Followers

Search Here...

Sunday, 3 May 2026

ஸ்கந்தம் 11: அத்யாயம் 7 (உத்தவருக்கு உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 உத்தவருக்கு உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 7

 

श्री-भगवान् उवाच

यत् आत्थ माम् महा-भाग तत् चिकीर्षितम् एव मे ।
ब्रह्मा भवः लोक-पालाः स्वः-वासम् मे अभिकाङ्क्षिणः ॥ 1 ॥

मया निष्पादितम् हि अत्र देव-कार्यं अशेषतः ।
यत्-अर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणा अर्थितः ॥ 2 ॥

कुलम् वै शाप-निर्दग्धम् नङ्क्ष्यति अन्योन्य-विग्रहात् ।
समुद्रः सप्तमे अह्नि एताम् पुरीम् च प्लावयिष्यति ॥ 3 ॥

यर्हि एव अयम् मया त्यक्तः लोकः अयम् नष्ट-मङ्गलः ।
भविष्यति अचिरात् साधो कलिना अपि निराकृतः ॥ 4 ॥

न वस्तव्यम् त्वया एव इह मया त्यक्ते मही-तले ।
जनः अधर्म-रुचिः भद्र भविष्यति कलौ युगे ॥ 5 ॥

त्वम् तु सर्वम् परित्यज्य स्नेहम् स्वजन-बन्धुषु ।
मयि आवेश्य मनः सम्यक् सम-दृक् विचरस्व गाम् ॥ 6 ॥

यत् इदम् मनसा वाचा चक्षुर्भ्याम् श्रवण-आदिभिः ।
नश्वरम् गृह्यमाणम् च विद्धि माया-मनो-मयम् ॥ 7 ॥

पुंसः अयुक्तस्य नाना-अर्थः भ्रमः सः गुण-दोष-भाक् ।
कर्म-अकर्म-विकर्म इति गुण-दोष-धियः भिदा ॥ 8 ॥

तस्मात् युक्त-इन्द्रिय-ग्रामः युक्त-चित्तः इदम् जगत् ।
आत्मनि ईक्षस्व विततम् आत्मानम् मयि अधीश्वरे ॥ 9 ॥

ज्ञान-विज्ञान-संयुक्तः आत्म-भूतः शरीरिणाम् ।
आत्म-अनुभव-तुष्ट-आत्मा न अन्तरायैः विहन्यसे ॥ 10 ॥

दोष-बुद्ध्या उभयातीतः निषेधात् न निवर्तते ।
गुण-बुद्ध्या च विहितम् न करोति यथा अर्भकः ॥ 11 ॥

सर्व-भूत-सुहृत् शान्तः ज्ञान-विज्ञान-निश्चयः ।
पश्यन् मद्-आत्मकम् विश्वम् न विपद्येत वै पुनः ॥ 12 ॥

श्री-शुकः उवाच

इति आदिष्टः भगवता महा-भागवतः नृप ।
उद्धवः प्रणिपत्य आह तत्त्व-जिज्ञासुः अच्युतम् ॥ 13 ॥

श्री-उद्धवः उवाच

योग-ईश योग-विन्यास योग-आत्मन् योग-सम्भव ।
निःश्रेयसाय मे प्रोक्तः त्यागः संन्यास-लक्षणः ॥ 14 ॥

त्यागः अयम् दुष्करः भूमन् कामानाम् विषय-आत्मभिः ।
सुतराम् त्वयि सर्व-आत्मन् अभक्तैः इति मे मतिः ॥ 15 ॥

सः अहम् मम अहम् इति मूढ-मतिः विगाढः
त्वत्-मायया विरचित-आत्मनि स-अनुबन्धे ।
तत् त्वम् अञ्जसा निगदितम् भवता यथा अहम्
संसाधयामि भगवन् अनुशाधि भृत्यम् ॥ 16 ॥

सत्यस्य ते स्व-दृशः आत्मनः आत्मनः अन्यं
वक्तारम् ईश विबुधेषु अपि न अनुचक्षे ।
सर्वे विमोहित-धियः तव मायया इमे
ब्रह्म-आदयः तनु-भृतः बहिः-अर्थ-भावाः ॥ 17 ॥

तस्मात् भवन्तम् अनवद्यम् अनन्त-पारम्
सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् ।
निर्विण्ण-धीः अहम् उ ह वृजिन-अभितप्तः
नारायणम् नर-सखम् शरणम् प्रपद्ये ॥ 18 ॥

श्री-भगवान् उवाच

प्रायेण मनुजाः लोके लोक-तत्त्व-विचक्षणाः ।
समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभ-आशयात् ॥ 19 ॥

आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः ।
यत् प्रत्यक्ष-अनुमानाभ्याम् श्रेयः असौ अनुविन्दते ॥ 20 ॥

पुरुषत्वे च माम् धीराः साङ्ख्य-योग-विशारदाः ।
आविस्तराम् प्रपश्यन्ति सर्व-शक्ति-उपबृंहितम् ॥ 21 ॥

एक-द्वि-त्रि-चतुः-पादः बहु-पादः तथा अपदः ।
बह्व्यः सन्ति पुरः सृष्टाः तासाम् मे पौरुषी प्रिया ॥ 22 ॥

अत्र माम् मार्गयन्ति अद्धा युक्ताः हेतुभिः ईश्वरम् ।
गृह्यमाणैः गुणैः लिङ्गैः अग्राह्यम् अनुमानतः ॥ 23 ॥

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् ।
अवधूतस्य संवादम् यदोः अमित-तेजसः ॥ 24 ॥

अवधूतम् द्विजम् कञ्चित् चरन्तम् अकुतो-भयम् ।
कविम् निरीक्ष्य तरुणम् यदुः पप्रच्छ धर्म-वित् ॥ 25 ॥

श्री-यदुः उवाच

कुतः बुद्धिः इयम् ब्रह्मन् अकर्तुः सु-विशारदा ।
याम् आसाद्य भवान् लोकम् विद्वान् चरति बालवत् ॥ 26 ॥

प्रायः धर्म-अर्थ-कामेषु विवित्सायाम् च मानवाः ।
हेतुना एव समीहन्ते आयुषः यशसः श्रियः ॥ 27 ॥

त्वम् तु कल्पः कविः दक्षः सु-भगः अमृत-भाषणः ।
न कर्ता न ईहसे किञ्चित् जड-उन्मत्त-पिशाच-वत् ॥ 28 ॥

जनेषु दह्यमानेषु काम-लोभ-दव-अग्निना ।
न तप्यसे अग्निना मुक्तः गङ्गा-अम्भः-स्थः इव द्विपः ॥ 29 ॥

त्वम् हि नः पृच्छताम् ब्रह्मन् आत्मनि आनन्द-कारणम् ।
ब्रूहि स्पर्श-विहीनस्य भवतः केवल-आत्मनः ॥ 30 ॥

श्री-भगवान् उवाच

यदुना एवम् महा-भागः ब्रह्मण्येन सु-मेधसा ।
पृष्टः स-भाजितः प्राह प्रश्रय-अवनतम् द्विजः ॥ 31 ॥

श्री-ब्राह्मणः उवाच

सन्ति मे गुरवः राजन् बहवः बुद्धि-उपश्रिताः ।
यतः बुद्धिम् उपादाय मुक्तः अटामि इह तत् शृणु ॥ 32 ॥

पृथिवी वायुः आकाशम् आपः अग्निः चन्द्रमाः रविः ।
कपोतः अजगरः सिन्धुः पतङ्गः मधु-कृत् गजः ॥ 33 ॥

मधु-हा हरिणः मीनः पिङ्गला कुररः अर्भकः ।
कुमारी शर-कृत् सर्पः ऊर्ण-नाभिः सुपेश-कृत् ॥ 34 ॥

एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः ।
शिक्षाः वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः ॥ 35 ॥

यतः यत् अनुशिक्षामि यथा वा नाहुष-आत्मज ।
तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते ॥ 36 ॥

भूतैः आक्रम्यमाणः अपि धीरः दैव-वश-अनुगैः ।
तत् विद्वान् न चलॆत् मार्गात् अन्वशिक्षम् क्षितेः व्रतम् ॥ 37 ॥

शश्वत् परार्थ-सर्व-ईहः परार्थ-एकान्त-सम्भवः ।
साधुः शिक्षेत भू-भृतः नग-शिष्यः पर-आत्मताम् ॥ 38 ॥

प्राण-वृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रिय-प्रियैः ।
ज्ञानम् यथा न नश्येत् न अवकीर्येत वाक्-मनः ॥ 39 ॥

विषयेषु आविशन् योगी नाना-धर्मेषु सर्वतः ।
गुण-दोष-व्यपेत-आत्मा न विषज्जेत वायु-वत् ॥ 40 ॥

पार्थिवेषु इह देहेषु प्रविष्टः तत्-गुण-आश्रयः ।
गुणैः न युज्यते योगी गन्धैः वायुः इव आत्म-दृक् ॥ 41 ॥

अन्तर्हितः च स्थिर-जङ्गमेषु
ब्रह्म-आत्म-भावेन समन्वयेन ।
व्याप्त्या अव्यवच्छेदम् असङ्गम् आत्मनः
मुनिः नभः त्वम् विततस्य भावयेत् ॥ 42 ॥

तेजः-अब्-अन्न-मयैः भावैः मेघ-आद्यैः वायुना ईरितैः ।
न स्पृश्यते नभः तद्वत् काल-सृष्टैः गुणैः पुमान् ॥ 43 ॥

स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थ-भूः नृणाम् ।
मुनिः पुनाति अपाम् मित्रम् ईक्षा-उपस्पर्श-कीर्तनैः ॥ 44 ॥

तेजस्वी तपसा दीप्तः दुर्धर्षः उदर-भाजनः ।
सर्व-भक्ष्यः अपि युक्त-आत्मा न आदत्ते मलम् अग्नि-वत् ॥ 45 ॥

क्वचित् छन्नः क्वचित् स्पष्टः उपास्यः श्रेयः इच्छताम् ।
भुङ्क्ते सर्वत्र दातॄणाम् दहन् प्राक्-उत्तर-अशुभम् ॥ 46 ॥

स्व-मायया सृष्टम् इदम् सत्-असत्-लक्षणम् विभुः ।
प्रविष्टः ईयते तत्-तत् स्वरूपः अग्निः इव एधसि ॥ 47 ॥

विसर्ग-आद्याः श्मशान-अन्ताः भावाः देहस्य न आत्मनः ।
कलानाम् इव चन्द्रस्य कालेन अव्यक्त-वर्त्मना ॥ 48 ॥

कालेन हि ओघ-वेगेन भूतानाम् प्रभव-अप्ययौ ।
नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ॥ 49 ॥

गुणैः गुणान् उपादत्ते यथा-कालम् विमुञ्चति ।
न तेषु युज्यते योगी गोभिः गाः इव गो-पतिः ॥ 50 ॥

बुध्यते स्वे न भेदेन व्यक्तिस्थः इव तत्-गतः ।
लक्ष्यते स्थूल-मतिभिः आत्मा च अवस्थितः अर्क-वत् ॥ 51 ॥

न अति-स्नेहः प्रसङ्गः वा कर्तव्यः क्वापि केनचित् ।
कुर्वन् विन्देत सन्तापम् कपोतः इव दीन-धीः ॥ 52 ॥

कपोतः कश्चन अरण्ये कृत-नीडः वनस्पतौ ।
कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ 53 ॥

कपोतौ स्नेह-गुणित-हृदयौ गृह-धर्मिणौ ।
दृष्टिम् दृष्ट्या अङ्गम् अङ्गेन बुद्धिम् बुद्ध्या बबन्धतुः ॥ 54 ॥

शय्या-आसन-आटन-स्थान-वार्ता-क्रीडा-आशन-आदिकम् ।
मिथुनी-भूय विस्त्रब्धौ चेरतुः वन-राजिषु ॥ 55 ॥

यम् यम् वाञ्छति सा राजन् तर्पयन्ती अनुकम्पिता ।
तम् तम् समनयत् कामम् कृच्छ्रेण अपि अजित-इन्द्रियः ॥ 56 ॥

कपोती प्रथमम् गर्भम् गृह्णती काले आगते ।
अण्डानि सुषुवे नीडे स्व-पत्युः सन्निधौ सती ॥ 57 ॥

तेषु काले व्यजायन्त रचित-अवयवाः हरेः ।
शक्तिभिः दुर्विभाव्याभिः कोमल-अङ्ग-तनु-रुहाः ॥ 58 ॥

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्र-वात्सलौ ।
शृण्वन्तौ कूजितम् तासाम् निर्वृतौ कल-भाषितैः ॥ 59 ॥

तासाम् पतत्रैः सु-स्पर्शैः कूजितैः मुग्ध-चेष्टितैः ।
प्रत्युद्गमैः अ-दीनानाम् पितरौ मुदम् आपतुः ॥ 60 ॥

स्नेह-अनुबद्ध-हृदयौ अन्योन्यम् विष्णु-मायया ।
विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः ॥ 61 ॥

एकदा जग्मतुः तासाम् अन्न-अर्थम् तौ कुटुम्बिनौ ।
परितः कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ॥ 62 ॥

दृष्ट्वा तान् लुब्धकः कश्चित् यदृच्छया ततः वन-चरः ।
जगृहे जालम् आतत्य चरतः स्व-आलय-अन्तिके ॥ 63 ॥

कपोतः च कपोती च प्रजा-पोषे सदा उत्सुकौ ।
गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः ॥ 64 ॥

कपोती स्व-आत्मजान् वीक्ष्य बालकान् जाल-संवृतान् ।
तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृश-दुःखिता ॥ 65 ॥

सा सकृत् स्नेह-गुणिता दीन-चित्ता अज-मायया ।
स्वयम् च अबध्यत शिचा बद्धान् पश्यन्ती अपस्मृतिः ॥ 66 ॥

कपोतः च आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् ।
भार्याम् च आत्म-समाम् दीनः विललाप अति-दुःखितः ॥ 67 ॥

अहो मे पश्यत आपायम् अल्प-पुण्यस्य दुर्मतेः ।
अतृप्तस्य अ-कृत-अर्थस्य गृह-त्रैवर्गिकः हतः ॥ 68 ॥

अनुरूप-अनुकूला च यस्य मे पति-देवता ।
शून्ये गृहे माम् सन्त्यज्य पुत्रैः स्वर्गम् याति साधुभिः ॥ 69 ॥

सः अहम् शून्ये गृहे दीनः मृत-दारः मृत-प्रजः ।
जिजीविषे किम् अर्थम् वा विधुरः दुःख-जीवितः ॥ 70 ॥

तान् तथा एव आवृतान् शिग्भिः मृत्यु-ग्रस्तान् विचेष्टतः ।
स्वयम् च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ॥ 71 ॥

तम् लब्ध्वा लुब्धकः क्रूरः कपोतम् गृह-मेधिनम् ।
कपोतकान् कपोतीम् च सिद्ध-अर्थः प्रययौ गृहम् ॥ 72 ॥

एवम् कुटुम्बी अशान्त-आत्मा द्वन्द्व-आरामः पतत्रि-वत् ।
पुष्णन् कुटुम्बम् कृपणः स-अनुबन्धः अवसीदति ॥ 73 ॥

यः प्राप्य मानुषम् लोकम् मुक्ति-द्वारम् अपावृतम् ।
गृहेषु खग-वत् सक्तः तम् आरूढ-च्युतम् विदुः ॥ 74 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे सप्तमः अध्यायः ॥ 7 ॥


No comments: