ஒன்பது குரு - யதுவுக்கு உபதேசம்
ஸ்கந்தம் 11: அத்யாயம் 8
श्री-ब्राह्मणः उवाच
सुखम् ऐन्द्रियकम् राजन् स्वर्गे नरके एव च ।
देहिनाम् यत् यथा दुःखम् तस्मात् न इच्छेत् तत् बुधः ॥ 1 ॥
ग्रासम् सु-मृष्टम् विरसम् महान्तम् स्तोकम् एव वा ।
यदृच्छया एव आपतितम् ग्रसेत् अजगरः अक्रियः ॥ 2 ॥
शयीत अहानि भूरीणि निराहारः अनुपक्रमः ।
यदि न उपनमेत् ग्रासः महा-अहिः इव दिष्ट-भुक् ॥ 3 ॥
ओजः-सहः-बल-युतम् बिभ्रत् देहम् अकर्मकम् ।
शयानः वीत-निद्रः च न ईहते इन्द्रिय-वान् अपि ॥ 4 ॥
मुनिः प्रसन्न-गम्भीरः दुर्विगाह्यः दुरत्ययः ।
अनन्त-पारः हि अक्षोभ्यः स्तिमित-उदः इव अर्णवः ॥ 5 ॥
समृद्ध-कामः हीनः वा नारायण-परः मुनिः ।
न उत्सर्पेत् न शुष्येत् सरिद्भिः इव सागरः ॥ 6 ॥
दृष्ट्वा स्त्रियम् देव-मायाम् तत्-भावैः अजित-इन्द्रियः ।
प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्ग-वत् ॥ 7 ॥
योषित्-हिरण्य-आभरण-अम्बर-आदि-
द्रव्येषु माया-रचितेषु मूढः ।
प्रलोभित-आत्मा हि उपभोग-बुद्ध्या
पतङ्ग-वत् नश्यति नष्ट-दृष्टिः ॥ 8 ॥
स्तोकम् स्तोकम् ग्रसेत् ग्रासम् देहः वर्तेत यावता ।
गृहान् अहिंसन् आतिष्ठेत् वृत्तिम् माधुकरीम् मुनिः ॥ 9 ॥
अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः ।
सर्वतः सारम् आदद्यात् पुष्पेभ्यः इव षट्-पदः ॥ 10 ॥
सायन्तनम् श्वस्तनम् वा न संगृह्णीत भिक्षितम् ।
पाणि-पात्र-उदर-अमत्रः मक्षिका इव न संग्रही ॥ 11 ॥
सायन्तनम् श्वस्तनम् वा न संगृह्णीत भिक्षुकः ।
मक्षिका इव संगृह्णन् सह तेन विनश्यति ॥ 12 ॥
पदा अपि युवतीम् भिक्षुः न स्पृशेत् दारवीम् अपि ।
स्पृशन् करी इव बध्येत् करिण्या अङ्ग-सङ्गतः ॥ 13 ॥
न अधिगच्छेत् स्त्रियम् प्राज्ञः कर्हिचित् मृत्युम् आत्मनः ।
बल-ाधिकैः सः हन्येत् गजैः अन्यैः गजः यथा ॥ 14 ॥
न देयम् न उपभोग्यम् च लुब्धैः यत् दुःख-सञ्चितम् ।
भुङ्क्ते तत् अपि तत् च अन्यः मधु-हा इव अर्थ-वित् मधु ॥ 15 ॥
सु-दुःख-उपार्जितैः वित्तैः आशासानाम् गृह-आशिषः ।
मधु-हा इव अग्रतः भुङ्क्ते यतिः वै गृह-मेधिनाम् ॥ 16 ॥
ग्राम्य-गीतम् न शृणुयात् यतिः वन-चरः क्वचित् ।
शिक्षेत हरिणात् बद्धात् मृगयोः गीत-मोहितात् ॥ 17 ॥
नृत्य-वादित्र-गीतानि जुषन् ग्राम्याणि योषिताम् ।
आसाम् क्रीडनकः वश्यः ऋष्य-शृङ्गः मृगी-सुतः ॥ 18 ॥
जिह्वया अति-प्रमाथिन्या जनः रस-विमोहितः ।
मृत्युम् ऋच्छति असत्-बुद्धिः मीनः तु बडिशैः यथा ॥ 19 ॥
इन्द्रियाणि जयन्ति आशु निराहाराः मनीषिणः ।
वर्जयित्वा तु रसनाम् तत् निरन्नस्य वर्धते ॥ 20 ॥
तावत् जित-इन्द्रियः न स्यात् विजित-अन्य-इन्द्रियः पुमान् ।
न जयेत् रसनाम् यावत् जितम् सर्वम् जिते रसे ॥ 21 ॥
पिङ्गला नाम वेश्या आसीत् विदेह-नगरे पुरा ।
तस्याः मे शिक्षितम् किञ्चित् निबोध नृप-नन्दन ॥ 22 ॥
सा स्वैरिणी एकदा कान्तम् सङ्केते उपनेष्यती ।
अभूत् काले बहिः द्वारि बिभ्रती रूपम् उत्तमम् ॥ 23 ॥
मार्गे आगच्छतः वीक्ष्य पुरुषान् पुरुष-ऋषभ ।
तान् शुल्क-दान् वित्त-वत् कान्तान् मेने अर्थ-कामुका ॥ 24 ॥
आगतेषु अपयातेषु सा सङ्केत-उपजीविनी ।
अपि अन्यः वित्त-वान् कः अपि माम् उपैष्यति भूरि-दः ॥ 25 ॥
एवम् दुराशया ध्वस्त-निद्रा द्वारि अवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथम् समपद्यत ॥ 26 ॥
तस्याः वित्त-आशया शुष्यत्-वक्त्रायाः दीन-चेतसः ।
निर्वेदः परमः जज्ञे चिन्ता-हेतुः सुख-आवहः ॥ 27 ॥
तस्याः निर्विण्ण-चित्तायाः गीतम् शृणु यथा मम ।
निर्वेदः आशा-पाशानाम् पुरुषस्य यथा हि असिः ॥ 28 ॥
न हि अङ्ग अजात-निर्वेदः देह-बन्धम् जिहासति ।
यथा विज्ञान-रहितः मनुजः ममताम् नृप ॥ 29 ॥
पिङ्गला उवाच
अहो मे मोह-विततिम् पश्यत अविजित-आत्मनः ।
या कान्तात् असतः कामम् कामये येन बालिशा ॥ 30 ॥
सन्तम् समीपे रमणम् रति-प्रदम्
वित्त-प्रदम् नित्यम् इमम् विहाय ।
अकाम-दम् दुःख-भय-आधि-शोक-
मोह-प्रदम् तुच्छम् अहम् भजे अज्ञा ॥ 31 ॥
अहो मया आत्मा परितापितः वृथा
साङ्केत्य-वृत्त्या अति-विगर्ह्य-वार्तया ।
स्त्रैणात् नरात् यार्थ-तृषः अनुशोच्यात्
क्रीतेन वित्तम् रतिम् आत्मने इच्छती ॥ 32 ॥
यत् अस्थिभिः निर्मित-वंश-वंश्य-
स्थूणम् त्वचा रोम-नखैः पिनद्धम् ।
क्षरन् नव-द्वारम् अगारम् एतत्
विण्-मूत्र-पूर्णम् मद् उपैति का अन्याः ॥ 33 ॥
विदेहानाम् पुरे हि अस्मिन् अहम् एकैव मूढ-धीः ।
यानि अमि इच्छन्ति असत् अस्मात् आत्म-दात् कामम् अच्युतात् ॥ 34 ॥
सुहृत् प्रेष्ठ-तमः नाथः आत्मा च अयम् शरीरिणाम् ।
तम् विक्रीय आत्मना एव अहम् रमे अनेन यथा रमा ॥ 35 ॥
कियत् प्रियम् ते व्यभजन् कामाः ये काम-दाः नराः ।
आदि-अन्त-वन्तः भार्यायाः देवाः वा काल-विद्रुताः ॥ 36 ॥
नूनम् मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा ।
निर्वेदः अयम् दुराशायाः यत् मे जातः सुख-आवहः ॥ 37 ॥
मा एवम् स्युः मन्द-भाग्यायाः क्लेशाः निर्वेद-हेतवः ।
येन अनुबन्धम् निर्हृत्य पुरुषः शमम् ऋच्छति ॥ 38 ॥
तेन उपकृतम् आदाय शिरसा ग्राम्य-सङ्गताः ।
त्यक्त्वा दुराशाः शरणम् व्रजामि तम् अधीश्वरम् ॥ 39 ॥
सन्तुष्टा श्रद्धधती एतत् यथा-लाभेन जीवती ।
विहरामि अमुना एव अहम् आत्मना रमणेन वै ॥ 40 ॥
संसार-कूपे पतितम् विषयैः मुषित-ईक्षणम् ।
ग्रस्तम् काल-अहिना आत्मानम् कः अन्यः त्रातुम् अधीश्वरः ॥ 41 ॥
आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदा अखिलात् ।
अप्रमत्तः इदम् पश्येत् ग्रस्तम् काल-अहिना जगत् ॥ 42 ॥
श्री-ब्राह्मणः उवाच
एवम् व्यवसित-मतिः दुराशाम् कान्त-तर्ष-जाम् ।
छित्त्वा उपशमम् आस्थाय शय्याम् उपविवेश सा ॥ 43 ॥
आशा हि परमम् दुःखम् नैराश्यम् परमम् सुखम् ।
यथा सञ्च्छिद्य कान्त-आशाम् सुखम् सुष्वाप पिङ्गला ॥ 44 ॥
इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे अष्टमः अध्यायः ॥ 8 ॥

No comments:
Post a Comment