Followers

Search Here...

Sunday, 18 May 2025

ஸ்கந்தம் 10: அத்யாயம் 72 (ஜராஸந்தன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஜராஸந்தன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 72

श्री-शुकः उवाच –
एकदा तु सभा-मध्ये आस्थितः मुनिभिः वृतः।
ब्राह्मणैः क्षत्रियैः वैश्यैः भ्रातृभिः च युधिष्ठिरः॥ 1

आचार्यैः कुल-वृद्धैः च ज्ञाति-संबन्धि-बान्धवैः।
श्रृण्वताम् एव च एतेषाम् आभाष्य इदम् उवाच ह॥ 2

युधिष्ठिरः उवाच –
क्रतुराजेन गोविन्द राजसूयेन पावनीः।
यक्ष्ये विभूतिः भवतः तत् सम्पादय नः प्रभो॥ 3

त्वत्-पादुके अविरतम् परि ये चरन्ति।
ध्यायन्ति अभद्र-नशने शुचयः गृणन्ति।
विन्दन्ति ते कमल-नाभ भव-अपवर्गम्।
आशासते यदि ते आशिषः ईश न अन्ये॥ 4

तत् देवदेव भवतः चरण-अरविन्द-
सेवा-अनुभावम् इह पश्यतु लोकः एषः।
ये त्वाम् भजन्ति न भजन्ति उत वा उभयेषाम्
निष्ठाम् प्रदर्शय विभो कुरु-सृञ्जय-आनाम्॥ 5

न ब्रह्मणः स्व-पर-भेद-मतिः तव स्यात्
सर्वात्मनः सम-दृशः स्व-सुख-अनुभूतेः।
संसेवताम् सुर-तरोः इव ते प्रसादः
सेवा-अनुरूपम् उदयः न विपर्ययः अत्र॥ 6

श्री-भगवान् उवाच –
सम्यक् व्यवसितम् राजन् भवता शत्रु-कर्शन।
कल्याणी येन ते कीर्तिः लोकान् अनु भविष्यति॥ 7

ऋषीणाम् पितृ-देवानाम् सुहृदाम् अपि नः प्रभो।
सर्वेषाम् अपि भूतानाम् इप्सितः क्रतुराट् अयम्॥ 8

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीम् वशे।
संभृत्य सर्व-संभारान् आहरस्व महा-क्रतुम्॥ 9

एते ते भ्रातरः राजन् लोकपाल-अंश-सम्भवाः।
जितः अस्मि आत्मवता ते अहम् दुर्जयः यः अकृत-आत्मभिः॥ 10

न कश्चित् मत्-परम् लोके तेजसा यशसा श्रिया।
विभूतिभिः वा अभिभवेत् देवः अपि किम् उ पार्थिवः॥ 11

श्री-शुकः उवाच –
निशम्य भगवत्-गीतम् प्रीतः फुल्ल-मुख-अम्बुजः।
भ्रातृन् दिग्-विजये अयुङ्क्त विष्णु-तेजः-उपबृंहितान्॥ 12

सहदेवम् दक्षिणस्याम् आदिशत् सह सृञ्जयैः।
दिशि प्रतीच्याम् नकुलम् उदीच्याम् सव्यसाचिनम्।
प्राच्याम् वृकोदरम् मत्स्यैः केकयैः सह मद्रकैः॥ 13

ते विजित्य नृपान् वीराः आजह्रुः दिग्भ्यः ओजसा।
अजात-शत्रवे भूरि द्रविणम् नृप यक्ष्यते॥ 14

श्रुत्वा अजितम् जरासन्धम् नृपतेः ध्यायतः हरिः।
आह उपायम् तम् एव अद्य उद्धवः यम् उवाच ह॥ 15

भीमसेनः अर्जुनः कृष्णः ब्रह्म-लिङ्ग-धराः त्रयः।
जग्मुः गिरिव्रजम् तात बृहद्रथ-सुतः यतः॥ 16

ते गत्वा आतिथ्य-वेलायाम् गृहेषु गृह-मेधिनम्।
ब्रह्मण्यं समयाचेरन् राजन्याः ब्रह्म-लिङ्गिनः॥ 17

राजन् विद्धि अतिथीन् प्राप्तान् अर्थिनः दूरम् आगतान्।
तत् नः प्रयच्छ भद्रं ते यत् वयम् कामयामहे॥ 18

किम् दुर्मर्षम् तितिक्षूणाम् किम् अकार्यं असाधुभिः।
किम् न देयम् वदान्यानाम् कः परः सम-दर्शिनाम्॥ 19

यः अनित्येन शरीरेण सताम् गेयं यशः ध्रुवम्।
न आचिनोति स्वयम् कल्पः सः वाच्यः शोच्यः एव सः॥ 20

हरिश्चन्द्रः रन्तिदेवः उञ्छ-वृत्तिः शिबिः बलिः।
व्याधः कपोतः बहवः हि अध्रुवेण ध्रुवम् गताः॥ 21

श्री-शुकः उवाच –
स्वरैः आकृतिभिः तान् तु प्रकोष्ठैः ज्या-हतैः अपि।
राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत्॥ 22

राजन्य-बन्धवः हि एते ब्रह्म-लिङ्गानि बिभ्रति।
ददामि भिक्षितम् तेभ्यः आत्मानम् अपि दुष्ट्यजम्॥ 23

बलेः नु श्रूयते कीर्तिः वितता दिक्षु अकल्मषा।
ऐश्वर्यात् भ्रंशितस्य अपि विप्र-व्याजेन विष्णुना॥ 24

श्रियम् जिहीर्षता इन्द्रस्य विष्णवे द्विज-रूपिणे।
जानन् अपि महीम् प्रादात् वार्यमाणः अपि दैत्य-राट्॥ 25

जीवता ब्राह्मण-अर्थाय कः नु अर्थः क्षत्र-बन्धुना।
देहेन पतमानेन न इहता विपुलम् यशः॥ 26

इति उदार-मतिः प्राह कृष्ण-अर्जुन-वृकोदरान्।
हे विप्राः व्रियताम् कामः ददामि आत्म-शिरः अपि वः॥ 27

श्री-भगवान् उवाच –
युद्धम् नः देहि राजेन्द्र द्वन्द्वशः यदि मन्यसे।
युद्ध-अर्थिनः वयम् प्राप्ताः राजन्याः न अन्न-काङ्क्षिणः॥ 28

असौ वृकोदरः पार्थः तस्य भ्राता अर्जुनः हि अयम्।
अनयोः मातुलेयम् माम् कृष्णम् जानीहि ते रिपुम्॥ 29

एवम् आवेदितः राजा जहास उच्चैः स्म मागधः।
आह च आमर्षितः मन्दः युद्धम् तर्हि ददामि वः॥ 30

न त्वया भीरुणा योत्स्ये युधि विक्लव-चेतसा।
मथुराम् स्व-पुरीम् त्यक्त्वा समुद्रम् शरणम् गतः॥ 31

अयम् तु वयसा तुल्यः न अति-सत्त्वः न मे समः।
अर्जुनः न भवेत् योद्धा भीमः तुल्य-बलः मम॥ 32

इति उक्त्वा भीमसेनाय प्रादाय महतीम् गदाम्।
द्वितीयाम् स्वयम् आदाय निर्जगाम पुरात् बहिः॥ 33

ततः समे खले वीरौ संयुक्तौ इतरेतरौ।
जघ्नतुः वज्र-कल्पाभ्याम् गदाभ्याम् रण-दुर्मदौ॥ 34

मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च।
चरतोः शुशुभे युद्धम् नटयोः इव रङ्गिणोः॥ 35

ततः चटचट-शब्दः वज्र-निष्पेष-सन्निभः।
गदयोः क्षिप्तयोः राजन् दन्तयोः इव दन्तिनोः॥ 36

ते वै गदे भुज-जवेन निपात्यमाने।
अन्योन्यतः अंस-कटि-पाद-करोरु-जत्रून्।
चूर्णीबभूवतुः उपेत्य यथा अर्क-शाखे।
संयुध्यतोः द्विरदयोः इव दीप्त-मन्व्योः॥ 37

इथं तयोः प्रहतयोः गदयोः नृ-वीरौ।
क्रुद्धौ स्व-मुष्टिभिः अयः-स्पर्शैः अपिष्टाम्।
शब्दः तयोः प्रहरतोः इभयोः इव आसीत्।
निर्घात-वज्र-परुषः तल-ताडन-उत्थः॥ 38

तयोः एवम् प्रहरतोः सम-शिक्षा-बल-ओजसोः।
निर्विशेषम् अभूत् युद्धम् अक्षीण-जवयोः नृप॥ 39

एवम् तयोः महा-राज युध्यतोः सप्त-विंशतिः।
दिनानि निरगम् तत्र सुहृत्-वत् निशि तिष्ठतोः॥ 40

एकदा मातुलेयम् वै प्राह राजन् वृकोदरः।
न शक्तः अहम् जरासन्धम् निर्जेतुम् युधि माधव॥ 41

शत्रोः जन्म-मृती विद्वान् जीवितम् च जरा-आकृतम्।
पार्थम् आप्याययन् स्वेन तेजसा अचिन्तयत् हरिः॥ 42

सञ्चिन्त्य अरि-वध-उपायम् भीमस्य अमोघ-दर्शनः।
दर्शयामास विटपम् पाटयन् इव संज्ञया॥ 43

तत् विज्ञाय महा-सत्त्वः भीमः प्रहरताम् वरः।
गृहीत्वा पादयोः शत्रुम् पातयामास भूतले॥ 44

एकम् पादम् पद-अाक्रम्य दोर्भ्याम् अन्यम् प्रगृह्य सः।
गुदतः पाटयामास शाखाम् इव महा-गजः॥ 45

एक-पाद-उरु-वृषण-कटि-पृष्ठ-स्तन-अंसके।
एक-बाहु-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः॥ 46

हाहाकारः महाअासीत् निहते मगध-ईश्वरे।
पूजयामासतुः भीमम् परिरभ्य जय-अाच्यतौ॥ 47

सहदेवम् तत् तनयम् भगवान् भूत-भावनः।
अभ्यषिञ्चत् अमेय-आत्मा मगधानाम् पतिम् प्रभुः।
मोचयामास राजन्यान् संरुद्धान् मागधेन ये॥ 48

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्धवधो नाम द्विसप्ततितमोऽध्यायः॥72

ஸ்கந்தம் 10: அத்யாயம் 71 (கண்ணன் இந்த்ரப்ரஸ்தம் வருகை- ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன்

இந்த்ரப்ரஸ்தம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 71

श्री-शुकः उवाच -
इति उदीरितम् आकर्ण्य देव-ऋषेः उद्धवः अब्रवीत्।
सभ्यानाम् मतम् आज्ञाय कृष्णस्य च महा-मतिः॥ 1

श्री-उद्धवः उवाच -
यत् उक्तम् ऋषिणा देव साचिव्यम् यक्ष्यतः त्वया।
कार्यं पैतृष्वसेयस्य रक्षा च शरण-ईषिणाम्॥ 2

यष्टव्यम् राजसूयेन दिक्-चक्र-जयिना विभो।
अतः जरासुत-जये उभय-अर्थः मतः मम॥ 3

अस्माकम् च महान्-अर्थः हि एतेन एव भविष्यति।
यशः च तव गोविन्द राज्ञः बद्धान् विमुञ्चतः॥ 4

सः वै दुर्विषहः राजा नाग-अयुत-समः बले।
बलिनाम् अपि च अन्येषाम् भीमम् समबलम् विना॥ 5

द्वै-रथे सः तु जेतव्यः मा शत-अक्षौहिणी-युतः।
ब्रह्मण्यः अभ्यर्थितः विप्रैः न प्रत्याख्याति कर्हिचित्॥ 6

ब्रह्म-वेष-धरः गत्वा तम् भिक्षेत वृकोदरः।
हनिष्यति न सन्देहः द्वै-रथे तव सन्निधौ॥ 7

निमित्तम् परम्-ईशस्य विश्व-सर्ग-निरोधयोः।
हिरण्यगर्भः शर्वः च कालस्य अ-रूपिणः तव॥ 8

गायन्ति ते विशद-कर्म गृहेषु देव्यः
राज्ञाम् स्व-शत्रु-वधम् आत्म-विमोक्षणम् च।
गोप्यः च कुञ्जर-पतेः जनक-आत्मजायाः
पित्रोः च लब्ध-शरणाः मुनयः वयम् च॥ 9

जरासन्ध-वधः कृष्ण भूरि-अर्थाय उपकल्पते।
प्रायः पाक-विपाकेन तव च अभिमतः क्रतुः॥ 10

श्री-शुकः उवाच -
इति उद्धव-वचः राजन् सर्वतः-भद्रम् अच्युतम्।
देव-ऋषिः यदु-वृद्धाः च कृष्णः च प्रत्यपूजयन्॥ 11

अथ आदेशत् प्रयाणाय भगवान् देवकी-सुतः।
भृत्यान् दारुक-जैत्र-आदीन् अनुज्ञाप्य गुरून् विभुः॥ 12

निर्गम्य अवरोधान् स्वान् स-सुतान् स-परिच्छदान्।
सङ्कर्षणम् अनुज्ञाप्य यदु-राजम् च शत्रु-हन्।
सूतः उपनीतम् स्व-रथम् आरुहत् गरुड-ध्वजम्॥ 13

ततः रथ-द्विप-भट-सादि-नायकैः
करालया परिवृतः आत्म-सेनया।
मृदङ्ग-भेरि-आनक-शङ्ख-गोमुखैः
प्रघोष-घोषित-ककुभः निराक्रमत्॥ 14

नृ-अश्व-इक-काञ्चन-शिबिकाभिः अच्युतम्
सः आत्मजाः पतिम् अनु सुव्रताः ययुः।
वर-अम्बर-आभरण-विलेपन-स्रजः
सुसंवृता नृभिः असी-चर्म-पाणिभिः॥ 15

नर-उष्ट्र-गौ-महिष-खर-अश्व-तर्जनः
करेणुभिः परिजन-वार-योषितः।
स्व-अलङ्कृताः कट-कुटि-कम्बल-अम्बरात्
उपस्कराः ययुः अधि-युज्य सर्वतः॥ 16

बलम् बृहत्-ध्वज-पट-छत्र-चामरैः
वर-आयुध-आभरण-किरीट-वर्मभिः।
दिवा-अंशुभिः तुमुल-रवम् बभौ रवेः
यथा अर्णवः क्षुभित-तिमिङ्गिल-उर्मिभिः॥ 17

अथ मुनिः यदु-पतिना सभाजितः
प्रणम्य तम् हृदि विदधत् विहायसा।
निशम्य तत्-व्यवसितम् आहृत-अर्हणः
मुकुन्द-दर्शन-निर्वृत-इन्द्रियः॥ 18

राज-दूतम् उवाच इदम् भगवान् प्रीणयन् गिरा।
मा भैष्ठ दूत भद्रम् वः घातयिष्यामि मागधम्॥ 19

इति उक्तः प्रस्थितः दूतः यथावत् अवदत् नृपान्।
ते अपि सन्दर्शनम् शौरेः प्रत्यैक्षन् यत् मुमुक्षवः॥ 20

आनर्त-सौवीर-मरून् तीर्त्वा विनशनम् हरिः।
गिरीन् नदीः अतीत् याय पुर-ग्राम-व्रज-आकरान्॥ 21

ततः दृषद्वतीम् तीर्त्वा मुकुन्दः अथ सरस्वतीम्।
पञ्चालान् अथ मत्स्यान् च शक्र-प्रस्थम् अथ अगमत्॥ 22

तम् उपागतम् आकर्ण्य प्रीतः दुर्दर्शनम् नृणाम्।
अजात-शत्रुः निरगात् सः उपाध्यायः सुहृत्-वृतः॥ 23

गीतः वादित्र-घोषेण ब्रह्म-घोषेण भूयसा।
अभ्ययात् सः हृषीकेशम् प्राणाः प्राणम् इव आदृतः॥ 24

दृष्ट्वा विक्लिन्न-हृदयः कृष्णम् स्नेहेन पाण्डवः।
चिरात् दृष्टम् प्रिय-तमम् सः सस्वजे अथ पुनः पुनः॥ 25

दोर्भ्याम् परिष्वज्य रमा-अमल-आलयम्
मुकुन्द-गात्रम् नृपतिः हत-अशुभः।
लेभे पराम् निर्वृतिम् अश्रु-लोचनः
हृष्यत्-तनुः विस्मृत-लोक-विभ्रमः॥ 26

तम् मातुलेयम् परिरभ्य निर्वृतः
भीमः स्मयन् प्रेम-जल-आकुल-इन्द्रियः।
यमौ किरीटी च सुहृत्-तमम् मुदा
प्रवृद्ध-बाष्पाः परिरेभिरे अच्युतम्॥ 27

अर्जुनेन परिष्वक्तः यमाभ्याम् अभिवादितः।
ब्राह्मणेभ्यः नमस्कृत्य वृद्धेभ्यः च यथार्हतः॥ 28

मानिनः मानयामास कुरु-सृञ्जय-कैकेयान्।
सूत-मागध-गन्धर्वा वन्दिनः च उपमन्त्रिणः॥ 29

मृदङ्ग-शङ्ख-पटह-वीणा-पणव-गोमुखैः।
ब्राह्मणाः च अरविन्द-आक्षम् तुष्टुवुः ननृतुः जगुः॥ 30

एवम् सुहृद्‌भिः पर्यस्तः पुण्य-श्लोक-शिखा-मणिः।
संस्तूयमानः भगवान् विवेश अलङ्कृतम् पुरम्॥ 31

संसिक्त-वर्त्म करिणाम् मद-गन्ध-तोयैः
चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः।
मृष्ट-आत्मभिः नव-दुकूल-विभूषण-स्रक्-
गन्धैः नृभिः युवतिभिः च विराज-मानम्॥ 32

उद्दीप्त-दीप-बलिभिः प्रति-सद्म-जाल-
निर्यात-धूप-रुचिरम् विलसत्-पताकम्।
मूर्धनि-अहेम-कलशैः रजत-उरु-शृङ्गैः
जुष्टम् ददर्श भवनैः कुरु-राज-धाम॥ 33

प्राप्तम् निशम्य नर-लोचन-पान-पात्र-
मौत्सुक्य-विश्लथित-केश दुकूल-बन्धाः।
सद्यः विसृज्य गृह-कर्म पतीन् च तल्पे
द्रष्टुम् ययुः युवतयः स्म नरेन्द्र-मार्गे॥ 34

तस्मिन् सु-सङ्कुलम् इभ-अश्व-रथ-द्विपद्भिः
कृष्णम् स-भार्यम् उपलभ्य गृह-आधिरूढाः।
नार्यः विकीर्य कुसुमैः मनसा उपगुह्य
सु-स्वागतम् विदधुः उत्स्मय-वीक्षितेन॥ 35

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीः
ताराः यथा उडुप-सहाः किम् अकार्यम् ऊभिः।
यत् चक्षुषाम् पुरुष-मौलिः उदार-हास-
लीला-अवलोक-कलया उत्सवम् आतनोति॥ 36

तत्र तत्र उपसङ्गम्य पौराः मङ्गल-पाणयः।
चक्रुः सपर्याम् कृष्णाय श्रेणी-मुख्याः हत-एिनसः॥ 37

अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः।
स-सम्भ्रमैः अभ्युपेतः प्राविशत् राज-मन्दिरम्॥ 38

पृथा विलोक्य भ्रात्रेयम् कृष्णम् त्रिभुवन-ईश्वरम्।
प्रीत-आत्मा उत्थाय पर्यङ्कात् स-स्त्रुषा परिषस्वजे॥ 39

गोविन्दम् गृहम् आनीय देव-देव-ईशम् आदृतः।
पूजायाम् न अविदत् कृत्यम् प्रमोद-उपहतः नृपः॥ 40

पितृस्वसुः-गुरु-स्त्रीणाम् कृष्णः च अक्रेत् अभिवादनम्।
स्वयम् च कृष्णया राजन् भगिन्या च अभिवन्दितः॥ 41

श्वश्र्वा सञ्चोदिता कृष्णा कृष्ण-पत्नीः च सर्वशः।
आनर्च रुक्मिणीम् सत्याम् भद्राम् जाम्बवतीम् तथा॥ 42

कालिन्दीम् मित्रविन्दाम् च शैब्याम् नाग्नजितीम् सतीम्।
अन्याः च अभ्यागताः याः तु वासः-स्रक्-मण्डन-आदिभिः॥ 43

सुखम् निवासयामास धर्म-राजः जनार्दनम्।
स-सैन्यम् स-अनुगाम् अत्यम् स-भार्यम् च नवम् नवम्॥ 44

तर्पयित्वा खाण्डवेन वह्निम् फाल्गुन-संयुतः।
मोचयित्वा मयम् येन राज्ञे दिव्या सभा कृता॥ 45

उवास कतिचित् मासान् राज्ञः प्रिय-चिकीर्षया।
विहरन् रथम् आरुह्य फाल्गुनेन भटैः वृतः॥ 46

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्य इंद्रप्रस्थगमनं नाम एकसप्ततितमोऽध्यायः॥ 71

ஸ்கந்தம் 10: அத்யாயம் 70 (ராஜஸூயம் செல்வதா? ஜராஸந்தனை கொல்வதா? - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ராஜஸூயம் செல்வதா? ஜராஸந்தனை கொல்வதா?

ஸ்கந்தம் 10: அத்யாயம் 70

श्री शुक उवाच
अथ उषस्य उपवृत्तायां कुक्कुटान् कूजतः अशपन् ।
गृहीत-कण्ठ्यः पतिभिः माधव्यः विरह-आतराः ॥ 1

वयांसि अरूरुवन् कृष्णम् बोधयन्ती इव वन्दिनः ।
गायत्सु अलीषु अनिद्राणि मन्दार-वन-वायुभिः ॥ 2

मुहूर्तम् तम् तु वैदर्भी न अमृष्यत अतिशोभनम् ।
परिरम्भण-विश्लेषात् प्रिय-बाहु-अन्तरं गता ॥ 3

ब्राह्मे मुहूर्ते उत्थाय वारि उपस्पृश्य माधवः ।
दध्यौ प्रसन्न-करण आत्मानं तमसः परम् ॥ 4

एकं स्वयम्-ज्योतिः अनन्यम् अव्ययम्
स्वसंस्थया नित्य-निरस्त-कल्मषम् ।
ब्रह्म-आख्यम् अस्य उद्‌भव-नाश-हेतुभिः
स्वशक्तिभिः लक्षित-भाव-निर्वृतिम् ॥ 5

अथ आप्लुतः अम्भसि अमले यथाविधि
क्रिया-कलापं परिधाय वाससी ।
चकार सन्ध्या-उपगम-आदि सत्तमः
हुत-अनलः ब्रह्म जजाप वाक्-यतः ॥ 6

उपस्थाय अर्कम् उद्यन्तं तर्पयित्वा आत्मनः कलाः ।
देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य च आत्मवान् ॥ 7

धेनूनां रुक्म-श्रृङ्गीणां साध्वीनां मौक्तिक-स्रजाम् ।
पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ 8

ददौ रूप्य-खुर-अग्राणां क्षौम-अजिन-तिलैः सह ।
अलङ्कृतेभ्यः विप्रेभ्यः बद्वं बद्वं दिने दिने ॥ 9

गो-विप्र-देवता-वृद्ध-गुरून् भूतानि सर्वशः ।
नमस्कृत्य आत्म-सम्भूतिः मङ्गलानि समस्पृशत् ॥ 10

आत्मानं भूषयामास नर-लोक-विभूषणम् ।
वासोभिः भूषणैः स्वीयैः दिव्य-स्रक्-अनुलेपनैः ॥ 11

अवेक्ष्य आज्यम् तथा आदर्शं गो-वृष-द्विज-देवताः ।
कामान् च सर्व-वर्णानां पौर-अन्तःपुर-चारिणाम्
प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ 12

संविभज्य अग्रतः विप्रान् स्रक्-ताम्बूल-अनुलेपनैः ।
सुहृदः प्रकृतीः दारान् उपायुङ्क्त ततः स्वयम् ॥ 13

तावत् सूतः उपानीय स्यन्दनं परम-अद्भुतम् ।
सुग्रीव-आद्यैः हयैः युक्तं प्रणम्य अवस्थितः अग्रतः ॥ 14

गृहीत्वा पाणिना पाणी सारथेः तम् अथ आरुहत् ।
सात्यकि-उद्धव-संयुक्तः पूर्व-अद्रिम् इव भास्करः ॥ 15

ईक्षितः अन्तःपुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः ।
कृच्छ्रात् विसृष्टः निरगात् जात-हासः हरन् मनः ॥ 16

सुधर्मा-आख्यां सभां सर्वैः वृष्णिभिः परिवारितः ।
प्राविशत् यत् निविष्टानां न सन्ति अङ्ग षड् ऊर्मयः ॥ 17

तत्र उपविष्टः परम-आसने विभुः
बभौ स्व-भासा ककुभः अवभासयन् ।
वृतः नृसिंहैः यदुभिः यदूत्तमः
यथा उडु-राजः दिवि तारका-गणैः ॥ 18

तत्र उपमंत्रिणः राजन् नाना-हास्य-रसैः विभुम् ।
उपतस्थुः नट-आचार्याः नर्तक्यः ताण्डवैः पृथक् ॥ 19

मृदङ्ग-वीणा-मुरज-वेणु-ताल-दर-स्वनैः ।
ननृतुः जगुः तुष्टुवुश् च सूत-मागध-वन्दिनः ॥ 20

तत्र आहुः ब्राह्मणाः केचित् आसीनाः ब्रह्मवादिनः।
पूर्वेषाम् पुण्य-यशसाम् राज्ञाम् च आकथयन् कथाः॥ 21

तत्र एकः पुरुषः राजन् आगतः अपूर्व-दर्शनः।
विज्ञापितः भगवते प्रतीहारैः प्रवेशितः॥ 22

सः नमस्कृत्य कृष्णाय परेशाय कृत-अञ्जलिः।
राज्ञाम् आवेदयत् दुःखम् जरासन्ध-निरोध-जम्॥ 23

ये च दिक्-विजये तस्य सन्नतिम् न ययुः नृपाः।
प्रसह्य रुद्धाः तेन आसन् अयुते द्वे गिरिव्रजे॥ 24

कृष्ण कृष्ण अ-प्रमेय-आत्मन् प्रपन्न-भय-भञ्जन।
वयम् त्वाम् शरणम् यामः भव-भीताः पृथक्-धियः॥ 25

लोकः विकर्म-निरतः कुशले प्रमत्तः
कर्मणि अयम् त्वत्-उदिते भवत्-अर्चने स्वे।
यः तावत् अस्य बलवान् इह जीवित-आशाम्
सद्यः छिनत्ति अ-निमिषाय नमः अस्तु तस्मै॥ 26

लोके भवान् जगत्-इनः कलया अवतीर्णः
सत्-रक्षणाय खल-निग्रहणाय च अन्यः।
कश्चित् त्वदीयम् अ-तियाति निर्देशम् ईश
किं वा जनः स्व-कृतम् ऋच्छति तत् न विद्मः॥ 27

स्वप्न-आयितम् नृप-सुखम् पर-तंत्रम् ईश
शश्वत्-भयेन मृतकेन धुरम् वहामः।
हित्वा तत् आत्मनि सुखम् त्वत्-अनिह-लभ्यम्
क्लिश्यामहे अति-कृपणाः तव मायया इह॥ 28

तत् नः भवान् प्रणत-शोक-हर-अङ्घ्रि-युग्मः
बद्धान् वियुङ्क्ष्व मगध-अह्वय-कर्म-पाशात्।
यः भूभुजः अयुतम् अतङ्गज-वीर्यम् एकः
बिभ्रत् रुरोध भवने मृग-राट् इव आवीः॥ 29

यः वै त्वया द्वि-नव-कृत्वः उदात्त-चक्रः
भग्नः मृधे खलु भवन्तम् अनन्त-वीर्यम्।
जित्वा नृ-लोक-निरतम् सकृत्-ऊढ-दर्पः
युष्मत्-प्रजाः रुजति नः अ-जित तत् विधेहि॥ 30

दूतः उवाच -
इति मागध-संरुद्धाः भवत्-दर्शन-काङ्क्षिणः।
प्रपन्नाः पाद-मूलम् ते दीनानाम् शम् विधीयताम्॥ 31

श्री-शुकः उवाच -
राज-दूते ब्रुवति एवम् देवर्षिः परम-द्युतिः।
बिभ्रत् पिङ्ग-जटा-भारम् प्रादुरासीद् यथा रविः॥ 32

तम् दृष्ट्वा भगवान् कृष्णः सर्व-लोक-ईश्वर-ईश्वरः।
ववन्द उप्त्थितः शीर्ष्णा स-सभ्यः स-अनुगः मुदा॥ 33

स-भाजयित्वा विधिवत् कृत-आसन-परिग्रहम्।
बभाषे सु-नृतैः वाक्यैः श्रद्धया तर्पयन् मुनिम्॥ 34

अपि स्वित् अद्य लोकानाम् त्रयाणाम् अ-कुतः-भयम्।
ननु भूयान् भगवतः लोकान् पर्यटतः गुणः॥ 35

न हि ते अ-विदितम् किञ्चित् लोकेषु ईश्वर-कर्तृषु।
अथ पृच्छामहे युष्मान् पाण्डवानाम् चिकीर्षितम्॥ 36

श्री-नारदः उवाच -
दृष्टा माया ते बहुशः दुरत्यया
माया विभो विश्व-सृजः च मायिनः।
भूतेषु भूमन् चरतः स्व-शक्तिभिः
वह्नेः इव अच्छन्न-रुचः न मे अद्भुतम्॥ 37

तव ईहितम् कः अर्हति साधु वेदितुम्
स्व-मायया इदम् सृजतः नियच्छतः।
यत् विद्यमान-आत्मतया अवभासते
तस्मै नमः ते स्व-विलक्षण-आत्मने॥ 38

जीवस्य यः संसरतः विमोक्षणम्
न जानतः अनर्थ-वहात् शरीरतः।
लीला-अवतारैः स्व-यशः प्रदीपकम्
प्राज्वालयत् त्वा तम् अहम् प्रपद्ये॥ 39

अथ अपि आश्रावये ब्रह्म नर-लोक-विडम्बनम्।
राज्ञः पैतृ-ष्वसियस्य भक्तस्य च चिकीर्षितम्॥ 40


यक्ष्यति त्वाम् मख-इन्द्रेण राजसूयेन पाण्डवः।
पारमेष्ठ्य-कामः नृपतिः तत् भवान् अनुमोदताम्॥ 41

तस्मिन् देव क्रतुः-वरे भवन्तम् वै सुर-आदयः।
दिदृक्षवः समेष्यन्ति राजानः च यशस्विनः॥ 42

श्रवणात् कीर्तनात् ध्यानात् पूयन्ते अन्तेवसायिनः।
तव ब्रह्ममयस्य ईश किम् उत् ईक्षा-अभिमर्शिनः॥ 43

यस्य अमलम् दिवि यशः प्रथितम् रसायाम्
भूमौ च ते भुवन-मङ्गल दिक्-वितानम्।
मन्दाकिनी इति दिवि भोगवती इति च अधः
गङ्गा इति च इह चरण-अम्बु पुनाति विश्वम्॥ 44

श्री-शुकः उवाच -
तत्र तेषु आत्म-पक्षेषु गृह्णत्सु विजिगीषया।
वाचः पेशैः स्मयन् भृत्यम् उद्धवम् प्राह केशवः॥ 45

श्री-भगवान् उवाच -
त्वम् हि नः परमम् चक्षुः सुहृत्-मन्त्र-अर्थ-तत्त्व-वित्।
तथा अत्र ब्रूहि अनुस्थेयं श्रद्दध्मः करवाम तत्॥ 46

इति उपामंत्रितः भर्त्रा सर्वज्ञेन अपि मुग्धवत्।
निदेशम् शिरसा आधाय उद्धवः प्रत्यभाषत॥ 47

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे भगवद्यानविचारे नाम सप्ततितमोऽध्यायः॥ 70

ஸ்கந்தம் 10: அத்யாயம் 69 (நாரதர் துவாரகை வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 நாரதர்

துவாரகை வருகை

ஸ்கந்தம் 10: அத்யாயம் 69

श्री-शुक उवाच –
नरकम् निहतम् श्रुत्वा तथा उद्वाहम् च योषिताम्।
कृष्णेन एकेन बह्वीनाम् तत् दिदृक्षुः स्म नारदः॥ 1

चित्रम् बत एतत् एका इव वपुषा युगपत् पृथक्।
गृहेषु द्वि-अष्ट-साहस्रम् स्त्रियः एकः उदावहत्॥ 2

इति उत्सुकः द्वारवतीम् देव-ऋषिः द्रष्टुम् आगमत्।
पुष्पित-उपवन-आराम द्विज-आलि-कुल-नादिताम्॥ 3

उत्फुल्ल-इन्दीवर-अम्भोज कह्लार-कुमुद-उत्पलैः।
छुरितेषु सरः-सूच्चैः कूजिताम् हंस-सारसैः॥ 4

प्रासाद-लक्षैः नवभिः जुष्टाम् स्फाटिक-राजतैः।
महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः॥ 5

विभक्त-रथ्या-पथ-चत्वर-अपणैः
शाला-सभा-अभी रुचिराम् सुरालयैः।
संसिक्त-मार्ग-अङ्गण-वीथि-देहलीम्
पतत्-पताका-ध्वज-वारित-आतपाम्॥ 6

तस्याम् अन्तःपुरम् श्रीमत् अर्चितम् सर्व-धिष्ण्यपैः।
हरेः स्व-कौशलम् यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम्॥ 7

तत्र षोडशभिः सद्म-सहस्रैः समलङ्कृतम्।
विवेश एकतमम् शौरेः पत्‍नीनाम् भवनम् महत्॥ 8

विष्टब्धम् विद्रुम-स्तम्भैः वैदूर्य-फलक-उत्तमैः।
इन्द्रनील-मयैः कुड्यैः जगत्या च आहत-त्विषा॥ 9

वितानैः निर्मितैः त्वष्ट्रा मुक्तादाम-विलम्बिभिः।
दान्तैः आसन-पर्यङ्कैः मणि-उत्तम-परिष्कृतैः॥ 10

दासीभिः निष्क-कण्ठीभिः सुवासोभिः अलङ्कृतम्।
पुम्भिः स-कञ्चुक-उष्णीष सुवस्त्र-मणि-कुण्डलैः॥ 11

रत्न-प्रदीप-निकर-द्युतिभिः निरस्त
ध्वान्तम् विचित्र-वलभीषु शिखण्डिनः अङ्गे।
नृत्यन्ति यत्र विहित-अगुरु-धूप-मक्षैः
निर्यान्तम् ईक्ष्य घन-बुद्धयः उन्नदन्तः॥ 12

तस्मिन् समान-गुण-रूप-वयः-सुवेष
दासी-सहस्र-युतया अनु-सवम् गृहिण्या।
विप्रः ददर्श चमर-व्यजनेन रुक्म
दण्डेन सात्वत-पतिम् परिवीजयन्त्या॥ 13

तम् सन्निरीक्ष्य भगवान् सहसा उत्थितः श्री–
पर्यङ्कतः सकल-धर्म-भृताम् वरिष्ठः।
आनम्य पाद-युगलम् शिरसा किरीट–
जुष्टेन साञ्जलिः अवीविशत् आसेने स्वे॥ 14

तस्य अवनिज्य चरणौ तत् अपः स्व-मूर्ध्ना
बिभ्रत् जगत्-गुरु-तमः अपि सताम् पतिः हि।
ब्रह्मण्य-देव इति यत् गुण-नाम युक्तम्
तस्य एव यत् चरण-शौचम् अशेष-तीर्थम्॥ 15

सम्पूज्य देव-ऋषि-वर्म्यम् ऋषिः पुराणः
नारायणः नर-सखः विधिना उदितेन।
वाण्या अभिभाष्य मित-या अमृतम् इष्टया तम्
प्राह प्रभो भगवते करवाम हे किम्॥ 16

श्री-नारद उवाच –
न एव अद्भुतम् त्वयि विभो अखिल-लोक-नाथे
मैत्री जनेषु सकलेषु दमः खलानाम्।
निःश्रेयसाय हि जगत्-स्थितिः रक्षणाभ्याम्
स्वैर-avatāra उरु-गाय विदाम सुष्ठु॥ 17

दृष्टम् तव अङ्घ्रि-युगलम् जन-ता-अपवर्गम्
ब्रह्म-आदिभिः हृदि विचिन्त्यम् अगाध-बोधैः।
संसार-कूप-Patita-उत्तरण-आवलम्बम्
ध्यायन् चरामि अनुगृहाण यथा स्मृतिः स्यात्॥ 18

ततः अन्यत् आविशत् गेहम् कृष्ण-पत्‍न्याः सः नारदः।
योगेश्वर-ईश्वरस्य अङ्ग योग-माया-विवित्सया॥ 19

दीव्यन्तम् अक्षैः तत्र अपि प्रियया च उद्धवेन च।
पूजितः परया भक्त्या प्रत्युत्थान-आसन-आदिभिः॥ 20

पृष्टः च अविदुषा इव असौ कदा आयातः भवन् इति।
क्रियते किम् नु पूर्णानाम् अपूर्णैः अस्मत्-आदिभिः॥ 21

अथ अपि ब्रूहि नः ब्रह्मन् जन्म एतत् शोभनम् कुरु।
सः तु विस्मितः उत्थाय तूष्णीम् अन्यत् अगात् गृहम्॥ 22

तत्र अपि अचष्ट गोविन्दम् लालयन्तम् सुतान् शिशून्।
ततः अन्यस्मिन् गृहे अपश्यन् मज्जनाय कृत-उद्यतम्॥ 23

जुह्वन्तम् च वितान-अग्नीन् यजन्तम् पञ्चभिः मखैः।
भोजयन्तम् द्विजान् क्व अपि भुञ्जानम् अवशेषितम्॥ 24

क्व अपि सन्ध्याम् उपासीनम् जपन्तम् ब्रह्म वाग्यतम्।
एकत्र च आस्ते चर्माभ्याम् चरन्तम् असि-वर्त्मसु॥ 25

अश्वैः गजैः रथैः क्व अपि विचरन्तम् गदा-अग्रजम्।
क्वचित् शयानम् पर्यङ्के स्तूयमानम् च वन्दिभिः॥ 26

मन्त्रयन्तम् च कस्मिन् चित् मन्त्रिभिः च उद्धव-आदिभिः।
जल-क्रीडा-रतम् क्व अपि वारा-मुख्या-बला-आवृतम्॥ 27

कुत्रचित् द्विज-मुख्येभ्यः ददतम् गाः स्व-अलङ्कृताः।
इतिहास-पुराणानि श्रृण्वन्तम् मङ्गलानि च॥ 28

हसन्तम् हास्य-कथया कदाचित् प्रियया गृहे।
क्व अपि धर्मम् सेवमानम् अर्थ-कामौ च कुत्रचित्॥ 29

ध्यायन्तम् एकम् आसीनम् पुरुषम् प्रकृतेः परम्।
शुश्रूषन्तम् गुरून् क्व अपि कामैः भोगैः सपर्यया॥ 30

कुर्वन्तम् विग्रहम् कैश्चित् सन्धिम् च अन्यत्र केशवम्।
कुत्र अपि सह रामेण चिन्तयन्तम् सताम् शिवम्॥ 31

पुत्राणाम् दुहितॄणाम् च काले विवाह-उपायपनम्।
दारैः वरैः तत्-सदृशैः कल्पयन्तम् विभूतिभिः॥ 32

प्रस्थापन-उपनयनैः अपत्यानाम् महा-उत्सवान्।
वीक्ष्य योगेश्वर-ईश्वरस्य येषाम् लोकाः विसिस्मिरे॥ 33

यजन्तम् सकलान् देवान् क्व अपि क्रतुभिः ऊर्जितैः।
पूर्तयन्तम् क्वचित् धर्मम् कूप-आराम-मठ-आदिभिः॥ 34

चरन्तम् मृगयाम् क्व अपि हयम् आरुह्य सैन्धवम्।
घ्नन्तम् ततः पशून् मेध्यान् परीतम् यदु-पुङ्गवैः॥ 35

अव्यक्त-लिङ्गम् प्रकृतिषु अन्तःपुर-गृह-आदिषु।
क्वचित् चरन्तम् योगेशम् तत्-तत्-भाव-बुभुत्सया॥ 36

अथ उवाच हृषीकेशम् नारदः प्रहसन् इव।
योग-माया-उदयं वीक्ष्य मानुषीम् ईयुषः गतिम्॥ 37

विदाम योग-मायाः ते दुर्दर्शा अपि मायिनाम्।
योगेश्वर-आत्मन् निर्भाता भवत्-पाद-निषेवया॥ 38

अनुजानीहि माम् देव लोकान् ते यशसा आप्लुतान्।
पर्यटामि तव उद्गायन् लीलाम् भुवन-पावनीम्॥ 39

श्री-भगवान् उवाच –
ब्रह्मन् धर्मस्य वक्ता अहम् कर्ता तत् अनु-मोदिता।
तत् शिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः॥ 40

श्रीशुक उवाच –
इति आचरन्तम् सत्-धर्मान् पावनान् गृहमेधिनाम्।
तम् एव सर्व-गेहेषु सन्तम् एकम् ददर्श ह॥ 41

कृष्णस्य अनन्त-वीर्यस्य योग-माया-मह-उदयम्।
मुहुः दृष्ट्वा ऋषिः अभूत् विस्मितः जात-कौतुकः॥ 42

इति अर्थ-काम-धर्मेषु कृष्णेन श्रद्धित-आत्मना।
सम्यक् सभाजितः प्रीतः तम् एव अनुस्मरन् ययौ॥ 43

एवम् मनुष्य-पदवीम् अनुवर्तमानः
नारायणः अखिल-भवाय गृहीत-शक्तिः।
रेमे अङ्ग षोडश-सहस्र-वर-अङ्गनानाम्
सव्रीड-सौहृद-निरीक्षण-हास-जुष्टः॥ 44

यानि इह विश्व-विलय-उद्भव-वृत्ति-हेतुः
कर्माणि अनन्य-विषयाणि हरीः चकार।
यः तु अङ्ग गायति श्रृणोति अनुमोदते वा
भक्तिः भवेत् भगवति हि अपवर्ग-मार्गे॥ 45

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्थ्यदर्शनं नाम एकोनसप्ततितमोऽध्यायः ॥ 69


Saturday, 17 May 2025

ஸ்கந்தம் 10: அத்யாயம் 68 (சாம்பன் லக்ஷ்மணாவை மணந்து துவாரகை திரும்புதல் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 சாம்பன் லக்ஷ்மணாவை

மணந்து துவாரகை திரும்புதல்

ஸ்கந்தம் 10: அத்யாயம் 68

श्री शुक उवाच
दुर्योधन सुताम् राजन् लक्ष्मणाम् समितिं-जयः।
स्वयंवर स्थाम् अहरत् साम्बः जाम्बवती सुतः॥ 1

कौरवाः कुपिताः ऊचुः दुर्विनीतः अयम् अर्भकः।
कदर्थीकृत्य नः कन्याम् अकामाम् अहरत् बलात्॥ 2

बध्नीता इम् दुर्विनीतम् किम् करिष्यन्ति वृष्णयः।
ये अस्मत् प्रसाद उपचिताम् दत्ताम् नः भुञ्जते महीम्॥ 3

निगृहीतम् सुतम् श्रुत्वा यदि एष्यन्ति इह वृष्णयः।
भग्न-दर्पाः शमम् यान्ति प्राणाः इव सुसंयताः॥ 4

इति कर्णः शलः भूरिः यज्ञकेतुः सुयोधनः।
साम्बम् आरेभिरे बद्धुम् कुरु वृद्ध अनु-मोदिताः॥ 5

दृष्ट्वा अनु-धावतः साम्बः धार्तराष्ट्रान् महारथः।
प्रगृह्य रुचिरम् चापम् तस्थौ सिंहः इव एकलः॥ 6

तम् ते जिघृक्षवः क्रुद्धाः तिष्ठ तिष्ठ इति भाषिणः।
आसाद्य धन्विनः बाणैः कर्ण अग्रण्यः समाकिरन्॥ 7

सः अपविद्धः कुरुश्रेष्ठ कुरुभिः यदुनन्दनः।
न अमृष्यत तत् अचिन्त्य अर्भः सिंहः क्षुद्र मृगैः इव॥ 8

विस्फूर्ज्य रुचिरम् चापम् सर्वान् विव्याध सायकैः।
कर्ण आदि-ऋथान् वीरान् तावत्भिः युगपत् पृथक्॥ 9

चतुर्भिः चतुरः वाहान् एकैकम् च सारथीन्।
रथिनः च महा इष्वासान् तस्य तत् ते अभ्यपूजयन्॥ 10

तम् तु ते विरथम् चक्रुः चत्वारः चतुरः हयान्।
एकः तु सारथिम् जघ्ने चिच्छेद अन्यः शर आसनम्॥ 11

तम् बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवः युधि।
कुमारम् स्वस्य कन्याम् च स्वपुरम् जयिनः अविशन्॥ 12

तत् श्रुत्वा नारद उक्तेन राजन् सञ्जात मन्यवः।
कुरून् प्रत्य् उद्यमम् चक्रुः उग्रसेन प्रचोदिताः॥ 13

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि पुंगवान्।
न ऐच्छत् कुरूणाम् वृष्णीनाम् कलिम् कलि-मल-अपहः॥ 14

जगाम हस्तिन पुरम् रथेन आदित्य वर्चसा।
ब्राह्मणैः कुल वृद्धैः च वृतः चन्द्रः इव ग्रहैः॥ 15

गत्वा गजाह्वयम् रामः बाह्य उपवनम् आस्थितः।
उद्धवम् प्रेषयामास धृतराष्ट्रम् बुभुत्सया॥ 16

सः अभिवन्द्य अम्बिका पुत्रम् भीष्मम् द्रोणम् च बाह्लिकम्।
दुर्योधनम् च विधिवत् रामम् आगतम् अब्रवीत्॥ 17

ते अतिप्रीताः तम् आकर्ण्य प्राप्तम् रामम् सुहृत् तमम्।
तम् अर्चयित्वा अभिययुः सर्वे मङ्गल पाणयः॥ 18

तम् संगम्य यथान्यायम् गाम् अर्घ्यम् च न्यवेदयन्।
तेषाम् ये तत् प्रभाव ज्ञाः प्रणेमुः शिरसा बलम्॥ 19

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम्।
परस्परम् अथ रामः बभाषे अविक्लवम् वचः॥ 20

उग्रसेनः क्षितीश-ईशः यत् वा आज्ञापयत् प्रभुः।
तत् अव्यग्र-धियः श्रुत्वा कुरुध्वम् मा अविलम्बितम्॥ 21

यत् यूयम् बहवः तु एकम् जित्वा अधर्मेण धार्मिकम्।
अबध्नीत अथ तत् अमृष्ये बन्धूनाम् ऐक्य-काम्यया॥ 22

वीर्य-शौर्य-बल-उन्नद्धम् आत्म-शक्ति-समम् वचः।
कुरवः बलदेवस्य निशम्य ऊचुः प्रकोपिताः॥ 23

अहो महत् चित्रम् इदम् काल-गत्या दुरत्यया।
आरुरुक्षति उपानत् वै शिरः मुकुट-सेवितम्॥ 24

एते यौनेन सम्बद्धाः सह-शय्या-आसन-आशनाः।
वृष्णयः तुल्यताम् नीताः अस्मत्-दत्त-नृप-आसनाः॥ 25

चामर-व्यजने शङ्खम् आतपत्रम् च पाण्डुरम्।
किरीटम् आसनम् शय्याम् भुञ्जन्ति अस्मत्-उपेक्षया॥ 26

अलम् यदूनाम् नर-देव-लाञ्छनैः।
दातुः प्रतीपैः फणिनाम् इव अमृतम्॥
ये अस्मत्-प्रसाद-उपचिताः हि यादवाः।
आज्ञापयन्ति अद्य गत-त्रपाः बत॥ 27

कथम् इन्द्रः अपि कुरुभिः भीष्म-द्रोण-अर्जुन-आदिभिः।
अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इव उरणः॥ 28

श्री शुक उवाच
जन्म-बन्धु-श्रियः उन्नद्ध-मदाः ते भरतर्षभ।
आश्राव्य रामम् दुर्वाच्यम् असभ्याः पुरम् आविशन्॥ 29

दृष्ट्वा कुरूणाम् दौःशील्यम् श्रुत्वा अवाच्यानि च अच्युतः।
अवोचत् कोप-संरब्धः दुष्प्रेक्ष्यः प्रहसन् मुहुः॥ 30

नूनम् नाना-मद-उन्नद्धाः शान्तिम् न इच्छन्ति असाधवः।
तेषाम् हि प्रशमः दण्डः पशूनाम् लगुडः यथा॥ 31

अहो यदून् सुसंरब्धान् कृष्णम् च कुपितम् शनैः।
सान्त्वयित्वा अहम् एतेषाम् शमम् इच्छन् इह आगतः॥ 32

ते इमे मन्द-मतयः कलह-अभिरताः खलाः।
तम् माम् अवज्ञाय मुहुः दुर्भाषान् मानिनः अब्रुवन्॥ 33

न उग्रसेनः किल विभुः भोज-वृष्णि-अन्धक-ईश्वरः।
शक्र-आदयः लोक-पालाः यस्य आदेश-अनुवर्तिनः॥ 34

सुधर्मा आक्रम्यते येन पारिजातः अमर-अङ्घ्रिपः।
आनीय भुज्यते सः असौ न किल अध्यासन-अर्हणः॥ 35

यस्मिन् पाद-युगम् साक्षात् श्रीः उपास्ते अखिल-ईश्वरी।
सः नार्हति किल श्री-ईशः नर-देव-परिच्छदान्॥ 36

यस्य अङ्घ्रि-पङ्कज-रजः अखिल-लोक-पालैः।
मौलि-उत्तमैः धृतम् उपासित-तीर्थ-तीर्थम्॥
ब्रह्मा भवः अहम् अपि यस्य कलाः कलायाः।
श्रीः च उद्वहेम् चिरम् अस्य नृप-आसनम् क्व॥ 37

भुञ्जते कुरुभिः दत्तम् भू-खण्डम् वृष्णयः किल।
उपानहः किल वयम् स्वयं तु कुरवः शिरः॥ 38

अहो ऐश्वर्य-मत्तानाम् मत्तानाम् इव मानिनाम्।
असंबद्धाः गिरः रुक्षाः कः सहेत अनुशासीता॥ 39

अद्य निः-कौरवम् पृथ्वीम् करिष्यामि इति अमर्षितः।
गृहीत्वा हलम् उत्तस्थौ दहन् इव जगत् त्रयम्॥ 40

लाङ्गल-अग्रेण नगरम् उद्द्विदार्य गजाह्वयम्।
विचकर्ष सः गङ्गायाम् प्रहरिष्यन् अमर्षितः॥ 41

जल-यानम् इव अघूर्णम् गङ्गायाम् नगरम् पतत्।
आकृष्यमाणम् आलोक्य कौरवाः जात-सम्भ्रमाः॥ 42

तम् एव शरणम् जग्मुः स-कुटुम्बाः जिजीविषवः।
स-लक्ष्मणम् पुरस्कृत्य साम्बम् प्राञ्जलयः प्रभुम्॥ 43

राम राम अखिल-अधार-प्रभावम् न विदाम ते।
मूढानाम् नः कु-बुद्धीनाम् क्षन्तुम् अर्हसि अतिक्रमम्॥ 44

स्थित्य्-उत्पत्ति-अप्ययानाम् त्वम् एकः हेतुः निराश्रयः।
लोकान् क्रीडनक-ईश क्रीडतः ते वदन्ति हि॥ 45

त्वम् एव मूर्ध्नि-इदम् अनन्त लीलया
भूमण्डलम् बिभर्षि सहस्र-मूर्धन्।
अन्ते च यः स्व-आत्मनि रुद्ध-विश्वः
शेषे अद्वितीयः परिशिष्य-मानः॥ 46

कोपः ते अखिल-शिक्षा-अर्थम् न द्वेषात् न च मत्सरात्।
बिभ्रतः भगवन् सत्त्वम् स्थिति-पालन-तत्परः॥ 47

नमः ते सर्व-भूत-आत्मन् सर्व-शक्ति-धर-अव्यय।
विश्व-कर्मन् नमः अस्तु त्वाम् वयम् शरणम् गताः॥ 48

श्री-शुक उवाच –
एवम् प्रपन्नैः संविग्नैः वेपमान-आयनैः बलः।
प्रसादितः सुप्रसन्नः मा भैष्ठ इति अभयम् ददौ॥ 49

दुर्योधनः पारि-बर्‍हम् कुञ्जरान् षष्टि-हायनान्।
ददौ च द्वादश-शतानि अयुतानि तुरङ्गमान्॥ 50

रथानाम् षट्-सहस्राणि रौक्माणाम् सूर्य-वर्चसाम्।
दासीनाम् निष्क-कण्ठीनाम् सहस्रम् दुहितृ-वत्सलः॥ 51

प्रतिगृह्य तु तत् सर्वम् भगवान् सात्वत-ऋषभः।
स-सुतः स- स्नुषः प्रायात् सुहृद्भिः अभिनन्दितः॥ 52

ततः प्रविष्टः स्व-पुरम् हलायुधः
समेत्य बान्धून् अनुरक्त-चेतसः।
शशंस सर्वम् यदु-पुङ्गवानाम्
मध्ये सभायाम् कुरुषु स्व-चेष्टितम्॥ 53

अद्य अपि च पुरम् हि एतत् सूचयत् राम-विक्रमम्।
समुन्नतम् दक्षिणतः गङ्गायाम् अनुदृश्यते॥ 54