ராஜஸூயம் செல்வதா? ஜராஸந்தனை கொல்வதா?
ஸ்கந்தம் 10: அத்யாயம் 70
श्री शुक उवाच
अथ उषस्य उपवृत्तायां कुक्कुटान् कूजतः अशपन् ।
गृहीत-कण्ठ्यः पतिभिः माधव्यः विरह-आतराः ॥ 1
वयांसि अरूरुवन् कृष्णम् बोधयन्ती इव वन्दिनः ।
गायत्सु अलीषु अनिद्राणि मन्दार-वन-वायुभिः ॥ 2
मुहूर्तम् तम् तु वैदर्भी न अमृष्यत अतिशोभनम् ।
परिरम्भण-विश्लेषात् प्रिय-बाहु-अन्तरं गता ॥ 3
ब्राह्मे मुहूर्ते उत्थाय वारि उपस्पृश्य माधवः ।
दध्यौ प्रसन्न-करण आत्मानं तमसः परम् ॥ 4
एकं स्वयम्-ज्योतिः अनन्यम् अव्ययम्
स्वसंस्थया नित्य-निरस्त-कल्मषम् ।
ब्रह्म-आख्यम् अस्य उद्भव-नाश-हेतुभिः
स्वशक्तिभिः लक्षित-भाव-निर्वृतिम् ॥ 5
अथ आप्लुतः अम्भसि अमले यथाविधि
क्रिया-कलापं परिधाय वाससी ।
चकार सन्ध्या-उपगम-आदि सत्तमः
हुत-अनलः ब्रह्म जजाप वाक्-यतः ॥ 6
उपस्थाय अर्कम् उद्यन्तं तर्पयित्वा आत्मनः कलाः ।
देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य च आत्मवान् ॥ 7
धेनूनां रुक्म-श्रृङ्गीणां साध्वीनां मौक्तिक-स्रजाम् ।
पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ 8
ददौ रूप्य-खुर-अग्राणां क्षौम-अजिन-तिलैः सह ।
अलङ्कृतेभ्यः विप्रेभ्यः बद्वं बद्वं दिने दिने ॥ 9
गो-विप्र-देवता-वृद्ध-गुरून् भूतानि सर्वशः ।
नमस्कृत्य आत्म-सम्भूतिः मङ्गलानि समस्पृशत् ॥ 10
आत्मानं भूषयामास नर-लोक-विभूषणम् ।
वासोभिः भूषणैः स्वीयैः दिव्य-स्रक्-अनुलेपनैः ॥ 11
अवेक्ष्य आज्यम् तथा आदर्शं गो-वृष-द्विज-देवताः ।
कामान् च सर्व-वर्णानां पौर-अन्तःपुर-चारिणाम्
प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ 12
संविभज्य अग्रतः विप्रान् स्रक्-ताम्बूल-अनुलेपनैः ।
सुहृदः प्रकृतीः दारान् उपायुङ्क्त ततः स्वयम् ॥ 13
तावत् सूतः उपानीय स्यन्दनं परम-अद्भुतम् ।
सुग्रीव-आद्यैः हयैः युक्तं प्रणम्य अवस्थितः अग्रतः ॥ 14
गृहीत्वा पाणिना पाणी सारथेः तम् अथ आरुहत् ।
सात्यकि-उद्धव-संयुक्तः पूर्व-अद्रिम् इव भास्करः ॥ 15
ईक्षितः अन्तःपुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः ।
कृच्छ्रात् विसृष्टः निरगात् जात-हासः हरन् मनः ॥ 16
सुधर्मा-आख्यां सभां सर्वैः वृष्णिभिः परिवारितः ।
प्राविशत् यत् निविष्टानां न सन्ति अङ्ग षड् ऊर्मयः ॥ 17
तत्र उपविष्टः परम-आसने विभुः
बभौ स्व-भासा ककुभः अवभासयन् ।
वृतः नृसिंहैः यदुभिः यदूत्तमः
यथा उडु-राजः दिवि तारका-गणैः ॥ 18
तत्र उपमंत्रिणः राजन् नाना-हास्य-रसैः विभुम् ।
उपतस्थुः नट-आचार्याः नर्तक्यः ताण्डवैः पृथक् ॥ 19
मृदङ्ग-वीणा-मुरज-वेणु-ताल-दर-स्वनैः ।
ननृतुः जगुः तुष्टुवुश् च सूत-मागध-वन्दिनः ॥ 20
तत्र आहुः ब्राह्मणाः केचित् आसीनाः ब्रह्मवादिनः।
पूर्वेषाम् पुण्य-यशसाम् राज्ञाम् च आकथयन् कथाः॥ 21
तत्र एकः पुरुषः राजन् आगतः अपूर्व-दर्शनः।
विज्ञापितः भगवते प्रतीहारैः प्रवेशितः॥ 22
सः नमस्कृत्य कृष्णाय परेशाय कृत-अञ्जलिः।
राज्ञाम् आवेदयत् दुःखम् जरासन्ध-निरोध-जम्॥ 23
ये च दिक्-विजये तस्य सन्नतिम् न ययुः नृपाः।
प्रसह्य रुद्धाः तेन आसन् अयुते द्वे गिरिव्रजे॥ 24
कृष्ण कृष्ण अ-प्रमेय-आत्मन् प्रपन्न-भय-भञ्जन।
वयम् त्वाम् शरणम् यामः भव-भीताः पृथक्-धियः॥ 25
लोकः विकर्म-निरतः कुशले प्रमत्तः
कर्मणि अयम् त्वत्-उदिते भवत्-अर्चने स्वे।
यः तावत् अस्य बलवान् इह जीवित-आशाम्
सद्यः छिनत्ति अ-निमिषाय नमः अस्तु तस्मै॥ 26
लोके भवान् जगत्-इनः कलया अवतीर्णः
सत्-रक्षणाय खल-निग्रहणाय च अन्यः।
कश्चित् त्वदीयम् अ-तियाति निर्देशम् ईश
किं वा जनः स्व-कृतम् ऋच्छति तत् न विद्मः॥ 27
स्वप्न-आयितम् नृप-सुखम् पर-तंत्रम् ईश
शश्वत्-भयेन मृतकेन धुरम् वहामः।
हित्वा तत् आत्मनि सुखम् त्वत्-अनिह-लभ्यम्
क्लिश्यामहे अति-कृपणाः तव मायया इह॥ 28
तत् नः भवान् प्रणत-शोक-हर-अङ्घ्रि-युग्मः
बद्धान् वियुङ्क्ष्व मगध-अह्वय-कर्म-पाशात्।
यः भूभुजः अयुतम् अतङ्गज-वीर्यम् एकः
बिभ्रत् रुरोध भवने मृग-राट् इव आवीः॥ 29
यः वै त्वया द्वि-नव-कृत्वः उदात्त-चक्रः
भग्नः मृधे खलु भवन्तम् अनन्त-वीर्यम्।
जित्वा नृ-लोक-निरतम् सकृत्-ऊढ-दर्पः
युष्मत्-प्रजाः रुजति नः अ-जित तत् विधेहि॥ 30
दूतः उवाच -
इति मागध-संरुद्धाः भवत्-दर्शन-काङ्क्षिणः।
प्रपन्नाः पाद-मूलम् ते दीनानाम् शम् विधीयताम्॥ 31
श्री-शुकः उवाच -
राज-दूते ब्रुवति एवम् देवर्षिः परम-द्युतिः।
बिभ्रत् पिङ्ग-जटा-भारम् प्रादुरासीद् यथा रविः॥ 32
तम् दृष्ट्वा भगवान् कृष्णः सर्व-लोक-ईश्वर-ईश्वरः।
ववन्द उप्त्थितः शीर्ष्णा स-सभ्यः स-अनुगः मुदा॥ 33
स-भाजयित्वा विधिवत् कृत-आसन-परिग्रहम्।
बभाषे सु-नृतैः वाक्यैः श्रद्धया तर्पयन् मुनिम्॥ 34
अपि स्वित् अद्य लोकानाम् त्रयाणाम् अ-कुतः-भयम्।
ननु भूयान् भगवतः लोकान् पर्यटतः गुणः॥ 35
न हि ते अ-विदितम् किञ्चित् लोकेषु ईश्वर-कर्तृषु।
अथ पृच्छामहे युष्मान् पाण्डवानाम् चिकीर्षितम्॥ 36
श्री-नारदः उवाच -
दृष्टा माया ते बहुशः दुरत्यया
माया विभो विश्व-सृजः च मायिनः।
भूतेषु भूमन् चरतः स्व-शक्तिभिः
वह्नेः इव अच्छन्न-रुचः न मे अद्भुतम्॥ 37
तव ईहितम् कः अर्हति साधु वेदितुम्
स्व-मायया इदम् सृजतः नियच्छतः।
यत् विद्यमान-आत्मतया अवभासते
तस्मै नमः ते स्व-विलक्षण-आत्मने॥ 38
जीवस्य यः संसरतः विमोक्षणम्
न जानतः अनर्थ-वहात् शरीरतः।
लीला-अवतारैः स्व-यशः प्रदीपकम्
प्राज्वालयत् त्वा तम् अहम् प्रपद्ये॥ 39
अथ अपि आश्रावये ब्रह्म नर-लोक-विडम्बनम्।
राज्ञः पैतृ-ष्वसियस्य भक्तस्य च चिकीर्षितम्॥ 40
यक्ष्यति त्वाम् मख-इन्द्रेण राजसूयेन पाण्डवः।
पारमेष्ठ्य-कामः नृपतिः तत् भवान् अनुमोदताम्॥ 41
तस्मिन् देव क्रतुः-वरे भवन्तम् वै सुर-आदयः।
दिदृक्षवः समेष्यन्ति राजानः च यशस्विनः॥ 42
श्रवणात् कीर्तनात् ध्यानात् पूयन्ते अन्तेवसायिनः।
तव ब्रह्ममयस्य ईश किम् उत् ईक्षा-अभिमर्शिनः॥ 43
यस्य अमलम् दिवि यशः प्रथितम् रसायाम्
भूमौ च ते भुवन-मङ्गल दिक्-वितानम्।
मन्दाकिनी इति दिवि भोगवती इति च अधः
गङ्गा इति च इह चरण-अम्बु पुनाति विश्वम्॥ 44
श्री-शुकः उवाच -
तत्र तेषु आत्म-पक्षेषु गृह्णत्सु विजिगीषया।
वाचः पेशैः स्मयन् भृत्यम् उद्धवम् प्राह केशवः॥ 45
श्री-भगवान् उवाच -
त्वम् हि नः परमम् चक्षुः सुहृत्-मन्त्र-अर्थ-तत्त्व-वित्।
तथा अत्र ब्रूहि अनुस्थेयं श्रद्दध्मः करवाम तत्॥ 46
इति उपामंत्रितः भर्त्रा सर्वज्ञेन अपि मुग्धवत्।
निदेशम् शिरसा आधाय उद्धवः प्रत्यभाषत॥ 47
No comments:
Post a Comment