ஜராஸந்தன் வதம்
ஸ்கந்தம் 10: அத்யாயம் 72
श्री-शुकः उवाच –
एकदा तु सभा-मध्ये आस्थितः मुनिभिः वृतः।
ब्राह्मणैः क्षत्रियैः वैश्यैः भ्रातृभिः च युधिष्ठिरः॥ 1
आचार्यैः कुल-वृद्धैः च ज्ञाति-संबन्धि-बान्धवैः।
श्रृण्वताम् एव च एतेषाम् आभाष्य इदम् उवाच ह॥ 2
युधिष्ठिरः उवाच –
क्रतुराजेन गोविन्द राजसूयेन पावनीः।
यक्ष्ये विभूतिः भवतः तत् सम्पादय नः प्रभो॥ 3
त्वत्-पादुके अविरतम् परि ये चरन्ति।
ध्यायन्ति अभद्र-नशने शुचयः गृणन्ति।
विन्दन्ति ते कमल-नाभ भव-अपवर्गम्।
आशासते यदि ते आशिषः ईश न अन्ये॥ 4
तत् देवदेव भवतः चरण-अरविन्द-
सेवा-अनुभावम् इह पश्यतु लोकः एषः।
ये त्वाम् भजन्ति न भजन्ति उत वा उभयेषाम्
निष्ठाम् प्रदर्शय विभो कुरु-सृञ्जय-आनाम्॥ 5
न ब्रह्मणः स्व-पर-भेद-मतिः तव स्यात्
सर्वात्मनः सम-दृशः स्व-सुख-अनुभूतेः।
संसेवताम् सुर-तरोः इव ते प्रसादः
सेवा-अनुरूपम् उदयः न विपर्ययः अत्र॥ 6
श्री-भगवान् उवाच –
सम्यक् व्यवसितम् राजन् भवता शत्रु-कर्शन।
कल्याणी येन ते कीर्तिः लोकान् अनु भविष्यति॥ 7
ऋषीणाम् पितृ-देवानाम् सुहृदाम् अपि नः प्रभो।
सर्वेषाम् अपि भूतानाम् इप्सितः क्रतुराट् अयम्॥ 8
विजित्य नृपतीन् सर्वान् कृत्वा च जगतीम् वशे।
संभृत्य सर्व-संभारान् आहरस्व महा-क्रतुम्॥ 9
एते ते भ्रातरः राजन् लोकपाल-अंश-सम्भवाः।
जितः अस्मि आत्मवता ते अहम् दुर्जयः यः अकृत-आत्मभिः॥ 10
न कश्चित् मत्-परम् लोके तेजसा यशसा श्रिया।
विभूतिभिः वा अभिभवेत् देवः अपि किम् उ पार्थिवः॥ 11
श्री-शुकः उवाच –
निशम्य भगवत्-गीतम् प्रीतः फुल्ल-मुख-अम्बुजः।
भ्रातृन् दिग्-विजये अयुङ्क्त विष्णु-तेजः-उपबृंहितान्॥ 12
सहदेवम् दक्षिणस्याम् आदिशत् सह सृञ्जयैः।
दिशि प्रतीच्याम् नकुलम् उदीच्याम् सव्यसाचिनम्।
प्राच्याम् वृकोदरम् मत्स्यैः केकयैः सह मद्रकैः॥ 13
ते विजित्य नृपान् वीराः आजह्रुः दिग्भ्यः ओजसा।
अजात-शत्रवे भूरि द्रविणम् नृप यक्ष्यते॥ 14
श्रुत्वा अजितम् जरासन्धम् नृपतेः ध्यायतः हरिः।
आह उपायम् तम् एव अद्य उद्धवः यम् उवाच ह॥ 15
भीमसेनः अर्जुनः कृष्णः ब्रह्म-लिङ्ग-धराः त्रयः।
जग्मुः गिरिव्रजम् तात बृहद्रथ-सुतः यतः॥ 16
ते गत्वा आतिथ्य-वेलायाम् गृहेषु गृह-मेधिनम्।
ब्रह्मण्यं समयाचेरन् राजन्याः ब्रह्म-लिङ्गिनः॥ 17
राजन् विद्धि अतिथीन् प्राप्तान् अर्थिनः दूरम् आगतान्।
तत् नः प्रयच्छ भद्रं ते यत् वयम् कामयामहे॥ 18
किम् दुर्मर्षम् तितिक्षूणाम् किम् अकार्यं असाधुभिः।
किम् न देयम् वदान्यानाम् कः परः सम-दर्शिनाम्॥ 19
यः अनित्येन शरीरेण सताम् गेयं यशः ध्रुवम्।
न आचिनोति स्वयम् कल्पः सः वाच्यः शोच्यः एव सः॥ 20
हरिश्चन्द्रः रन्तिदेवः उञ्छ-वृत्तिः शिबिः बलिः।
व्याधः कपोतः बहवः हि अध्रुवेण ध्रुवम् गताः॥ 21
श्री-शुकः उवाच –
स्वरैः आकृतिभिः तान् तु प्रकोष्ठैः ज्या-हतैः अपि।
राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत्॥ 22
राजन्य-बन्धवः हि एते ब्रह्म-लिङ्गानि बिभ्रति।
ददामि भिक्षितम् तेभ्यः आत्मानम् अपि दुष्ट्यजम्॥ 23
बलेः नु श्रूयते कीर्तिः वितता दिक्षु अकल्मषा।
ऐश्वर्यात् भ्रंशितस्य अपि विप्र-व्याजेन विष्णुना॥ 24
श्रियम् जिहीर्षता इन्द्रस्य विष्णवे द्विज-रूपिणे।
जानन् अपि महीम् प्रादात् वार्यमाणः अपि दैत्य-राट्॥ 25
जीवता ब्राह्मण-अर्थाय कः नु अर्थः क्षत्र-बन्धुना।
देहेन पतमानेन न इहता विपुलम् यशः॥ 26
इति उदार-मतिः प्राह कृष्ण-अर्जुन-वृकोदरान्।
हे विप्राः व्रियताम् कामः ददामि आत्म-शिरः अपि वः॥ 27
श्री-भगवान् उवाच –
युद्धम् नः देहि राजेन्द्र द्वन्द्वशः यदि मन्यसे।
युद्ध-अर्थिनः वयम् प्राप्ताः राजन्याः न अन्न-काङ्क्षिणः॥ 28
असौ वृकोदरः पार्थः तस्य भ्राता अर्जुनः हि अयम्।
अनयोः मातुलेयम् माम् कृष्णम् जानीहि ते रिपुम्॥ 29
एवम् आवेदितः राजा जहास उच्चैः स्म मागधः।
आह च आमर्षितः मन्दः युद्धम् तर्हि ददामि वः॥ 30
न त्वया भीरुणा योत्स्ये युधि विक्लव-चेतसा।
मथुराम् स्व-पुरीम् त्यक्त्वा समुद्रम् शरणम् गतः॥ 31
अयम् तु वयसा तुल्यः न अति-सत्त्वः न मे समः।
अर्जुनः न भवेत् योद्धा भीमः तुल्य-बलः मम॥ 32
इति उक्त्वा भीमसेनाय प्रादाय महतीम् गदाम्।
द्वितीयाम् स्वयम् आदाय निर्जगाम पुरात् बहिः॥ 33
ततः समे खले वीरौ संयुक्तौ इतरेतरौ।
जघ्नतुः वज्र-कल्पाभ्याम् गदाभ्याम् रण-दुर्मदौ॥ 34
मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च।
चरतोः शुशुभे युद्धम् नटयोः इव रङ्गिणोः॥ 35
ततः चटचट-शब्दः वज्र-निष्पेष-सन्निभः।
गदयोः क्षिप्तयोः राजन् दन्तयोः इव दन्तिनोः॥ 36
ते वै गदे भुज-जवेन निपात्यमाने।
अन्योन्यतः अंस-कटि-पाद-करोरु-जत्रून्।
चूर्णीबभूवतुः उपेत्य यथा अर्क-शाखे।
संयुध्यतोः द्विरदयोः इव दीप्त-मन्व्योः॥ 37
इथं तयोः प्रहतयोः गदयोः नृ-वीरौ।
क्रुद्धौ स्व-मुष्टिभिः अयः-स्पर्शैः अपिष्टाम्।
शब्दः तयोः प्रहरतोः इभयोः इव आसीत्।
निर्घात-वज्र-परुषः तल-ताडन-उत्थः॥ 38
तयोः एवम् प्रहरतोः सम-शिक्षा-बल-ओजसोः।
निर्विशेषम् अभूत् युद्धम् अक्षीण-जवयोः नृप॥ 39
एवम् तयोः महा-राज युध्यतोः सप्त-विंशतिः।
दिनानि निरगम् तत्र सुहृत्-वत् निशि तिष्ठतोः॥ 40
एकदा मातुलेयम् वै प्राह राजन् वृकोदरः।
न शक्तः अहम् जरासन्धम् निर्जेतुम् युधि माधव॥ 41
शत्रोः जन्म-मृती विद्वान् जीवितम् च जरा-आकृतम्।
पार्थम् आप्याययन् स्वेन तेजसा अचिन्तयत् हरिः॥ 42
सञ्चिन्त्य अरि-वध-उपायम् भीमस्य अमोघ-दर्शनः।
दर्शयामास विटपम् पाटयन् इव संज्ञया॥ 43
तत् विज्ञाय महा-सत्त्वः भीमः प्रहरताम् वरः।
गृहीत्वा पादयोः शत्रुम् पातयामास भूतले॥ 44
एकम् पादम् पद-अाक्रम्य दोर्भ्याम् अन्यम् प्रगृह्य सः।
गुदतः पाटयामास शाखाम् इव महा-गजः॥ 45
एक-पाद-उरु-वृषण-कटि-पृष्ठ-स्तन-अंसके।
एक-बाहु-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः॥ 46
हाहाकारः महाअासीत् निहते मगध-ईश्वरे।
पूजयामासतुः भीमम् परिरभ्य जय-अाच्यतौ॥ 47
सहदेवम् तत् तनयम् भगवान् भूत-भावनः।
अभ्यषिञ्चत् अमेय-आत्मा मगधानाम् पतिम् प्रभुः।
मोचयामास राजन्यान् संरुद्धान् मागधेन ये॥ 48
No comments:
Post a Comment