु-द्विष: ।

परेभ्य: शङ्कित: स्‍नेहात् प्रायुङ्क्त चतु: अङ्गिणीम् ॥ 


अथ दूरागतान् शौरि: कौरवान् विरहातुरान् ।

सन्निवर्त्य द‍ृढं स्‍निग्धान् प्रायात्स्वनगरीं प्रियै: ॥


कुरु जाङ्गल पाञ्चालान् शूरसेनान् स यामुनान् ।

ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान अथ ॥


मरुधन्वमतिक्रम्य सौवीराभीरयो: परान् ।

आनर्तान् भार्गव उपागात्  छ्रान्त वाहो मनाग् विभु: ॥


तत्र तत्र ह तत्रत्यै: हरि: प्रत्युद्यत अर्हण: ।

सायं भेजे दिशं पश्चाद् गविष्ठो गां गत: तदा ॥

No comments: