ஆக்னித்ரன் சரித்திரம்
ஸ்கந்தம் 5: அத்யாயம் 2
श्री-शुक उवाच –
एवं पितरि सम्प्रवृत्ते तद्-अनु-शासने वर्तमानः आग्नीध्रः जम्बू-द्वीप-ओकसः प्रजाः
औरसवत् धर्म-अवेक्षमाणः पर्यगोपायत् ॥ १ ॥
सः च कदाचित् पितृ-लोक-कामः सुर-वर-वनिता-क्रीडा-अचल-द्रोण्याम्
भगवन्तं विश्व-सृजाम् पतिम् आभृत-परिचर्या-उपकरणः आत्म-एकाग्र्येण
तपस्वी आराधयाम् बभूव ॥ २ ॥
तत् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीम् पूर्व-चित्तिम् नाम
अप्सरसम् अभियापयाम् आस ॥ ३ ॥
सा च तत्-आश्रम-उपवनम् अति-रमणीयम् विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट
पुरट-लता-आरूढ-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान
सलिल-कुक्कुट-कारण्डव-कलहंस-आदिभिः विचित्रम् उपकूजित
अमल-जल-आशय-कमल-आकरम् उपबभ्राम ॥ ४ ॥
तस्याः सु-ललित-गमन-पद-विन्यास गति-विलासायाः च अनु-पदम्
खण-खणायमान-रुचिर-चरण-आभरण-स्वनम्
उपाकर्ण्य नर-देव-कुमारः समाधि-योगेन आमीलीत
नयन-नलिन-मुकुल-युगलम् ईषत् विकचय्य व्यचष्ट ॥ ५ ॥
ताम् एव अविदूरे मधु-करीम् इव सुमनसः उपजिघ्रन्तीम्
दिविज-मनुज-मनः-नयन-आह्लाद-दुघैः गति-विहार-व्रीडा-विनय-अवलोक
सु-स्वर-अक्षर-अवयवैः मनसि नृणाम् कुसुम-आयुधस्य
विदधतीम् विवरम् निज-मुख-विगलित-अमृत-आसव
सहास-भाषणा-आमोद-मद-अन्ध मधुकर-निकर-उपरोधेन
द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनाम्
देवीं तत्-अवलोकनेन विवृत-अवसरस्य भगवतः
मकर-ध्वजस्य वशम् उपनीतः जडवत् इति होवाच ॥ ६ ॥
का त्वम् चिकीर्षसि च किम् मुनि-वर्य शैले माया असि कापि भगवत्-पर-देवतायाः।
विज्ये बिभर्षि धनुषी सुहृत्-आत्मनः अर्थे किम् वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ७ ॥
बाणौ इमौ भगवतः शत-पत्र-पत्रौ शान्तौ अपुङ्ख-रुचिरौ अवतितिग्म-दन्तौ।
कस्मै युयुङ्क्षसि वने विचरन् न विद्मः क्षेमाय नः जड-धियाम् तव विक्रमः अस्तु ॥ ८ ॥
शिष्याः इमे भगवतः परितः पठन्ति गायन्ति साम स-रहस्यम् अजस्रम् ईशम्।
युष्मत्-शिखा-विलुलिताः सुमनः-अभिवृष्टीः सर्वे भजन्ति ऋषि-गणाः इव वेद-शाखाः ॥ ९ ॥
वाचम् पराम् चरण-पञ्जर-तित्तिरीणाम् ब्रह्मन् अरूप-मुखराम् शृणवाम तुभ्यम्।
लब्धा कदम्ब-रुचिर-अङ्क-विटङ्क-बिम्बे यस्य अमल-आतप-परिधिः क्व च वल्कलम् ते ॥ १० ॥
किम् सम्भृतम् रुचिरयोः द्विज-शृङ्गयोः ते मध्ये कृशः वहसि यत्र दृशिः श्रिता मे।
पङ्कः अरुणः सुरभिः आत्म-विषाणः ईदृक् येन आश्रमम् सुभग मे सुरभीकरोषि ॥ ११ ॥
लोकम् प्रदर्शय सुहृत्-तम तावकम् मे यत्र अति इत्थम् उरसाव् अवयवौ अपूर्वौ।
अस्मत्-विधस्य मन-उन्नयनौ बिभर्ति बहु-अद्भुतम् सरस-रस-सुधा-आदि वक्त्रे ॥ १२ ॥
का वा आत्म-वृत्तिः अदानात् हविः अङ्ग वाति विष्णोः कला अस्य निमिष-उन्मकरौ च कर्णौ।
उद्विग्न-मीन-युगलम् द्विज-पङ्क्ति-शोचिः आसन्न-भृङ्ग-निकरम् सरः इत् मुखम् ते ॥ १३ ॥
यः असौ त्वया कर-सरोज-हतः पतङ्गः दिक्षु भ्रमन् भ्रमतः एजयते अक्षिणी मे।
मुक्तम् न ते स्मरसि वक्र-जटा-वरूथम् कष्टः अनिलः हरति लम्पटः एष नीवीम् ॥ १४ ॥
रूपम् तपोधन तपः-चरताम् तपः-घ्नम् हि एतत् तु केन तपसा भवता उपलब्धम्।
चर्तुम् तपः अर्हसि मया सह मित्र मह्यम् किम् वा प्रसीदति सः वै भव-भावनः मे ॥ १५ ॥
न त्वाम् त्यजामि दयितम् द्विज-देव-दत्तम् यस्मिन् मनः दृक् अपि नः न वियाति लग्नम्।
माम् चारु-शृङ्गि अर्हसि नेतुम् अनु-व्रतम् ते चित्तम् यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६ ॥
श्री-शुक उवाच –
इति ललना-अनुनय-अति-विशारदः ग्राम्य-वैदग्ध्यया परिभाषया
ताम् विबुध-वधूम् विबुध-मति: अधि-सभाजयाम् आस ॥ १७ ॥
सा च ततः तस्य वीर-यूथ-पतेः बुद्धि-शील-रूप-वयः-श्री-औदार्येण
पर-आक्षिप्त-मनाः तेन सह आयुत-आयुत-परिवत्सर-उपलक्षणम्
कालम् जम्बू-द्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे ॥ १८ ॥
तस्याम् उ ह वा आत्म-जान् सः राज-वरः आग्नीध्रः
नाभि-किम्पुरुष-हरि-वर्ष-इलावृत रम्यक-हिरण्मय-कुरु-भद्र
श्वेतकेतु-माल-संज्ञान् नव पुत्रान् अजनयत् ॥ १९ ॥
सा सूत्वा अथ सुतान् नवान् अनुवत्सरम् गृहे एव अपहाय
पूर्व-चित्तिः भूयः एव अजम् देवम् उपतस्थे ॥ २० ॥
आग्नीध्र-सुताः ते मातुः अनुग्रहात् औत्पत्तिकेन एव संहनन-बल-उपेताः
पित्रा विभक्ताः आत्म-तुल्य-नामानि यथा-भागं जम्बू-द्वीप-वर्षाणि बुभुजुः ॥ २१ ॥
आग्नीध्रः राजा अत्रप्तः कामानाम् अप्सरसम् एव अनुदिनम् अधिमन्यमानः
तस्याः स-लोकतां श्रुतिभिः अवारुन्ध यत्र पितरः मादयन्ते ॥ २२ ॥
सम्परेते पितरि नव भ्रातरः मेरु-दुहितॄः मेरु-देवीं प्रति-रूपाम् उग्र-दंष्ट्रीं
लतां रम्यां श्यामां नारीं भद्रां देव-वीतिम् इति संज्ञाः नव उदवहन् ॥ २३ ॥
॥ इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां पञ्चम-स्कन्धे आग्नीध्र-वर्णनं नाम द्वितीयः अध्यायः ॥ २ ॥

No comments:
Post a Comment