Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 6 ஸ்ரீமத் பாகவதம் Srimad Bhagavatham... வியாசரை 'பாகவதம்' எழுதச்சொல்கிறார் நாரதர்

ஸ்கந்தம் 1: அத்யாயம் 6

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

வியாசரை 'பாகவதம்' 

எழுதச்சொல்கிறார் நாரதர்


सूत उवाच

एवं निशम्य भगवान् देवर्षे: जन्म कर्म च ।

भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवती सुत: ॥ 1 


व्यास उवाच

भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: तव ।

वर्तमानो वयसि आद्ये तत: किम् अकरोद् भवान् ॥ 2


स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: ।

कथं च इदम् उदस्राक्षी: काले प्राप्ते कलेवरम् ॥ 3 


प्राक् कल्प विषयाम् एतां स्मृतिं ते मुनिसत्तम ।

न हि एष व्यवधात् काल एष सर्व निराकृति: ॥ 4 


नारद उवाच

भिक्षुभि: विप्रवसिते विज्ञान आदेष्टृभि: मम ।

वर्तमानो वयस्याद्ये तत एतद् अकारषम् ॥ 5 


एकात्मजा मे जननी योषित् मूढा च किङ्करी ।

मयि आत्मजे अनन्य गतौ चक्रे स्‍नेह अनु-बन्धनम् ॥ 6 


स अस्वतन्त्रा न  कल्पा आसीद् योग क्षेमं मम इच्छती ।

ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ 7 


अहं च तद् ब्रह्मकुले ऊषिवां तद् उपेक्षया ।

दिग्देश काल अव्युत्पन्नो बालक: पञ्च हायन: ॥ 8 


एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि ।

सर्पो अदशत् पदा स्पृष्ट: कृपणां काल चोदित: ॥ 9


तदा तद् अहम् ईशस्य भक्तानां शम् अभीप्सत: ।

अनुग्रहं मन्यमान: प्रातिष्ठं दिशम् उत्तराम् ॥ 10


स्फीतान् जनपदां तत्र पुर ग्राम व्रज आकरान् ।

खेट खर्वट वाटीश्च वनानि उप-वनानि च ॥ 11


चित्र धातु विचित्र अद्रीन् इभ-भग्न भुज द्रुमान् ।

जलाशयान् छिव जलान् नलिनी: सुर सेविता: ।

चित्र स्वनै: पत्र रथै: विभ्रमद् भ्रमर श्रिय: ॥ 12


नल वेणु शर तन्ब कुश कीचक गह्वरम् ।

एक एव अतियातो अहम् अद्राक्षं विपिनं महत् ।

घोरं प्रतिभय आकारं व्याल उलूक शिव अजिरम् ॥ 13 


परिश्रान्त इन्द्रिय आत्माहं तृट्परीतो बुभुक्षित: ।

स्‍नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गत श्रम: ॥ 14 


तस्मिन् निर्मनुजे अरण्ये पिप्पल उपस्थ आश्रित: ।

आत्मनात्मानम् आत्मस्थं यथा श्रुतम् अचिन्तयम् ॥ 15


ध्यायत: चरणाम् भोजं भाव निर्जित चेतसा ।

औत्कण्ठ्य अश्रुकल अक्षस्य हृदि आसीन्मे शनै: हरि: ॥ 16 


प्रेमा अतिभर निर्भिन्न पुलक अङ्गो अति-निर्वृत: ।

आनन्द सम्प्लवे लीनो न अपश्यम् उभयं मुने ॥ 17 


रूपं भगवतो यत्तन्मन: कान्तं शुचापहम् ।

अपश्यन् सहसा उत्तस्थे वैक्लव्याद् दुर्मना इव ॥ 18 


दिद‍ृक्षु: तद् अहं भूय: प्रणिधाय मनो हृदि ।

वीक्षमाणो अपि न अपश्यम् अवितृप्त इव आतुर: ॥ 19 


एवं यतन्तं विजने माम्  आह अगोचरो गिराम् ।

गम्भीर श्लक्ष्णया वाचा शुच: प्रशमयन् इव ॥ 20 


हन्त अस्मिन् जन्मनि भवान् मा मां द्रष्टुमिह अर्हति ।

अविपक्‍व कषायाणां दुर्दर्शो अहं कुयोगिनाम् ॥ 21 


सकृद् यद् दर्शितं रूपम् एतत् कामाय ते अनघ ।

मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ 22 


सत्सेवया अदीर्घया अपि जाता मयि द‍ृढा मति: ।

हित्वा अवद्यम् इमं लोकं गन्ता मज्जनताम् असि ॥ 23 


मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।

प्रजा सर्ग निरोधे अपि स्मृतिश्च मद् अनुग्रहात् ॥ 24 


एतावद् उक्त्वा उपरराम तद् महद्

भूतं नभ: लिङ्गम् अलिङ्गम् ईश्वरम् ।

अहं च तस्मै महतां महीयसे

शीर्ष्णा अवनामं विदधे अनुकम्पित: ॥ 25 


नामानि अनन्तस्य हत त्रप: पठन्

गुह्यानि भद्राणि कृतानि च स्मरन् ।

गां पर्यटं तुष्ट मना गतस्पृह:

कालं प्रतीक्षन् विमदो विमत्सर: ॥ 26


एवं कृष्ण मते ब्रह्मन् न आसक्तस्य अमलात्मन: ।

काल: प्रादुर-भूत् काले तडित् सौदामनी यथा ॥ 27 


प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।

आरब्ध कर्म निर्वाणो न्यपतत् पाञ्च भौतिक: ॥ 28 


कल्प अन्त इदमादाय शयाने अम्भसि उदन्वत: ।

शिशयिषो: अनुप्राणं विविशे अन्त: अहं विभो: ॥ 29 


सहस्र युग पर्यन्ते उत्थाय इदं सिसृक्षत: ।

मरीचि मिश्रा ऋषय: प्राणेभ्यो अहं च जज्ञिरे ॥ 30 


अन्त: बहि: च लोकां त्रीन् पर्येमि अस्कन्दित व्रत: ।

अनुग्रहान् महाविष्णो: अविघात गति: क्‍वचित् ॥ 31  


देव दत्ताम् इमां वीणां स्वर ब्रह्म विभूषिताम् ।

मूर्च्छयित्वा हरि कथां गायमान: चराम्यहम् ॥ 32 


प्रगायत: स्व-वीर्याणि तीर्थ-पाद: प्रिय-श्रवा: ।

आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ 33 


एतद् हि आतुर चित्तानां मात्रा स्पर्श इच्छया मुहु: ।

भव सिन्धु प्लवो द‍ृष्टो हरि-चर्य अनुवर्णनम् ॥ 34 


यम आदिभि: योग-पथै: काम-लोभ हतो मुहु: ।

मुकुन्द सेवया यद्वत् तथात्म अद्धा न शाम्यति ॥ 35 


सर्वं तद् इदम् आख्यातं यत् पृष्ट अहं त्वया अनघ ।

जन्म कर्म रहस्यं मे भवत: च आत्म तोषणम् ॥ 36 


सूत उवाच

एवं सम्भाष्य भगवान् नारदो वासवी सुतम् ।

आमन्‍त्र्य वीणां रणयन् ययौ याद‍ृच्छिको मुनि: ॥ 37 


अहो देवर्षि: धन्य अयं यत् कीर्तिं शार्ङ्ग-धन्वन: ।

गायन् माद्यन् इदं तन्‍त्र्या रमयति आतुरं जगत् ॥ 38

No comments: