Followers

Search Here...

Sunday, 14 December 2025

ஸ்கந்தம் 5: அத்யாயம் 1 (ப்ரியவ்ரத சரித்திரம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ப்ரியவ்ரத சரித்திரம்

ஸ்கந்தம் 5: அத்யாயம் 1

 

राजा उवाच —

प्रिय-व्रतः भागवत आत्म-आरामः कथम् मुने ।
गृहे अरमत यत्-मूलः कर्म-बन्धः परा-भवः ॥ १ ॥

न नूनम् मुक्त-सङ्गानाम् तादृशानाम् द्विज-ऋषभ ।
गृहेषु अभिनिवेशः अयम् पुंसाम् भवितुम् अर्हति ॥ २ ॥

महताम् खलु विप्र-ऋषे उत्तम-श्लोक-पादयोः ।
छाया-निर्वृत-चित्तानाम् न कुटुम्बे स्पृहा-मतिः ॥ ३ ॥

संशयः अयम् महान् ब्रह्मन् दारा-आगार-सुत-आदिषु ।
सक्तस्य यत् सिद्धिः अभूत् कृष्णे च मतिः अच्युता ॥ ४ ॥


श्री-शुक उवाच —

बाढम् उक्तम् भगवत उत्तम-श्लोकस्य श्रीमत्-चरण-अरविन्द-मकरन्द-रस आवेशित-चेतसः
भागवत-परमहंस-दयित-कथाम् किञ्चित् अन्तराय-विहताम् स्वाम् शिव-तमाम् पदवीम्
न प्रायेण हिन्वन्ति ॥ ५ ॥

यर्हि वाव ह राजन् सः राज-पुत्रः प्रिय-व्रतः परम-भागवतः नारदस्य चरण-उपसेवया
अञ्जसा अवगत-परम-अर्थ-सतत्त्वः ब्रह्म-सत्रेण दीक्षिष्यमाणः अवनि-तल-परिपालनाय
आम्नात-प्रवर-गुण-गण-एकान्त-भाजनतया स्व-पित्रा उपामन्त्रितः
भगवति वासुदेव एव अव्यवधान-समाधि-योगेन समावेशित
सकल-कारक-क्रिया-कलापः न एव अभ्यनन्दत्
यद्यपि तत् अप्रत्याम्नातव्यम् तत् अधिकरणे
आत्मनः अन्यस्मात् असतः अपि परा-भवम् अन्वीक्षमाणः ॥ ६ ॥

अथ ह भगवान् आदि-देवः एतस्य गुण-विसर्गस्य
परिबृंहण-अनुध्यान व्यवसित-सकल-जगत्-अभिप्रायः
आत्म-योनिः अखिल-निगम-निज-गण-परिवेष्टितः
स्व-भवनात् अवततार ॥ ७ ॥

सः तत्र तत्र गगन-तले उडु-पतिः इव
विमान-आवलिभिः अनुपथम्
अमर-परिवृढैः अभिपूज्यमानः पथि पथि च वरूथ-शः
सिद्ध-गन्धर्व-साध्य-चारण-मुनि-गणैः उपगीयमानः
गन्ध-मादन-द्रोणीम् अवभासयन् उपससर्प ॥ ८ ॥

तत्र ह वा एनम् देव-ऋषिः हंस-यानेन पितरम् भगवन्तम्
हिरण्य-गर्भम् उपलभमानः सहसा एव उत्थाय
अर्हणेन सह पिता-पुत्राभ्याम् अवहित-अञ्जलिः उपतस्थे ॥ ९ ॥

भगवान् अपि भारत तत्-उपनीत-अर्हणः सूक्त-वाकेन
अति-तराम् उदित गुण-गण-अवतार-सुजयः
प्रिय-व्रतम् आदि-पुरुषः तम् स-दय-हास-अवलोकः इति ह उवाच ॥ १० ॥


श्री-भगवान् उवाच —

निबोध तात एतत् ऋतम् ब्रवीमि
मा असूयितुम् देवम् अर्हसि अप्रमेयम् ।
वयम् भवः ते ततः एषः महा-ऋषिः
वहाम सर्वे विवशाः यस्य दिष्टम् ॥ ११ ॥

न तस्य कश्चित् तपसा विद्यया वा
न योग-वीर्येण मनीषया वा ।
न एव अर्थ-धर्मैः परतः स्वतः वा
कृतम् विहन्तुम् तनु-भृत् विभूयात् ॥ १२ ॥

भवाय नाशाय च कर्म कर्तुम्
शोकाय मोहाय सदा भयाय ।
सुखाय दुःखाय च देह-योगम्
अव्यक्त-दिष्टम् जनता अङ्ग धत्ते ॥ १३ ॥

यत् वाचि तन्त्याम् गुण-कर्म-दामभिः सु-दुस्तरैः वत्स वयम् सु-योजिताः ।
सर्वे वहामः बलिम् ईश्वराय प्रोताः नसीव द्वि-पदे चतुष्-पदः ॥ १४ ॥

ईश-अभिसृष्टम् हि अवरुन्ध्महे अङ्ग दुःखम् सुखम् वा गुण-कर्म-सङ्गात् ।
आस्थाय तत् तत् यत् अयुङ्क्त नाथः चक्षुष्मत्-अन्धाः इव नीयमानाः ॥ १५ ॥

मुक्तः अपि तावत् बिभृयात् स्व-देहम् आरब्धम् अश्नन् अभिमान-शून्यः ।
यथा अनुभूतम् प्रति-यात-निद्रः किम् तु अन्य-देहाय गुणान् न वृङ्क्ते ॥ १६ ॥

भयम् प्रमत्तस्य वनेषु अपि स्यात् यतः सः आस्ते सह षट्-सपत्नः ।
जित-इन्द्रियस्य आत्म-रतेः बुधस्य गृह-आश्रमः किम् नु करोति अवद्यम् ॥ १७ ॥

यः षट्-सपत्नान् विजिगीषमाणः गृहेषु निर्विश्य यतेत पूर्वम् ।
अत्येति दुर्ग-आश्रितः ऊर्जित-अरीन् क्षीणेषु कामम् विचरेत् विपश्चित् ॥ १८ ॥

त्वम् तु अब्ज-नाभ-अङ्घ्रि-सरोज-कोश दुर्ग-आश्रितः निर्जित-षट्-सपत्नः ।
भुङ्क्ष्व इह भोगान् पुरुष-अतिदिष्टान् विमुक्त-सङ्गः प्रकृतिम् भजस्व ॥ १९ ॥

श्री-शुक उवाच —

इति समभिहितः महा-भागवतः भगवतः त्रि-भुवन-गुरोः अनुशासनम्
आत्मनः लघुतया अवनत-शिरोधरः बाढम् इति स-बहुमानम् उवाह ॥ २० ॥

भगवान् अपि मनुना यथा-वत् उपकल्पित-अपचितिः
प्रिय-व्रत-नारदयोः अविषमम् अभि-समीक्षमाणयोः
आत्म-समवस्थानम् अवाक्-मनसम्
क्षयम् अव्यवहृतम् प्रवर्तयन् अगमत् ॥ २१ ॥

मनुः अपि परेण एवम् प्रतिसन्धित-मनोरथः
सुर-ऋषि-वर-अनुमतेन आत्मजम्
अखिल-धरा-मण्डल-स्थिति-गुप्तये आस्थाप्य
स्वयम् अति-विषम-विषय-विष-जल-आशय-आशायाः उपरराम ॥ २२ ॥

इति ह वा सः जगती-पतिः ईश्वर-इच्छया अधि-निवेशित-कर्म-अधिकारः
अखिल-जगत्-बन्ध-ध्वंसन-पर-अनुभावस्य भगवतः आदि-पुरुषस्य
अङ्घ्रि-युगल-अनवरत-ध्यान-अनुभावेन परिरन्धित-कषाय-आशयः
अवदातः अपि मानव-वर्धनः मही-तलम् अनुशशास ॥ २३ ॥

अथ च दुहितरम् प्रजापतेः विश्व-कर्मणः उपयेमे बर्हिष्मतीम् नाम
तस्याम् उ ह वा आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्य-उदारान्
दश भावयाम् बभूव कन्याम् च यवीयसीम् ऊर्जस्वतीम् नाम ॥ २४ ॥

आग्नीध्र-इध्मजिह्व-यज्ञबाहु-महावीर- हिरण्यरेतस्-घृतपृष्ठ-सवन-मेधातिथि-
वीतिहोत्र-कवयः इति सर्वे एव अग्नि-नामानः ॥ २५ ॥

एतेषाम् कविः-महावीरः-सवनः इति त्रयः आसन् ऊर्ध्व-रेतसः
ते आत्म-विद्यायाम् अर्भ-भावात् आरभ्य कृत-परिचयाः
पारमहंस्यम् एव आश्रमम् अभजन् ॥ २६ ॥

तस्मिन् उ ह वा उपशम-शीलाः परम-ऋषयः सकल-जीव-निकाय-आवासस्य
भगवतः वासुदेवस्य भीतानाम् शरण-भूतस्य
श्री-मत्-चरण-अरविन्द-अविरत-स्मरण-अविगलित
परम-भक्ति-योग-अनुभावेन परिभावित-अन्तः-हृदय-अधिगते भगवति
सर्वेषाम् भूतानाम् आत्म-भूते प्रत्यक्-आत्मनि एव
आत्मनः तादात्म्य-अविशेषेण समीयुः ॥ २७ ॥

अन्यस्याम् अपि जायायाम् त्रयः पुत्राः आसन्
उत्तमः तामसः रैवत इति मनु-अन्तर-अधिपतयः ॥ २८ ॥

एवम् उपशम-आयनेषु स्व-तनयेषु अथ जगती-पतिः
जगती-अर्बुदानि एकादश परिवत्सराणाम्
अव्याहत-अखिल-पुरुष-कार-सार-सम्भृत
दोः-दण्ड-युगल-आपीडित-मौर्वी-गुण
स्तनित-विरमित-धर्म-प्रतिपक्षः बर्हिष्मत्याः च
अनुदिन-एधमान-प्रमोद-प्रसरण यौषित्-अव्रीडा-प्रमुषित
हास-अवलोक-रुचिर-क्ष्वेल्य-आदिभिः पराभूयमान-विवेकः
इव अनवबुध्यमानः इव महामनाः बुभुजे ॥ २९ ॥

यावत् अवभासयति सुर-गिरिम् अनु-परिक्रामन् भगवान् आदित्यः
वसुधा-तलम् अर्धेन एव प्रतपति अर्धेन अवच्छादयति
तदा हि भगवत्-उपासना-उपचित अति-पुरुष-प्रभावः
तत् अनभिनन्दन् सम-जवेन रथेन ज्योति-मयेन
रजनीम् अपि दिनम् करिष्यामि इति सप्त-कृत्वः तरणिम् अनु-पर्यक्रामत्
द्वितीयः इव पतङ्गः ॥ ३० ॥

ये वा उ ह तत्-रथ-चरण-नेमि-कृत-परिखाताः ते सप्त सिन्धवः आसन्
यतः एव कृताः सप्त भुवः द्वीपाः ॥ ३१ ॥

जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कर-संज्ञाः
तेषाम् परिमाणम् पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः
यथा-सङ्ख्यम् द्वि-गुण-मानेन बहिः समन्ततः उपकॢप्ताः ॥ ३२ ॥

क्षीर-उद-इक्षु-रस-उद-सुर-उद-घृत-उद-दधि-मण्ड-उद-
शुद्ध-उदाः सप्त जल-धयः सप्त द्वीप-परिखाः इव
अभ्यन्तर-द्वीप-समानाः एक-एक-शः यथा-अनुपूर्वम्
सप्तसु अपि बहिः-द्वीपेषु पृथक् परितः उपकल्पिताः ॥ ३३ ॥

दुहितरम् च ऊर्जस्वतीम् नाम उशनसे प्रायच्छत्
यस्याम् आसीत् देवयानी नाम काव्य-सुता ॥ ३४ ॥

न एवम्-विधः पुरुष-कारः उरु-क्रमस्य पुंसाम् तत्-अङ्घ्रि-रजसा
जित-षट्-गुणानाम् चित्रम् विदूर-विगतः सकृत् आददीत
यत् नाम-धेयम् अधुना सः जहाति बन्धम् ॥ ३५ ॥

सः एवम् अपरिमित-बल-पराक्रमः एकदा तु
देव-ऋषि-चरण-अनुशयन अनुपतित-गुण-विसर्ग-संसर्गेण
अनिर्वृतम् इव आत्मानम् मन्यमानः आत्म-निर्वेदः इदम् आह ॥ ३६ ॥

अहो असाधु अनुष्ठितम् यत् अभिनिवेशितः अहम्
इन्द्रियैः अविद्या-रचित विषम-विषय-अन्ध-कूपे
तत् अलम् अलम् अमुष्याः वनितायाः
विनोद-मृगम् माम् धिक् धिक् इति गर्हयाम् चकार ॥ ३७ ॥


पर-देवता-प्रसाद-अधिगत आत्म-प्रत्यवमर्शेन
अनुप्रवृत्तेभ्यः पुत्रेभ्यः इमाम् यथा-आदायम् विभज्य
भुक्त-भोगाम् च महिषीम् मृतकम् इव सह महा-विभूतिम् अपहाय
स्वयम् निहित-निर्वेदः हृदि गृहीत-हरि-विहार-अनुभावः
भगवतः नारदस्य पदवीम् पुनः एव अनुससार ॥ ३८ ॥

तस्य ह वा एते श्लोकाः प्रिय-व्रत-कृतम् कर्म कः नु कुर्यात् विना ईश्वरम्।

यः नेमि-निम्नैः अकरोत् छायाम् घ्नन् सप्त वारि-धीन् ॥ ३९ ॥

भू-संस्थानम् कृतम् येन सरित्-गिरि-वन-आदिभिः।
सीमा च भूत-निर्वृत्यै द्वीपे-द्वीपे विभागशः ॥ ४० ॥

भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम्।
यः चक्रे निरय-उपम्यं पुरुष-अनुजन-प्रियः ॥ ४१ ॥

॥ इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां
पञ्चम-स्कन्धे प्रियव्रत-विजये प्रथमोऽध्यायः ॥ १ ॥

No comments: