Followers

Search Here...

Sunday, 14 December 2025

ஸ்கந்தம் 5: அத்யாயம் 2 (ஆக்னித்ரன் சரித்திரம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஆக்னித்ரன் சரித்திரம்

ஸ்கந்தம் 5: அத்யாயம் 2

 

श्री-शुक उवाच –
एवं पितरि सम्प्रवृत्ते तद्-अनु-शासने वर्तमानः आग्नीध्रः जम्बू-द्वीप-ओकसः प्रजाः
औरसवत् धर्म-अवेक्षमाणः पर्यगोपायत् ॥ १ ॥

सः च कदाचित् पितृ-लोक-कामः सुर-वर-वनिता-क्रीडा-अचल-द्रोण्याम्
भगवन्तं विश्व-सृजाम् पतिम् आभृत-परिचर्या-उपकरणः आत्म-एकाग्र्येण
तपस्वी आराधयाम् बभूव ॥ २ ॥

तत् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीम् पूर्व-चित्तिम् नाम
अप्सरसम् अभियापयाम् आस ॥ ३ ॥

सा च तत्-आश्रम-उपवनम् अति-रमणीयम् विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट
पुरट-लता-आरूढ-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान
सलिल-कुक्कुट-कारण्डव-कलहंस-आदिभिः विचित्रम् उपकूजित
अमल-जल-आशय-कमल-आकरम् उपबभ्राम ॥ ४ ॥

तस्याः सु-ललित-गमन-पद-विन्यास गति-विलासायाः च अनु-पदम्
खण-खणायमान-रुचिर-चरण-आभरण-स्वनम्
उपाकर्ण्य नर-देव-कुमारः समाधि-योगेन आमीलीत
नयन-नलिन-मुकुल-युगलम् ईषत् विकचय्य व्यचष्ट ॥ ५ ॥

ताम् एव अविदूरे मधु-करीम् इव सुमनसः उपजिघ्रन्तीम्
दिविज-मनुज-मनः-नयन-आह्लाद-दुघैः गति-विहार-व्रीडा-विनय-अवलोक
सु-स्वर-अक्षर-अवयवैः मनसि नृणाम् कुसुम-आयुधस्य
विदधतीम् विवरम् निज-मुख-विगलित-अमृत-आसव
सहास-भाषणा-आमोद-मद-अन्ध मधुकर-निकर-उपरोधेन
द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनाम्
देवीं तत्-अवलोकनेन विवृत-अवसरस्य भगवतः
मकर-ध्वजस्य वशम् उपनीतः जडवत् इति होवाच ॥ ६ ॥

का त्वम् चिकीर्षसि च किम् मुनि-वर्य शैले माया असि कापि भगवत्-पर-देवतायाः।
विज्ये बिभर्षि धनुषी सुहृत्-आत्मनः अर्थे किम् वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ७ ॥

बाणौ इमौ भगवतः शत-पत्र-पत्रौ शान्तौ अपुङ्ख-रुचिरौ अवतितिग्म-दन्तौ।
कस्मै युयुङ्क्षसि वने विचरन् न विद्मः क्षेमाय नः जड-धियाम् तव विक्रमः अस्तु ॥ ८ ॥

शिष्याः इमे भगवतः परितः पठन्ति गायन्ति साम स-रहस्यम् अजस्रम् ईशम्।
युष्मत्-शिखा-विलुलिताः सुमनः-अभिवृष्टीः सर्वे भजन्ति ऋषि-गणाः इव वेद-शाखाः ॥ ९ ॥

वाचम् पराम् चरण-पञ्जर-तित्तिरीणाम् ब्रह्मन् अरूप-मुखराम् शृणवाम तुभ्यम्।
लब्धा कदम्ब-रुचिर-अङ्क-विटङ्क-बिम्बे यस्य अमल-आतप-परिधिः क्व च वल्कलम् ते ॥ १० ॥

किम् सम्भृतम् रुचिरयोः द्विज-शृङ्गयोः ते मध्ये कृशः वहसि यत्र दृशिः श्रिता मे।
पङ्कः अरुणः सुरभिः आत्म-विषाणः ईदृक् येन आश्रमम् सुभग मे सुरभीकरोषि ॥ ११ ॥

लोकम् प्रदर्शय सुहृत्-तम तावकम् मे यत्र अति इत्थम् उरसाव् अवयवौ अपूर्वौ।
अस्मत्-विधस्य मन-उन्नयनौ बिभर्ति बहु-अद्भुतम् सरस-रस-सुधा-आदि वक्त्रे ॥ १२ ॥

का वा आत्म-वृत्तिः अदानात् हविः अङ्ग वाति विष्णोः कला अस्य निमिष-उन्मकरौ च कर्णौ।
उद्विग्न-मीन-युगलम् द्विज-पङ्क्ति-शोचिः आसन्न-भृङ्ग-निकरम् सरः इत् मुखम् ते ॥ १३ ॥

यः असौ त्वया कर-सरोज-हतः पतङ्गः दिक्षु भ्रमन् भ्रमतः एजयते अक्षिणी मे।
मुक्तम् न ते स्मरसि वक्र-जटा-वरूथम् कष्टः अनिलः हरति लम्पटः एष नीवीम् ॥ १४ ॥

रूपम् तपोधन तपः-चरताम् तपः-घ्नम् हि एतत् तु केन तपसा भवता उपलब्धम्।
चर्तुम् तपः अर्हसि मया सह मित्र मह्यम् किम् वा प्रसीदति सः वै भव-भावनः मे ॥ १५ ॥

न त्वाम् त्यजामि दयितम् द्विज-देव-दत्तम् यस्मिन् मनः दृक् अपि नः न वियाति लग्नम्।
माम् चारु-शृङ्गि अर्हसि नेतुम् अनु-व्रतम् ते चित्तम् यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६ ॥

श्री-शुक उवाच – 
इति ललना-अनुनय-अति-विशारदः ग्राम्य-वैदग्ध्यया परिभाषया
ताम् विबुध-वधूम् विबुध-मति: अधि-सभाजयाम् आस ॥ १७ ॥

सा च ततः तस्य वीर-यूथ-पतेः बुद्धि-शील-रूप-वयः-श्री-औदार्येण
पर-आक्षिप्त-मनाः तेन सह आयुत-आयुत-परिवत्सर-उपलक्षणम्
कालम् जम्बू-द्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे ॥ १८ ॥

तस्याम् उ ह वा आत्म-जान् सः राज-वरः आग्नीध्रः
नाभि-किम्पुरुष-हरि-वर्ष-इलावृत रम्यक-हिरण्मय-कुरु-भद्र
श्वेतकेतु-माल-संज्ञान् नव पुत्रान् अजनयत् ॥ १९ ॥

सा सूत्वा अथ सुतान् नवान् अनुवत्सरम् गृहे एव अपहाय
पूर्व-चित्तिः भूयः एव अजम् देवम् उपतस्थे ॥ २० ॥

आग्नीध्र-सुताः ते मातुः अनुग्रहात् औत्पत्तिकेन एव संहनन-बल-उपेताः
पित्रा विभक्ताः आत्म-तुल्य-नामानि यथा-भागं जम्बू-द्वीप-वर्षाणि बुभुजुः ॥ २१ ॥

आग्नीध्रः राजा अत्रप्तः कामानाम् अप्सरसम् एव अनुदिनम् अधिमन्यमानः
तस्याः स-लोकतां श्रुतिभिः अवारुन्ध यत्र पितरः मादयन्ते ॥ २२ ॥

सम्परेते पितरि नव भ्रातरः मेरु-दुहितॄः मेरु-देवीं प्रति-रूपाम् उग्र-दंष्ट्रीं 

लतां रम्यां श्यामां नारीं भद्रां देव-वीतिम् इति संज्ञाः नव उदवहन् ॥ २३ ॥

॥ इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां पञ्चम-स्कन्धे आग्नीध्र-वर्णनं नाम द्वितीयः अध्यायः ॥ २ ॥

ஸ்கந்தம் 5: அத்யாயம் 1 (ப்ரியவ்ரத சரித்திரம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ப்ரியவ்ரத சரித்திரம்

ஸ்கந்தம் 5: அத்யாயம் 1

 

राजा उवाच —

प्रिय-व्रतः भागवत आत्म-आरामः कथम् मुने ।
गृहे अरमत यत्-मूलः कर्म-बन्धः परा-भवः ॥ १ ॥

न नूनम् मुक्त-सङ्गानाम् तादृशानाम् द्विज-ऋषभ ।
गृहेषु अभिनिवेशः अयम् पुंसाम् भवितुम् अर्हति ॥ २ ॥

महताम् खलु विप्र-ऋषे उत्तम-श्लोक-पादयोः ।
छाया-निर्वृत-चित्तानाम् न कुटुम्बे स्पृहा-मतिः ॥ ३ ॥

संशयः अयम् महान् ब्रह्मन् दारा-आगार-सुत-आदिषु ।
सक्तस्य यत् सिद्धिः अभूत् कृष्णे च मतिः अच्युता ॥ ४ ॥


श्री-शुक उवाच —

बाढम् उक्तम् भगवत उत्तम-श्लोकस्य श्रीमत्-चरण-अरविन्द-मकरन्द-रस आवेशित-चेतसः
भागवत-परमहंस-दयित-कथाम् किञ्चित् अन्तराय-विहताम् स्वाम् शिव-तमाम् पदवीम्
न प्रायेण हिन्वन्ति ॥ ५ ॥

यर्हि वाव ह राजन् सः राज-पुत्रः प्रिय-व्रतः परम-भागवतः नारदस्य चरण-उपसेवया
अञ्जसा अवगत-परम-अर्थ-सतत्त्वः ब्रह्म-सत्रेण दीक्षिष्यमाणः अवनि-तल-परिपालनाय
आम्नात-प्रवर-गुण-गण-एकान्त-भाजनतया स्व-पित्रा उपामन्त्रितः
भगवति वासुदेव एव अव्यवधान-समाधि-योगेन समावेशित
सकल-कारक-क्रिया-कलापः न एव अभ्यनन्दत्
यद्यपि तत् अप्रत्याम्नातव्यम् तत् अधिकरणे
आत्मनः अन्यस्मात् असतः अपि परा-भवम् अन्वीक्षमाणः ॥ ६ ॥

अथ ह भगवान् आदि-देवः एतस्य गुण-विसर्गस्य
परिबृंहण-अनुध्यान व्यवसित-सकल-जगत्-अभिप्रायः
आत्म-योनिः अखिल-निगम-निज-गण-परिवेष्टितः
स्व-भवनात् अवततार ॥ ७ ॥

सः तत्र तत्र गगन-तले उडु-पतिः इव
विमान-आवलिभिः अनुपथम्
अमर-परिवृढैः अभिपूज्यमानः पथि पथि च वरूथ-शः
सिद्ध-गन्धर्व-साध्य-चारण-मुनि-गणैः उपगीयमानः
गन्ध-मादन-द्रोणीम् अवभासयन् उपससर्प ॥ ८ ॥

तत्र ह वा एनम् देव-ऋषिः हंस-यानेन पितरम् भगवन्तम्
हिरण्य-गर्भम् उपलभमानः सहसा एव उत्थाय
अर्हणेन सह पिता-पुत्राभ्याम् अवहित-अञ्जलिः उपतस्थे ॥ ९ ॥

भगवान् अपि भारत तत्-उपनीत-अर्हणः सूक्त-वाकेन
अति-तराम् उदित गुण-गण-अवतार-सुजयः
प्रिय-व्रतम् आदि-पुरुषः तम् स-दय-हास-अवलोकः इति ह उवाच ॥ १० ॥


श्री-भगवान् उवाच —

निबोध तात एतत् ऋतम् ब्रवीमि
मा असूयितुम् देवम् अर्हसि अप्रमेयम् ।
वयम् भवः ते ततः एषः महा-ऋषिः
वहाम सर्वे विवशाः यस्य दिष्टम् ॥ ११ ॥

न तस्य कश्चित् तपसा विद्यया वा
न योग-वीर्येण मनीषया वा ।
न एव अर्थ-धर्मैः परतः स्वतः वा
कृतम् विहन्तुम् तनु-भृत् विभूयात् ॥ १२ ॥

भवाय नाशाय च कर्म कर्तुम्
शोकाय मोहाय सदा भयाय ।
सुखाय दुःखाय च देह-योगम्
अव्यक्त-दिष्टम् जनता अङ्ग धत्ते ॥ १३ ॥

यत् वाचि तन्त्याम् गुण-कर्म-दामभिः सु-दुस्तरैः वत्स वयम् सु-योजिताः ।
सर्वे वहामः बलिम् ईश्वराय प्रोताः नसीव द्वि-पदे चतुष्-पदः ॥ १४ ॥

ईश-अभिसृष्टम् हि अवरुन्ध्महे अङ्ग दुःखम् सुखम् वा गुण-कर्म-सङ्गात् ।
आस्थाय तत् तत् यत् अयुङ्क्त नाथः चक्षुष्मत्-अन्धाः इव नीयमानाः ॥ १५ ॥

मुक्तः अपि तावत् बिभृयात् स्व-देहम् आरब्धम् अश्नन् अभिमान-शून्यः ।
यथा अनुभूतम् प्रति-यात-निद्रः किम् तु अन्य-देहाय गुणान् न वृङ्क्ते ॥ १६ ॥

भयम् प्रमत्तस्य वनेषु अपि स्यात् यतः सः आस्ते सह षट्-सपत्नः ।
जित-इन्द्रियस्य आत्म-रतेः बुधस्य गृह-आश्रमः किम् नु करोति अवद्यम् ॥ १७ ॥

यः षट्-सपत्नान् विजिगीषमाणः गृहेषु निर्विश्य यतेत पूर्वम् ।
अत्येति दुर्ग-आश्रितः ऊर्जित-अरीन् क्षीणेषु कामम् विचरेत् विपश्चित् ॥ १८ ॥

त्वम् तु अब्ज-नाभ-अङ्घ्रि-सरोज-कोश दुर्ग-आश्रितः निर्जित-षट्-सपत्नः ।
भुङ्क्ष्व इह भोगान् पुरुष-अतिदिष्टान् विमुक्त-सङ्गः प्रकृतिम् भजस्व ॥ १९ ॥

श्री-शुक उवाच —

इति समभिहितः महा-भागवतः भगवतः त्रि-भुवन-गुरोः अनुशासनम्
आत्मनः लघुतया अवनत-शिरोधरः बाढम् इति स-बहुमानम् उवाह ॥ २० ॥

भगवान् अपि मनुना यथा-वत् उपकल्पित-अपचितिः
प्रिय-व्रत-नारदयोः अविषमम् अभि-समीक्षमाणयोः
आत्म-समवस्थानम् अवाक्-मनसम्
क्षयम् अव्यवहृतम् प्रवर्तयन् अगमत् ॥ २१ ॥

मनुः अपि परेण एवम् प्रतिसन्धित-मनोरथः
सुर-ऋषि-वर-अनुमतेन आत्मजम्
अखिल-धरा-मण्डल-स्थिति-गुप्तये आस्थाप्य
स्वयम् अति-विषम-विषय-विष-जल-आशय-आशायाः उपरराम ॥ २२ ॥

इति ह वा सः जगती-पतिः ईश्वर-इच्छया अधि-निवेशित-कर्म-अधिकारः
अखिल-जगत्-बन्ध-ध्वंसन-पर-अनुभावस्य भगवतः आदि-पुरुषस्य
अङ्घ्रि-युगल-अनवरत-ध्यान-अनुभावेन परिरन्धित-कषाय-आशयः
अवदातः अपि मानव-वर्धनः मही-तलम् अनुशशास ॥ २३ ॥

अथ च दुहितरम् प्रजापतेः विश्व-कर्मणः उपयेमे बर्हिष्मतीम् नाम
तस्याम् उ ह वा आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्य-उदारान्
दश भावयाम् बभूव कन्याम् च यवीयसीम् ऊर्जस्वतीम् नाम ॥ २४ ॥

आग्नीध्र-इध्मजिह्व-यज्ञबाहु-महावीर- हिरण्यरेतस्-घृतपृष्ठ-सवन-मेधातिथि-
वीतिहोत्र-कवयः इति सर्वे एव अग्नि-नामानः ॥ २५ ॥

एतेषाम् कविः-महावीरः-सवनः इति त्रयः आसन् ऊर्ध्व-रेतसः
ते आत्म-विद्यायाम् अर्भ-भावात् आरभ्य कृत-परिचयाः
पारमहंस्यम् एव आश्रमम् अभजन् ॥ २६ ॥

तस्मिन् उ ह वा उपशम-शीलाः परम-ऋषयः सकल-जीव-निकाय-आवासस्य
भगवतः वासुदेवस्य भीतानाम् शरण-भूतस्य
श्री-मत्-चरण-अरविन्द-अविरत-स्मरण-अविगलित
परम-भक्ति-योग-अनुभावेन परिभावित-अन्तः-हृदय-अधिगते भगवति
सर्वेषाम् भूतानाम् आत्म-भूते प्रत्यक्-आत्मनि एव
आत्मनः तादात्म्य-अविशेषेण समीयुः ॥ २७ ॥

अन्यस्याम् अपि जायायाम् त्रयः पुत्राः आसन्
उत्तमः तामसः रैवत इति मनु-अन्तर-अधिपतयः ॥ २८ ॥

एवम् उपशम-आयनेषु स्व-तनयेषु अथ जगती-पतिः
जगती-अर्बुदानि एकादश परिवत्सराणाम्
अव्याहत-अखिल-पुरुष-कार-सार-सम्भृत
दोः-दण्ड-युगल-आपीडित-मौर्वी-गुण
स्तनित-विरमित-धर्म-प्रतिपक्षः बर्हिष्मत्याः च
अनुदिन-एधमान-प्रमोद-प्रसरण यौषित्-अव्रीडा-प्रमुषित
हास-अवलोक-रुचिर-क्ष्वेल्य-आदिभिः पराभूयमान-विवेकः
इव अनवबुध्यमानः इव महामनाः बुभुजे ॥ २९ ॥

यावत् अवभासयति सुर-गिरिम् अनु-परिक्रामन् भगवान् आदित्यः
वसुधा-तलम् अर्धेन एव प्रतपति अर्धेन अवच्छादयति
तदा हि भगवत्-उपासना-उपचित अति-पुरुष-प्रभावः
तत् अनभिनन्दन् सम-जवेन रथेन ज्योति-मयेन
रजनीम् अपि दिनम् करिष्यामि इति सप्त-कृत्वः तरणिम् अनु-पर्यक्रामत्
द्वितीयः इव पतङ्गः ॥ ३० ॥

ये वा उ ह तत्-रथ-चरण-नेमि-कृत-परिखाताः ते सप्त सिन्धवः आसन्
यतः एव कृताः सप्त भुवः द्वीपाः ॥ ३१ ॥

जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कर-संज्ञाः
तेषाम् परिमाणम् पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः
यथा-सङ्ख्यम् द्वि-गुण-मानेन बहिः समन्ततः उपकॢप्ताः ॥ ३२ ॥

क्षीर-उद-इक्षु-रस-उद-सुर-उद-घृत-उद-दधि-मण्ड-उद-
शुद्ध-उदाः सप्त जल-धयः सप्त द्वीप-परिखाः इव
अभ्यन्तर-द्वीप-समानाः एक-एक-शः यथा-अनुपूर्वम्
सप्तसु अपि बहिः-द्वीपेषु पृथक् परितः उपकल्पिताः ॥ ३३ ॥

दुहितरम् च ऊर्जस्वतीम् नाम उशनसे प्रायच्छत्
यस्याम् आसीत् देवयानी नाम काव्य-सुता ॥ ३४ ॥

न एवम्-विधः पुरुष-कारः उरु-क्रमस्य पुंसाम् तत्-अङ्घ्रि-रजसा
जित-षट्-गुणानाम् चित्रम् विदूर-विगतः सकृत् आददीत
यत् नाम-धेयम् अधुना सः जहाति बन्धम् ॥ ३५ ॥

सः एवम् अपरिमित-बल-पराक्रमः एकदा तु
देव-ऋषि-चरण-अनुशयन अनुपतित-गुण-विसर्ग-संसर्गेण
अनिर्वृतम् इव आत्मानम् मन्यमानः आत्म-निर्वेदः इदम् आह ॥ ३६ ॥

अहो असाधु अनुष्ठितम् यत् अभिनिवेशितः अहम्
इन्द्रियैः अविद्या-रचित विषम-विषय-अन्ध-कूपे
तत् अलम् अलम् अमुष्याः वनितायाः
विनोद-मृगम् माम् धिक् धिक् इति गर्हयाम् चकार ॥ ३७ ॥


पर-देवता-प्रसाद-अधिगत आत्म-प्रत्यवमर्शेन
अनुप्रवृत्तेभ्यः पुत्रेभ्यः इमाम् यथा-आदायम् विभज्य
भुक्त-भोगाम् च महिषीम् मृतकम् इव सह महा-विभूतिम् अपहाय
स्वयम् निहित-निर्वेदः हृदि गृहीत-हरि-विहार-अनुभावः
भगवतः नारदस्य पदवीम् पुनः एव अनुससार ॥ ३८ ॥

तस्य ह वा एते श्लोकाः प्रिय-व्रत-कृतम् कर्म कः नु कुर्यात् विना ईश्वरम्।

यः नेमि-निम्नैः अकरोत् छायाम् घ्नन् सप्त वारि-धीन् ॥ ३९ ॥

भू-संस्थानम् कृतम् येन सरित्-गिरि-वन-आदिभिः।
सीमा च भूत-निर्वृत्यै द्वीपे-द्वीपे विभागशः ॥ ४० ॥

भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम्।
यः चक्रे निरय-उपम्यं पुरुष-अनुजन-प्रियः ॥ ४१ ॥

॥ इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां
पञ्चम-स्कन्धे प्रियव्रत-विजये प्रथमोऽध्यायः ॥ १ ॥

Saturday, 13 December 2025

ஸ்கந்தம் 6: அத்யாயம் 19 (பும்ஸவன விரதத்தின் விதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பும்ஸவன விரதத்தின் விதி

ஸ்கந்தம் 6: அத்யாயம் 19

 

राजोवाच –
व्रतं पुंसवनं ब्रह्मन् भवता यद् उदीरितम्।
तस्य वेदितुं इच्छामि येन विष्णुः प्रसीदति ॥ १ ॥

श्रीशुक उवाच –
शुक्ले मार्ग-शिरे पक्षे योषिद्-भर्तुर् अनुज्ञया।
आरभेत् व्रतम् इदं सार्व-कामिकम् आदितः ॥ २ ॥

निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च।
स्नात्वा शुक्ल-दती शुक्ले वसीत-आलंक्रिताम्बरे।
पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ ३ ॥

अलं ते निरपेक्षाय पूर्ण-काम नमोऽस्तु ते।
महाविभूति-पतये नमः सकल-सिद्धये ॥ ४ ॥

यथा त्वं कृपया भूत्या तेजसा महिम-औजसा।
जुष्ट ईश गुणैः सर्वैः ततोऽसि भगवान् प्रभुः ॥ ५ ॥

विष्णु-पत्नी महामाये महा-पुरुष-लक्षणे।
प्रीयेऽथा मे महाभागे लोक-मार्तर्नमोऽस्तु ते ॥ ६ ॥

ॐ नमो भगवते महा-पुरुषाय महानुभावाय महा-विभूति-पतये सह महा-विभूतिभिः बलि-मुपहरामि इति।
अनेनाह-रह-र्मन्त्रेण विष्णोः आवाहन-अर्घ्य-पाद्य-उपस्पर्शन-स्नान-वास-उपवीत-विभूषण-गन्ध-पुष्प-धूप-दीप-उपह्य-आराध्य-उपचारांश् च समाहित उपाहरेत् ॥ ७ ॥

हविः-शेषं तु जुहुयाद् अनले द्वादश-आहुतीः।
ॐ नमो भगवते महा-पुरुषाय महा-विभूति-पतये स्वाहेति ॥ ८ ॥

श्रियं विष्णुं च वरदा-आवाशिषां प्रभव-आवुभौ।
भक्त्या सम्पूजयेन्नित्यं यदि इच्छेत् सर्व-सम्पदः ॥ ९ ॥

प्रणमेद् दण्ड-वद् भूमौ भक्ति-प्रह्वेण चेतसा।
दश-वारं जपेन मन्त्रं ततः स्तोत्रम् उदीरयेत् ॥ १० ॥

युवां तु विश्वस्य विभू जगतः कारणं परम्।
इयं हि प्रकृतिः सूक्ष्मा माया-शक्तिः दुर्गत्यया ॥ ११ ॥

तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः।
त्वं सर्व-यज्ञ इज्येयं क्रियेयं फल-भुग्भवान् ॥ १२ ॥

गुण-व्यक्ति-रियं देवी व्यञ्जको गुण-भुग्भवान्।
त्वं हि सर्व-शरीर्यात्मा श्रीः शरीरेन्द्रिय-आशयाः।
नाम-रूपे भगवती प्रत्ययः त्वम् अपाश्रयः ॥ १३ ॥

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ।
तथा म उत्तम-श्लोक सन्तु सत्या महाशिषः ॥ १४ ॥

इत्यभिष्टूय वरदं श्री-निवासं श्रिया सह।
तन्निःसार्योपहरणं दत्त्वा आचमनं अर्चयेत् ॥ १५ ॥

ततः स्तुवीत् स्तोत्रेण भक्ति-प्रह्वेण चेतसा।
यज्ञ-उच्छिष्टं अवघ्राय पुनः अभ्यर्चयेत् धरिम् ॥ १६ ॥

पतिं च परया भक्त्या महा-पुरुष-चेतसा।
प्रियैः तैस्तैर् उपनमेत् प्रेम-शीलः स्वयं पतिः।
बिभृयात् सर्व-कर्माणि पत्न्या उच्च-आवचानि च ॥ १७ ॥

कृतम् एकतरेणापि दम्पत्योः उभयोः अपि।
पत्न्यां कुर्यात् अनर्हायां पतिरेतत् समाहितः ॥ १८ ॥

विष्णोः व्रतम् इदं बिभ्रन्न विहन्यात् कथञ्चन।
विप्रान् स्त्रियो वीरवतीः स्रग्गन्ध-बलि-मण्डनैः।
अर्चेत् हर-हर् भक्त्या देवं नियममास्थितः ॥ १९ ॥

उद्वास्य देवं स्वे धाम्नि तन्निवेदितं अग्रतः।
अद्यादात्म-विशुद्ध्यर्थं सर्व-कामर्धये तथा ॥ २० ॥

एतेन पूजाविधिना मासान् द्वादश-हायनम्।
नीत्वा थोऽपचरेत् साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥

श्वो भूतेऽप् उपस्पृश्य कृष्णम् अभ्यर्च्य पूर्ववत्।
पयः-श्रृतेन जुहुयाच् च रण्‍णा सह सर्पिषा।
पाक-यज्ञ-विधानेन द्वादश-इव आहुतीः पतिः ॥ २२ ॥

आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः।
प्रणम्य शिरसा भक्त्या भुञ्जीत् तद् अनुमञ्ञया ॥ २३ ॥

आचार्यं अग्रतः कृत्वा वाग्यतः सह बन्धुभिः।
दद्यात् पत्न्यै च रोः शेषं सुप्रजा स्त्वं सुसौभगम् ॥ २४ ॥

एतच्छरित्वा विधिवद् व्रतं विभोः
अभीप्सित-आर्थं लभते पुरुषः इह।
स्त्री त्वेतद् आस्थाय लभेत् सौभगं
श्रियं प्रजां जीव-पतिं यशो गृहम् ॥ २५ ॥

कन्या च विन्देत् समग्र-लक्षणं
वरं त्ववीराः हत-किल्बिषा गतिम्।
मृत-प्रा-जा जीवसुता धनेश्वरी
सु-दुर्भगा सु-भगाः रूपम् अग्र्यम् ॥ २६ ॥

विन्देत् विरूपा विरुजा विमुच्यते
याऽमयावीन्द्रिय-कल्यादेहम्।
एतत् पठन्नभ्युदये च कर्म-
ण्य अनन्त-तृप्तिः पितृ-देवतानाम् ॥ २७ ॥

तुष्टाः प्रयच्छन्ति समस्त-कामान्
होम-आवसाने हुत-भुक् श्रीर्हरिः।
राजन् महन् मरुतां जन्म पुण्यम्
दितेः व्रतं च अभिहितं महत्ते ॥ २८ ॥

इति श्रीमद्भागवते महापुराणे वैयासिक्य-अष्टादश-साहस्र्यां पारमहंस्यां संहितायां षष्ठ-सं-खदे पुंसवन-व्रत-कथनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥

ஸ்கந்தம் 6: அத்யாயம் 18 (அதிதி, திதியின் பிள்ளைகள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அதிதி, திதியின் பிள்ளைகள்

ஸ்கந்தம் 6: அத்யாயம் 18

 

श्रीशुक उवाच –
पृश्निः तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम्।
अग्नि-होत्रं पशुं सोमं च अतुर्मास्यं महामखान् ॥ १ ॥

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम्।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २ ॥

धातुः कुहूः सिनी-वाली राका च अनुमतिः तथा।
सायं दर्शमथ प्रातः पूर्ण-मासमनुक्रमात् ॥ ३ ॥

अग्नीन् पुरीष्यान् अधत्त क्रियायां सम-अनन्तरः।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥ ४ ॥

वाल्मीकीश्च महायोगी वल्मीका अद्भवत् किल।
अगस्त्यश्च वसिष्ठश्च मित्रा-वरुणयोः ऋषी ॥ ५ ॥

रेतः सिषि-चतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम्।
रेवत्यां मित्र-उत्सर्ग-मरीष्टं पिप्पलं व्यधात् ॥ ६ ॥

पौलोम्याः इन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम्।
जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥ ७ ॥

उरु-क्रमस्य देवस्य मायावामन-रूपिणः।
कीर्तौ पत्न्यां बृह-च्छ्लोकः तस्यासन् सौ-भगादयः ॥ ८ ॥

तत् कर्म-गुण-वीर्याणि काश्यपस्य महात्मनः।
पश्चात् वक्ष्यामहेऽदित्यां यथा वावत-तार ह ॥ ९ ॥

अथ कश्यप- दायादान् दैतेयान् कीर्तयामि ते।
यत्र भागवतः श्रीमान् प्रह्लादो बलिरेव च ॥ १० ॥

दितेः द्वावेव दायादौ दैत्य-दानव-वन्दितौ।
हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ ११ ॥

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी।
जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान् ॥ १२ ॥

संह्रादं प्राग् अनुह्रादं ह्रादं प्रह्रादमेव च।
तत् स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥ १३ ॥

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम्।
संह्रादस्य कृतिर्भार्या-सूत पञ्चजनं ततः ॥ १४ ॥

ह्रादस्य धमनिर्भार्या-सूत वातापि-मिल्वलम्।
योऽगस्त्याय त्वतिथये पेचे वातापि-मिल्वलः ॥ १५ ॥

अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा।
विरोचनस्तु प्राह्रादिः देव्या स्तस्याभवद् बलिः ॥ १६ ॥

बाण-ज्येष्ठं पुत्र-शतमशनायां ततोऽभवत्।
तस्य अनुभावः सु-श्लोक्यं पश्चादेवाभिधास्यते ॥ १७ ॥

बाण आराध्य गिरिशं लेभे तद्-गण-मुख्यताम्।
यत् पार्श्वे भगवानास्ते ह्यद्यापि पुर-पालकः ॥ १८ ॥

मरुतश्च दितेः पुत्राश्च त्वरिंशन्नवाधिकाः।
ताः आसन्न-प्रजा: सर्वे नीता इन्द्रेण सात्मताम् ॥ १९ ॥

श्रीराजोवाच –
कथं त आसुरं भावम् अपोह्य औत्पत्तिकं गुरो।
इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु कृतं हि तैः ॥ २० ॥

इमे श्रद्दधते ब्रह्मन् नृषयः हि मया सह।
परिज्ञानाय भगवं तन्नो व्याख्यातुं अर्हसि ॥ २१ ॥

श्रीसूत उवाच –
तद् विष्णु-रातस्य स बादरायणिर्वचो
निशम्य अदृतम् अल्प-अर्थवत्।
सभाजयन् सं-निभृतेन चेतसा
जगाद् सत्रायण सर्व-दर्शनः ॥ २२ ॥

श्रीशुक उवाच –
हत-पुत्रा दितिः शक्र- पार्ष्णि-ग्रहेण विष्णुना।
मन्युना शोक-दीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ २३ ॥

कदा नु भ्रातृ-हन्तारम् इन्द्रिय-आरामम् उल्बणम्।
अक्लिन्न-हृदयं पापं घातयित्वा शये सुखम् ॥ २४ ॥

कृ-मिविड्-भस्म संज्ञा अस्ये शाभिहितस्य च।
भूत-ध्रुक् तत् कृते स्वार्थं किं वेद् निरयो यतः ॥ २५ ॥

आशासानस्य तस्य एतं ध्रुवम् उन्नद्ध-चेतसः।
मद-शोषक इन्द्रस्य भूयात्येन सुतो हि मे ॥ २६ ॥

इति भावेन सा भर्तुर आचचारास कृत् प्रियम्।
शुश्रूषया अनु-रागेण प्र-श्रयेन दमेन च ॥ २७ ॥

भक्त्या परमया राजन् मनो-ज्ञैः वल्गु-भाषितैः।
मनः जग्राह भाव-ज्ञा स स्मित-आपाङ्ग-वीक्षणैः ॥ २८ ॥

एवं स्त्रिया जडी-भूतो विद्वान् अपि विदग्धया।
बाढम् इति आह विवशो न तच्चित्रं हि योषिति ॥ २९ ॥

विलोक्य एकान्त-भूतानि भूतानि आदौ प्रजापतिः।
स्त्रियं चक्रे स्व-देहार्धं यया पुंसां मति: हृता ॥ ३० ॥

एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया।
प्रहस्य परम-प्रीतो दितिम् आह अभिनन्द्य च ॥ ३१ ॥

श्रीकश्यप उवाच –
वरं वरय वामोः प्रीतस्तेऽहम् अनिन्दिते।
स्त्रिया भर्तरि सुप्रीते कः काम इह च आगमः ॥ ३२ ॥

पति-एव हि नारीणां दैवतं परमं स्मृतम्।
मानसः सर्व-भूतानां वासुदेवः श्रियः पतिः ॥ ३३ ॥

स एव देवता-लिङ्गैः नाम-रूप-विकल्पितैः।
इज्यते भगवान् पुम्भिः स्त्रीभिश्च पति-रूप-धृक् ॥ ३४ ॥

तस्मात् पातिव्रता नार्यः श्रेयस्-कामा: सुमध्यमे।
यजन्ते अनन्य-भावेन पति-मात्मानं ईश्वरम् ॥ ३५ ॥

सोऽहं त्वया आर्चितो भद्रे ईदृग् भावेन भक्तितः।
तत्ते सम्पादये कामम् असतीनां सुदुर्लभम् ॥ ३६ ॥

दितिर् उवाच –
वरदो यदि मे ब्रह्मन् पुत्रम् इन्द्र-हणं वृणे।
अमृत्युं मृत-पुत्राहं येन मे घातितौ सुतौ ॥ ३७ ॥

निशम्य तद् वचो विप्रो विमनाः पर्यतप्यत।
अहो अधर्मः सुमहान् अद्य मे समुपस्थितः ॥ ३८ ॥

अहो अद्य इन्द्रिय-आरामो योषिन् मय्येह मायया।
गृहीत-चेताः कृपणः पतिष्ये नरके ध्रुवम् ॥ ३९ ॥

कोऽतिक्रमः अनु-वर्तन्त्याः स्वभावम् इह योषितः।
धिङ्मां बताबुधं स्वार्थे यदहं त्वजि-इन्द्रियः ॥ ४० ॥

शरत्-पद्म-उत्सवं वक्‌त्रं वचः च श्रवण-ामृतम्।
हृदयं क्षुर-धारा-अभं स्त्रीणां को वेद् चेष्टितम् ॥ ४१ ॥

न हि कश्चित् प्रियः स्त्रीणाम् अञ्जसा स्व-आशिष्-आत्मनाम्।
पतिं पुत्रं भ्रातरं वा घ्नन्ति अर्थे घातयन्ति च ॥ ४२ ॥

प्रतिश्रुतं ददामि इति वचस्तन्न मृषा भवेत्।
वधं नार्हति चेन्द्रोऽपि तत्र एतद् उपकल्पते ॥ ४३ ॥

इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥

श्रीकश्यप उवाच –
पुत्रः ते भविता भद्रे इन्द्र-हा देव-बान्धवः।
संवत्सरं व्रतं इदं यद्यञ्जो धारयिष्यसि ॥ ४५ ॥

दितिर् उवाच –
धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे।
यानि चेह निषिद्धानि न व्रतं घ्नन्ति यानि तु ॥ ४६ ॥

श्रीकश्यप उवाच –
न हिंस्याद् भूत-जातानि न शपेन्न अनृतं वदेत्।
नच्छिन्द्य-आन्नख-रोमाणि न स्पृशेद् यद् अमङ्गलम् ॥ ४७ ॥

नाप्सु स्नायन् न कुप्येत न सम्भाषेत् दुर्जनैः।
न वसीता धौत-वासः स्रजं च विधृतां क्वचित् ॥ ४८ ॥

नोच्छिष्टं चण्डिका-आन्नं च सामिषं वृषल-आहृतम्।
भुञ्जीत् ओदक्यया दृष्टं पिबेन्नाञ्जलिना त्वपः ॥ ४९ ॥

नोच्छिष्ट-आस्पृष्ट-सलिला सन्ध्यायां मुक्त-मूर्धजा।
अनर्चिता असंयत-वाङ् नासं-वीता बहिश्चरेत् ॥ ५० ॥

नाधौत-पाद-प्रयता नार्द्र-पान्नो उदक-शिराः।
शयीत नापराङ् नान्यैर्न नग्ना न च सन्ध्ययोः ॥ ५१ ॥

धौत-वासा शुचिर्नित्यं सर्व-मङ्गल-संयुता।
पूजयेत् प्रातराशात् प्राग् गो-विप्राञ् श्रियम् अच्युतम् ॥ ५२ ॥

स्त्रियो वीर-वतिः चार्चेत् स्रग्-गन्ध-बली-मण्डनैः।
पतिं चार्च्य उपतिष्ठेत् ध्यायेत् कोष्ठ-गतं च तम् ॥ ५३ ॥

सांवत्सरं पुंसवनं व्रतं एतद् अविप्लुतम्।
धारयिष्यसि चेत्तुभ्यं शक्र-हा भविता सुतः ॥ ५४ ॥

बाढम् इति अभ्युपेत्याथ दिती राजन् महामनाः।
कश्यपं गर्भम् आधत्त व्रतं चाञ्जो दधार सा ॥ ५५ ॥

मातृष्व-असुरभि, प्रायम् इन्द्र आज्ञाय मानद।
शुश्रूषणेन आश्रम-स्थां दितिं पर्यचरत् कविः ॥ ५६ ॥

नित्यं वनात् सुमनस् फल-मूल-समित् कुशान्।
पत्राङ्कुर-मृदोऽपश्च काले काल उपाहरत् ॥ ५७ ॥

एवं तस्या व्रत-स्थाया व्रत-छिद्रं हरिः नृप।
प्रेप्सुः पर्यचरज्जिह्मो मृग-हेव मृग-आकृतिः ॥ ५८ ॥

नाध्य-गच्छद् व्रत-छिद्रं तत् परोऽथ महीपते।
चिन्तां तीव्रां गतः शक्रः केन मे स्याच् शिवं त्विह् ॥ ५९ ॥

एकदा सा तु सन्ध्यायाम् उच्छिष्टा व्रत-कर्-शिता।
अस्पृष्ट-वार्य-धौताङ्घ्रिः सुष्वाप विधि-मोहिता ॥ ६० ॥

लब्ध्वा तद् अन्तरं शक्रः निद्रा-अपहृत-चेतसः।
दितेः प्रविष्ट उदरं योगेशः योग-मायया ॥ ६१ ॥

च-कर्त सप्तधा गर्भं वज्रेण कनक-प्रभम्।
रुदन्तं सप्त-धैकैकं मा रोदीरिति तान् पुनः ॥ ६२ ॥

ते तमूचुः पाट्य-मानाः सर्वे प्राञ्जलयः नृप।
नो जिघांससि किम् इन्द्र भ्रातरो मरुतः तव ॥ ६३ ॥

मा भैष्ट भ्रातरो मह्यं यूयम् इत्याह कौशिकः।
अनन्य-भावान् पार्ष-दानात्मनो मरुतां गणान् ॥ ६४ ॥

न मम आर् दितेः गर्भः श्री-निवासानुकम्पया।
बहुधा कुलिश-क्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ ६५ ॥

सकृद् इष्ट्वा आदिपुरुषं पुरुषो याति साम्यताम्।
संवत्सरं किञ्चिद् ऊनं दित्या यद्धरि-र्चितः ॥ ६६ ॥

स-जूरिन्द्रेण पञ्चाशद् देवास्ते मरुतोऽभवन्।
व्यपोह्य मातृ-दोषं ते हरिणा सोम-पाः कृताः ॥ ६७ ॥

दितिर् उत्थाय ददृशे कुमारान् अनल-प्रभान्।
इन्द्रेण सहितान् देवी पर्यतुष्यद् अनिन्दिता ॥ ६८ ॥

अथ इन्द्र-माह ताताहम् आदित्यानां भयावहम्।
अपत्यम् इच्छन्त्यचरं व्रतम् एतत् सु-दुष्करम् ॥ ६९ ॥

एकः सङ्कल्पितः पुत्रः सप्त-सप्ताभवन् कथम्।
यदि ते विदितं पुत्रः सत्यं कथय मा मृषा ॥ ७० ॥

इन्द्र उवाच –
अम्ब तेऽहं व्यवसितम् उपधार्य आगतोऽन्तिकम्।
लَب्धान्तरोऽच्छिदं गर्भम् अर्थ-बुद्धिर्न धर्मवित् ॥ ७१ ॥

कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः।
तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥ ७२ ॥

ततः तत् परमाश्चर्यं वीक्ष्य अध्यवसितं मया।
महापुरुष-पूजायाः सिद्धिः काप्य-अनुषङ्गिणी ॥ ७३ ॥

आराधनं भगवत् ईह-माना निराशिषः।
ये तु न इच्छन्त्यपि परं ते स्वार्थ-कुशलाः स्मृताः ॥ ७४ ॥

आराध्यात्म-प्रदं देवं स्व-आत्मानं जगदीश्वरम्।
को वृणीते गुण-स्पर्शं बुधः स्यान् नरकेऽपि यत् ॥ ७५ ॥

तदिदं मम दौर्जन्यं बालिशस्य महीयसि।
क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भः मृत-उत्थितः ॥ ७६ ॥

श्रीशुक उवाच –
इन्द्रस्तयाः अभ्य-नुज्ञातः शुद्ध-भावेन तुष्टया।
मरुद्भिः सह तां नत्वा जगाम् त्रि-दिवं प्रभुः ॥ ७७ ॥

एवं ते सर्वम् आख्यातं यन्मां त्वं परि-पृच्छसि।
मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥ ७८ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे मरुद्-उत्पत्ति-कथनं नाम अष्टादशोऽध्यायः ॥ 18॥

ஸ்கந்தம் 6: அத்யாயம் 17 (பார்வதி சித்ரகேதுவை சபித்தல்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பார்வதி சித்ரகேதுவை சபித்தல்

ஸ்கந்தம் 6: அத்யாயம் 17

 

श्री-शुक उवाच

यतः-च अन्तः-हितः अनन्तः तस्यै कृत्वा दिशे नमः।
विद्याधरः चित्रकेतुः च चर गगन-चरः ॥ १ ॥

स लक्षं वर्ष-लक्षाणाम् अव्याहत-बलेन्द्रियः।
स्तूयमानः महा-योगी मुनि-भिः सिद्ध-चारणैः ॥ २ ॥

कुलाचलेन्द्र-द्रोणीषु नाना-सङ्‌कल्प-सिद्धिषु।
रेमे विद्याधरः स्त्री-भिः गापयन् हरि-ईश्वरम् ॥ ३ ॥

एकदा स विमानेन विष्णु-दत्तेन भास्वतः।
गिरि-शं ददृशे गच्छन् परीतं सिद्ध-चारणैः ॥ ४ ॥

आलिङ्ग्य अङ्‌कीकृतां देवीं बाहुना मुनि-संसदि।
उवाच देव्याः श्रृण्वन्त्या जहासोच्चैः तद् अन्तिके ॥ ५ ॥

चित्रकेतुः उवाच

एष लोक-गुरुः साक्षात् धर्मं वक्ता शरीरि-नाम्।
आस्ते मुख्यः सभायां वै मिथुनी-भूय भार्यया ॥ ६ ॥

जटाधरः तीव्रतपा ब्रह्म-वादी सभापतिः।
अङ्‌कीकृत्य स्त्रियं च आस्ते गत-ह्रीः प्राकृतो यथा ॥ ७ ॥

प्रायशः प्राकृताः चापि स्त्रियं रहसि बिभ्रति।
अयं महा-व्रत-धरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥

श्री-शुक उवाच

भगवान् अपि तच्छ्रुत्वा प्रहस्य अगाधधीर् नृप।
तूष्णीं बभूव सदसि सभ्याः च तद् अनु-व्रताः ॥ ९ ॥

इति अत् वीर्य-विदुषि ब्रुवाणे बहु-शोभनम्।
रुषाऽऽह देवी धृष्टाय निर्जित-आत्मा-अभिमानिने ॥ १० ॥

श्री-पार्वति उवाच

अयं किम् अधुना लोके शास्ता दण्ड-धरः प्रभुः।
अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्र-कृत् ॥ ११ ॥

न वेद धर्मं किल पद्म-योनिः
न ब्रह्म-पुत्रा भृगु-नारदा आद्याः।
न वै कुमारः कपिलः मनुः च
ये नो निषेधन्ति अति-वर्तिनं हरम् ॥ १२ ॥

एषाम् अनु-ध्येय-पदाब्ज-युग्मं
जगत्-गुरुं मङ्‌गल-मङ्‌गलं स्वयम्।
यः क्षत्र-बन्धुः परि-भूय सूरीन्
प्रशास्ति धृष्टः तदयं हि दण्ड्यः ॥ १३ ॥

नायम् अर्हति वैकुण्ठ-पाद-मूल-उपसर्पणम्।
सम्भावित-मतिः स्तब्धः साधु-भिः परि-उपासितम् ॥ १४ ॥

अतः पापीयसीं योनि-आसुरीं याहि दुर्मते।
यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥

श्री-शुक उवाच

एवं शप्तः चित्रकेतुः विमानात् अवरुह्य सः।
प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥

चित्रकेतुः उवाच

प्रतिगृह्णामि ते शापम् आत्मनोऽञ्जलि-नांबिके।
देवैः मर्त्याय यत् प्रोक्तं पूर्व-दिष्टं हि तस्य तत् ॥ १७ ॥

संसार-चक्र एतस्मिन् जंतुर्ज्ञान-मोहितः।
भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ १८ ॥

न एव आत्मा न परश्चापि कर्ता स्यात् सुख-दुःखयोः।
कर्तारं मन्यतेऽ प्राज्ञ आत्मानं परम एव च ॥ १९ ॥

गुण-प्रवाह एतस्मिन् कः शापः को न वानुग्रहः।
कः स्वर्गो नरकः को वा किं सुखं दुःखं एव वा ॥ २० ॥

एकः सृजति भूतानि भगवान्-आत्म-मायया।
एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१ ॥

न तस्य कश्चिद् दयितः प्रतीपो
न ज्ञाति बन्धुः न परः न च स्वः।
समस्‍य सर्वत्र निरञ्जनस्य
सुखे न रागः कुत एव रोषः ॥ २२ ॥

तथापि तत्-शक्ति-विसर्ग एषां
सुखाय दुःखाय हित-आहिताय।
बन्धाय मोक्षाय च मृत्यु-जन्मनोः
शरीरिणां संसृतये अवकल्पते ॥ २३ ॥

अथ प्रसादये न त्वां शाप-मोक्षाय भामिनि।
यन्मन्यसे असाधूक्तं मम तत् क्षम्यतां सति ॥ २४ ॥

श्री-शुक उवाच

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम।
जगाम स्व-विमानेन पश्यतः स्मयतोस्तयोः ॥ २५ ॥

ततस्तु भगवान् रुद्रो रुद्राणीमिदम् अभ्रवीत।
देवर्षि-दैत्य-सिद्धानां पार्षद-नाम् च श्रृण्वताम् ॥ २६ ॥

श्री-रुद्र उवाच

दृष्टवत्यसि सु-श्रौनि हरेर अद्भुत-कर्मणः।
माहात्म्यं भृत्य-भृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७ ॥

नारायण-पराः सर्वे न कुतश्चन बिभ्यति।
स्वर्ग-अपवर्ग-नरकेषु अपि तुल्य-र्थ-दर्शिनः ॥ २८ ॥

देहिनां देह-संयोगाद् द्वन्द्वान् ईश्वर-लीलया।
सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥

अविवेककृतः पुंसो ह्यर्थभेद इव आत्मनि।
गुण-दोष-विकल्पः च भिदेव स्रजिवत् कृतः ॥ ३० ॥

वासुदेवे भगवति भक्तिम् उद्वहतां नृणाम्।
ज्ञान-वैराग्य-वीर्याणां नेह कश्चिद् व्यपाश्रयः ॥ ३१ ॥

न अहं विरिञ्चो न कुमार-नारदौ
न ब्रह्म-पुत्रा मुनयः सुरेशाः।
विदाम् यस्ये हितम् अंश-कांशका
न तत् स्वरूपं पृथक् ईश-मानिनः ॥ ३२ ॥

न ह्यस्यास्ति प्रियः कश्चिन् न अप्रियः स्वः परोऽपि वा।
आत्मत्वात् सर्व-भूतानां सर्व-भूत-प्रियो हरिः ॥ ३३ ॥

तस्य चायं महा-भागः चित्रकेतुः प्रियोऽनुगः।
सर्वत्र सम-दृक् शान्तो ह्यहं चैव अच्युत-प्रियः ॥ ३४ ॥

तस्मात् न विस्मयः कार्यः पुरुषेषु महात्मसु।
महा-पुरुष-भक्तेषु शान्तेषु सम-दर्शिषु ॥ ३५ ॥

श्री-शुक उवाच

इति श्रुत्वा भगवतः शिवस्य ओमाभि-भाषितम्।
बभूव शान्त-धी राजन् देवी विगत-विस्मया ॥ ३६ ॥

इति भागवतो देव्याः प्रतिशप्तुम् अलन्तमः।
मूर्ध्ना सञ्जगृहे शापम् एतावत् साधु-लक्षणम् ॥ ३७ ॥

जज्ञे त् वष्टुर् दक्षि-णा-ग्नौ दान्वीम् योनि-आश्रितः।
वृत्र इति अभिविख्यातः ज्ञान-विज्ञान-संयुतः ॥ ३८ ॥

एतत् ते सर्वम् आख्यातं यन्मां त्वं परि-पृच्छसि।
वृत्रस्य असुर-जातेष्च कारणं भगवन्-मतेः ॥ ३९ ॥

इतिहासम् इमं पुण्यं चित्रकेतोः महा-ात्मनः।
माहात्म्यं विष्णु-भक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥ ४० ॥

य एतत् प्रातः उत्थाय श्रद्धया वाग्यतः पठेत्।
इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे चित्रकेतु-शापो नाम सप्तदशोऽध्याय़ः ॥ १७ ॥