Followers

Search Here...

Saturday, 13 December 2025

ஸ்கந்தம் 6: அத்யாயம் 19 (பும்ஸவன விரதத்தின் விதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பும்ஸவன விரதத்தின் விதி

ஸ்கந்தம் 6: அத்யாயம் 19

 

राजोवाच –
व्रतं पुंसवनं ब्रह्मन् भवता यद् उदीरितम्।
तस्य वेदितुं इच्छामि येन विष्णुः प्रसीदति ॥ १ ॥

श्रीशुक उवाच –
शुक्ले मार्ग-शिरे पक्षे योषिद्-भर्तुर् अनुज्ञया।
आरभेत् व्रतम् इदं सार्व-कामिकम् आदितः ॥ २ ॥

निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च।
स्नात्वा शुक्ल-दती शुक्ले वसीत-आलंक्रिताम्बरे।
पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ ३ ॥

अलं ते निरपेक्षाय पूर्ण-काम नमोऽस्तु ते।
महाविभूति-पतये नमः सकल-सिद्धये ॥ ४ ॥

यथा त्वं कृपया भूत्या तेजसा महिम-औजसा।
जुष्ट ईश गुणैः सर्वैः ततोऽसि भगवान् प्रभुः ॥ ५ ॥

विष्णु-पत्नी महामाये महा-पुरुष-लक्षणे।
प्रीयेऽथा मे महाभागे लोक-मार्तर्नमोऽस्तु ते ॥ ६ ॥

ॐ नमो भगवते महा-पुरुषाय महानुभावाय महा-विभूति-पतये सह महा-विभूतिभिः बलि-मुपहरामि इति।
अनेनाह-रह-र्मन्त्रेण विष्णोः आवाहन-अर्घ्य-पाद्य-उपस्पर्शन-स्नान-वास-उपवीत-विभूषण-गन्ध-पुष्प-धूप-दीप-उपह्य-आराध्य-उपचारांश् च समाहित उपाहरेत् ॥ ७ ॥

हविः-शेषं तु जुहुयाद् अनले द्वादश-आहुतीः।
ॐ नमो भगवते महा-पुरुषाय महा-विभूति-पतये स्वाहेति ॥ ८ ॥

श्रियं विष्णुं च वरदा-आवाशिषां प्रभव-आवुभौ।
भक्त्या सम्पूजयेन्नित्यं यदि इच्छेत् सर्व-सम्पदः ॥ ९ ॥

प्रणमेद् दण्ड-वद् भूमौ भक्ति-प्रह्वेण चेतसा।
दश-वारं जपेन मन्त्रं ततः स्तोत्रम् उदीरयेत् ॥ १० ॥

युवां तु विश्वस्य विभू जगतः कारणं परम्।
इयं हि प्रकृतिः सूक्ष्मा माया-शक्तिः दुर्गत्यया ॥ ११ ॥

तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः।
त्वं सर्व-यज्ञ इज्येयं क्रियेयं फल-भुग्भवान् ॥ १२ ॥

गुण-व्यक्ति-रियं देवी व्यञ्जको गुण-भुग्भवान्।
त्वं हि सर्व-शरीर्यात्मा श्रीः शरीरेन्द्रिय-आशयाः।
नाम-रूपे भगवती प्रत्ययः त्वम् अपाश्रयः ॥ १३ ॥

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ।
तथा म उत्तम-श्लोक सन्तु सत्या महाशिषः ॥ १४ ॥

इत्यभिष्टूय वरदं श्री-निवासं श्रिया सह।
तन्निःसार्योपहरणं दत्त्वा आचमनं अर्चयेत् ॥ १५ ॥

ततः स्तुवीत् स्तोत्रेण भक्ति-प्रह्वेण चेतसा।
यज्ञ-उच्छिष्टं अवघ्राय पुनः अभ्यर्चयेत् धरिम् ॥ १६ ॥

पतिं च परया भक्त्या महा-पुरुष-चेतसा।
प्रियैः तैस्तैर् उपनमेत् प्रेम-शीलः स्वयं पतिः।
बिभृयात् सर्व-कर्माणि पत्न्या उच्च-आवचानि च ॥ १७ ॥

कृतम् एकतरेणापि दम्पत्योः उभयोः अपि।
पत्न्यां कुर्यात् अनर्हायां पतिरेतत् समाहितः ॥ १८ ॥

विष्णोः व्रतम् इदं बिभ्रन्न विहन्यात् कथञ्चन।
विप्रान् स्त्रियो वीरवतीः स्रग्गन्ध-बलि-मण्डनैः।
अर्चेत् हर-हर् भक्त्या देवं नियममास्थितः ॥ १९ ॥

उद्वास्य देवं स्वे धाम्नि तन्निवेदितं अग्रतः।
अद्यादात्म-विशुद्ध्यर्थं सर्व-कामर्धये तथा ॥ २० ॥

एतेन पूजाविधिना मासान् द्वादश-हायनम्।
नीत्वा थोऽपचरेत् साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥

श्वो भूतेऽप् उपस्पृश्य कृष्णम् अभ्यर्च्य पूर्ववत्।
पयः-श्रृतेन जुहुयाच् च रण्‍णा सह सर्पिषा।
पाक-यज्ञ-विधानेन द्वादश-इव आहुतीः पतिः ॥ २२ ॥

आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः।
प्रणम्य शिरसा भक्त्या भुञ्जीत् तद् अनुमञ्ञया ॥ २३ ॥

आचार्यं अग्रतः कृत्वा वाग्यतः सह बन्धुभिः।
दद्यात् पत्न्यै च रोः शेषं सुप्रजा स्त्वं सुसौभगम् ॥ २४ ॥

एतच्छरित्वा विधिवद् व्रतं विभोः
अभीप्सित-आर्थं लभते पुरुषः इह।
स्त्री त्वेतद् आस्थाय लभेत् सौभगं
श्रियं प्रजां जीव-पतिं यशो गृहम् ॥ २५ ॥

कन्या च विन्देत् समग्र-लक्षणं
वरं त्ववीराः हत-किल्बिषा गतिम्।
मृत-प्रा-जा जीवसुता धनेश्वरी
सु-दुर्भगा सु-भगाः रूपम् अग्र्यम् ॥ २६ ॥

विन्देत् विरूपा विरुजा विमुच्यते
याऽमयावीन्द्रिय-कल्यादेहम्।
एतत् पठन्नभ्युदये च कर्म-
ण्य अनन्त-तृप्तिः पितृ-देवतानाम् ॥ २७ ॥

तुष्टाः प्रयच्छन्ति समस्त-कामान्
होम-आवसाने हुत-भुक् श्रीर्हरिः।
राजन् महन् मरुतां जन्म पुण्यम्
दितेः व्रतं च अभिहितं महत्ते ॥ २८ ॥

इति श्रीमद्भागवते महापुराणे वैयासिक्य-अष्टादश-साहस्र्यां पारमहंस्यां संहितायां षष्ठ-सं-खदे पुंसवन-व्रत-कथनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥

No comments: