Followers

Search Here...

Sunday, 3 May 2026

ஸ்கந்தம் 11: அத்யாயம் 5 (பூஜா விதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பூஜா விதி

ஸ்கந்தம் 11: அத்யாயம் 5

 

श्री-राजा उवाच

भगवन्तम् हरिम् प्रायः न भजन्ति आत्म-वित्तमाः । तेषाम् अशान्त-कामानाम् का निष्ठा अ-विजित-आत्मनाम् ॥ 1 ॥

श्री-चमसः उवाच

मुख-बाहु-ऊरु-पादेभ्यः पुरुषस्य आश्रमैः सह । चत्वारः जज्ञिरे वर्णाः गुणैः विप्र-आदयः पृथक् ॥ 2 ॥

यः एषाम् पुरुषम् साक्षात् आत्म-प्रभवम् ईश्वरम् । न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधः ॥ 3 ॥

दूरे हरि-कथाः केचित् दूरे च अच्युत-कीर्तनाः । स्त्रियः शूद्र-आदयः च एव ते अनुकम्प्याः भवत्-आदृशाम् ॥ 4 ॥

विप्रः राजन्यः वैश्यः च हरेः प्राप्ताः पद-अन्तिकम् । श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नाय-वादिनः ॥ 5 ॥

कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डित-मानिनः । वदन्ति चाटुकान् मूढाः यया माध्व्या गिरा उत्सुकाः ॥ 6 ॥

रजसा घोर-सङ्कल्पाः कामुकाः अहि-मन्यवः । दाम्भिकाः मानिनः पापाः विहसन्ति अच्युत-प्रियान् ॥ 7 ॥

वदन्ति ते अन्योन्यम् उपासिताः स्त्रियः गृहेषु मैथुन्य-परेषु च आशिषः । यजन्ति असृष्टान् अविधान-दक्षिणम् वृत्त्यै परम् घ्नन्ति पशून् अ-तत्-विदः ॥ 8 ॥

श्रिया विभूत्या अभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जात-स्मयेन अन्ध-धियः सह ईश्वरान् सताम् अवमन्यन्ति हरि-प्रियान् खलाः ॥ 9 ॥

सर्वेषु शश्वत् तनु-भृत्सु अवस्थितम् यथा खम् आत्मानम् अभीष्टम् ईश्वरम् । वेद-उपगीतं च न शृण्वन्ति अबुधाः मनोरथानाम् प्रवदन्ति वार्तया ॥ 10 ॥

लोके व्यवाय-आमिष-मद्य-सेवा नित्याः तु जन्तोः न हि तत्र चोदना । व्यवस्थितिः तेषु विवाह-यज्ञ- सुरा-ग्रहैः आसु निवृत्तिः इष्टा ॥ 11 ॥

धनम् च धर्म-एक-फलम् यतः वै ज्ञानम् स-विज्ञानम् अनुप्रशान्तिः । गृहेषु युञ्जन्ति कलेवरस्य मृत्युम् न पश्यन्ति दुरन्त-वीर्यम् ॥ 12 ॥

यत् घ्राण-भक्षः विहितः सुरायाः तथा पशोः आलभनम् न हिंसा । एवम् व्यवायः प्रजया न रत्या इमम् विशुद्धम् न विदुः स्व-धर्मम् ॥ 13 ॥

ये तु अनेवं-विदः असन्तः स्तब्धाः सत्-अभिमानिनः । पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ 14 ॥

द्विषन्तः पर-कायेषु स्व-आत्मानम् हरिम् ईश्वरम् । मृतके स-अनुबन्धे अस्मिन् बद्ध-स्नेहाः पतन्ति अधः ॥ 15 ॥

ये कैवल्यम् असम्प्राप्ताः ये च अतीताः च मूढताम् । त्रैवर्गिकाः हि अक्षणिकाः आत्मानम् घातयन्ति ते ॥ 16 ॥

एते आत्म-हनः अशान्ताः अज्ञाने ज्ञान-मानिनः । सीदन्ति अ-कृत-कृत्याः वै काल-ध्वस्त-मनोरथाः ॥ 17 ॥

हित्वा अति-आयास-रचिताः गृह-अपत्य-सुहृत्-श्रियः । तमः विशन्ति अनिच्छन्तः वासुदेव-पराङ्-मुखाः ॥ 18 ॥

श्री-राजा उवाच

कस्मिन् काले सः भगवान् किम् वर्णः कीदृशः नृभिः । नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ 19 ॥

श्री-करभाजनः उवाच

कृतम् त्रेता द्वापरम् च कलिः इति एषु केशवः । नाना-वर्ण-अभिधा-आकारः नाना एव विधिना इज्यते ॥ 20 ॥

कृते शुक्लः चतुर्बाहुः जटिलः वल्कल-अम्बरः । कृष्ण-अजिन-उपवीत-अक्षान् बिभ्रत् दण्ड-कमण्डलू ॥ 21 ॥

मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः । यजन्ति तपसा देवम् शमेन च दमेन च ॥ 22 ॥

हंसः सुपर्णः वैकुण्ठः धर्मः योग-ईश्वरः अमलः । ईश्वरः पुरुषः अव्यक्तः परम-आत्मा इति गीयते ॥ 23 ॥

त्रेतायाम् रक्त-वर्णः असौ चतुर्बाहुः त्रि-मेखलः । हिरण्य-केशः त्रय्या-आत्मा स्रुक्-स्रुव-आदि-उपलक्षणः ॥ 24 ॥

तम् तदा मनुजाः देवम् सर्व-देव-मयम् हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्म-वादिनः ॥ 25 ॥

विष्णुः यज्ञः पृश्नि-गर्भः सर्व-देवः उरु-क्रमः । वृषाकपिः जयन्तः च उरु-गायः इति ईर्यते ॥ 26 ॥

द्वापरे भगवान् श्यामः पीत-वासा निज-आयुधः । श्रीवत्स-आदिभिः अङ्कैः च लक्षणैः उपलक्षितः ॥ 27 ॥

तम् तदा पुरुषम् मर्त्याः महा-राज-उपलक्षणम् । यजन्ति वेद-तन्त्राभ्याम् परम् जिज्ञासवः नृप ॥ 28 ॥

नमः ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नाय अनिरुद्धाय तुभ्यम् भगवते नमः ॥ 29 ॥

नारायणाय ऋषये पुरुषाय महा-आत्मने । विश्व-ईश्वराय विश्वाय सर्व-भूत-आत्मने नमः ॥ 30 ॥

इति द्वापरे उर्वी-ईश स्तुवन्ति जगत्-ईश्वरम् । नाना-तन्त्र-विधानेन कलौ अपि यथा शृणु ॥ 31 ॥

कृष्ण-वर्णम् त्विषा अ-कृष्णम् स-अङ्ग-उपाङ्ग-अस्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैः यजन्ति हि सु-मेधसः ॥ 32 ॥

ध्येयम् सदा परिभव-घ्नम् अभीष्ट-दोहम् तीर्थ-आस्पदम् शिव-विरिञ्चि-नुतम् शरण्यम् । भृत्य-आर्ति-हम् प्रणत-पाल भव-अब्धि-पोतम् वन्दे महा-पुरुष ते चरण-अरविन्दम् ॥ 33 ॥

त्यक्त्वा सु-दुस्त्यज-सुर-इप्सित-राज्य-लक्ष्मीम् धर्मिष्ठः आर्य-वचसा यत् अगात् अरण्यम् । माया-मृगम् दयितया इप्सितम् अन्वधावत् वन्दे महा-पुरुष ते चरण-अरविन्दम् ॥ 34 ॥

एवम् युग-अनुरूपाभ्याम् भगवान् युग-वर्तिभिः । मनुजैः इज्यते राजन् श्रेयसाम् ईश्वरः हरिः ॥ 35 ॥

कलिम् सभाजयन्ति आर्याः गुण-ज्ञाः सार-भागिनः । यत्र सङ्कीर्तनेन एव सर्वः स्व-अर्थः अभिलभ्यते ॥ 36 ॥

न हि अतः परमः लाभः देहिनाम् भ्राम्यताम् इह । यतः विन्देत परमाम् शान्तिम् नश्यति संसृतिः ॥ 37 ॥

कृत-आदिषु प्रजाः राजन् कलौ इच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायण-परायणाः ॥ 38 ॥

क्वचित् क्वचित् महा-राज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृत-माला पयस्विनी ॥ 39 ॥

कावेरी च महा-पुण्या प्रतीची च महा-नदी । ये पिबन्ति जलम् तासाम् मनुजाः मनुज-ईश्वर । प्रायः भक्ताः भगवति वासुदेवे अमल-आशयाः ॥ 40 ॥

देव-ऋषि-भूत-आप्त-नृणाम् पितॄणाम् न किङ्करः न अयम् ऋणी च राजन् । सर्व-आत्मना यः शरणम् शरण्यम् गतः मुकुन्दम् परिहृत्य कर्तम् ॥ 41 ॥

स्व-पाद-मूलम् भजतः प्रियस्य त्यक्त-अन्य-भावस्य हरिः परेशः । विकर्म यत् च उत्पतितम् कथञ्चित् धुनोति सर्वम् हृदि सन्निविष्टः ॥ 42 ॥

श्री-नारदः उवाच

धर्मान् भागवतान् इत्थम् श्रुत्वा अथ मिथिला-ईश्वरः । जायन्तेयान् मुनीन् प्रीतः स-उपाध्यायः हि अपूजयत् ॥ 43 ॥

ततः अन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः । राजा धर्मान् उपातिष्ठन् अवाप परमाम् गतिम् ॥ 44 ॥

त्वम् अपि एतान् महा-भाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तः निः-सङ्गः यास्यसे परम् ॥ 45 ॥

युवयोः खलु दम्पत्योः यशसा पूरितम् जगत् । पुत्रताम् अगमत् यत् वाम् भगवान् ईश्वरः हरिः ॥ 46 ॥

दर्शन-आलिङ्गन-आलापैः शयन-आसन-भोजनैः । आत्मा वाम् पावितः कृष्णे पुत्र-स्नेहम् प्रकुर्वतोः ॥ 47 ॥

वैरेण यम् नृपतयः शिशुपाल-पौण्ड्र- शाल्व-आदयः गति-विलास-विलोकन-आद्यैः । ध्यायन्तः आकृत-धियः शयन-आसन-आदौ तत्-साम्यम् आपुः अनुरक्त-धियाम् पुनः किम् ॥ 48 ॥

मा अपत्य-बुद्धिम् अकृथाः कृष्णे सर्व-आत्मनि ईश्वरे । माया-मनुष्य-भावेन गूढ-ऐश्वर्ये परे अव्यये ॥ 49 ॥

भू-भार-असुर-राजन्य-हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ 50 ॥

श्री-शुकः उवाच

एतत् श्रुत्वा महा-भागः वसुदेवः अति-विस्मितः । देवकी च महा-भागा जहतुः मोहम् आत्मनः ॥ 51 ॥

इतिहासम् इमम् पुण्यम् धारयेत् यः समाहितः । सः विधूय इह शमलम् ब्रह्म-भूयाय कल्पते ॥ 52 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम् एकादश-स्कन्धे पञ्चमः अध्यायः ॥ 5 ॥


ஸ்கந்தம் 11: அத்யாயம் 4 (பகவானின் வர்ணனை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பகவானின் வர்ணனை

ஸ்கந்தம் 11: அத்யாயம் 4

 

श्री-राजा उवाच

यानि यानि इह कर्माणि यैः यैः स्वच्छन्द-जन्मभिः । चक्रे करोति कर्ता वा हरिः तानि ब्रुवन्तु नः ॥ 1 ॥

श्री-द्रुमिलः उवाच

यः वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् सः तु बाल-बुद्धिः । रजांसि भूमेः गणयेत् कथञ्चित् कालेन न एव अखिल-शक्ति-धाम्नः ॥ 2 ॥

भूतैः यदा पञ्चभिः आत्म-सृष्टैः पुरम् विराजम् विरचय्य तस्मिन् । स्व-अंशेन विष्टः पुरुष-अभिधानम् अवाप नारायणः आदि-देवः ॥ 3 ॥

यत्-कायः एषः भुवन-त्रय-सन्निवेशः यस्य इन्द्रियैः तनु-भृताम् उभय-इन्द्रियाणि । ज्ञानम् स्वतः श्वसनतः बलम् ओजः ईहा सत्त्व-आदिभिः स्थिति-लय-उद्भव आदि-कर्ता ॥ 4 ॥

आदौ अभूत् शत-धृतिः रजसा अस्य सर्गे विष्णुः स्थितौ क्रतु-पतिः द्विज-धर्म-सेतुः । रुद्रः अपि अप्ययाय तमसा पुरुषः सः आद्यः इति उद्भव-स्थिति-लयाः सततम् प्रजासु ॥ 5 ॥

धर्मस्य दक्ष-दुहितरि अजनिष्ट मूर्त्याम् नारायणः नर-ऋषि-प्रवरः प्रशान्तः । नैष्कर्म्य-लक्षणम् उवाच चचार कर्म यः अद्यापि च आस्ते ऋषि-वर्य-निषेवित-अङ्घ्रिः ॥ 6 ॥

इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति कामम् न्ययुङ्क्त स-गणम् सः बदरि-उपाख्यम् । गत्वा अप्सरः-गण-वसन्त-सुमन्द-वातैः स्त्री-प्रेक्षण-इषुभिः अविध्यत् अ-तत्-महिज्ञः ॥ 7 ॥

विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः प्राह प्रहस्य गत-विस्मय एजमानान् । मा भैष्ट भो मदन मारुत देव-वध्वः गृह्णीत नः बलिम् अशून्यम् इमम् कुरुध्वम् ॥ 8 ॥

इत्थम् ब्रुवति अभय-दे नर-देव देवाः स-व्रीड-नम्र-शिरसः स-घृणम् तम् ऊचुः । न एतत् विभो त्वयि परे अविकृते विचित्रम् स्व-आराम-धीर-निकर-अनत-पाद-पद्मे ॥ 9 ॥

त्वाम् सेवताम् सुर-कृताः बहवः अन्तरायाः स्व-ओकः विलङ्घ्य परमम् व्रजताम् पदम् ते । न अन्यस्य बर्हिषि बलीन् ददतः स्व-भागान् धत्ते पदम् त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ 10 ॥

क्षुत्-तृट्-त्रि-काल-गुण-मारुत-जैह्व्य-शैश्याः अस्मान् अपार-जलधीन् अतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वशम् पदे गोः मज्जन्ति दुश्चर-तपः च वृथा उत्सृजन्ति ॥ 11 ॥

इति प्रगृणताम् तेषाम् स्त्रियः अति-अद्भुत-दर्शनाः । दर्शयामास शुश्रूषाम् स्व-अर्चिताः कुर्वतीः विभुः ॥ 12 ॥

ते देव-अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः । गन्धेन मुमुहुः तासाम् रूप-औदार्य-हत-श्रियः ॥ 13 ॥

तान् आह देव-देव-ईशः प्रणतान् प्रहसन् इव । आसाम् एक-तमाम् वृण्ध्वम् स-वर्णाम् स्वर्ग-भूषणाम् ॥ 14 ॥

ॐ इति आदेशम् आदाय नत्वा तम् सुर-वन्दिनः । उर्वशीम् अप्सरः-श्रेष्ठाम् पुरस्कृत्य दिवम् ययुः ॥ 15 ॥

इन्द्राय अनम्य सदसि शृण्वताम् त्रि-दिव-ओकसाम् । ऊचुः नारायण-बलम् शक्रः तत्र आसीत् विस्मितः ॥ 16 ॥

हंस-स्वरूप्य अवदत् अच्युतः आत्म-योगम् दत्तः कुमारः ऋषभः भगवान् पिता नः । विष्णुः शिवाय जगताम् कलया अवतीर्णः तेन आहृताः मधु-भिदा श्रुतयः हय-आस्ये ॥ 17 ॥

गुप्तः अपि अये मनुः इला औषधयः च मात्स्ये क्रौडे हतः दितिजः उद्धरताम् अम्भसः क्ष्माम् । कौर्मे धृतः अद्रिः अमृत-उन्मथने स्व-पृष्ठे ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चत् आर्तम् ॥ 18 ॥

संस्तुन्वतः अब्धि-पतितान् श्रमणान् ऋषीन् च शक्रम् च वृत्र-वधतः तमसि प्रविष्टम् । देव-स्त्रियः असुर-गृहे पिहिताः अनाथाः जघ्ने असुर-इन्द्रम् अभयाय सताम् नृसिंहे ॥ 19 ॥

देव-असुरे युधि च दैत्य-पतीन् सुर-अर्थे हत्वा अन्तरेषु भुवनानि अदधात् कलाभिः । भूत्वा अथ वामनः इमाम् अहरत् बलेः क्ष्माम् याच्ञा-च्छलेन समदात् अदितेः सुतेभ्यः ॥ 20 ॥

निः-क्षत्रियाम् अकरोत् गाम् च त्रिः-सप्त-कृत्वः रामः तु हैहय-कुल-अप्यय-भार्गव-अग्निः । सः अब्धिम् बबन्ध दश-वक्त्रम् अहन् स-लङ्कम् सीता-पतिः जयति लोक-मल-घ्न-कीर्तिः ॥ 21 ॥

भूमेः भार-अवतरणाय यदुषु अजन्मा जातः करिष्यति सुरैः अपि दुष्कराणि । वादैः विमोहयति यज्ञ-कृतः अतत्-अर्हान् शूद्रान् कलौ क्षिति-भुजः न्यहनिष्यत् अन्ते ॥ 22 ॥

एवम्-विधानि कर्माणि जन्मानि च जगत्-पतेः । भूरीणि भूरि-यशसः वर्णितानि महा-भुज ॥ 23 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम् एकादश-स्कन्धे चतुर्थः अध्यायः ॥ 4 ॥


ஸ்கந்தம் 11: அத்யாயம் 3 (மோக்ஷ மார்க்கம், ரிஷப தேவரின் புத்திரர்கள் உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

மோக்ஷ மார்க்கம், ரிஷப தேவரின் புத்திரர்கள் உபதேசம்

ஸ்கந்தம் 11: அத்யாயம் 3

 

श्री-राजा उवाच

परस्य विष्णोः ईशस्य मायिनाम् अपि मोहिनीम् ।
मायाम् वेदितुम् इच्छामः भगवन्तः ब्रुवन्तु नः ॥ 1 ॥

न अनु-तृप्ये जुषन् युष्मत्-वचः हरि-कथा-अमृतम् ।
संसार-ताप-निस्तप्तः मर्त्यः तत्-ताप-भेषजम् ॥ 2 ॥

श्री-अन्तरिक्षः उवाच

एभिः भूतानि भूत-आत्मा महा-भूतैः महा-भुज ।
ससर्ज उच्च-अवचानि आद्यः स्व-मात्र-आत्म-प्रसिद्धये ॥ 3 ॥

एवम् सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः ।
एकधा दशधा आत्मानम् विभजन् जुषते गुणान् ॥ 4 ॥

गुणैः गुणान् सः भुञ्जानः आत्म-प्रद्योतितैः प्रभुः ।
मन्यमानः इदम् सृष्टम् आत्मानम् इह सज्जते ॥ 5 ॥

कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् ।
तत्-तत् कर्म-फलम् गृह्णन् भ्रमति इह सुख-इतरम् ॥ 6 ॥

इत्थम् कर्म-गतिः गच्छन् बहु-अभद्र-वहाः पुमान् ।
आ-भूत-सम्प्लवात् सर्ग-प्रलयौ अश्नुते अवशः ॥ 7 ॥

धातु-उपप्लवे आसन्ने व्यक्तम् द्रव्य-गुण-आत्मकम् ।
अनादि-निधनः कालः हि अव्यक्ताय अपकर्षति ॥ 8 ॥

शत-वर्षा हि अनावृष्टिः भविष्यति उल्बणा भुवि ।
तत्-काल-उपचित-उष्ण-अर्कः लोकान् त्रीन् प्रतपिष्यति ॥ 9 ॥

पाताल-तलम् आरभ्य सङ्कर्षण-मुख-अनलः ।
दहन् ऊर्ध्व-शिखः विष्वक् वर्धते वायु-नेरितः ॥ 10 ॥

सांवर्तकः मेघ-गणः वर्षति स्म शतम् समाः ।
धाराभिः हस्ति-हस्ताभिः लीयते सलिले विराट् ॥ 11 ॥

ततः विराजम् उत्सृज्य वैराजः पुरुषः नृप ।
अव्यक्तम् विशते सूक्ष्मम् निरिन्द्धनः इव अनलः ॥ 12 ॥

वायुना हृत-गन्धा भूः सलिलत्वाय कल्पते ।
सलिलम् तत् धृत-रसम् ज्योतिष्ट्वाय उपकल्पते ॥ 13 ॥

हृत-रूपम् तु तमसा वायौ ज्योतिः प्रलीयते ।
हृत-स्पर्शः अवकाशेन वायुः नभसि लीयते ॥ 14 ॥

काल-आत्मना हृत-गुणम् नभः आत्मनि लीयते ।
इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप ।
प्रविशन्ति हि अहङ्कारम् स्व-गुणैः अहम् आत्मनि ॥ 15 ॥

एषा माया भगवतः सर्ग-स्थिति-अन्त-कारिणी ।
त्रि-वर्णा वर्णिता अस्माभिः किम् भूयः श्रोतुम् इच्छसि ॥ 16 ॥

श्री-राजा उवाच

यथा एताम् ऐश्वरीम् मायाम् दुस्तराम् अ-कृत-आत्मभिः ।
तरन्ति अञ्जः स्थूल-धियः महर्षे इदम् उच्यताम् ॥ 17 ॥

श्री-प्रबुद्धः उवाच

कर्माणि आरभमाणानाम् दुःख-हत्यै सुखाय च ।
पश्येत् पाक-विपर्यासम् मिथुनी-चारिणाम् नृणाम् ॥ 18 ॥

नित्य-आर्ति-देन वित्तेन दुर्लभेन आत्म-मृत्युना ।
गृह-अपत्य-आप्त-पशुभिः का प्रीतिः साधितैः चलैः ॥ 19 ॥

एवम् लोकम् परम् विद्यात् नश्वरम् कर्म-निर्मितम् ।
स-तुल्य-अतिशय-ध्वंसम् यथा मण्डल-वर्तिनाम् ॥ 20 ॥

तस्मात् गुरुम् प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् ।
शाब्दे परे च निष्णातम् ब्रह्मणि उपशम-आश्रयम् ॥ 21 ॥

तत्र भागवतान् धर्मान् शिक्षेत् गुरु-आत्म-दैवतः ।
अमायया अनुवृत्त्या यैः तुष्येत् आत्मा आत्म-दः हरिः ॥ 22 ॥

सर्वतः मनसः असङ्गम् आदौ सङ्गम् च साधुषु ।
दयाम् मैत्रीम् प्रश्रयम् च भूतेषु अद्धा यथा-उचितम् ॥ 23 ॥

शौचम् तपः तितिक्षाम् च मौनम् स्वाध्यायम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसाम् च समत्वम् द्वन्द्व-संज्ञयोः ॥ 24 ॥

सर्वत्र आत्म-ईश्वर-अन्वीक्षाम् कैवल्यम् अनिकेतताम् ।
विविक्त-चीर-वसनम् सन्तोषम् येन केनचित् ॥ 25 ॥

श्रद्धाम् भागवते शास्त्रे अनिन्दाम् अन्यत्र च अपि हि ।
मनः-वाक्-कर्म-दण्डम् च सत्यम् शम-दमौ अपि ॥ 26 ॥

श्रवणम् कीर्तनम् ध्यानम् हरेः अद्भुत-कर्मणः ।
जन्म-कर्म-गुणानाम् च तत्-अर्थे अखिल-चेष्टितम् ॥ 27 ॥

इष्टम् दत्तम् तपः जप्तम् वृत्तम् यत् च आत्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ 28 ॥

एवम् कृष्ण-आत्म-नाथेषु मनुष्येषु च सौहृदम् ।
परिचर्याम् च उभयत्र महत्सु नृषु साधुषु ॥ 29 ॥

परस्पर-अनु-कथनम् पावनम् भगवत्-यशः ।
मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः ॥ 30 ॥

स्मरन्तः स्मारयन्तः च मिथः अघ-ओघ-हरम् हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकाम् तनुम् ॥ 31 ॥

क्वचित् रुदन्ति अच्युत-चिन्तया क्वचित्
हसन्ति नन्दन्ति वदन्ति अलौकिकाः ।
नृत्यन्ति गायन्ति अनुशीलयन्ति अजम्
भवन्ति तूष्णीम् परम् एत्य निर्वृताः ॥ 32 ॥

इति भागवतान् धर्मान् शिक्षन् भक्त्या तत्-उत्थया ।
नारायण-परः मायाम् अञ्जः तरति दुस्तराम् ॥ 33 ॥

श्री-राजा उवाच

नारायण-अभिधानस्य ब्रह्मणः परम-आत्मनः ।
निष्ठाम् अर्हथ नः वक्तुम् यूयम् हि ब्रह्म-वित्तमाः ॥ 34 ॥

श्री-पिप्पलायनः उवाच

स्थिति-उद्भव-प्रलय-हेतुः अहेतुः अस्य
यत् स्वप्न-जागर-सुषुप्तिषु सत् बहिः च ।
देह-इन्द्रिय-असु-हृदयानि चरन्ति येन
सञ्जीवितानि तत् अवेहि परम् नरेन्द्र ॥ 35 ॥

न एतत् मनः विशति वाक् उत चक्षुः आत्मा
प्राण-इन्द्रियाणि च यथा अनलम् अर्चिषः स्वाः ।
शब्दः अपि बोधक-निषेधतया आत्म-मूलम्
अर्थ-उक्तम् आह यत् ऋते न निषेध-सिद्धिः ॥ 36 ॥

सत्त्वम् रजः तमः इति त्रि-वृत् एकम् आदौ
सूत्रम् महान् अहम् इति प्रवदन्ति जीवम् ।
ज्ञान-क्रिया-अर्थ-फल-रूपतया उरु-शक्ति
ब्रह्म एव भाति सत्-असत् च तयोः परम् यत् ॥ 37 ॥

न आत्मा जजान न मरिष्यति न एधते असौ
न क्षीयते सवन-वित् व्यभिचारिणाम् हि ।
सर्वत्र शश्वत् अनपायी उपलब्धि-मात्रम्
प्राणः यथा इन्द्रिय-बलेन विकल्पितम् सत् ॥ 38 ॥

अण्डेषु पेशिषु तरुषु अविनिश्चितेषु
प्राणः हि जीवम् उपधावति तत्र तत्र ।
सन्ने यत् इन्द्रिय-गणे अहम् इति च प्रसुप्ते
कूटस्थः आशयम् ऋते तत् अनुस्मृतिः नः ॥ 39 ॥

यर्हि अब्ज-नाभ-चरण-एषणया उरु-भक्त्या
चेतः-मलानि विधमेत् गुण-कर्म-जानि ।
तस्मिन् विशुद्धे उपलभ्यते आत्म-तत्त्वम्
साक्षात् यथा अमल-दृशोः सवितृ-प्रकाशः ॥ 40 ॥

श्री-राजा उवाच

कर्म-योगम् वदत नः पुरुषः येन संस्कृतः ।
विधूय इह आशु कर्माणि नैष्कर्म्यम् विन्दते परम् ॥ 41 ॥

एवम् प्रश्नम् ऋषीन् पूर्वम् अपृच्छम् पितुः अन्तिके ।
न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणम् उच्यताम् ॥ 42 ॥

श्री-आविहोत्रः उवाच

कर्म-अकर्म-विकर्म इति वेद-वादः न लौकिकः ।
वेदस्य च ईश्वर-आत्मत्वात् तत्र मुह्यन्ति सूरयः ॥ 43 ॥

परोक्ष-वादः वेदः अयम् बालानाम् अनुशासनम् ।
कर्म-मोक्षाय कर्माणि विधत्ते हि अगदम् यथा ॥ 44 ॥

न आचरेत् यः तु वेद-उक्तम् स्वयम् अज्ञः अजित-इन्द्रियः ।
विकर्मणा हि अधर्मेण मृत्योः मृत्युम् उपैति सः ॥ 45 ॥

वेद-उक्तम् एव कुर्वाणः निः-सङ्गः अर्पितम् ईश्वरे ।
नैष्कर्म्यम् लभते सिद्धिम् रोचन-अर्था फल-श्रुतिः ॥ 46 ॥

यः आशु हृदय-ग्रन्थिम् निर्जिहीर्षुः पर-आत्मनः ।
विधिना उपचरेत् देवं तन्त्र-उक्तेन च केशवम् ॥ 47 ॥

लब्ध-अनुग्रहः आचार्यात् तेन सन्दर्शित-आगमः ।
महा-पुरुषम् अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ 48 ॥

शुचिः सम्मुखम् आसीनः प्राण-संयमन-आदिभिः ।
पिण्डम् विशोध्य संन्यास-कृत-रक्षः अर्चयेत् हरिम् ॥ 49 ॥

अर्चा-आदौ हृदये च अपि यथा-लब्ध-उपचारकैः ।
द्रव्य-क्षिति-आत्म-लिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम् ॥ 50 ॥

पाद्य-आदीन् उपकल्प्य अथ सन्निधाप्य समाहितः ।
हृद्-आदिभिः कृत-न्यासः मूल-मन्त्रेण च अर्चयेत् ॥ 51 ॥

स-अङ्ग-उपाङ्गाम् स-पार्षदाम् ताम् ताम् मूर्तिम् स्व-मन्त्रतः ।
पाद्य-अर्घ्य-आचमनीय-आद्यैः स्नान-वसः-विभूषणैः ॥ 52 ॥

गन्ध-माल्य-अक्षत-स्रग्भिः धूप-दीप-उपहारकैः ।
स-अङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ 53 ॥

आत्मानम् तत्-मयम् ध्यायन् मूर्तिम् सम्पूजयेत् हरेः ।
शेषाम् आधाय शिरसा स्व-धाम्नि उद्वास्य सत्-कृतम् ॥ 54 ॥

एवम् अग्नि-अर्क-तोय-आदौ अतिथौ हृदये च यः ।
यजति ईश्वरम् आत्मानम् अचिरात् मुच्यते हि सः ॥ 55 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
एकादश-स्कन्धे तृतीयः अध्यायः ॥ 3 ॥


ஸ்கந்தம் 11: அத்யாயம் 2 (நிமி சக்கரவர்த்தி, ரிஷப தேவரின் புத்திரர்கள் சம்வாதம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 நிமி சக்கரவர்த்தி, ரிஷப தேவரின் புத்திரர்கள் சம்வாதம்

ஸ்கந்தம் 11: அத்யாயம் 2

श्री-शुकः उवाच

गोविन्द-भुज-गुप्तायाम् द्वारवत्याम् कुरु-उद्वह ।
अवात्सीत् नारदः अभीक्ष्णम् कृष्ण-उपासन-लालसः ॥ 1 ॥

कः नु राजन् इन्द्रिय-वान् मुकुन्द-चरण-अम्बुजम् ।
न भजेत् सर्वतः मृत्युः उपास्यम् अमर-उत्तमैः ॥ 2 ॥

तम् एकदा तु देव-ऋषिम् वसुदेवः गृह-आगतम् ।
अर्चितम् सुखम् आसीनम् अभिवाद्य इदम् अब्रवीत् ॥ 3 ॥

श्री-वसुदेवः उवाच

भगवन् भवतः यात्रा स्वस्तये सर्व-देहिनाम् ।
कृपणानाम् यथा पित्रोः उत्तम-श्लोक-वर्त्मनाम् ॥ 4 ॥

भूतानाम् देव-चरितम् दुःखाय च सुखाय च ।
सुखाय एव हि साधूनाम् त्वादृशाम् अच्युत-आत्मनाम् ॥ 5 ॥

भजन्ति ये यथा देवान् देवाः अपि तथा एव तान् ।
छाया इव कर्म-सचिवाः साधवः दीन-वत्सलाः ॥ 6 ॥

ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव ।
यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः-भयात् ॥ 7 ॥

अहम् किल पुरा अनन्तम् प्रजा-अर्थः भुवि मुक्ति-दम् ।
अपूजयम् न मोक्षाय मोहितः देव-मायया ॥ 8 ॥

यथा विचित्र-व्यसनात् भवद्भिः विश्वतः-भयात् ।
मुच्येम हि अञ्जसा एव अद्य तथा नः शाधि सुव्रत ॥ 9 ॥

श्री-शुकः उवाच

राजन् एवम् कृत-प्रश्नः वसुदेवेन धीमता ।
प्रीतः तम् आह देव-ऋषिः हरेः संस्मारितः गुणैः ॥ 10 ॥

श्री-नारदः उवाच

सम्यक् एतत् व्यवसितम् भवता सात्वत-ऋषभ ।
यत् पृच्छसे भागवतान् धर्मान् त्वम् विश्व-भावनान् ॥ 11 ॥

श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः ।
सद्यः पुनाति सत्-धर्मः देव विश्व-द्रुहः अपि हि ॥ 12 ॥

त्वया परम-कल्याणः पुण्य-श्रवण-कीर्तनः ।
स्मारितः भगवान् अद्य देवः नारायणः मम ॥ 13 ॥

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् ।
आर्षभाणाम् च संवादम् विदेहस्य महात्मनः ॥ 14 ॥

प्रिय-व्रतः नाम सुतः मनोः स्वायम्भुवस्य यः ।
तस्य अग्नीध्रः ततः नाभिः ऋषभः तत्-सुतः स्मृतः ॥ 15 ॥

तम् आहुः वासुदेव-अंशम् मोक्ष-धर्म-विवक्षया ।
अवतीर्णम् सुत-शतम् तस्य आसीत् ब्रह्म-पारगम् ॥ 16 ॥

तेषाम् वै भरतः ज्येष्ठः नारायण-परायणः ।
विख्यातम् वर्षम् एतत् यत् नाम्ना भारतम् अद्भुतम् ॥ 17 ॥

सः भुक्त-भोगाम् त्यक्त्वा इमाम् निर्गतः तपसा हरिम् ।
उपासीनः तत्-पदवीम् लेभे वै जन्मभिः त्रिभिः ॥ 18 ॥

तेषाम् नव नव-द्वीप-पतयः अस्य समन्ततः ।
कर्म-तन्त्र-प्रणेतारः एक-अशीतिः द्विजातयः ॥ 19 ॥

नव अभवन् महा-भागाः मुनयः हि अर्थ-शंसिनः ।
श्रमणाः वात-रशनाः आत्म-विद्या-विशारदाः ॥ 20 ॥

कविः हरिः अन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रः अथ द्रुमिलः च चमसः करभाजनः ॥ 21 ॥

ते एते भगवत्-रूपम् विश्वम् सत्-असत्-आत्मकम् ।
आत्मनः अव्यतिरेकेण पश्यन्तः व्यचरन् महीम् ॥ 22 ॥

अव्याहत-इष्ट-गतयः सुर-सिद्ध-साध्य-
गन्धर्व-यक्ष-नर-किंनर-नाग-लोकान् ।
मुक्ताः चरन्ति मुनि-चारण-भूत-नाथ-
विद्याधर-द्विज-गवाम् भुवनानि कामम् ॥ 23 ॥

ते एकदा निमेः सत्रम् उपजग्मुः यदृच्छया ।
वितायमानम् ऋषिभिः अजनाभे महात्मनः ॥ 24 ॥

तान् दृष्ट्वा सूर्य-संकाशान् महा-भागवतान् नृप ।
यजमानः अग्नयः विप्राः सर्वे एव उपतस्थिरे ॥ 25 ॥

विदेहः तान् अभिप्रेत्य नारायण-परायणान् ।
प्रीतः सम्पूजयाम् चक्रे आसन-स्थान् यथा-अर्हतः ॥ 26 ॥

तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्र-उपमान् नव ।
पप्रच्छ परम-प्रीतः प्रश्रय-अवनतः नृपः ॥ 27 ॥

श्री-विदेहः उवाच

मन्ये भगवतः साक्षात् पार्षदान् वः मधु-द्विषः ।
विष्णोः भूतानि लोकानाम् पावनाय चरन्ति हि ॥ 28 ॥

दुर्लभः मानुषः देहः देहिनाम् क्षण-भङ्गुरः ।
तत्र अपि दुर्लभम् मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥ 29 ॥

अतः आत्यन्तिकम् क्षेमम् पृच्छामः भवतः अनघाः ।
संसारे अस्मिन् क्षण-अर्धः अपि सत्-सङ्गः शेवधिः नृणाम् ॥ 30 ॥

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानम् अपि अजः ॥ 31 ॥

श्री-नारदः उवाच

एवम् ते निमिना पृष्टाः वसुदेव महत्तमाः ।
प्रतिपूज्य अब्रुवन् प्रीत्या स-सदस्य-ऋत्विजम् नृपम् ॥ 32 ॥

श्री-कविः उवाच

मन्ये अकुतश्चित् भयम् अच्युतस्य
पाद-अम्बुज-उपासनम् अत्र नित्यम् ।
उद्विग्न-बुद्धेः असत्-आत्म-भावात्
विश्व-आत्मना यत्र निवर्तते भीः ॥ 33 ॥

ये वै भगवता प्रोक्ताः उपायाः हि आत्म-लब्धये ।
अञ्जः पुंसाम् अविदुषाम् विद्धि भागवतान् हि तान् ॥ 34 ॥

यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेत् न पतति इह ॥ 35 ॥

कायेन वाचा मनसा इन्द्रियैः वा
बुद्ध्या आत्मना वा अनुसृत-स्वभावात् ।
करोति यत् यत् सकलम् परस्मै
नारायणाय इति समर्पयेत् तत् ॥ 36 ॥

भयम् द्वितीय-अभिनिवेशतः स्यात्
ईशात् अपेतस्य विपर्ययः अस्मृतिः ।
तत् मायया अतः बुधः आभजेत् तम्
भक्त्या एकया ईशम् गुरु-देवता-आत्मा ॥ 37 ॥

अविद्यमानः अपि अवभाति हि द्वयोः
ध्यातुः धिया स्वप्न-मनोरथौ यथा ।
तत् कर्म-सङ्कल्प-विकल्पकम् मनः
बुधः निरुन्ध्यात् अभयम् ततः स्यात् ॥ 38 ॥

श्रृण्वन् सु-भद्राणि रथ-अङ्ग-पाणेः
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तत्-अर्थकानि
गायन् विलज्जः विचरेत् असङ्गः ॥ 39 ॥

एवम्-व्रतः स्व-प्रिय-नाम-कीर्त्या
जात-अनुरागः द्रुत-चित्तः उच्चैः ।
हसति अथ रोदिति रौति गायति
उन्माद-वत् नृत्यति लोक-बाह्यः ॥ 40 ॥

खम् वायुम् अग्निम् सलिलम् महीम् च
ज्योतींषि सत्त्वानि दिशः द्रुम-आदीन् ।
सरित्-समुद्रान् च हरेः शरीरम्
यत् किञ्चित् भूतम् प्रणमेत् अनन्यः ॥ 41 ॥

भक्तिः पर-ईश-अनुभवः विरक्तिः
अन्यत्र च एषः त्रिकः एक-कालः ।
प्रपद्यमानस्य यथा अश्नतः स्युः
तुष्टिः पुष्टिः क्षुत्-अपायः अनु-घासम् ॥ 42 ॥

इति अच्युत-अङ्घ्रिम् भजतः अनुवृत्त्या
भक्तिः विरक्तिः भगवत्-प्रबोधः ।
भवन्ति वै भागवतस्य राजन्
ततः पराम् शान्तिम् उपैति साक्षात् ॥ 43 ॥

श्री-राजा उवाच

अथ भागवतम् ब्रूत यत् धर्मः यादृशः नृणाम् ।
यथा चरति यत् ब्रूते यैः लिङ्गैः भगवत्-प्रियः ॥ 44 ॥

श्री-हरिः उवाच

सर्व-भूतेषु यः पश्येत् भगवत्-भावम् आत्मनः ।
भूतानि भगवति आत्मनि एषः भागवत-उत्तमः ॥ 45 ॥

ईश्वरे तत्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपा-उपेक्षा यः करोति सः मध्यमः ॥ 46 ॥

अर्चायाम् एव हरये पूजाम् यः श्रद्धया इहते ।
न तत्-भक्तेषु च अन्येषु सः भक्तः प्राकृतः स्मृतः ॥ 47 ॥

गृहीत्वा अपि इन्द्रियैः अर्थान् यः न द्वेष्टि न हृष्यति ।
विष्णोः मायाम् इदम् पश्यन् सः वै भागवत-उत्तमः ॥ 48 ॥

देह-इन्द्रिय-प्राण-मनः-धियाम् यः
जन्म-अप्यय-क्षुत्-भय-तर्ष-कृच्छ्रैः ।
संसार-धर्मैः अविमुह्यमानः
स्मृत्या हरेः भागवत-प्रधानः ॥ 49 ॥

न काम-कर्म-बीजानाम् यस्य चेतसि सम्भवः ।
वासुदेव-एक-निलयः सः वै भागवत-उत्तमः ॥ 50 ॥


न यस्य जन्म-कर्मभ्याम् न वर्ण-आश्रम-जातिभिः ।
सज्जते अस्मिन् अहम्-भावः देहे वै सः हरेः प्रियः ॥ 51 ॥

न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा ।
सर्व-भूत-समः शान्तः सः वै भागवत-उत्तमः ॥ 52 ॥

त्रि-भुवन-विभव-हेतवे अपि अकुण्ठ-स्मृतिः
अजित-आत्म-सुर-आदिभिः विमृग्यात् ।
न चलति भगवत्-पाद-अरविन्दात्
लव-निमिष-अर्धम् अपि यः सः वैष्णव-अग्र्यः ॥ 53 ॥

भगवतः उरु-विक्रम-अङ्घ्रि-शाखा-
नख-मणि-चन्द्रिकया निरस्त-तापे ।
हृदि कथम् उपसीदताम् पुनः सः
प्रभवति चन्द्रः इव उदिते अर्क-तापः ॥ 54 ॥

विसृजति हृदयम् न यस्य साक्षात्
हरिः अवश-अभिहितः अपि अघ-ओघ-नाशः ।
प्रणय-रशनया धृत-अङ्घ्रि-पद्मः
सः भवति भागवत-प्रधानः उक्तः ॥ 55 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
एकादश-स्कन्धे द्वितीयः अध्यायः ॥ 2 ॥


ஸ்கந்தம் 11: அத்யாயம் 1 (யது குல சாபம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

யது குல சாபம்

ஸ்கந்தம் 11: அத்யாயம் 1

श्री-बादरायणिः उवाच

कृत्वा दैत्य-वधम् कृष्णः स-रामः यदुभिः वृतः ।
भुवः अवतारयत् भारम् जविष्ठम् जनयन् कलिम् ॥ 1 ॥

ये कोपिताः सु-बहु पाण्डु-सुताः स-पत्नैः
दुर्-द्यूत-हेलन-कच-ग्रहण-आदिभिः तान् ।
कृत्वा निमित्तम् इतरेतरतः समेतान्
हत्वा नृपान् निरहरत् क्षिति-भारम् ईशः ॥ 2 ॥

भू-भार-राज-पृतनाः यदुभिः निरस्य
गुप्तैः स्व-बाहुभिः अचिन्तयत् अप्रमेयः ।
मन्ये अवनेः ननु गतः अपि अगतम् हि भारम्
यत् यादवम् कुलम् अहो अविषह्यम् आस्ते ॥ 3 ॥

न एव अन्यतः परिभवः अस्य भवेत् कथञ्चित्
मत्-संश्रयस्य विभव-उन्नहनस्य नित्यम् ।
अन्तः कलिम् यदु-कुलस्य विधाय वेणु-
स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥ 4 ॥

एवम् व्यवसितः राजन् सत्य-सङ्कल्पः ईश्वरः ।
शाप-व्याजेन विप्राणाम् संजह्रे स्व-कुलम् विभुः ॥ 5 ॥

स्व-मूर्त्या लोक-लावण्य-निर्मुक्त्या लोचनम् नृणाम् ।
गीर्भिः ताः स्मरताम् चित्तम् पदैः तानि ईक्षताम् क्रियाः ॥ 6 ॥

आच्छिद्य कीर्तिम् सु-श्लोकाम् वितत्य हि अञ्जसा नु कौ ।
तमः अनया तरिष्यन्ति इति अगात् स्वम् पदम् ईश्वरः ॥ 7 ॥

श्री-राजा उवाच

ब्रह्मण्यानाम् वदान्यानाम् नित्यम् वृद्ध-उपसेविनाम् ।
विप्र-शापः कथम् अभूत् वृष्णीनाम् कृष्ण-चेतसाम् ॥ 8 ॥

यत्-निमित्तः सः वै शापः यादृशः द्विज-सत्तम ।
कथम् एक-आत्मनाम् भेदः एतत् सर्वम् वदस्व मे ॥ 9 ॥

श्री-शुकः उवाच

बिभ्रत् वपुः सकल-सुन्दर-सन्निवेशम्
कर्म आचरन् भुवि सु-मङ्गलम् आप्त-कामः ।
आस्थाय धाम रममाणः उदार-कीर्तिः
संहर्तुम् ऐच्छत् कुलम् स्थित-कृत्य-शेषः ॥ 10 ॥

कर्माणि पुण्य-निवहानि सु-मङ्गलानि
गायज्-जगत्-कलि-मल-अपहराणि कृत्वा ।
काल-आत्मना निवसता यदु-देव-गेहे
पिण्डारकम् समगमन् मुनयः निसृष्टाः ॥ 11 ॥

विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अङ्गिराः ।
कश्यपः वामदेवः अत्रिः वसिष्ठः नारद-आदयः ॥ 12 ॥

क्रीडन्तः तान् उपव्रज्य कुमाराः यदु-नन्दनाः ।
उप-संगृह्य पप्रच्छुः अविनीता विनीत-वत् ॥ 13 ॥

ते वेषयित्वा स्त्री-वेषैः साम्बम् जाम्बवती-सुतम् ।
एषा पृच्छति वः विप्राः अन्तर्-वत्नि असित-ईक्षणा ॥ 14 ॥

प्रष्टुम् विलज्जती साक्षात् प्रब्रूत अमोघ-दर्शनाः ।
प्रसोष्यन्ती पुत्र-कामा किम् स्वित् सञ्जनयिष्यति ॥ 15 ॥

एवम् प्रलब्धाः मुनयः तान् ऊचुः कुपिताः नृप ।
जनयिष्यति वः मन्दाः मुसलम् कुल-नाशनम् ॥ 16 ॥

तत् श्रुत्वा ते अति-सन्त्रस्ताः विमुच्य सह-उदरम् ।
साम्बस्य ददृशुः तस्मिन् मुसलम् खलु अयस्-मयम् ॥ 17 ॥

किम् कृतम् मन्द-भाग्यैः नः किम् वदिष्यन्ति नः जनाः ।
इति विह्वलिताः गेहान् आदाय मुसलम् ययुः ॥ 18 ॥

तत् च उपनीय सदसि परिम्लान-मुख-श्रियम् ।
राज्ञे आवेदयाम् चक्रुः सर्व-यादव-सन्निधौ ॥ 19 ॥

श्रुत्वा अमोघम् विप्र-शापम् दृष्ट्वा च मुसलम् नृप ।
विस्मिताः भय-सन्त्रस्ताः बभूवुः द्वारका-ओकसः ॥ 20 ॥

तत् चूर्णयित्वा मुसलम् यदु-राजः सः आहुकः ।
समुद्र-सलिले प्रास्यत् लोहम् च अस्य अवशेषितम् ॥ 21 ॥

कश्चित् मत्स्यः अग्रसीत् लोहम् चूर्णानि तरलैः ततः ।
उह्यमानानि वेलायाम् लग्नानि आसन् किल एरकाः ॥ 22 ॥

मत्स्यः गृहीतः मत्स्य-घ्नैः जालेन अन्यैः सह अर्णवे ।
तस्य उदर-गतम् लोहम् सः शल्ये लुब्धकः अकरोत् ॥ 23 ॥

भगवान् ज्ञात-सर्व-अर्थः ईश्वरः अपि तत् अन्यथा ।
कर्तुम् न ऐच्छत् विप्र-शापम् काल-रूपी अन्वमोदत् ॥ 24 ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
एकादश-स्कन्धे प्रथमः अध्यायः ॥ 1 ॥