Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 44 (கம்ஸ வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கம் வதம்

ஸ்கந்தம் 10: அத்யாயம் 44

श्री शुक उवाच –
एवम् चर्चित-सङ्कल्पः भगवान् मधु-सूदनः
आससाद अथ चणूरम् मुष्टिकम् रोहिणी-सुतः ॥ १ ॥


हस्ताभ्याम् हस्तयोः बद्ध्वा पद्‍भ्याम् एव पादयोः
विचकर्षतुः अन्योन्यम् प्रसह्य विजिगीषया ॥ २ ॥


अरत्नी द्वे अरत्‍निभ्याम् जानुभ्याम् एव जानुनी
शिरः शीर्ष्णोः उरसः उरस्‍तौ अन्योन्यम् अभिजघ्नतुः ॥ ३ ॥


परि-भ्रामण-विक्षेप-परि-रम्भ-अपातनैः
उत्सर्पण-अपसर्पणैः अन्योन्यम् प्रत्यरुन्धताम् ॥ ४ ॥


उत्थापनैः उन्नयनैः चालनैः स्थापनैः अपि
परस्परम् जिगीषन्तौ अपचक्रतुः आत्मनः ॥ ५ ॥


तत् बल-अबल-वत् युद्धम् समेतााः सर्व-योषितः
ऊचुः परस्परम् राजन् सा-अनुकम्पाः वरूथशः ॥ ६ ॥


महान् अयम् बतः अधर्मः एषाम् राज-सभा-सदाम्
ये बल-अबलवत् युद्धम् राज्ञः अन्विच्छन्ति पश्यतः ॥ ७ ॥


क्व वज्र-सार-सर्व-अङ्गौ मल्लौ शैल-इन्द्र-सन्निभौ
क्व अति-सुकुमार-अङ्गौ किशोरौ आप्त-यौवनौ ॥ ८ ॥


धर्म-व्यतिक्रमः हि अस्य समाजस्य ध्रुवम् भवेत्
यत्र अधर्मः समुत्तिष्ठेत् स्थेयं तत्र कर्हिचित् ॥ ९ ॥


सभाम् प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन्
अब्रुवन् विब्रुवन् अज्ञः नरः किल्बिषम् अश्नुते ॥ १० ॥


वल्गतः शत्रुम् अभितः कृष्णस्य वदन-अम्बुजम्
वीक्ष्यताम् श्रम-वारि-उप्तम् पद्म-कोशम् इव आम्बुभिः ॥ ११ ॥


किम् पश्यति रामस्य मुखम् आताम्र-लोचनम्
मुष्टिकम् प्रति सामर्षम् हास-संरम्भ-शोभितम् ॥ १२ ॥


पुण्याः बतः व्रज-भवः यत् अयम् नृ-लिङ्ग-
गूढः पुराण-पुरुषः वन-चित्र-माल्यः
गाः पालयन् सह बलः क्वणयन् वेणुम्
विक्रीडयन् चति गिरि-त्र-रमा-अर्चित-अङ्घ्रिः ॥ १३ ॥


गोप्यः तपः किम् अचरन् यत् अमुर्ष्य रूपम्
लावण्य-सारम् असमा-ऊर्ध्वम् अनन्य-सिद्धम्
दृग्भिः पिबन्त्यः अनु-सव-अभिनवम् दुरापम्
एकान्त-धाम यशसः श्रियः ऐश्वरस्य ॥ १४ ॥


या दोहने-अवहनने मथन-उपलेप-
प्रेङ्खेण खन-अर्भ-रुदित-उक्षण-मार्जन-आदौ
गायन्ति एनम् अनुरक्त-धियः अश्रु-कण्ठ्यः
धन्याः व्रज-स्त्रियः उरुक्रम-चित्त-यानाः ॥ १५ ॥


प्रातर् व्रजात् व्रजतः आविशतः सायम्
गोभिः समम् क्वणयतः अस्य निशम्य वेणुम्
निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः
पश्यन्ति सस्मित-मुखम् सदय-आवलोकम् ॥ १६ ॥


एवम् प्रभाषमाणासु स्त्रीषु योग-ईश्वरः हरिः
शत्रुम् हन्तुम् मनः चक्रे भगवान् भरत-ऋषभ ॥ १७ ॥


सभयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचा आतुरौ
पितरौ अन्वतप्येताम् पुत्रयोः अबुधौ बलम् ॥ १८ ॥


तैःतैः नियुद्ध-विधिभिः विविधैः अच्युतइतरौ
युयुधाते यथा अन्योन्यम् तथैव बलमुष्टिकौ ॥ १९ ॥


भगवत्गात्र-निष्पातैः वज्र-नीष्पेष-निष्ठुरैः
चाणूरः भज्यमान-अङ्गः मुहुः ग्लानिम् अवाप ॥ २० ॥


सः श्येन-वेगः उत्पत्य मुष्टीकृत्य करौ उभौ
भगवन्तम् वासुदेवम् क्रुद्धः वक्षसि अबाधत ॥ २१ ॥


अचलत् तत् प्रहारेण माला-आहतः इव द्विपः
बाह्वोः निगृह्य चाणूरम् बहुशः भ्रामयन् हरिः ॥ २२ ॥


भू-पृष्ठे पोथयाम्-आस तरसा क्षीण-जीवितम्
विस्रस्तआकल्पकेशस्रक् इन्द्र-ध्वजः इव अपतत् ॥ २३ ॥


तथा एव मुष्टिकः पूर्वम् स्व-मुष्ट्या अभिहतेन वै
बलभद्रेण बलिना तलेन अभिहतः भृशम् ॥ २४ ॥


प्रवेपितः सः रुधिरम् उद्वमन् मुखतः आर्दितः
व्यसुः पपात उर्वि-उपस्थे वात-आहतः इव अङ्घ्रिपः ॥ २५ ॥


ततः कूटम् अनुप्राप्तम् रामः प्रहरताम् वरः
अवधीद् लीलया राजन् सावज्ञम् वाम-मुष्टिना ॥ २६ ॥


तर्हि एव हि शलः कृष्ण-पदआपहतशीर्षकः
द्विधा विदीर्णः तोशलकः उभौ अपि निपेततुः ॥ २७ ॥


चाणूरे मुष्टिके कूटे शले तोशलके हते
शेषाः प्रदुद्रुवुः मल्लाः सर्वे प्राण-परीप्सवः ॥ २८ ॥


गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः
वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ ॥ २९ ॥


जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः
ऋते कंसम् विप्र-मुख्याः साधवः साधु साधु इति ॥ ३० ॥


हतेषु मल्ल-वर्येषु विद्रुतेषु भोज-राट्
न्यवारयत् स्व-तूर्याणि वाक्यम् इदम् उवाच ॥ ३१ ॥


निःसारयत दुर्वृत्तौ वसुदेव-आत्मजौ पुरात्
धनम् हरत गोपानाम् नन्दम् बध्नीत दुर्मतिम् ॥ ३२ ॥


वसुदेवः तु दुर्मेधा हन्यताम् आशु असत्तमः
उग्रसेनः पिता अपि स-ानुगः पर-पक्षगः ॥ ३३ ॥


एवम् विकत्थमाने वै कंसे प्रकुपितः अव्ययः
लघिम्ना उत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥ ३४ ॥


तम् आविशन्तम् आलोक्य मृत्युम् आत्मनः आसनात्
मनस्वी सहसा उत्थाय जगृहे सः असि-चर्मणी ॥ ३५ ॥


तम् खड्ग-पाणिम् विचरन्तम् आशु
श्येनम् यथा दक्षिण-सव्यम् अम्बरे
समग्रहीत् दुर्विषह-उग्र-तेजाः
यथा उरगम् तार्क्ष्य-सुतः प्रसह्य ॥ ३६ ॥


प्रगृह्य केशेषु चलत्–किरीटम्
निपात्य रङ्ग-उपरी तुङ्ग-मञ्चात्
तस्य उपरिष्टात् स्वयम् अब्ज-नाभः
पपात विश्व-आश्रयः आत्म-तन्त्रः ॥ ३७ ॥


तम् सम्परेतम् विचकर्ष भूमौ
हरिः यथा इभम् जगतः विपश्यतः
हा हे इति शब्दः सुमहान् तदा आभूत्
उदीरितः सर्व-जनैः नरेन्द्र ॥ ३८ ॥


सः नित्यदः उद्विग्न-धिया तम् ईश्वरम्
पिबन् वदन् वा विचरन् स्वपन् श्वसन्
ददर्श चक्र-आयुधम् अग्रतः यः
तत् एव रूपम् दुरवापम् आप ॥ ३९ ॥


तस्य अनुजाः भ्रातरः अष्टौ कङ्कः न्यग्रोधकः आदयः
अभ्यधावन् अभि-क्रुद्धाः भ्रातुः निर्वेश-कारिणः ॥ ४० ॥

तथा अतिरभसान् ताम्स् तु संयत्तान् रोहिणीसुतः ।

अहन् परिघम् उद्यम्य पशून् इव मृग-आधिपः ॥ ४१ ॥


नेदुः दुन्दुभयः व्योम्नि ब्रह्म-ईश-आद्याः विभूतयः ।

पुष्पैः किरन्तः तम् प्रीताः शशंसुः ननृतुः स्त्रियः ॥ ४२ ॥


तेषाम् स्त्रियः महा-राज सुहृत्-मरण-दुःखिताः ।

तत्र अभीयुः विनिघ्नन्त्यः शीर्षाणि अश्रु-विलोचनाः ॥ ४३ ॥


शयानान् वीर-शय्यायाम् पतीन् आलिङ्ग्य शोचतीः ।

विलेपुः सु-स्वरम् नार्यः विसृजन्त्यः मुहुः शुचः ॥ ४४ ॥


हा नाथ प्रिय धर्मज्ञ करुणा-नाथ-वात्सल ।

त्वया हतेन निहताः वयम् ते स-गृह-प्रजाः ॥ ४५ ॥


त्वया विरहिता पत्या पुरी इयम् पुरुष-ऋषभ ।

न शोभते वयम् इव निवृत्त-उत्सव-मङ्गला ॥ ४६ ॥


अनागसाम् त्वम् भूतानाम् कृतवान् द्रोहम् उल्बणम् ।

तेन इमाम् भोः दशाम् नीतः भूत-धृक् कः लभेत शम् ॥ ४७ ॥


सर्वेषाम् इह भूतानाम् एषः हि प्रभव-अप्ययः ।

गोप्ता च तत्-अवध्यायी न क्वचित् सुखम् एधते ॥ ४८ ॥


श्री-शुकः उवाच -

राज-योषितः आश्वास्य भगवान् लोक-भावनः ।

या-आहुः लौकिकीम् संस्थाम् हतानाम् समकारयत् ॥ ४९ ॥


मातरम् पितरम् च एव मोचयित्वा अथ बन्धनात् ।

कृष्ण-रामौ ववन्दाते शिरसा आस्पृश्य पादयोः ॥ ५० ॥


देवकी वसुदेवः च विज्ञाय जगत्-ईश्वरौ ।

कृत-संवन्दनौ पुत्रौ स-स्वजाते न शङ्कितौ ॥ ५१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुर्चत्वारिंशोऽध्यायः ॥ ४४ ॥

ஸ்கந்தம் 10: அத்யாயம் 43 (குவலயாபீடம் வதம் செய்யப்பட்டது - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

குவலயாபீடம் வதம் செய்யப்பட்டது

ஸ்கந்தம் 10: அத்யாயம் 43

श्रीशुक उवाच -

अथ कृष्णः च रामः च कृत-शौचौ परन्तप ।

मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः ॥ १ ॥


रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् ।

अपश्यत् कुवलयापीडम् कृष्णः अम्बष्ठ-प्रचोदितम् ॥ २ ॥


बद्ध्वा परिकरम् शौरिः समुह्य कुटिल-अलकान् ।

उवाच हस्तिपम् वाचा मेघ-नाद-गभीरया ॥ ३ ॥


अम्बष्ठ, अम्बष्ठ, मार्गं नौ देहि, अपक्रम, मा चिरम् ।

नो चेत् स-कुञ्जरम् त्वा अद्य नयामि यम-सादनम् ॥ ४ ॥


एवम् निर्भर्त्सितः अम्बष्ठः कुपितः कोपितम् गजम् ।

चोदयामास कृष्णाय काल-अन्तक-यम-उपमम् ॥ ५ ॥


करीन्द्रः तम् अभिद्रुत्य करेण तरसा अग्रहीत् ।

करात् विगलितः सः अमुम् निहत्य अङ्घ्रिषु अलीयत ॥ ६ ॥


सङ्क्रुद्धः तम् अचक्षाणः घ्राण-दृष्टिः सः केशवम् ।

परामृशत पुष्करेण सः प्रसह्य विनिर्गतः ॥ ७ ॥


पुच्छे प्रगृह्य अतिबलम् धनुषः पञ्चविंशतिम् ।

विचकर्ष यथा नागम् सुपर्णः इव लीलया ॥ ८ ॥


सः पर्यावर्तमानेन सव्य-दक्षिणतः अच्युतः ।

बभ्राम भ्राम्यमाणेन गोवत्सेन इव बालकः ॥ ९ ॥


ततः अभिमुखम् अभ्येत्य पाणिना आहत्य वारणम् ।

प्राद्रवत् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥


सः धावन् क्रीडया भूमौ पतित्वा सहसा उत्थितः ।

तम् मत्वा पतितम् क्रुद्धः दन्ताभ्याम् सः अहनत् क्षितिम् ॥ ११


स्व-विक्रमे प्रतिहते कुञ्जर-इन्द्रः अति-अमर्षितः ।

चोद्य-मानः महा-मात्रैः कृष्णम् अभ्यद्रवत् रुषा ॥ १२


तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः ।

निगृह्य पाणिना हस्तम् पातयामास भूतले ॥ १३


पतितस्य पदा आक्रम्य मृग-इन्द्रः इव लीलया ।

दन्तम् उत्पाट्य तेन एभम् हस्ति-पान् च अहनत् हरिः ॥ १४


मृतकम् द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् ।

अंस-न्यस्त-विषाणः असृक्-मद-बिन्दुभिः अङ्कितः ।

विरूढ-स्वेद-कणिका-वदन-अम्बुरुहः बभौ ॥ १५


वृतौ गोपैः कतिपयैः बलदेव-जनार्दनौ ।

रङ्गम् विविशतुः राजन् गज-दन्त-वरा-अयुधौ ॥ १६


मल्लानाम् अशनि-ः, नृणाम् नरवरः,

स्त्रीणाम् स्मरः मूर्तिमान्,

गोपानाम् स्वजनः, असताम् क्षिति-भुजाम् शास्ता,

स्वपित्रोः शिशुः,

मृत्युः भोज-पतेः, विराट् विदुषाम्,

तत्त्वम् परम् योगिनाम्,

वृष्णीनाम् पर-देवता इति विदितः,

रङ्गम् गतः सः अग्रजः ॥ १७


हतम् कुवलयापीडम् दृष्ट्वा तौ अपि दुर्जयौ ।

कंसः मनस्वी अपि तदा भृशम् उद्विविजे नृप ॥ १८


तौ रेजतुः रङ्ग-गतौ महा-भुजौ

विचित्र-वेष-आभरण-स्रक्-अम्बरौ ।

यथा नटौ उत्तम-वेष-धारिणौ

मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९


निरीक्ष्य तौ उत्तम-पुरुषौ जना

मञ्च-स्थिता नागर-राष्ट्रकाः नृप ।

प्रहर्ष-वेग-उत्कलित-ईक्षण-आननाः

पपुः न तृप्ताः नयनैः तदा आननम् ॥ २०


पिबन्त इव चक्षुर्भ्याम् लिहन्त इव जिह्वया
जिघ्रन्त इव नासाभ्याम् श्लिष्यन्त इव बाहुभिः ॥ २१ ॥


ऊचुः परस्परम् ते वै यथा दृष्टम् यथा श्रुतम्
तत्-रूप-गुण-माधुर्य-प्रागल्भ्य-स्मारिताः इव ॥ २२ ॥


एतौ भगवतः साक्षात् हरेः नारायणस्य हि
अवतीर्णौ इह अंशेन वसुदेवस्य वेश्मनि ॥ २३ ॥


एषः वै किल देवक्याम् जातः नीतः गोकुलम्
कालम् एतम् वसन् गूढः ववृधे नन्द-वेश्मनि ॥ २४ ॥


पूतना नेन नीता अन्तम् चक्रवातः दानवः
अर्जुनौ गुह्यकः केशी धेनुकः अन्ये तत्-विधाः ॥ २५ ॥


गावः सपाला एतेन दाव-अग्नेः परिमोचिताः
कालियः दमितः सर्पः इन्द्रः विमदः कृतः ॥ २६ ॥


सप्त-अहम् एक-हस्तेन धृतः अद्रि-प्रवरः अमुना
वर्ष-वात-अशनिभ्यः परित्रातम् गोकुलम् ॥ २७ ॥


गोप्यः अस्य नित्यम् उदित-हसित-प्रेक्षणम् मुखम्
पश्यन्त्यः विविधान् तापान् तरन्ति स्म आश्रमम् मुदा ॥ २८ ॥


वदन्ति अनेन वंशः अयम् यदोः सुभु-विश्रुतः
श्रियम् यशः महत्त्वम् लप्स्यते परिरक्षितः ॥ २९ ॥


अयम् अस्य आग्रजः श्रीमान् रामः कमल-लोचनः
प्रलम्बः निहतः येन वत्सकः ये बक-आदयः ॥ ३० ॥


जनेषु एवम् ब्रुवाणेषु तूर्येषु निनदत्सु
कृष्ण-रामौ समाभाष्य चाणूरः वाक्यम् अब्रवीत् ॥ ३१ ॥

हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ
नियुद्ध-कुशलौ श्रुत्वा राज्ञा आहूतौ दिदृक्षुणा ॥ ३२ ॥


प्रियं राज्ञः प्रकुर्वन्त्यः श्रेयः विन्दन्ति वै प्रजाः
मनसा कर्मणा वाचा विपरीतम् मतः अन्यथा ॥ ३३ ॥


नित्यं प्रमुदिताः गोपाः वत्सपालाः यथा स्फुटम्
वनेषु मल्ल-युद्धेन क्रीडन्तः चारयन्ति गाः ॥ ३४ ॥


तस्मात् राज्ञः प्रियं यूयम् वयम् करवाम हे
भूतानि नः प्रसीदन्ति सर्व-भूत-मयः नृपः ॥ ३५ ॥


तत्-निशम्य अब्रवीत् कृष्णः देश-काल-उचितम् वचः
नियुद्धम् आत्मनः अभीष्टम् मन्‍यमानः अभिनन्द्य ॥ ३६ ॥


प्रजाः भोज-पतेः अस्य वयम् अपि वने-चराः
करवाम प्रियं नित्यं तत् नः परम-अनुग्रहः ॥ ३७ ॥


बालाः वयम् तुल्य-बलैः क्रीडिष्यामः यथा-उचितम्
भवेत् नियुद्धम् मा-अधर्मः स्पृशेत् मल्ल-सभा-सदः ॥ ३८ ॥


चाणूरः उवाच –
बालः किशोरः त्वम् बलः बलिनाम् वरः
लीलया एभः हतः येन सहस्र-द्विप-सत्त्व-भृत् ॥ ३९ ॥


तस्मात् भवद्‍भ्याम् बलिभिः योद्धव्यम् अनयः अत्र वै
मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 

संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम 

त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 42 (தனுர் பங்கம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

தனுர் பங்கம்

ஸ்கந்தம் 10: அத்யாயம் 42

श्री शुक उवाच –

अथ व्रजन् राज-पथेन माधवः

स्त्रियम् गृहीत-अङ्ग-विलेप-भाजनाम् ।

विलोक्य कुब्जाम् युवतीम् वर-आननाम्

पप्रच्छ यान्तीम् प्रहसन् रस-प्रदः ॥ १ ॥


का त्वम् वरः वेतत् उ अङ्ग-विलेपनम्

कस्य अङ्गने वा कथयस्व साधु नः ।

देहि आवयोः अङ्ग-विलेपम् उत्तमम्

श्रेयः ततः ते न चिरात् भविष्यति ॥ २ ॥


सैरन्ध्रिः उवाच –

दास्य-अस्मि अहम् सुन्दर कंस-सम्मता

त्रि-वक्र-नामा हि अनुलेप-कर्मणि ।

मद्-भावितम् भोज-पतेः अति-प्रियम्

विना युवाम् कः अन्यतमः तत् अर्हति ॥ ३ ॥


रूप-पेशल-माधुर्य-हसित-आलाप-वीक्षितैः ।

धर्षित-आत्मा ददौ सान्द्रम् उभयोः अनुलेपनम् ॥ ४ ॥


ततः तौ अङ्ग-रागेण स्व-वर्ण-इतऱ-शोभिना ।

सम्प्राप्त-पर-भागेन शुशुभाते अनुरञ्जितौ ॥ ५ ॥


प्रसन्नः भगवान् कुब्जाम् त्रि-वक्राम् रुचिर-आननाम् ।

ऋज्वीम् कर्तुम् मनः चक्रे दर्शयन् दर्शनम् फलम् ॥ ६ ॥


पद्‍भ्याम् आक्रम्य प्रपदे द्रुग्-अङ्गुलिः उत्तान-पाणिना ।

प्रगृह्य चिबुके अध्यात्मम् उद्दीनम् अदत् अच्युतः ॥ ७ ॥


सा तत् ऋजु-सम-आङ्गी बृहत्-श्रोणि-पयोधरा ।

मुकुन्द-स्पर्शनात् सद्यः बभूव प्रमदा उत्तमा ॥ ८ ॥


ततः रूप-गुण-औदार्य-सम्पन्ना प्राह केशवम् ।

उत्तरीय-अन्तम् आकृष्य स्मयन्ती जात-हृत्-श्रया ॥ ९ ॥


एहि वीर गृहम् यामः न त्वाम् त्यक्तुम् इह उत्सहे ।

त्वया उन्मथित-चित्तायाः प्रसीद पुरुष-ऋषभ ॥ १० ॥


एवम् स्त्रिया याच्यमानः कृष्णः रामस्य पश्यतः ।

मुखम् वीक्ष्य अनुगानाम् च प्रहसन् ताम् उवाच ह ॥ ११ ॥


एष्यामि ते गृहम् सुभ्रु पुंसाम् आधि-विकर्शनम् ।

साधित-अर्थः अ-гृहाणाम् नः पान्थानाम् त्वम् परायणम् ॥ १२ ॥


विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः ।

नाना-उपायन-ताम्बूल-स्रक्-गन्धैः स-अग्रजः अर्चितः ॥ १३ ॥


तत्-दर्शन-स्मर-क्षोभात् आत्मानम् न अविदन् स्त्रियः ।

विस्रस्त-वासा:-कबर-वलया लेख्य-मूर्तयः ॥ १४ ॥


ततः पौरान् पृच्छमानः धनुषः स्थानम् अच्युतः ।

तस्मिन् प्रविष्टः ददृशे धनुः ऐन्द्रम् इव अद्भुतम् ॥ १५ ॥


पुरुषैः बहुभिः गुप्तम् अर्चितम् परम्-ऋद्धिमत् ।

वार्यमाणः नृभिः कृष्णः प्रसह्य धनुः आददे ॥ १६ ॥


करेण वामेन सलीलम् उद्धृतम्

सज्यम् च कृत्वा निमिषेण पश्यताम् ।

नृणाम् विकृष्य प्रबभञ्ज मध्यतः

यथा इक्षु-दण्डम् मद-करिः उरुक्रमः ॥ १७ ॥


धनुषः भज्यमानस्य शब्दः खम् रोदसी दिशः ।

पूरयाम् आस यम् श्रुत्वा कंसः त्रासम् उपागमत् ॥ १८ ॥


तत्-रक्षिणः स-अनुचरम् कुपिताः आततायिनः ।

गृहीतु-कामाः आवव्रुः गृह्यताम् बध्यताम् इति ॥ १९ ॥


अथ तान् दुरभि-प्रायान् विलोक्य बल-केशवौ ।

क्रुद्धौ धन्वन आदाय शकले तान् च जघ्नतुः ॥ २० ॥


बलम् च कंस-प्रहितम् हत्वा शाला-मुखात् ततः ।

निष्क्रम्य चेरतुः हृष्टौ निरीक्ष्य पुर-सम्पदः ॥ २१ ॥


तयोः तत् अद्‍भुतम् वीर्यम् निशाम्य पुर-वासिनः ।

तेजः प्रागल्भ्यम् रूपम् च मेनिरे विबुध-उत्तमौ ॥ २२ ॥


तयोः विचरतोः स्वैरम् आदित्यः अस्तम् उपेयिवान् ।

कृष्ण-रामौ वृतौ गोपैः पुरात् शकटम् ईयतुः ॥ २३ ॥


गोप्यः मुकुन्द-विगमे विरह-आतुराः याः

आशासत आशिषः ऋता मधुपुरी-अभूवन् ।

सम्पश्यताम् पुरुष-भूषण-गात्र-लक्ष्मिम्

हित्वा इतरे (तान्) नु भजतः च अकमे अयनम् श्रीः ॥ २४ ॥


अवनिक्त-अङ्‌घ्रि-युगलौ भुक्त्वा क्षीर-उपसेचनम् ।

ऊषतुः ताम् सुखम् रात्रिम् ज्ञात्वा कंस-चिकीर्षितम् ॥ २५ ॥


कंसः तु धनुषः भङ्गम् रक्षिणाम् स्व-बलस्य च ।

वधम् निशम्य गोविन्द-राम-विक्रीडितम् परम् ॥ २६ ॥


दीर्घ-प्रजागरः भीतः दुर्निमित्तानि दुर्मतिः ।

बहूनि अचष्ट उभयथा मृत्यु-उर्-दौत्य-कराणि च ॥ २७ ॥


अदर्शनम् स्व-शिरसः प्रति-रूपे च सत्य अपि ।

असत्य अपि द्वितीये च द्वै-रूप्यम् ज्योतिषाम् तथा ॥ २८ ॥


छिद्र-प्रतीतिः छायायाम् प्राण-घोष-अनुपश्रुतिः ।

स्वर्ण-प्रतीतिः वृक्षेषु स्व-पद-अनाम् अदर्शनम् ॥ २९ ॥


स्वप्ने प्रेत-परिष्वङ्गः खर-यानम् विषादनम् ।

यायात् नलदमाल्य-एकः तैल-अभ्यक्तः दिगम्बरः ॥ ३० ॥


अन्यानि च इत्थम् भूतानि स्वप्न-जागरितानि च ।

पश्यन् मरण-सन्त्रस्तः निद्राम् लेभे न चिन्तया ॥ ३१ ॥


व्युष्टायाम् निशि कौरव्य सूर्ये च अद्‍भ्यः समुत्थिते ।

कारयामास वै कंसः मल्ल-क्रीडा-महोत्सवम् ॥ ३२ ॥


आनर्चुः पुरुषाः रङ्गम् तूर्य-भेर्यः च जघ्निरे ।

मञ्चाः च आलङ्कृताः स्रग्भिः पताका-चैल-तोरणैः ॥ ३३ ॥


तेषु पौराः जानपदाः ब्रह्म-क्षत्र-पुरोगमाः ।

यथोपजोषम् विविशुः राजानः च कृत-आसनाः ॥ ३४ ॥


कंसः परिवृतः अमात्यैः राज-मञ्च उपाविशत् ।

मण्डल-ईश्वर-मध्यस्थः हृदयेन विदूयता ॥ ३५ ॥


वाद्यमानेषु तूर्येषु मल्ल-ताल-उत्तरेषु च ।

मल्लाः स्व-लङ्कृताः दृप्ताः स-उपाध्यायाः समाविशन् ॥ ३६ ॥


चाणूरः मुष्टिकः कूटः शलः तोशलः एव च ।

ते आसेदुः उपस्थानम् वल्गु-वाद्य-प्रहर्षिताः ॥ ३७ ॥


नन्द-गोप-आदयः गोपाः भोज-राज-समाहुताः ।

निवेदित-उपायनाः ते एकस्मिन् मञ्चे आविशन् ॥ ३८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥

ஸ்கந்தம் 10: அத்யாயம் 41 (கண்ணனும் பலராமனும் மதுரா வருகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணனும் பலராமனும் மதுரா வருகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 41

श्रीशुक उवाच –

स्तुवतः तस्य भगवान् दर्शयित्वा जले वपुः ।

भूयः समाहरत् कृष्णः नटः नाट्यम् इव आत्मनः ॥ १ ॥


सः अपि च अन्तर्हितम् वीक्ष्य जलात् उन्मज्य सत्वरः ।

कृत्वा च आवश्यकम् सर्वम् विस्मितः रथम् आगमत् ॥ २ ॥


तम् अपृच्छत् हृषीकेशः किम् ते दृष्टम् इव अद्‍भुतम् ।

भूमौ वियति तोये वा तथा त्वाम् लक्षयामहे ॥ ३ ॥


श्रीअक्रूर उवाच –

अद्‍भुतानि इह यावन्ति भूमौ वियति वा जले ।

त्वयि विश्व-आत्मके तानि किम् मे अदृष्टम् विपश्यतः ॥ ४ ॥


यत्र अद्‍भुतानि सर्वाणि भूमौ वियति वा जले ।

तम् त्वाम् अनुपश्यतः ब्रह्मन् किम् मे दृष्टम् इह अद्‍भुतम् ॥ ५ ॥


इति उक्त्वा च उदयामास स्यन्दनम् गान्दिनी-सुतः ।

मथुराम् अनयत् रामम् कृष्णम् च एव दिन-अत्यये ॥ ६ ॥


मार्गे ग्राम-जनाः राजन् तत्र तत्र उपसङ्‍गताः ।

वसुदेव-सुतौ वीक्ष्य प्रीताः दृष्टिम् न च आददुः ॥ ७ ॥


तावत् व्रज-औकसः तत्र नन्द-गोप-आदयः अग्रतः ।

पुर-उपवनम् आसाद्य प्रतीक्षन्तः अवतस्थिरे ॥ ८ ॥


तान् समेत्य आह भगवान् अक्रूरम् जगत्-ईश्वरः ।

गृहीत्वा पाणिना पाणिम् प्रश्रितम् प्रहसन् इव ॥ ९ ॥


भवान् प्रविशताम् अग्रे सह-यानः पुरीम् गृहम् ।

वयम् तु इह अवमुच्य अथ ततः द्रक्ष्यामहे पुरीम् ॥ १० ॥


श्रीअक्रूर उवाच –

न अहम् भवद्‌भ्याम् रहितः प्रवेक्ष्ये मथुराम् प्रभो ।

त्यक्तुम् न अर्हसि माम् नाथ भक्तम् ते भक्तवत्सल ॥ ११ ॥


आगच्छ याम् गेहान् नः सनाथान् कुरु अदोक्षज ।

सह अग्रजः स-गोपालैः सुहृत्‌भिः च सुहृत्-तम ॥ १२ ॥


पुनीहि पाद-रजसा गृहान् नः गृह-मेधिनाम् ।

यत्-शौचेन अनुतृप्यन्ति पितरः सा-अग्नयः सुराः ॥ १३ ॥


अवनिज्य अङ्‌घ्रि-युगलम् आसीत् श्लोक्यः बलिः महान् ।

ऐश्वर्यम् अतुलम् लेभे गतिम् च ऐकान्तिनाम् तु या ॥ १४ ॥


आपः ते अङ्‌घ्रि-अवनेजन्याः स्त्रीन् लोकान् शुचयः अपुनन् ।

शिरसा अधत्त याः शर्वः स्वर्याताः सगर-आत्मजाः ॥ १५ ॥


देव-देव जगत्-नाथ पुण्य-श्रवण-कीर्तन ।

यदु-उत्तम-उत्तम-श्लोक नारायण नमः अस्तु ते ॥ १६ ॥


श्रीभगवान् उवाच –

आयास्ये भवतः गेहम् अहम् आर्य-समन्वितः ।

यदु-चक्र-द्रुहम् हत्वा वितरिष्ये सुहृत्-प्रियम् ॥ १७ ॥


श्रीशुक उवाच –

एवम् उक्तः भगवता सः अक्रूरः विमनाः इव ।

पुरीम् प्रविष्टः कंसाय कर्म आवेद्य गृहम् ययौ ॥ १८ ॥


अथ अपराह्णे भगवान् कृष्णः सङ्‌कर्षण-अन्वितः ।

मथुराम् प्राविशत् गोपैः दिदृक्षुः परिवारितः ॥ १९ ॥


ददर्श ताम् स्फाटिक-तुङ्ग-गोपुर-

  द्वाराम् बृहत्-हेम-कपाट-तोरणाम् ।

ताम्र-अर-कोष्ठाम् परिखा-दुरासदाम्

  उद्यान-रम्य-उपवन-उपशोभिताम् ॥ २० ॥


सौवर्ण–शृङ्गाटक–हर्म्य–निष्कुटैः

श्रेणी-सभा-भिः भवनैः उपस्कृताम् ।

वैदूर्य-वज्र-अमल-नील-विद्रुमैः

मुक्ता-हरित्-भिः वलभीषु वेदिषु ॥ २१ ॥


जुष्टेषु जालामुख-रन्ध्र-कुट्टिमे-

षु आविष्ट-पारावत-बर्हि-नादिताम् ।

संसिक्त-रथ्या-अपण-मार्ग-चत्वराम्

प्रकीर्ण-माल्य-अङ्कुर-लाज-तण्डुलाम् ॥ २२ ॥


आपूर्ण-कुम्भैः दधि-चन्दन-उक्षितैः

प्रसून-दीप-आवलि-भिः स-पल्लवैः ।

स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः

स्वलङ्कृत-द्वार-गृहाम् स-पट्टिकैः ॥ २३ ॥


ताम् सम्प्रविष्टौ वसुदेव-नन्दनौ

वृतौ वयस्यैः नरदेव-वर्त्मना ।

द्रष्टुम् समीयुः त्वरिताः पुर-स्त्रियः

हर्म्याणि च एव अरुहुः नृप-उत्सुकाः ॥ २४ ॥


काश्चित् विपर्यक्त-धृत-वस्त्र-भूषणाः

विस्मृत्य च एकम् युगलेषु अथ अपराः ।

कृत-एक-पत्र-श्रवण-एक-नूपुराः

न अङ्क्त्वा द्वितीयम् तु अपराः च लोचनम् ॥ २५ ॥


अश्नन्त्यः एकाः तत् अपास्य स-उत्सवाः

अभ्यज्यमानाः अकृत-उपमज्जनाः ।

स्वपन्त्यः उत्थाय निशम्य निःस्वनम्

प्रपाययन्त्यः अर्भम् अपोह्य मातरः ॥ २६ ॥


मनांसि तासाम् अरविन्द-लोचनः

प्रगल्भ-लीला-हसित-अवलोकनैः ।

जहार मत्त-द्विरद-इन्द्र-विक्रमः

दृशाम् ददत् श्री-रमण-आत्मनः उत्सवम् ॥ २७ ॥


दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसः तम् ।

तत्-प्रेक्षण-उत्स्मित-सुधा-उक्षण-लब्ध-मानाः ।

आनन्द-मूर्तिम् उपगुह्य दृशा आत्म-लब्धम् ।

हृष्यत्-त्वचः जहुः अनन्तम् अरि-दम-आधिम् ॥ २८ ॥


प्रासाद-शिखर-आरूढाः प्रीति-उत्फुल्ल-मुख-अम्बुजाः ।

अभ्यवर्षन् सौमनस्यैः प्रमदाः बल-केशवौ ॥ २९ ॥


दधि-अक्षतैः स-उदपात्रैः स्रक्-गन्धैः अभ्युपायनैः ।

तौ अनर्चुः प्रमुदिताः तत्र तत्र द्विजातयः ॥ ३० ॥


ऊचुः पौराः –

अहो गोप्यः तपः किम् अचरन् महत् ।

या हि एतौ अनुपश्यन्ति नर-लोक-महोत्सवौ ॥ ३१ ॥


रजकम् कञ्चित् आयान्तम् रङ्गकारम् गदा-अग्रजः ।

दृष्ट्वा याचत वासांसि धौतानि अति-उत्तमानि च ॥ ३२ ॥


देहि आवयोः समुचितानि अङ्ग वासांसि च अर्हतोः ।

भविष्यति परम् श्रेयः दातुः ते न अत्र संशयः ॥ ३३ ॥


स याचितः भगवता परिपूर्णेन सर्वतः ।

साक्षेपम् रुषितः प्राह भृत्यः राज्ञः सुदुर्मदः ॥ ३४ ॥


ईदृशानि एव वासांसी नित्यम् गिरि-वने-चराः ।

परिधत्त किम् उद्वृत्ताः राज-द्रव्याणि अभीप्सथ ॥ ३५ ॥


यात अशु बालिशाः मा एवम् प्रार्थ्यम् यदि जिजीवीषा ।

बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तम् राज-कुलानि वै ॥ ३६ ॥


एवम् विकत्थमानस्य कुपितः देवकी-सुतः ।

रजकस्य कर-अग्रेण शिरः कायात् अपातयत् ॥ ३७ ॥


तस्य अनुजीविनः सर्वे वासः-कोशान् विसृज्य वै ।

दुद्रुवुः सर्वतः मार्गम् वासांसि जगृहे अच्युतः ॥ ३८ ॥


वसित्वा आत्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणः तथा ।

शेषाणि आदत्त गोपेभ्यः विसृज्य भुवि कानिचित् ॥ ३९ ॥


ततः तु वायकः प्रीतः तयोः वेषम् अकल्पयत् ।

विचित्र-वर्णैः चैलेयैः आकल्पैः अनुरूपतः ॥ ४० ॥


नाना-लक्षण-वेषाभ्याम् कृष्ण-रामौ विरेजतुः ।
स्व-लङ्कृतौ बाल-गजौ पर्वणि इव सित-इतऱौ ॥ ४१ ॥


तस्य प्रसन्नः भगवान् प्रादात् सा-रूप्यम् आत्मनः ।
श्रियं च परमाम् लोके बल-ऐश्वर्य-स्मृति-इन्द्रियम् ॥ ४२ ॥


ततः सुदाम्नः भवनम् मालाकारस्य जग्मतुः ।
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥


तयोः आसनम् आनीय पाद्यम् च अर्घ्य-अर्हण-आदिभिः ।
पूजाम् स-अनुगयोः चक्रे स्रक्-ताम्बूल-अनुलेपनैः ॥ ४४ ॥


प्राह नः सार्थकम् जन्म पावितम् च कुलम् प्रभो ।
पितृ-देव-ऋषयः मह्यम् तुष्टाः हि आगमनेन वाम् ॥ ४५ ॥


भवन्तौ किल विश्वस्य जगतः कारणम् परम् ।
अवतीर्णौ इह अंशेन क्षेमाय च भवाय च ॥ ४६ ॥


न हि वाम् विषमा दृष्टिः सुहृदोः जगत्-आत्मनोः ।
समयोः सर्व-भूतेषु भजन्तम् भजतोः अपि ॥ ४७ ॥


तौ आज्ञापयताम् भृत्यम् किम् अहम् करवाणि वाम् ।
पुंसः अति-अनुग्रहः हि एषः भवद्‌भिः यत् नियुक्त्यते ॥ ४८ ॥


इति अभिप्रेत्य राजेन्द्र सुदामाः प्रीत-मानसः ।
शस्तैः सुगन्धैः कुसुमैः माला विरचिता ददौ ॥ ४९ ॥


ताभिः स्व-लङ्कृतौ प्रीतौ कृष्ण-रामौ स-अनुगौ ।
प्रणताय प्रपन्नाय ददतुः वरदौ वरान् ॥ ५० ॥


सः अपि वव्रे अचलाम् भक्तिम् तस्मिन् एव अखिल-आत्मनि ।
तत्-भक्तेषु च सौहार्दम् भूतेषु च दयाम् पराम् ॥ ५१ ॥


इति तस्मै वरम् दत्त्वा श्रियम् च अनुय-वर्धिनीम् ।
बलम् आयुः यशः कान्तिम् निर्जगाम सह-अग्रजः ॥ ५२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नाम एकचत्वारिंशोऽध्यायः ॥ ४१ ॥