Followers

Search Here...

Sunday, 18 May 2025

ஸ்கந்தம் 10: அத்யாயம் 71 (கண்ணன் இந்த்ரப்ரஸ்தம் வருகை- ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன்

இந்த்ரப்ரஸ்தம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 71

श्री-शुकः उवाच -
इति उदीरितम् आकर्ण्य देव-ऋषेः उद्धवः अब्रवीत्।
सभ्यानाम् मतम् आज्ञाय कृष्णस्य च महा-मतिः॥ 1

श्री-उद्धवः उवाच -
यत् उक्तम् ऋषिणा देव साचिव्यम् यक्ष्यतः त्वया।
कार्यं पैतृष्वसेयस्य रक्षा च शरण-ईषिणाम्॥ 2

यष्टव्यम् राजसूयेन दिक्-चक्र-जयिना विभो।
अतः जरासुत-जये उभय-अर्थः मतः मम॥ 3

अस्माकम् च महान्-अर्थः हि एतेन एव भविष्यति।
यशः च तव गोविन्द राज्ञः बद्धान् विमुञ्चतः॥ 4

सः वै दुर्विषहः राजा नाग-अयुत-समः बले।
बलिनाम् अपि च अन्येषाम् भीमम् समबलम् विना॥ 5

द्वै-रथे सः तु जेतव्यः मा शत-अक्षौहिणी-युतः।
ब्रह्मण्यः अभ्यर्थितः विप्रैः न प्रत्याख्याति कर्हिचित्॥ 6

ब्रह्म-वेष-धरः गत्वा तम् भिक्षेत वृकोदरः।
हनिष्यति न सन्देहः द्वै-रथे तव सन्निधौ॥ 7

निमित्तम् परम्-ईशस्य विश्व-सर्ग-निरोधयोः।
हिरण्यगर्भः शर्वः च कालस्य अ-रूपिणः तव॥ 8

गायन्ति ते विशद-कर्म गृहेषु देव्यः
राज्ञाम् स्व-शत्रु-वधम् आत्म-विमोक्षणम् च।
गोप्यः च कुञ्जर-पतेः जनक-आत्मजायाः
पित्रोः च लब्ध-शरणाः मुनयः वयम् च॥ 9

जरासन्ध-वधः कृष्ण भूरि-अर्थाय उपकल्पते।
प्रायः पाक-विपाकेन तव च अभिमतः क्रतुः॥ 10

श्री-शुकः उवाच -
इति उद्धव-वचः राजन् सर्वतः-भद्रम् अच्युतम्।
देव-ऋषिः यदु-वृद्धाः च कृष्णः च प्रत्यपूजयन्॥ 11

अथ आदेशत् प्रयाणाय भगवान् देवकी-सुतः।
भृत्यान् दारुक-जैत्र-आदीन् अनुज्ञाप्य गुरून् विभुः॥ 12

निर्गम्य अवरोधान् स्वान् स-सुतान् स-परिच्छदान्।
सङ्कर्षणम् अनुज्ञाप्य यदु-राजम् च शत्रु-हन्।
सूतः उपनीतम् स्व-रथम् आरुहत् गरुड-ध्वजम्॥ 13

ततः रथ-द्विप-भट-सादि-नायकैः
करालया परिवृतः आत्म-सेनया।
मृदङ्ग-भेरि-आनक-शङ्ख-गोमुखैः
प्रघोष-घोषित-ककुभः निराक्रमत्॥ 14

नृ-अश्व-इक-काञ्चन-शिबिकाभिः अच्युतम्
सः आत्मजाः पतिम् अनु सुव्रताः ययुः।
वर-अम्बर-आभरण-विलेपन-स्रजः
सुसंवृता नृभिः असी-चर्म-पाणिभिः॥ 15

नर-उष्ट्र-गौ-महिष-खर-अश्व-तर्जनः
करेणुभिः परिजन-वार-योषितः।
स्व-अलङ्कृताः कट-कुटि-कम्बल-अम्बरात्
उपस्कराः ययुः अधि-युज्य सर्वतः॥ 16

बलम् बृहत्-ध्वज-पट-छत्र-चामरैः
वर-आयुध-आभरण-किरीट-वर्मभिः।
दिवा-अंशुभिः तुमुल-रवम् बभौ रवेः
यथा अर्णवः क्षुभित-तिमिङ्गिल-उर्मिभिः॥ 17

अथ मुनिः यदु-पतिना सभाजितः
प्रणम्य तम् हृदि विदधत् विहायसा।
निशम्य तत्-व्यवसितम् आहृत-अर्हणः
मुकुन्द-दर्शन-निर्वृत-इन्द्रियः॥ 18

राज-दूतम् उवाच इदम् भगवान् प्रीणयन् गिरा।
मा भैष्ठ दूत भद्रम् वः घातयिष्यामि मागधम्॥ 19

इति उक्तः प्रस्थितः दूतः यथावत् अवदत् नृपान्।
ते अपि सन्दर्शनम् शौरेः प्रत्यैक्षन् यत् मुमुक्षवः॥ 20

आनर्त-सौवीर-मरून् तीर्त्वा विनशनम् हरिः।
गिरीन् नदीः अतीत् याय पुर-ग्राम-व्रज-आकरान्॥ 21

ततः दृषद्वतीम् तीर्त्वा मुकुन्दः अथ सरस्वतीम्।
पञ्चालान् अथ मत्स्यान् च शक्र-प्रस्थम् अथ अगमत्॥ 22

तम् उपागतम् आकर्ण्य प्रीतः दुर्दर्शनम् नृणाम्।
अजात-शत्रुः निरगात् सः उपाध्यायः सुहृत्-वृतः॥ 23

गीतः वादित्र-घोषेण ब्रह्म-घोषेण भूयसा।
अभ्ययात् सः हृषीकेशम् प्राणाः प्राणम् इव आदृतः॥ 24

दृष्ट्वा विक्लिन्न-हृदयः कृष्णम् स्नेहेन पाण्डवः।
चिरात् दृष्टम् प्रिय-तमम् सः सस्वजे अथ पुनः पुनः॥ 25

दोर्भ्याम् परिष्वज्य रमा-अमल-आलयम्
मुकुन्द-गात्रम् नृपतिः हत-अशुभः।
लेभे पराम् निर्वृतिम् अश्रु-लोचनः
हृष्यत्-तनुः विस्मृत-लोक-विभ्रमः॥ 26

तम् मातुलेयम् परिरभ्य निर्वृतः
भीमः स्मयन् प्रेम-जल-आकुल-इन्द्रियः।
यमौ किरीटी च सुहृत्-तमम् मुदा
प्रवृद्ध-बाष्पाः परिरेभिरे अच्युतम्॥ 27

अर्जुनेन परिष्वक्तः यमाभ्याम् अभिवादितः।
ब्राह्मणेभ्यः नमस्कृत्य वृद्धेभ्यः च यथार्हतः॥ 28

मानिनः मानयामास कुरु-सृञ्जय-कैकेयान्।
सूत-मागध-गन्धर्वा वन्दिनः च उपमन्त्रिणः॥ 29

मृदङ्ग-शङ्ख-पटह-वीणा-पणव-गोमुखैः।
ब्राह्मणाः च अरविन्द-आक्षम् तुष्टुवुः ननृतुः जगुः॥ 30

एवम् सुहृद्‌भिः पर्यस्तः पुण्य-श्लोक-शिखा-मणिः।
संस्तूयमानः भगवान् विवेश अलङ्कृतम् पुरम्॥ 31

संसिक्त-वर्त्म करिणाम् मद-गन्ध-तोयैः
चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः।
मृष्ट-आत्मभिः नव-दुकूल-विभूषण-स्रक्-
गन्धैः नृभिः युवतिभिः च विराज-मानम्॥ 32

उद्दीप्त-दीप-बलिभिः प्रति-सद्म-जाल-
निर्यात-धूप-रुचिरम् विलसत्-पताकम्।
मूर्धनि-अहेम-कलशैः रजत-उरु-शृङ्गैः
जुष्टम् ददर्श भवनैः कुरु-राज-धाम॥ 33

प्राप्तम् निशम्य नर-लोचन-पान-पात्र-
मौत्सुक्य-विश्लथित-केश दुकूल-बन्धाः।
सद्यः विसृज्य गृह-कर्म पतीन् च तल्पे
द्रष्टुम् ययुः युवतयः स्म नरेन्द्र-मार्गे॥ 34

तस्मिन् सु-सङ्कुलम् इभ-अश्व-रथ-द्विपद्भिः
कृष्णम् स-भार्यम् उपलभ्य गृह-आधिरूढाः।
नार्यः विकीर्य कुसुमैः मनसा उपगुह्य
सु-स्वागतम् विदधुः उत्स्मय-वीक्षितेन॥ 35

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीः
ताराः यथा उडुप-सहाः किम् अकार्यम् ऊभिः।
यत् चक्षुषाम् पुरुष-मौलिः उदार-हास-
लीला-अवलोक-कलया उत्सवम् आतनोति॥ 36

तत्र तत्र उपसङ्गम्य पौराः मङ्गल-पाणयः।
चक्रुः सपर्याम् कृष्णाय श्रेणी-मुख्याः हत-एिनसः॥ 37

अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः।
स-सम्भ्रमैः अभ्युपेतः प्राविशत् राज-मन्दिरम्॥ 38

पृथा विलोक्य भ्रात्रेयम् कृष्णम् त्रिभुवन-ईश्वरम्।
प्रीत-आत्मा उत्थाय पर्यङ्कात् स-स्त्रुषा परिषस्वजे॥ 39

गोविन्दम् गृहम् आनीय देव-देव-ईशम् आदृतः।
पूजायाम् न अविदत् कृत्यम् प्रमोद-उपहतः नृपः॥ 40

पितृस्वसुः-गुरु-स्त्रीणाम् कृष्णः च अक्रेत् अभिवादनम्।
स्वयम् च कृष्णया राजन् भगिन्या च अभिवन्दितः॥ 41

श्वश्र्वा सञ्चोदिता कृष्णा कृष्ण-पत्नीः च सर्वशः।
आनर्च रुक्मिणीम् सत्याम् भद्राम् जाम्बवतीम् तथा॥ 42

कालिन्दीम् मित्रविन्दाम् च शैब्याम् नाग्नजितीम् सतीम्।
अन्याः च अभ्यागताः याः तु वासः-स्रक्-मण्डन-आदिभिः॥ 43

सुखम् निवासयामास धर्म-राजः जनार्दनम्।
स-सैन्यम् स-अनुगाम् अत्यम् स-भार्यम् च नवम् नवम्॥ 44

तर्पयित्वा खाण्डवेन वह्निम् फाल्गुन-संयुतः।
मोचयित्वा मयम् येन राज्ञे दिव्या सभा कृता॥ 45

उवास कतिचित् मासान् राज्ञः प्रिय-चिकीर्षया।
विहरन् रथम् आरुह्य फाल्गुनेन भटैः वृतः॥ 46

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्य इंद्रप्रस्थगमनं नाम एकसप्ततितमोऽध्यायः॥ 71

No comments: