Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 7: அத்யாயம் 1 (பரமாத்மா அனைவருக்கும் சமமானவர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பரமாத்மா அனைவருக்கும் சமமானவர்

ஸ்கந்தம் 7: அத்யாயம் 1

 

श्री-राजा उवाच

समः प्रियः सुहृत्-ब्रह्मन् भूतानाम् भगवान् स्वयम्।
इन्द्रस्य अर्थे कथम् दैत्यान् अवधीन् विषमः यथा ॥ १ ॥

न हि अस्य अर्थः सुर-गणैः साक्षात् निःश्रेयस-आत्मनः।
न एव असुरेभ्यः विद्वेषः न उद्वेगः च अगुणस्य हि ॥ २ ॥

इति नः सु-महा-भाग नारायण-गुणान् प्रति।
संशयः सु-महान् जातः तत् भवाम् छेत्तुम् अर्हति ॥ ३ ॥

श्री-शुक उवाच

साधु पृष्टम् महा-राज हरेः चरितम् अद्भुतम्।
यत् भागवत-मा-हात्म्यम् भगवत्-भक्ति-वर्धनम् ॥ ४ ॥

गीयते परमम् पुण्यम् ऋषिभिः नारद-आदिभिः।
नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ ५ ॥

निर्गुणः अपि हि अजः अव्यक्तः भगवान् प्रकृतेः परः।
स्व-माया-गुणम् आविश्य बाध्य-बाधकताम् गतः ॥ ६ ॥

सत्त्वम् रजः तमः इति प्रकृतेः न आत्मनः गुणाः।
न तेषाम् युगपद् राजन् ह्रासः उल्लासः एव वा ॥ ७ ॥

जय-काले तु सत्त्वस्य देव-ऋषीन् रजसः असुरान्।
तमसः यक्ष-रक्षांसि तत्-काल-अनुगुणः अभजत् ॥ ८ ॥

ज्योतिः आदि-रिव आभाति सङ्घातात् न विविच्यते।
विदन्ति आत्मानम् आत्म-स्थम् मथित्वा कवयः अन्ततः ॥ ९ ॥

यदा सिसृक्षुः पुरः आत्मनः परः

रजः सृजति एषः पृथक् स्व-मायया।
सत्त्वम् विचित्रासु रिरंसुः ईश्वरः
शयिष्य-माणः तमः ईरयति असौ ॥ १० ॥

कालम् चरन्तम् सृजति ईशः आश्रयम्

प्रधान-पुम्भ्याम् नर-देव सत्य-कृत्।
यः एषः राजन् अपि कालः ईशिता
सत्त्वम् सुर-अनीकम् इव ऐधयति अतः।
तत्-प्रत्यनीकान् असुरान् सुर-प्रियः
रजः-तमस्कान् प्रमिणोति उरुः-श्रवाः ॥ ११ ॥

अत्र एव उदाहृतः पूर्वम् इति-हासः सुर-ऋषिणा।
प्रीत्या महा-क्रतौ राजन् पृच्छते अज-आत-शत्रवे ॥ १२ ॥

दृष्ट्वा महा-अद्भुतम् राजा राजसूये महा-क्रतौ।

वासुदेवे भगवति सायुज्यम् च चेदि-भू-भुजः ॥ १३ ॥

तत्र आसीनम् सुर-ऋषिम् राजा पाण्डु-सुतः क्रतौ।

पप्रच्छ विस्मित-मनाः मुनीनाम् शृण्वताम् इदम् ॥ १४ ॥

श्री-युधिष्ठिर उवाच

अहो अत्य्-अद्भुतम् हि एतत् दुर्लभ-एकान्तिनाम् अपि।
वासुदेवे परे तत्त्वे प्राप्तिः च ऐद्यस्य विद्विषः ॥ १५ ॥

एतत् वेदितुम् इच्छामः सर्वे एव वयम् मुने।
भगवन्-निन्दया वेनः द्विजैः तमसि पातितः ॥ १६ ॥

दम-घोष-सुतः पापः आरभ्य कल-भाषणात्।
सम्प्रत्य्-अमर्षी गोविन्दे दन्त-वक्त्रः च दुर्मतिः ॥ १७ ॥

शपतः असकृत् विष्णुम् यत् ब्रह्म परम-अव्ययम्।
श्वित्रः न जातः जिह्वायाम् न अन्धम् विविशतुः तमः ॥ १८ ॥

कथम् तस्मिन् भगवति दुरवग्राह-धामनि।
पश्यताम् सर्व-लोकानाम् लयम् ईयतुḥ अञ्जसा ॥ १९ ॥

एतत् भ्राम्यति मे बुद्धिः दीप-अर्चिः इव वायुना।
ब्रूहि एतत् अद्भुत-तमम् भगवान् तत्र कारणम् ॥ २० ॥

श्री-शुक उवाच
राज्ञः तद्-वचः आकर्ण्य नारदः भगवान् ऋषिः।
तुष्टः प्राह तम् आभाष्य शृण्वत्याः तत्-सदः कथाः ॥ २१ ॥

श्री-नारद उवाच
निन्दन-स्तव-सत्कार-न्यक्कार-अर्थम् कलेवरम्।
प्रधान-परयोः राजन् अविवेकेन कल्पितम् ॥ २२ ॥

हिंसा तत्-अभिमानेन दण्ड-पारुष्ययोः यथा।
वैषम्यम् इह भूतानाम् मम अहम् इति पार्थिव ॥ २३ ॥

यत्-निबद्धः अभिमानः अयम् तत्-वधात् प्राणिनाम् वधः।
तथा न यस्य कैवल्यात् अभिमानः अखिल-आत्मनः।
परस्य दम-कर्तुः हि हिंसा केन अस्य कल्प्यते ॥ २४ ॥

तस्मात् वैर-अनुबन्धेन निर्वैरेण भयेन वा।
स्नेहात् कामेन वा युञ्ज्यात् कथंचित् न ईक्षते पृथक् ॥ २५ ॥

यथा वैर-अनुबन्धेन मर्त्यः तत्-मयताम् इयात्।
न तथा भक्ति-योगेन इति मे निश्चिता मतिः ॥ २६ ॥

कीटः पेशस्कृता रुद्धः कुड्यायाम् तम् अनुस्मरन्।
संरम्भ-भय-योगेन विन्दते तत्-स्वरूपताम् ॥ २७ ॥

एवम् कृष्णे भगवति माया-अनुज-ईश्वरे।
वैरेण पूत-पाप्मानः तम् आपुः अनुचिन्तया ॥ २८ ॥

कामात् द्वेषात् भयात् स्नेहात् यथा भक्त्या ईश्वरे मनः।
आवेश्य तत्-अघम् हित्वा बहवः तत्-गतिम् गताः ॥ २९ ॥

गोप्यः कामात् भयात् कंसः द्वेषात् च ऐद्य-आदयः नरिपाः।
सम्बन्धात् वृष्णयः स्नेहात् यूयम् भक्त्या वयम् विभो ॥ ३० ॥

कतमः अपि न वेनः स्यात् पञ्चानाम् पुरुषम् प्रति।
तस्मात् केन अपि उपायेन मनः कृष्णे निवेशयेत् ॥ ३१ ॥

मातृ-स्वसेयः वः च ऐद्यः दन्त-वक्रः च पाण्डव।
पार्षद-प्रवरौ विष्णोः विप्र-शापात् पद-अच्च्युतौ ॥ ३२ ॥

श्री-युधिष्ठिर उवाच
कीदृशः कस्य वा शापः हरि-दास-अभिमर्शनः।
अश्रद्धेयः इव आभाति हरेः एकान्तिनाम् भवः ॥ ३३ ॥

देह-इन्द्रिय-असु-हीनानाम् वैकुण्ठ-पुर-वासिनाम्।
देह-सम्बन्ध-सम्बद्धम् एतत् आख्यातुम् अर्हसि ॥ ३४ ॥

श्री-नारद उवाच
एकदा ब्रह्मणः पुत्राः विष्णोः लोकम् यदृच्छया।
सनन्दन-आदयः जग्मुः चरन्तः भुवन-त्रयम् ॥ ३५ ॥

पञ्च-षट्-ढायन-अर्भ-अभाः पूर्वेषाम् अपि पूर्वजाः।
दिग्-वाससः शिशून् मत्वा द्वा:स्थौ तान् प्रत्य्-अषेधताम् ॥ ३६ ॥

अशपन् कुपिताः एवम् युवाम् वासम् न च अर्हथः।
रजस्-तमो-भ्याम् रहिते पाद-मूले मधु-द्विषः।
पापिष्ठाम् आसुरीम् योनिम् बालिशौ यातम् आशुतः ॥ ३७ ॥

एवम् शप्तौ स्व-भवनात् पतन्तौ तैः कृपा-लुभिः।
प्रोक्तौ पुनः- जन्मभिः वाम् त्रिभिः लोकाय कल्पताम् ॥ ३८ ॥

जज्ञाते तौ दितेः पुत्रौ दैत्य-दानव-वन्दितौ।
हिरण्यकशिपुः ज्येष्ठः हिरण्याक्षः अनुजः ततः ॥ ३९ ॥

हतः हिरण्यकशिपुः हरिणा सिंह-रूपिणा।
हिरण्याक्षः धर-उद्धारे बिभ्रता शौकरम् वपुः ॥ ४० ॥

हिरण्यकशिपुः पुत्रम् प्रह्लादम् केशव-प्रियम्।
जिघांसुः अकरोत् नाना-यातनाः मृत्यु-हेतवे ॥ ४१ ॥

सर्व-भूत- आत्म-भूतम् तम् प्रशान्तम् सम-दर्शनम्।
भगवत्-तेजसा स्पृष्टम् न अशक्नोत् धन्तुम् उद्यमैः ॥ ४२ ॥

ततः तौ राक्षसौ जातौ केशिन्याम् विश्रवः-सुतौ।
रावणः कुम्भकर्णः च सर्व-लोक-उपतापनौ ॥ ४३ ॥

तत्र अपि राघवः भूत्वा न्यहनत् शाप-मुक्तये।
राम-वीर्यम् श्रोष्यसि त्वम् मार्कण्डेय-मुखात् प्रभो ॥ ४४ ॥

तौ एव क्षत्रियौ जातौ मातृ-स्वस्र्-आत्मजौ तव।
अधुना शाप-निर्मुक्तौ कृष्ण-चक्र-हत-आंहसौ ॥ ४५ ॥

वैर-अनुबन्ध-तीव्रेण ध्यानेन अच्युत-आत्मताम्।
नीतौ पुनः हरेः पार्श्वम् जग्मतुः विष्णु-पार्षदौ ॥ ४६ ॥

श्री-युधिष्ठिर उवाच
विद्वेषः दयिते पुत्रे कथम् आसीत् महा-आत्मनि।
ब्रूहि मे भगवन् येन प्रह्लादस्य अच्युत-आत्मता ॥ ४७ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम्
सप्तम-स्कन्धे प्रह्लाद-चरित-उपकrame प्रथमोऽध्यायः ॥ १ ॥

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 24 (மத்ஸ்ய அவதாரம் இரண்டு முறை எடுத்தார் பரவாசுதேவர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

மத்ஸ்ய அவதாரம் இரண்டு முறை எடுத்தார் பரவாசுதேவர்

ஸ்கந்தம் 8: அத்யாயம் 24

 

श्री-राजा उवाच
भगवन् श्रोतुम् इच्छामि हरेः अद्भुत-कर्मणः।
अवतार-कथाम् आद्याम् माया-मत्स्य-विडम्बनम् ॥ १ ॥

यत्-अर्थम् अदधात् रूपम् मात्स्यम् लोक-जुगुप्सितम्।
तमः-प्रकृतिः दुर्मर्षम् कर्म-ग्रस्तः इव ईश्वरः ॥ २ ॥

एतत् नः भगवन् सर्वम् यथावत् वक्तुम् अर्हसि।
उत्तम-श्लोक-चरितम् सर्व-लोक-सुख-अवहम् ॥ ३ ॥

श्री-सूत उवाच
इति उक्तः विष्णु-रातेन भगवान् बादरायणिः।
उवाच चरितम् विष्णोः मत्स्य-रूपेण यत् कृतम् ॥ ४ ॥

श्री-शुक उवाच
गो-विप्र-सुर-साधूनाम् छन्दसाम् अपि च ईश्वरः।
रक्षाम् इच्छन् तनुम् धत्ते धर्मस्य अर्थस्य च एव हि ॥ ५ ॥

उच्चावचेषु भूतेषु चरन् वायुः इव ईश्वरः।
न उच्छावचत्वम् भजते निर्गुणत्वात् धियः गुणैः ॥ ६ ॥

आसीत् अतीत-कल्प-अन्ते ब्राह्मः नैमित्तिकः लयः।
समुद्र-उपप्लुताः तत्र लोकाः भूः-आदयः नृप ॥ ७ ॥

कालेन आगत-निद्रस्य धातुः शिशयिषोः बली।
मुखतः निःसृतान् वेदान् हयग्रीवः अन्तिके अहरत् ॥ ८ ॥

ज्ञात्वा तत् दानव-इन्द्रस्य हयग्रीवस्य चेष्टितम्।
दधार शफरी-रूपम् भगवान् हरिः ईश्वरः ॥ ९ ॥

तत्र राज-ऋषिः कश्चित् नाम्ना सत्यव्रतः महान्।
नारायण-परः अतप्यत् तपः सः सलिल-आशनः ॥ १० ॥

यः असौ अस्मिन् महा-कल्पे तनयः सः विवस्वतः।
श्राद्ध-देवः इति ख्यातः मनुत्वे हरिणा अर्पितः ॥ ११ ॥

एकदा कृत-मालायाम् कुर्वतः जल-तर्पणम्।
तस्य अञ्जलि-उदके काचित् शफरी एका अभ्यपद्यत ॥ १२ ॥

सत्यव्रतः अञ्जलि-गताम् सह तोयेन भारत।
उत्ससर्ज नदी-तोये शफरीम् द्रविड-ईश्वरः ॥ १३ ॥

तम् आह स-आतिकरुणम् महा-कारुणिकम् नृपम्।
यादोभ्यः ज्ञाति-घातिभ्यः दीनाम् माम् दीन-वत्सल।
कथम् विसृजसे राजन् भीताम् अस्मिन् सरित्-जले ॥ १४ ॥

तम् आत्मनः अनु-ग्रह-अर्थम् प्रीत्या मत्स्य-वपुः धरम्।
अजानन् रक्षण-अर्थाय शफर्याः सः मनः दधे ॥ १५ ॥

तस्याः दीन-तरम् वाक्यम् आश्रुत्य सः मही-पतिः।
कलशे अप्सु निधाय एनाम् दयालुः निन्ये आश्रमम् ॥ १६ ॥

सा तु तत्र एका-रात्रेण वर्धमाना कमण्डलौ।
अलब्ध्वा आत्म-अवकाशम् वा इदम् आह मही-पतिम् ॥ १७ ॥

न अहम् कमण्डलु-अवस्मिन् कृच्छ्रम् वस्तुम् इह उत्सहे।
कल्पय औकः सु-विपुलम् यत्र अहम् निवसे सुखम् ॥ १८ ॥

सः एनाम् तत् आदाय न्यधात् औदञ्चन-उदके।
तत्र क्षिप्ता मुहूर्तेन हस्त-त्रयम् अवर्धत ॥ १९ ॥

न मे एतत् अलम् राजन् सुखम् वस्तुम् उदञ्चनम्।
पृथु देहि पदम् मह्यम् यत् त्वा अहम् शरणम् गता ॥ २० ॥

तत् आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे।
तत् आवृत्य आत्मना सः अयम् महा-मीन् अन्ववर्धत॥ 21

न एतत् मे स्वस्तये राजन् उदकम् सलिल-ओकसः।
निधेहि रक्षायोगेन ह्रदे माम् अविदासिनि॥ 22

इति उक्तः सः अनयन् मत्स्यम् तत्र तत्र अविदासिनि।
जलाशये सम्मितम् तम् समुद्रे प्राक्षिपत् झषम्॥ 23

क्षिप्यमाणः तम् आह एतत् इह माम् मकर-आदयः।
अदन्ति अति-बलाः वीर माम् न इह उत्स्रष्टुम् अर्हसि॥ 24

एवम् विमोहितः तेन वदता वल्गु-भारतीम्।
तम् आह कः भवाञ् अस्मान् मत्स्य-रूपेण मोहयन्॥ 25

न एवम्-वीर्यः जल-चरः दृष्टः अस्माभिः श्रुतः अपि वा।
यः भवान् योजन-शतम् अह्ना अभिव्यानशे सरः॥ 26

नूनम् त्वम् भगवान् साक्षात् हरिः नारायणः अव्ययः।
अनुग्रहाय भूतानाम् धत्से रूपम् जल-ओकसाम्॥ 27

नमः ते पुरुष-श्रेष्ठ स्थित्य्-उत्पत्ति-अप्यय-ईश्वर।
भक्तानाम् नः प्रपन्नानाम् मुख्यः हि आत्म-गतिः विभो॥ 28

सर्वे लीला-अवताराः ते भूतानाम् भूति-हेतवः।
ज्ञातुम् इच्छामि अदः रूपम् यत् अर्थम् भवता धृतम्॥ 29

न ते अरविन्द-आक्ष पद-उपसर्पणम्
मृषा भवेत् सर्व-सुहृत्-प्रिय-आत्मनः।
यथा इतर-एषाम् पृथक्-आत्मनाम् सताम्
अद्-ईदृशः यत् वपुः अद्भुतम् हि नः॥ 30

श्री-शुकः उवाच —
इति ब्रुवाणम् नृपतिम् जगत्-पतिः
सत्यव्रतम् मत्स्य-वपुः युग-क्षये।
विहर्तु-कामः प्रलय-अर्णवे अब्रवीत्
चिकीर्षुः एकान्त-जन-प्रियः प्रियम्॥ 31

श्रीभगवानुवाच —
सप्तमे अद्य-तनात् ऊर्ध्वम् अहनि एतत् अरिन्दम।
निमङ्क्ष्यति अप्यय-अम्भोधौ त्रैलोक्यम् भूः-भुवः-आदिकम्॥ 32

त्रिलोक्याम् लीयमानायाम् संवर्त-अम्भसि वै तदा।
उपस्थास्यति नौः काचित् विशाला त्वाम् मया इरिता॥ 33

त्वम् तावत् ओषधीः सर्वाः बीजानि उच्चावचानि च।
सप्त-ऋषिभिः परिवृतः सर्व-सत्त्व-उपबृंहितः॥ 34

आरुह्य बृहतीम् नावम् विचरिष्यसि अविक्लवः।
एक-अर्णवे निरालोके ऋषीणाम् एव वर्चसा॥ 35

दोधूयमानाम् ताम् नावम् समीरेण बलीयसा।
उपस्थितस्य मे शृङ्गे निबध्नीहि महा-अहिना॥ 36

अहम् त्वाम् ऋषिभिः साकम् सह नावम् उदन्वति।
विकर्षन् विचरिष्यामि यावत् ब्राह्मी निशा प्रभो॥ 37

मदीयम् महिमानम् च परम् ब्रह्म इति शब्दितम्।
वेत्स्यसि अनुगृहीतम् मे संप्रश्नैः विवृतम् हृदि॥ 38

इत्थम् आदिश्य राजानम् हरिः अन्तर्धीयत।
सः अन्ववैक्षत तम् कालम् यम् हृषीकेशः आदिशत्॥ 39

आस्तीर्य दर्भान् प्राक्-कूलान् राज-ऋषिः प्राक्-उदङ्मुखः।
निषसाद हरेः पादौ चिन्तयन् मत्स्य-रूपिणः॥ 40

ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम्।
वर्धमानो महामेघैः वर्षद्भिः समदृश्यत॥ 41

ध्यायन् भगवत्-आदेशं ददृशे नावम् आगताम्।
ताम् आरुरोह विप्रेन्द्रैः आदाय ओषधि-वीरुधः॥ 42

तम् ऊचुः मुनयः प्रीताः राजन् ध्यायस्व केशवम्।
सः वै नः संकटात् अस्मात् अविता शम् विधास्यति॥ 43

सः अनु‌ध्यातः ततः राज्ञा प्रादुरासीन् महा-अर्णवे।
एक-शृंग-धरः मत्स्यः हैमः नियुत-योजनः॥ 44

निबध्य नावम् तत्-शृंगे यथा उक्तः हरिणा पुरा।
वरत्रेण अहिना तुष्टः तुष्टाव मधुसूदनम्॥ 45

श्री-राजा उवाच –
अनादि-अविद्या-उपहत-आत्म-संविदः
तत्-मूल-संसार-परिश्रम-आतुराः।
यदृच्छया इह उपसृताः यम् आप्नुयुः
विमुक्तिदः नः परमः गुरुः भवान्॥ 46

जनः अबुधः अयम् निज-कर्म-बन्धनः
सुख-इच्छया कर्म समीहते असुखम्।
यत्-सेवया ताम् विधुनोति असन्-मतिम्
ग्रन्थिम् सः भिन्द्यात् हृदयं सः नः गुरुः॥ 47

यत्-सेवया अग्नेः इव रुद्र-रोदनम्
पुमान् विजह्यात् मलम् आत्मनः तमः।
भजेत वर्णम् निजम् एषः सः अव्ययः
भूयात् सः ईशः परमः गुरोः गुरुः॥ 48

न यत्-प्रसाद-आयुत-भाग-लेशम्
अन्ये च देवाः गुरवः जनाः स्वयं।
कर्तुम् समेताः प्रभवन्ति पुंसः
तम् ईश्वरं त्वाम् शरणं प्रपद्ये॥ 49

अचक्षुः-अन्धस्य यथा अग्रणीः कृतः
तथा जनस्य अविदुषः अबुधः गुरुः।
त्वम् अर्क-दृक् सर्व-दृशाम् समीक्षणः
वृतः गुरुः नः स्व-गतिम् बुभुत्सताम्॥ 50

जनः जनस्य आदिशते असतीम् मतिम्
यया प्रपद्येत दुरत्ययम् तमः।
त्वम् तु अव्ययम् ज्ञानम् अमोघम् अञ्जसा
प्रपद्यते येन जनः निजम् पदम्॥ 51

त्वम् सर्व-लोकस्य सुहृत् प्रिय-ईश्वरः
हि आत्मा गुरुः ज्ञानम् अभीष्ट-सिद्धिः।
तथापि लोकः न भवन्तम् अन्ध-धीः
जानाति सन्तम् हृदि बद्ध-कामः॥ 52

तम् त्वाम् अहम् देव-वरम् वरेण्यम्
प्रपद्य ईशम् प्रति-बोधनाय।
छिन्धि अर्थ-दीपैः भगवन् वचोभिः
ग्रन्थीन् हृदय्यान् विवृणु स्व-मोक्षः॥ 53

श्री-शुकः उवाच –
इति उक्तवन्तम् नृपतिम् भगवान् आदि-पुरुषः।
मत्स्य-रूपी महा-अम्भोधौ विहरन् तत्त्वम् अब्रवीत्॥ 54

पुराण-संहिताम् दिव्याम् सांख्य-योग-क्रिया-वतीम्।
सत्यव्रतस्य राजर्षेः आत्म-गुह्यम् अशेषतः॥ 55

अश्रौषीत् ऋषिभिः साकम् आत्म-तत्त्वम् अशंशयम्।
नावि आसीनः भगवता प्रोक्तम् ब्रह्म सनातनम्॥ 56

अतीत-प्रलय-अपायः उत्थिताय सः वेधसे।
हत्वा असुरम् हयग्रीवम् वेदान् प्रत्याहरत् हरिः॥ 57

सः तु सत्यव्रतः राजा ज्ञान-विज्ञान-संयुतः।
विष्णोः प्रसादात् कल्पे अस्मिन् आसीत् वैवस्वतः मनुः॥ 58

सत्यव्रतस्य राजर्षेः माया-मत्स्यस्य शार्ङ्गिणः।
संवादम् महत् आख्यानम् श्रुत्वा मुच्येत किल्बिषात्॥ 59

अवतारः हरेः यः अयम् कीर्तयेत् अन्वहम् नरः।
सङ्कल्पाः तस्य सिध्यन्ति सः याति परमाम् गतिम्॥ 60

प्रलय-पयसि धातुः सुप्त-शक्तेः-मुखेभ्यः
श्रुति-गणम् अपनीतं प्रत्युपादत्त हत्वा।
दिति-जम् अकथयत् यः ब्रह्म सत्यव्रतानाम्
तम् अहम् अखिल-हेतुम् जिह्म-मी‍नम् नतः-अस्मि॥ ६१॥

इति श्रीमद्‌भागवते महापुराणे वैयासिक्याम् अष्टादशसाहस्र्यां पारमहंस्यां संहितायां अष्टमस्कन्धे मत्यावतारचरितानुवर्णनं चतुर्विंशोऽध्यायः ॥ 24 ॥

ஸ்கந்தம் 8: அத்யாயம் 23 (தேவர்கள் இழந்த லோகத்தை மீட்டனர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தேவர்கள் இழந்த லோகத்தை மீட்டனர்

ஸ்கந்தம் 8: அத்யாயம் 23

 श्रीशुक उवाच

इति उक्तवन्तम् पुरुषम् पुरातनम्।
महा-अनुभावः अखिल-साधु-संमतः।
बद्ध-अञ्जलिः बाष्प-कलाकुल-ईक्षणः।
भक्ति-उद्गलः गद्गदया गिरा अब्रवीत् ॥ १ ॥

श्रीबलिः उवाच
अहो प्रणामाय कृतः समुद्यमः।
प्रपन्न-भक्त-अर्थ-विधौ समाहितः।
यत् लोक-पालैः त्वत्-अनुग्रहः अमरैः।
अलब्ध-पूर्वः अपसदे असुरे अर्पितः ॥ २ ॥

श्रीशुक उवाच
इति उक्त्वा हरिम् अनत्य ब्रह्माणम् स-भवम् ततः।
विवेश सुतलम् प्रीतः बलिः मुक्तः सह असुरैः ॥ ३ ॥

एवम् इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम्।
पूरयित्वा अदितेः कामम् अशासत् सकलम् जगत् ॥ ४ ॥

लब्ध-प्रसादम् निर्मुक्तम् पौत्रम् वंश-धरम् बलिम्।
निशाम्य भक्ति-प्रवणः प्रह्लादः इदम् अब्रवीत् ॥ ५ ॥

श्री-प्रह्लादः उवाच
न इम् विरिञ्चः लभते प्रसादम्।
न श्रीः न शर्वः किम् उ तु अपरे ते।
यत् नः असुराणाम् असि दुर्ग-पालः।
विश्व-अभिवन्द्यैः अभिवन्दित-अङ्घ्रिः ॥ ६ ॥

यत् पाद-पद्म-मकरन्द-निषेवणेन।
ब्रह्म-आदयः शरणदः अश्नुवते विभूतिः।
कस्मात् वयम् कु-सृतयः खल-योनयः ते।
दाक्षिण्य-दृष्टि-पदवीम् भवतः प्रणीताः ॥ ७ ॥

चित्रम् तव ईहितम् अहः अमित-योग-माया-।
लीला-विसृष्ट-भुवनस्य विशारदस्य।
सर्व-आत्मनः सम-दृशः विषमः स्वभावः।
भक्त-प्रियः यत् असि कल्प-तरुः स्वभावः ॥ ८ ॥

श्रीभगवान् उवाच
वत्स प्रह्लाद भद्रं ते प्रयाहि सुतल-आलयम्।
मोदमानः स्व-पौत्रेण ज्ञातीनाम् सुखम् आवह ॥ ९ ॥

नित्यम् द्रष्टाऽसि माम् तत्र गदा-पाणिम् अवस्थितम्।
मद्-दर्शन-महा-आह्लाद ध्वस्त-कर्म-निबन्धनः ॥ १० ॥

श्रीशुक उवाच
आज्ञाम् भगवतः राजन् प्रह्लादः बलिना सह।
बाढम् इति अमल-प्रज्ञः मूर्ध्नि आधाय कृत-अञ्जलिः ॥ ११ ॥

परिक्रम्य आदि-पुरुषम् सर्व-असुर-चमू-पतिः।
प्रणतः तत्-अनुज्ञातः प्रविवेश महा-बिलम् ॥ १२ ॥

अथ आहोषणसम् राजन् हरिः नारायणः अन्तिके।
आसीनम् ऋत्विजाम् मध्ये सदसि ब्रह्म-वादिनाम् ॥ १३ ॥

ब्रह्मन् सन्तनुः शिष्यस्य कर्म-छिद्रम् वितन्वतः।
यत् तत् कर्मसु वैषम्यम् ब्रह्म-दृष्टम् समम् भवेत् ॥ १४ ॥

श्री-शुक्रः उवाच
कुतः तत्-कर्म-वैषम्यम् यस्य कर्म-ईश्वरः भवान्।
यज्ञ-ईशः यज्ञ-पुरुषः सर्व-भावेन पूजितः ॥ १५ ॥

मन्त्रतः तन्त्रतः छिद्रम् देश-काल-अर्ह-वस्तुतः।
सर्वम् करोति निः-छिद्रम् नाम-संकीर्तनम् तव ॥ १६ ॥

तथापि वदतः भूमन् करिष्यामि अनुशासनम्।
एतत् श्रेयः परम् पुंसाम् यत् तव आज्ञा अनुपालनम् ॥ १७ ॥

श्रीशुक उवाच
अभिनन्द्य हरेः आज्ञाम् उशना भगवन् इति।
यज्ञ-छिद्रम् समाधत्त बलेः विप्र-ऋषिभिः सह ॥ १८ ॥

एवम् बलेः महीम् राजन् भिक्षित्वा वामनः हरिः।
ददौ भ्रात्रे महेन्द्राय त्रिदिवम् यत् परैः हृतम् ॥ १९ ॥

प्रजापति-पतिः ब्रह्मा देव-ऋषि-पितृ-भूमि-पैः।
दक्ष-भृगु-अङ्गिरस्-मुख्यैः कुमारेण भवेन च ॥ २० ॥

कश्यपस्य आदितेः प्रीत्यै सर्व-भूत-भवाय च।
लोकानाम् लोक-पालानाम् अकरोत् वामनम् पतिम्॥ 21

वेदानाम् सर्व-देवानाम् धर्मस्य यशसः श्रियः।
मङ्गलानाम् व्रतानाम् च कल्पम् स्वर्ग-अपवर्गयोः॥ 22

उपेन्द्रम् कल्पयाञ् चक्रे पतिम् सर्व-विभूतये।
तदा सर्वाणि भूतानि भृशम् मुमुदिरे नृप॥ 23

ततः तु इन्द्रः पुरस्कृत्य देव-यानेन वामनम्।
लोक-पालैः दिवम् निन्ये ब्रह्मणा च अनु-मोदितः॥ 24

प्राप्य त्रि-भुवनम् च इन्द्रः उपेन्द्र-भुज-पालितः।
श्रिया परमया जुष्टः मुमुदे गत-साध्वसः॥ 25

ब्रह्मा शर्वः कुमारः च भृगु-आद्याः मुनयः नृप।
पितरः सर्व-भूतानि सिद्धाः वैमानिकाः च ये॥ 26

सुमहत् कर्म तत् विष्णोः गायन्तः परम-अद्भुतम्।
धिष्ण्यानि स्वानि ते जग्मुः अदितिम् च शशंसिरे॥ 27

सर्वम् एतत् मया आख्यातम् भवतः कुल-नन्दन।
उरु-क्रमस्य चरितम् श्रोतॄणाम् अघ-मोचनम्॥ 28

पारम् महिम्नः उरु-विक्रमतः गृणानः।
यः पार्थिवानि विममे स रजांसि मर्त्यः।
किम् जायमानः उत जातः उपैति मर्त्यः।
इति आह मन्त्र-दृक् ऋषिः पुरुषस्य यस्य॥ 29

यः इदम् देव-देवस्य हरेः अद्भुत-कर्मणः।
अवतार-अनु-चरितम् शृण्वन् याति पराम् गतिम्॥ 30

क्रियमाणे कर्मणि इदम् दैवे पित्र्ये अथ मानुषे।
यत्र यत्र अनुकीर्त्येत तत् तेषाम् सुकृतम् विदुः॥ 31


॥ इति श्रीमद्भागवते महा-पुराणे पारमहंस्यां संहितायाम्
अष्टम-स्कन्धे वामन-अवतार-चरिते
त्रयो-विंशः अध्यायः समाप्तः ॥

ஸ்கந்தம் 8: அத்யாயம் 22 (பலி சக்கரவர்த்தி தன்னையே கொடுத்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பலி சக்கரவர்த்தி தன்னையே கொடுத்தார்

ஸ்கந்தம் 8: அத்யாயம் 22

श्रीशुक उवाच
एवम् विप्रकृतः राजन् बलिः भगवता असुरः
भिद्यमानः अपि अभिन्नात्मा प्रत्याह अविक्लवम् वचः॥1॥

श्रीबलिः उवाच
यदि उत्तमश्लोक भवान् मम इरितम्
वचः व्यम्-लीकं सुरवर्य मन्यते
करोमि ऋतम् तत् भवेत् प्रलम्भनम्
पदम् तृतीयम् कुरु शीर्ष्णि मे निजम्॥2॥

बिभेमि अहम् निरयात् पदच्युतः
पाशबन्धात् व्यसनात् दुरत्ययात्
एव अर्थकृच्छ्रात् भवतः विनिग्रहात्
असाधुवादात् भृशम् उद्विजे यथा॥3॥

पुंसाम् श्लाघ्यतमम् मन्ये दण्डम् अर्हत्तमम् अर्पितम्
यम् माता पिता भ्राता सुहृदः आदिशन्ति हि॥4॥

त्वम् नूनम् असुराणाम् नः परोक्ष्यः परमः गुरुः
यः नः अनेकम् मद-अन्धानाम् विभ्रंशम् चक्षुः आदिशत्॥5॥

यस्मिन् वैर-अनुबन्धेन व्यूढेन विभुध-इतराः
बहवः लेभिरे सिद्धिम् याम्  एकान्त-योगिनः॥6॥

तेन अहम् निगृहीतः अस्मि भवता भूरि-कर्मणा
बद्धः वारुणैः पाशैः अति-व्रीडे  व्यथे॥7॥

पितामहः मे भवदीय-सम्मतः
प्रह्लादः आविष्कृत-साधु-वादः
भवत्-विपक्षेण विचित्र-वैशसम्
संप्रापितः त्वत्-परमः स्व-पित्रा॥8॥

किम् आत्मना अन्येन जहाति यः अन्ततः
किम् रिक्थ-हारैः स्वजन-आख्य-डस्युभिः
किम् जायया संसृति-हेतु-भूतया
मर्त्यस्य गेहैः किम् इह आयुषः व्ययः॥9॥

इत्थम् सः निश्चित्य पितामहः महा-
नग-अध-बोधः भवतः पाद-पद्मम्
ध्रुवम् प्रपेदे हि अकुतः-भयम् जनात्
भीतः स्व-पक्ष-क्षपणस्य सत्तम॥10॥

अथ अहम् अपि आत्म-रिपः तव अन्तिकम्
दैवेन नीतः प्रसभम् त्याजित-श्रीः
इदम् कृतान्त-अन्तिक-वर्ति जीवितम्
यया अध्रुवम् स्तब्ध-मतिः  बुध्यते॥11॥

श्रीशुकः उवाच
तस्य एवम् भाषमाणस्य प्रह्लादः भगवत्-प्रियः
आजगाम कुरु-श्रेष्ठ राका-पतिः इव उत्थितः॥12॥

तम् इन्द्रसेनः स्व-पितामहम् श्रियाः
विराजमानम् नलिन-आयतेक्षणम्
प्रांशुम् पिशङ्ग-अम्बरम् अञ्जन-त्विषम्
प्रलम्ब-बाहुम् सुभगम् समैक्षत॥13॥

तस्मै बलिः वारुण-पाश-यन्त्रितः
समर्हणम् उपजहार पूर्ववत्
ननाम मूर्ध्ना अश्रु-विलोल-लोचनः
व्रीड-नीचीन-मुखः बभूव ह॥14॥

सः तत्र हासीनम् उदीक्ष्य सत्पतिम्
सुनन्दन-आदि-अनुगैः उपासितम्
उपेत्य भूमौ शिरसा महा-मनाः
ननाम मूर्ध्ना पुलक-अश्रु-विक्लवः॥15॥

श्री-प्रह्लादः उवाच
त्वया एव दत्तम् पदम् ऐन्द्रम् ऊर्जितम्
हृतम् तत् एव अद्य तथैव शोभनम्
मन्ये महत् अस्य कृतः हि अनुग्रहः
विभ्रंशितः यत् श्रियः आत्म-मोहनात्॥16॥

यया हि विद्वान् अपि मुह्यते यतः
तत् कः विचष्टे गतिम् आत्मनः यथा
तस्मै नमः ते जगत्-ईश्वराय वै
नारायणाय अखिल-लोक-साक्षिणे॥17॥

श्रीशुकः उवाच
तस्य अनुश्रृण्वतः राजन् प्रह्लादस्य कृत-अञ्जलेः
हिरण्यगर्भः भगवान् उवाच मधुसूदनम्॥18॥

बद्धम् वीक्ष्य पतिम् साध्वी तत्-पत्नी भय-विह्वला।
प्राञ्जलिः प्रणतः उपेन्द्रम् बभाषे अवांमुखी नृप॥19॥

श्री-विन्ध्यावलीः उवाच
क्रीड-अर्थम् आत्मनः इदम् त्रिजगत् कृतम् ते
स्वाम्यम् तु तत्र कु-धियः अपरे ईश कुर्युः।
कर्तुः प्रभोः तव किम् अस्य अथ आवहन्ति
त्यक्त-ह्रियः त्वत्-अवरोपित-कर्तृवादाः॥20॥

श्री-ब्रह्मा उवाच —
भूत-भावन भूतेश देव-देव जगत्-मय।
मुञ्च एनम् हृत-सर्व-स्वम् न अयम् अर्हति निग्रहम्॥ 21 ॥

कृत्स्ना ते अनेन दत्ता भूः-लोकाः कर्म-अर्जिताः च ये।
निवेदितम् च सर्व-स्वम् आत्मा अविक्लवया धिया॥ 22 ॥

यत् पादयोः अ-शठ-धीः सलिलम् प्रदाय
दूर्वा-अङ्कुरैः अपि विधाय सतीम् सपर्याम्।
अपि उत्तमाम् गतिम् असौ भजते त्रि-लोकीम्
दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत्॥ 23 ॥

श्री-भगवान् उवाच —
ब्रह्मन् यम् अनुगृह्णामि तत् विशः विधुनोमि अहम्।
यत् मदः पुरुषः स्तब्धः लोकम् माम् च अवमन्यते॥ 24 ॥

यदा कदा चित् जीवात्मा संसरण् निज-कर्मभिः।
नाना-योनि-षु अनीशः अयम् पौरुषीम् गतिम् आव्रजेत्॥ 25 ॥

जन्म-कर्म-वयः-रूप-विद्या-ऐश्वर्य-धन-आदिभिः।
यत् यस्य न भवेत् स्तम्भः तत्र अयम् मद्-अनुग्रहः॥ 26 ॥

मान-स्तम्भ-निमित्तानाम् जन्म-आदीनाम् समन्ततः।
सर्व-श्रेयः-प्रतीपानाम् हन्त मुह्येत् न मत्-परः॥ 27 ॥

एष दानव-दैत्यानाम् अग्रणीः कीर्ति-वर्धनः।
अजैषीत् अजयाम् मायाम् सीदन् अपि न मुह्यति॥ 28 ॥

क्षीण-रिक्थः च्युतः स्थानात् क्षिप्तः बद्धः च शत्रुभिः।
ज्ञातिभिः च परित्यक्तः यातनाम् अनुयापितः॥ 29 ॥

गुरुणा भर्त्सितः शप्तः जहौ सत्यम् न सु-व्रतः।
छलैः उक्तः मया धर्मः न अयम् त्यजति सत्य-वाक्॥ 30 ॥

एष मे प्रापितः स्थानम् दुष्प्रापम् अमरैः अपि।
सावर्णेः अन्तरस्य अयम् भविता इन्द्रः मत्-आश्रयः॥ 31 ॥

तावत् सुतलम् अध्यास्ताम् विश्व-कर्मा-विनिर्मितम्।
यत् न आढयः व्याधयः च क्लमः तन्द्रा पराभवः।
न उपसर्गाः निवसताम् सम्भवन्ति मम् ईक्षया॥ 32 ॥

इन्द्रसेन महा-राज याहि भो भद्रम् अस्तु ते।
सुतलम् स्वर्गिभिः प्रार्थ्यम् ज्ञातिभिः परिवारितः॥ 33 ॥

न त्वाम् अभिभविष्यन्ति लोक-ईशाः किम् उत अपरे।
त्वत्-शासनाति-गान् दैत्यान् चक्रम् मे सूदयिष्यति॥ 34 ॥

रक्षिष्ये सर्वतः अहम् त्वाम् स-अनुगम् स-परिच्छदम्।
सदा सन्निहितम् वीर तत्र माम् द्रक्ष्यते भवान्॥ 35 ॥

तत्र दानव-दैत्यानाम् सङ्गात् ते भावः आसुरः।
दृष्ट्वा मत्-अनुभावम् वै सद्यः कुण्ठः विनङ्क्ष्यति॥ 36 ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भवे बलिवामनसंवादे नाम द्वाविंशोऽध्यायः॥ 22 ॥

ஸ்கந்தம் 8: அத்யாயம் 21 (பலி சக்கரவர்த்திக்கு சுதல லோகத்தில் இடம் கொடுத்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

 பலி சக்கரவர்த்திக்கு சுதல லோகத்தில் இடம் கொடுத்தார்  

ஸ்கந்தம் 8: அத்யாயம் 21

श्रीशुक उवाच
सत्यं समीक्ष्य अब्ज-भवः नख-इन्दुभिः
हत-स्व-धाम-द्युतिः आवृतः अभ्यगात्।
मरीचि-मिश्राः ऋषयः बृहद्-व्रताः
सनन्दन-आद्याः नर-देव-योगिनः॥1॥

वेद-उपवेदाः नियमान्विताः यमाः
तर्क-इतिहास-अङ्ग-पुराण-संहिताः
ये च अपरे योग-समीर-दीपित
ज्ञान-अग्निना रन्धित-कर्म-कल्मषाः।
ववन्दिरे यत्-स्मरण-अनुभावतः
स्वायम्भुवं धाम गताः अ-कर्मकम्॥2॥

अथ अङ्घ्रये प्रोन्नमिताय विष्णोः
उपाहरत् पद्म-भवः अर्हण-उदकम्।
समर्च्य भक्त्या अभ्यगृणात् शुचि-श्रवाः
यत्-नाभि-पङ्केरुह-सम्भवः स्वयम्॥3॥

धातुः कमण्डलु-जलं तद् उरुक्रमस्य
पाद-अवनेजन-पवित्रतया नरेन्द्र
स्वर्धुनी अभूत् नभसि सा पतती
निमार्ष्टि लोक-त्रयं भगवतः विशद-ईश-किर्तिः॥4॥

ब्रह्म-आदयः लोक-नाथाः स्व-नाथाय समादृताः।
स-अनुगाः बलिम् आजह्रुः संक्षिप्त-आत्म-विभूतये॥5॥

तोयैः समर्हणैः स्रग्भिः दिव्य-गन्ध-अनुलेपनैः
धूपैः दीपैः सुरभिभिः लाज-अक्षत-फल-अङ्कुरैः॥6॥

स्तवनैः जय-शब्दैः च तद्-वीर्य-महिमा-अङ्कितैः।
नृत्य-वादित्र-गीतैः च शङ्ख-दुन्दुभि-निःस्वनैः॥7॥

जाम्बवान् ऋक्ष-राजः तु भेरी-शब्दैः मनोजवः
विजयम् दिक्षु सर्वासु महोत्सवम् अघोषयत्॥8॥

महीम् सर्वाम् हृताम् दृष्ट्वा त्रि-पद-व्याजया अञ्चया।
ऊचुः स्व-भर्तुः असुराः दीक्षितस्य अत्य-अमर्षिताः॥9॥

न वा अयम् ब्रह्म-बन्धुः विष्णुः माया-विनाम् वरः।
द्विज-रूप-प्रतिच्छन्नः देव-कार्यं चिकीर्षति॥10॥

अनेन याचमानेन शत्रुणा वटु-रूपिणा।
सर्वस्वम् नः हृतम् भर्तुः न्यस्त-दण्डस्य बर्हिषि॥11॥

सत्य-व्रतस्य सततम् दीक्षितस्य विशेषतः।
न अनृतम् भाषितुं शक्यम् ब्रह्मण्यस्य दया-वतः॥12॥

तस्मात् अस्य वधः धर्मः भर्तुः शुश्रूषणम् च नः।
इति आयुधानि जगृहुः बलेः-अनुचराः-असुराः॥13॥

ते सर्वे वामनं हन्तुं शूल-पट्टिश-पाणयः।
अनिच्छन्तः बलेः राजन् प्राद्रवन् जात-मन्यवः॥14॥

तान् अभिद्रवतः दृष्ट्वा दिति-ज-अनिकपान् नृप।
प्रहस्य अनुचराः विष्णोः प्रत्यषेधन् उदायुधाः॥15॥

नन्दः सुनन्दः अथ जयः विजयः प्रबलः बलः
कुमुदः कुमुदाक्षःविष्वक्सेनः पतत्त्रि-राट्॥16॥

जयन्तः श्रुत-देवःपुष्पदन्तः अथ सात्वतः
सर्वे नाग-अयुत-प्राणाः चमूं ते जघ्नुः आसुरीम्॥17॥

हन्यमानान् स्वकान् दृष्ट्वा पुरुष-अनुचरैः बलिः
वारयामास संरब्धान् काव्य-शापम् अनुस्मरन्॥18॥

हे विप्रचित्ते हे राहो हे नेमे श्रूयताम् वचः।
मा युध्यत निवर्तध्वम् न नः कालः अयम् अर्थ-कृत्॥19॥

यः प्रभुः सर्व-भूतानाम् सुख-दुःख-उपपत्तये।
तम् न अति-वर्तितुम् दैत्याः पौरुषैः ईश्वरः पुमान्॥20॥

यो नः भवाय प्राक्-आसीत् अभवाय दिवौकसाम्
सः एव भगवान् अद्य वर्तते तत्-विपर्ययम्॥21॥

बलेन सचिवैः बुद्ध्या दुर्गैः मन्त्र-औषध-आदिभिः
साम-आदिभिः उपायैः कालम् अत्येति वै जनः॥22॥

भवद्भिः निर्जिताः हि एते बहुशः अनुचराः हरेः
दैवेन ऋद्धैः ते एव अद्य युधि जित्वा नदन्ति नः॥23॥

एतान् वयम् विजेष्यामः यदि दैवम् प्रसीदति
तस्मात् कालम् प्रतीक्षध्वम् यः नः अर्थत्वाय कल्पते॥24॥

श्री-शुकः उवाच
पत्युः निगदितम् श्रुत्वा दैत्य-दानव-यूथपाः
रसाम् निविविशुः राजन् विष्णु-पार्षद-ताडिताः॥25॥

अथ तार्क्ष्य-सुतः ज्ञात्वा विराट् प्रभु-चिकीर्षितम्
बबन्ध वारुणैः पाशैः बलिम् सूत्ये अहनि क्रतौ॥26॥

हाहाकारः महान् आसीत् रोदस्योः सर्वतः उदिशम्
गृह्यमाणे असुर-पतौ विष्णुना प्रभविष्णुना॥27॥

तम् बद्धम् वारुणैः पाशैः भगवान् आह वामनः
नष्ट-श्रियम् स्थिर-प्रज्ञम् उदार-यशसम् नृप॥28॥

पदानि त्रीणि दत्तानि भूमेः मह्यम् त्वया असुर
द्वाभ्याम् क्रान्ता मही सर्वा तृतीयम् उपकल्पय॥29॥

यावत् तपति असौ गोभिः यावत् इन्दुः सह उडुभिः
यावत् वर्षति पर्जन्यः तावती भूः इयम् तव॥30॥

पदा एकेन मया क्रान्तः भूः-लोकः खम् दिशः तनः
स्वः-लोकः तु द्वितीयेन पश्यतः ते स्वम् आत्मना॥31॥

प्रतिश्रुतम् अदातुः ते निरये वासः इष्यते
विश त्वम् निरयम् तस्मात् गुरुणा अनुमोदितः॥32॥

वृथा मनोरथः तस्य दूरे स्वर्गः पतति अधः
प्रतिश्रुतस्य अदानेन यः अर्थिनम् विप्रलम्भते॥33॥

विप्रलब्धः ददामि इति त्वया अहम् आढ्यमानिना
तत् व्यलीक-फलम् भुङ्क्ष्व निरयम् कतिचित् समाः॥34॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो नामैकविंशोऽध्यायः॥ 21