Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 5 (தக்ஷன் நாரதரை சபித்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தக்ஷன் நாரதரை சபித்தார்

ஸ்கந்தம் 6: அத்யாயம் 5

 

श्री-शुक उवाच
तस्यम् स पाञ्चजन्याम् वै विष्णु-माया-उपबृंहित।
हर्य- अश्व-संज्ञानयुतम् पुत्रान् अजनयद् विभुः ॥ १ ॥

अपृथक् धर्म-शीलाः ते सर्वे दाक्षायणा नृप।
पित्रा प्रोक्ताः प्रजा-सर्गे प्रतीचीं प्रययुः दिशम् ॥ २ ॥

तत्र नारायण-सरस्-तीर्थं सिन्धु-समुद्रयोः।
सङ्गमो यत्र सुमहन् मुनि-सिद्ध-निषेवितम् ॥ ३ ॥

तद् उपस्पर्शनात् एव विनिर्धूत-मलाशयाः।
धर्मे पार-महंस्ये च प्रोत्पन्न-मतयः अपि उत ॥ ४ ॥

ते पिरे तप एवो-ग्रं पितृ-आदेशेन यन्त्रिताः।
प्रजा-विवृद्धये यत्तान् देव-र्षि-स्तान् ददर्श ह ॥ ५ ॥

उवाच चाथ हर्य- अश्वाः कथं स्रक्ष्यथ वै प्रजाः।
अदृष्ट्वा अन्तं भुवः यूयं बालिशा बत पालकाः ॥ ६ ॥

तथैक-पुरुषं राष्ट्रं बिलं च अदृष्ट-निर्गमम्।
बहु- रूपां स्त्रियं च अपि पुमांसं पुञ्श्च-लीपतिम् ॥ ७ ॥

नदीम् उभयतो वाहां पञ्च-पञ्चाद्भुतं गृहम्।
क्वचित् धंसं चित्र-कथं क्षौर-पव्यं स्वयं भ्रमिम् ॥ ८ ॥

कथं स्व-पितृ-आदेशं अविद्वांसः विपश्चितः।
अनुरूपम् अविज्ञाय अहो सर्गं करिष्यथ ॥ ९ ॥

श्री-शुक उवाच
तन्निशम्याथ हर्य- अश्वा औत्पत्तिकम् अनीषया।
वाचः-कूटं तु देव-र्षेः स्वयं विममृशुर्धिया ॥ १० ॥

भूः क्षेत्रं जीव-संज्ञं यद् अनादि निज-बन्धनम्।
अदृष्ट्वा तस्य निर्वाणं किमसत् कर्मभिः भवेत् ॥ ११ ॥

एक एव ईश्वरः तुर्यः भगवान् स्व-आश्रयः परः।
तम् अदृष्ट्वा अभवं पुंसः किमसत् कर्मभिः भवेत् ॥ १२ ॥

पुमान् नैव एति यद् गत्वा बिल-स्वर्गं गतो यथा।
प्रत्यग् धामाविद् इह किमसत् कर्मभिः भवेत् ॥ १३ ॥

नानारूपाऽऽत्मनो बुद्धिः स्वैरिणीव गुणान्विता।
तन्निष्ठा मगतः येह किमसत् कर्मभिः भवेत् ॥ १४ ॥

तत् सङ्ग-भ्रंशित ऐश्वर्यं संसरन्तं कुभार्यवत्।
तद् गतीर बुधस्येह किमसत् कर्मभिः भवेत् ॥ १५ ॥

सृष्ट्यप्य यकरीं मायां वेला-कूलान्त-वेगिताम्।
मत्तस्य ताम् अविज्ञस्य किमसत् कर्मभिः भवेत् ॥ १६ ॥

पञ्चविंशति तत्त्वानां पुरुषोऽद्भुत-दर्पणम्।
अध्यात्म-मबुधस्येह किमसत् कर्मभिः भवेत् ॥ १७ ॥

ऐश्वरं शास्त्रम् उत्सृज्य बन्ध-मोक्षान् उदर्शनम्।
विविक्त- पदम् अज्ञाय किमसत् कर्मभिः भवेत् ॥ १८ ॥

काल-चक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत्।
स्वतन्त्रम् अबुधस्येह किमसत् कर्मभिः भवेत् ॥ १९ ॥

शास्त्रस्य पितृ-आदेशं यो न वेद निवर्तकम्।
कथं तद् अनुरूपाय गुण-विश्रम्भ्य उपक्रमेत् ॥ २० ॥

श्री-शुक उवाच
इति व्यवसिता राजन् हर्य-अश्वा एक-चेतसः।
प्रययुः तं परिक्रम्य पन्थानम् अनिवर्तनम् ॥ २१ ॥

स्वर-ब्रह्मणि निर्भात हृषीकेश-पदाम्बुजे।
अखण्डं चित्तम् आवेश्य लोकान् अनुचरन् मुनिः ॥ २२ ॥

नाशं निशम्य पुत्राणां नारदा-च्छील-शालिनाम्।
अन्वतप्यत कः शोचन् सुप्रजास्त्वं शुचां पदम् ॥ २३ ॥

स भूयः पाञ्चजन्यायाम् अजेन परिसान्त्वितः।
पुत्रान् अजनयद् दक्षः शबल- अश्वान् सहस्रिणः ॥ २४ ॥

तेऽपि पित्रा समादिष्टाः प्रजा-सर्गे धृत-व्रताः।
नारायण-सरो जग्मुः यत्र सिद्धाः स्व-पूर्वजाः ॥ २५ ॥

तद् उपस्पर्शनात् एव विनिर्धूत-मलाशयाः।
जपन्तो ब्रह्म परमं ते पुस् तत्र महत् तपः ॥ २६ ॥

अब्भक्षाः कतिचिन् मासान् कतिचिद् वायु-भोजनाः।
आराधयन् मन्त्र-मिमम् अभ्यस्यन्त इड-सपतिम् ॥ २७ ॥

ॐ नमो नारायणाय पुरुषाय महात्मने।
विशुद्ध-सत्त्व-धिष्ण्याय महा-हंसाय धीमहि ॥ २८ ॥

इति तान् अपि राजेन्द्र प्रतिसर्ग-धियो मुनिः।
उपेत्य नारदः प्राह वाचः-कूटानि पूर्ववत् ॥ २९ ॥

दाक्षायणाः संशृणुत गदतो निगमं मम।
अन्विच्छता अनुपद्वीं भ्रातृणां भ्रातृ-वतःलाः ॥ ३० ॥

भ्रातृणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित्।
स पुण्य-बन्धुः पुरुषो मरुद्भिः सह मोदते ॥ ३१ ॥

एतावद् उक्त्वा प्रययौ नारदः अमोघ-दर्शनः।
तेऽपि चान्वगमन मार्गं भ्रातृणाम् एव मारिष ॥ ३२ ॥

स ध्री-चीनं प्रती-चीनं परस्य अनु-पथं गताः।
न आद्यापि ते निवर्तन्ते पश्चिमा यामिनी-रिव् ॥ ३३ ॥

एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः।
पूर्व-वत् नारद-कृतं पुत्र-नाशम् उपाशृणोत् ॥ ३४ ॥

चुक्रोध नारदायासौ पुत्र-शोक-विमूर्च्छितः।
देव-र्षि मुपलभ्याह रोषात् विस्फुरित-आधारः ॥ ३५ ॥

श्री-दक्ष उवाच
अहो असाधो साधूनां साधु-लिङ्गेन नस्त्वया।
असाध्व-कार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ ३६ ॥

ऋणैः त्रिभिर् अमुक्तानाम् मीमांसित-कर्मणाम्।
विघातः श्रेयसः पाप लोकयोः उभयोः कृतः ॥ ३७ ॥

एवं त्वं निर-अनुक्रोशो बालानां मति-बिद्ध-रेः।
पार्षद-मध्ये च रसि यशोऽहा निर-पत्र-पः ॥ ३८ ॥

ननु भागवता नित्यं भूत-अनुग्रह- कातराः।
ऋते त्वां सौहृद-घ्नं वै वैरङ्करम् अवैरिणाम् ॥ ३९ ॥

नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा।
मन्यसे यद्युपशमं स्नेह-पाश-नि-कृन्तनम् ॥ ४० ॥

न-अनुभूय न जानाति पुमान् विषय-तीक्ष्णताम्।
निर्विद्यते स्वयं तस्मात् न तथा भिन्न-धीः परैः ॥ ४१ ॥

यत् नस्त्वं कर्म-सन्धानां साधूनां गृह-मेधिनाम्।
कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥ ४२ ॥

तन्तु-कृन्तन यत् नस्त्वं अभद्रं अचरः पुनः।
तस्मात् लोकेषु ते मूढ न भवेत् भ्रमतः पदम् ॥ ४३ ॥

श्री-शुक उवाच
प्रतिजग्राह तद् बा ढं नारदः साधु-सम्मतः।
एतावान् साधु-वादा हि तितिक्षेत् ईश्वरः स्वयम् ॥ ४४ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे नारद-शापो नाम पञ्चमोऽध्याय ॥ ५ ॥

ஸ்கந்தம் 6: அத்யாயம் 4 (தக்ஷ ஸ்துதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தக்ஷ ஸ்துதி

ஸ்கந்தம் 6: அத்யாயம் 4

 

श्री-राजा उवाच
देव-असुर-नृणां सर्गः नागानां मृग-पक्षिणाम्।
सामासिकः त्वया प्रोक्तो यः तु स्व-आयम्भु-वेऽन्तरे ॥ १ ॥

तस्यैव व्यासं इच्छामि ज्ञातुं ते भगवन् यथा।
अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥ २ ॥

श्री-सूत उवाच
इति सम्प्रश्नं आकर्त्य राजर्षेः बादरायणिः।
प्रतिनन्द्य महा-योगी जगाद मुनि-सत्तमाः ॥ ३ ॥

श्री-शुक उवाच
यदा प्रचेतसः पुत्राः दश प्राचीन-बर्हिषः।
अन्तः-समुद्रात् उन्मग्ना ददृशुर्गां द्रुमैः वृताम् ॥ ४ ॥

द्रुमेभ्यः क्रुध्य-मानाः ते तपो-दीपित-मन्यवः।
मुखतो वायुं अग्निं च ससृजुस्तद्-धिक्षया ॥ ५ ॥

ताभ्यां निर्दह्यमानाः तान् उपलभ्य कुरू-उद्धः।
राजो-उवाच महान् सोमो मन्युं प्रशमयन् निव ॥ ६ ॥

मा द्रुमेभ्यः महा-भागा दीनेभ्यः द्रोग्धु-मार्थ।
विवर्धयिषवः यूयं प्रजानां पतयः स्मृताः ॥ ७ ॥

अहो प्रजा-पति-पतिः भगवान् हरि-रव्ययः।
वन-स्पती-नोषधिश् च ससर्जोर्जमिषं विभुः ॥ ८ ॥

अन्नं चराणाम् अचरा ह्यपदः पाद-चारिणाम्।
अहस्ता हस्त-युक्तानां द्वि-पदां च चतु-ष्पदः ॥ ९ ॥

यूयं च पित्रान्वादिष्टा देव-देवेन च अनघाः।
प्रजा-सर्गाय हि कथं वृक्षान् निर्दग्धुं अर्हथ ॥ १० ॥

आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम्।
पित्रा पितामहेन अपि जुष्टं वः प्र-पितामहैः ॥ ११ ॥

तो-का-नाम् पितरौ बन्धू दृष्टः पक्ष्म स्त्रियाः पतिः।
पतिः प्रजानां भिक्षूणां गृह्य-ज्ञानां बुधः सुहृत् ॥ १२ ॥

अन्तर्-देहेषु भूतानामात्माऽस्ते हरि-ईश्वरः।
सर्वं तद्-धिष्णु-मीक्षध्वम् एवं वत्सोषितो ह्यसौ ॥ १३ ॥

यः समुत्पतितं देह आकाशात् मन्यु-मुल्बणम्।
आत्म-जिज्ञासया यच्छेत् स गुणान-ति-वर्तते ॥ १४ ॥

अलं दग्धैः द्रुमैः दीनेभ्यः खिलानां शिवमस्तु वः।
वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ १५ ॥

इति आमन्त्र्य वर-रोहां कन्याम् आप्सरसीं नृप।
सोमो राजा ययौ दत्त्वा ते धर्मेण उपये-मिरे ॥ १६ ॥

तेभ्यः तस्यां समभवद्दक्षः प्राचेतसः किल।
यस्य प्रजा-विसर्गेण लोका आपूरितास्त्रयः ॥ १७ ॥

यथा ससर्ज भूतानि दक्षः दुहितृ-वत्सलः।
रेतसा मनसा चैव तन्ममावहितः शृणु ॥ १८ ॥

मनसा एवासृजत् पूर्वं प्रजा-पतिः इमाः प्रजाः।
देव-असुर-अनुष्य-आदि नभः-स्थल-जल-औकसः ॥ १९ ॥

तम् अबृंहित-मालोक्य प्रजा-सर्गं प्रजा-पतिः।
विन्ध्य-पादानुपव्रज्य सोऽचरद्-दुष्करं तपः ॥ २० ॥

तत्र-आघ-मर्षणम् नाम तीर्थम् पाप-हरम् परम्।
उप-स्पृश्य-अनुसवनम् तपसा-तोषयद्धरिम् ॥ २१ ॥

अस्तौषीत् धंस-गुह्येन भगवन् तम् अधो-क्षजम्।
तुभ्यं तद् अभिधास्यामि कस्यात् उष्यद्यथा हरिः ॥ २२ ॥

श्री-प्रजापति- उवाच
नमः पराया-ऽवितथानुभूतये
गुण-त्रय-आभास-निमित्त-बन्धवे।
अदृष्ट-धाम्ने गुण-तत्त्व-बुद्धिभि-
र्निवृत्त-मानाय दधे स्वयम्भुवे ॥ २३ ॥

न यस्य सख्यं पुरुषः अवैति सख्युः
सखा वसन् संवसतः पुरेऽस्मिन्।
गुणः यथा गुणिनो व्यक्त-दृष्टे-
स्तस्मै महेशाय नमस्करोमि ॥ २४ ॥

देहः असवः अक्षाः मनः भूत-मात्राः
नात्मानं अन्यं च विदुः परं यत्।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञः
न वेद सर्वज्ञ-अनन्तम् इडे ॥ २५ ॥

यद् ऊपरामो मनसो नाम-रूप-
रूपस्य दृष्ट-स्मृति-सम्प्रमोषात्।
य ईयते केवलया स्व-संस्थया
हंसाय तस्मै शुचि-सद्मने नमः ॥ २६ ॥

मनीषिणः अन्तः-हृदि सन्निवेशितम्
स्व-शक्तिभिः नवभिः त्रिवृद्भिः।
वह्निं यथा दारुणि पाञ्च-दश्यं
मनीषया निष्कर्षन्ति गूढम् ॥ २७ ॥

स वै मम आशेष-विशेष-माया
निषेध-निर्वाण-सुखानुभूतिः।
स सर्व-नामा स च विश्व-रूपः
प्रसीदताम् अनिरुक्त-आत्म-शक्तिः ॥ २८ ॥

यद्यन्निरुक्तम् वचसा निरूपितम्
धियाक्षभिर्वा मनसा वोत यस्य।
मा भूत्वा स्वरूपं गुण-रूपं हि तत्तत्
स वै गुण-अपाय-विशर्ग-लक्षणः ॥ २९ ॥

यस्मिन् यतो येन च यस्य यस्मै
यद् यो यथा कुरुते कार्यते च।
परावरेषां परमं प्राक् प्रासिद्धम्
तद् ब्रह्म तद्धेतुर अनन्य-एकम् ॥ ३० ॥

यच्छक्तयः वदतां वादिनां वै
विवाद-संवाद-भुवो भवन्ति।
कुर्वन्ति चैषां मुहुरात्म-मोहं
तस्मै नमोऽनन्त-गुणाय भूम्ने ॥ ३१ ॥

अस्तीति नास्तीति च वस्तु-निष्ठयो-
रेकस्थयोः भिन्न-विरुद्ध-धर्मयोः।
अवेक्षितं किञ्चन योग-साङ्ख्ययोः
समं परं ह्यनुकूलं बृहत्तत् ॥ ३२ ॥

योऽनुग्रह-आर्थं भजतां पाद-मूल-
मनाम-रूपो भगवान् अनन्तः।
नामानि रूपाणि च जन्म-कर्म-भि-
र्भेजे स मह्यं परमः प्रसीदतु ॥ ३३ ॥

यः प्राकृतैः ज्ञान-पथैः जनानां
यथाशयं देह-गतो विभाति।
यथा अनिलः पार्थिवम् आश्रितो गुणं
स ईश्वरो मे कुरुतान् मनोरथम् ॥ ३४ ॥

श्री-शुक उवाच
इति स्तुतः संस्तुवतः स तस्मिन् नघ-मर्षणे।
आविरासीत् कुरु-श्रेष्ठ भगवान् भक्तवत्सलः ॥ ३५ ॥

कृत-पादः सुपर्णांसे प्रलम्ब-आठ-महाभुजः।
चक्र-शङ्खा-सि-चर्मेषु धनुः-पाश-गदाधरः ॥ ३६ ॥

पीत-वासा घन-श्यामः प्रसन्न-वदनेक्षणः।
वन-माला-निवीताङ्गो लस-श्री-वात्स-कौस्तुभः ॥ ३७ ॥

महाकिरीट-कटकः स्फुरन्मकर-कुण्डलः।
काञ्च्य-अंगुली-यवलय-नूपुर-आङ्ग-दभूषितः ॥ ३८ ॥

त्रैलोक्य-मोहनं रूपं बिभ्रत् त्रि-भुवनेश्वरः।
वृतो नारद-नन्दाद्यैः पार्षदैः सुर-यूथ-पैः ॥ ३९ ॥

स्तूयमानः अनुगाय-इद्भिः सिद्ध-गन्धर्व-चारणैः।
रूपं तन्महद् आश्चर्यं विचक्ष्य आगत-साध्वस् ॥ ४० ॥

न-नाम दण्ड-वद् भूमौ प्रहृष्ट-आत्मा प्रजापतिः।
न किञ्चन ओदीरयितुम् अशकत् तीव्र-या मुदा।
आपूर्तम् मनो-द्वारैः हृदि-न्य इव निर्झरैः ॥ ४१ ॥

तं तथावनतं भक्तम् प्रजा-कामं प्रजापतिम्।
चित्त-ज्ञः सर्व-भूतानाम् इदम् आह जनार्दनः ॥ ४२ ॥

श्री-भगवान् उवाच
प्राचेतस् महा-भाग संसिद्ध-तपसा भवान्।
यत् श्रद्धया मत् परया मयि भावं परं गतः ॥ ४३ ॥

प्रीतः अहम् ते प्रजा-नाथ यत् तेऽस्य उद्बृंहणं तपः।
मम ऐष कामः भूतानां यत् भूयासुः विभूतयः ॥ ४४ ॥

ब्रह्मा भवः भवन्तश्च मनवः विबुध-ईश्वराः।
विभूतयः मम हि एता भूतानां भूति-हेतवः ॥ ४५ ॥

तपो मे हृदयं ब्रह्मं स्तनुः विद्या क्रियाऽकृतिः।
अङ्गानि क्रतवः जाताः धर्म आत्मा-असवः सुराः ॥ ४६ ॥

अहं एव असमेव आग्रे नान्यत् किञ्च अन्तरं बहिः।
संज्ञान मात्रम् अव्यक्तम् प्रसुप्तम् इव विश्वतः ॥ ४७ ॥

मयि अनन्त-गुणेऽनन्ते गुणतः गुण-विग्रहः।
यदाऽसीत् तत् एव अद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥

स वै यदा महा-देवो मम वीर्य-उपबृंहितः।
मेने खिलम् इव आत्मानम् उद्यतः सर्ग-कर्मणि ॥ ४९ ॥

अथ मेऽभिहितो देवः तपोऽतप्यत दारुणम्।
नव विश्व-सृजो युष्मान् येन आदाव सृजद् विभुः ॥ ५० ॥

एषा पञ्च-जनस्याङ्ग दुहिता वै प्रजापतेः।
असिक्नी नाम पत्नीत्वे प्रजेश् प्रतिगृह्यताम् ॥ ५१ ॥

मिथुन-व्यवाय-धर्मः त्वम् प्रजा-सर्गम् इमं पुनः।
मिथुन-व्यवाय-धर्मिण्याम् भूरिशो भावयिष्यसि ॥ ५२ ॥

त्वत्तोऽधः तात् प्रजाः सर्वा मिथुनी-भूय मायया।
मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३ ॥

श्री-शुक उवाच
इति उक्त्वा मिषतस् तस्य भगवान् विश्व-भावनः।
स्वप्न-उपलब्धार्थ इव तत्र एव अन्तर-दधे हरिः ॥ ५४ ॥

इति श्री-मद्भागवते महा-पुराणे पार-महंस्यां संहितायां
षष्ठ-स्कन्धे चतुर्थः अध्यायः ॥ ४ ॥

ஸ்கந்தம் 6: அத்யாயம் 3 (யமதர்மன் ஆணை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

யமதர்மன் ஆணை

ஸ்கந்தம் 6: அத்யாயம் 3

 

श्री-राजा उवाच
निशम्य देवः स्व-भट-उपवर्णितं
प्रत्याह किं तान् प्रति धर्म-राजः।
एवं हत-आज्ञो विहतान् मुुरारे-
र्नैदेशिकैः यस्य वशे जनः अयम् ॥ १ ॥

यमस्य देवस्य न दण्ड-भङ्गः
कुतश्चनर्षे श्रुत-पूर्व आसीत्।
एतत् मुने वृश्चति लोक-संशयं
न हि त्वद् अन्य इति मे विनिश्चितम् ॥ २ ॥

श्री-शुक उवाच
भगवत् पुरुषैः राजन् याम्याः प्रतिहतः उद्यमाः।
पतिं विज्ञापयामासुर्यम् संयम-नीपतिम् ॥ ३ ॥

यम-दूता ऊचुः
कति सन्तीह शास्तारः जीव-लोकस्य वै प्रभो।
त्रैविध्यं कुर्वतः कर्म-फल- अभिव्यक्ति-हेतवः ॥ ४ ॥

यदि स्युः बहवो लोके शास्तारः दण्ड-धारिणः।
कस्य स्यातां न वा कस्य मृत्युश्च अमृतमेव वा ॥ ५ ॥

किंतु शास्तृ-बहुत्वे स्याद् बहूनाम् इह कर्मिणाम्।
शास्तृत्वम् उपचारः हि यथा मण्डल-वर्तिनाम् ॥ ६ ॥

अतः त्वम् एको भूतानां सेश्वराणाम् अधीश्वरः।
शास्ता दण्ड-धरो नृणां शुभ- अशुभ-विवेचनः ॥ ७ ॥

तस्य ते विहितो दण्डो न लोके वर्तते अधुना।
चतुर्भिर अद्भुतैः सिद्धैराज्ञा ते विप्र-लम्भिता ॥ ८ ॥

नीयमानं तव आदेशात् अस्माभिः यातना-गृहान्।
व्यामोचयन् पातकं छित्त्वा पाशान् प्रसह्य ते ॥ ९ ॥

तान् ते वेदितुम् इच्छामो यदि नो मन्यसे क्षमम्।
नारायणेत्य अभिहिते मा भैरित्य आययुर्द्रुतम् ॥ १० ॥

श्री-शुक उवाच
इति देवः स आपृष्टः प्रजा-संयम-नो यमः।
प्रीतः स्व-दूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ ११ ॥

यम उवाच
परो मदन्यो जगत् स्थतुषः श्च
ओतं प्रोतं पटवद्यत्र विश्वम्।
यद् अंशतोऽस्य स्थिति-जन्म-नाशा
नस्योतवद् यस्य वशे च लोकः ॥ १२ ॥

यो नामभिः वाचि जन-निजायां
बध्नाति तन्त्याम् इव दामभिः गाः।
यस्मै बलिं त इमे नाम-कर्म-
निबन्ध-बद्धाश्चकिता वहन्ति ॥ १३ ॥

अहं महेन्द्रः निरृतिः प्रचेताः
सोमः अग्निर ईशः पवनः अर्कः विरिञ्चः।
आदित्यः विश्वे वसवोऽथ साध्याः
मरुद्-गणा रुद्र-गणाः स-सिद्धाः ॥ १४ ॥

अन्ये च ये विश्व-सृजोऽमरेशाः
भृग्वादयः अस्पृष्ट-रजस् तमस्काः।
यस्ये हितं न विदुः स्पृष्ट-मायाः
सत्त्व-प्रधाना अपि किं ततोऽन्ये ॥ १५ ॥

यं वै न गोभिः मनसा-सुभिर्वा
हृदा गिरा वासु-भृतो विचक्षते।
आत्मानम् अन्तर-हृदि सन्त-आत्मना
चक्षुर् यथैव आकृतयः ततः परम् ॥ १६ ॥

तस्य आत्म-तन्त्रस्य हरेः अधीशितुः
परस्य मायाधिपतेर्महात्मनः।
प्रायेण दूता इह वै मनो-हरा-
श्चरन्ति तद् रूप-गुण-स्वभावाः ॥ १७ ॥

भूतानि विष्णोः सुर-पूजितानि
दुर्दर्श-लिङ्गानि महाद्भुतानि।
रक्षन्ति तद् भक्तिमतः परेभ्यः
मत्तश्च मर्त्यान् अथ सर्वतश्च ॥ १८ ॥

धर्मं तु साक्षात् भगवत् प्रणीतम्
न वै विदुर् ऋषयो न अपि देवाः।
न सिद्ध-मुख्या असुरा मनुष्याः
कुतश्च विद्याधर-चारणादयः ॥ १९ ॥

स्वयम्भूः नारदः शम्भुः कुमारः कपिलो मनुः।
प्रह्लादो जनकः भीष्मः बलिर्वैयासकिर्वयम् ॥ २० ॥

द्वादशैते विजानीमः धर्मं भागवतं भटाः।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वा अमृतम् अश्नुते ॥ २१ ॥

एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः।
भक्तियोगः भगवति तन्नाम-ग्रहणादिभिः ॥ २२ ॥

नाम-उच्चारण-माहात्म्यम् हरेः पश्यत पुत्रकाः।
अजामिलोऽपि येनैव मृत्युपाशात् अमुच्यत ॥ २३ ॥

एतावता-लमघ-निर्हरणाय पुंसां
सङ्कीर्तनं भगवतो गुण-कर्म-नाम्नाम्।
विक्रुश्य पुत्र-मघवान् यद् अजामिलोऽपि
नारायणेति म्रियमाण इयाय मुक्तिम् ॥ २४ ॥

प्रायेण वेद तदिदं न महा-जनः अयं
देव्या विमोहित-मतिर्बत् माय-यालम्।
त्रय्याम् जड़ीकृत-मतिर्मधु-पुष्पितायां
वैतानिके महति कर्मणि युज्यमानः ॥ २५ ॥

एवं विमृश्य सुधियो भगवत्य अनन्ते
सर्व-आत्मना विदधते खलु भाव-योगम्।
ते मे न दण्डमर्हन्ति यथ यमि षां
स्यात् पातकं तदपि हन्त्युरुगा-यवादः ॥ २६ ॥

ते देव-सिद्ध-परिगीत-पवित्र-गाथा
ये साधवः समदृशो भगवत् प्रपन्नाः।
तान् नोपसीदत हरेर्गद-याभिगुप्तान्
न एषां वयं न च वयः प्रभवाम् दण्डे ॥ २७ ॥

तान् अनय-ध्वम् असतो विमुखान् मुकुन्द-
पाद-आरविन्द-मकरन्द-रसादजस्रम्।
निष्किञ्चनैः परमहंस-कुलैः रस-ज्ञैः
र्जुष्टाद् गृहें निरय-वर्त्मनि बद्ध-तृष्णान् ॥ २८ ॥

जिह्वा न वक्ति भगवद् गुण-नामधेयं
चेतश्च न स्मरति तच्चरण-आरविन्दम्।
कृष्णाय नो नमति यच्छिर एकदापि
तान् अनय-ध्वम् असतोऽकृत-विष्णु-कृत्यान् ॥ २९ ॥

तत् क्षम्यतां स भगवान् पुरुषः पुराणः
नारायणः स्व-पुरुषैः यद् असत्कृतं नः।
स्वानाम् हो न विदुषां रचिताञ्जलीनां
क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥ ३० ॥

तस्मात् सङ्कीर्तनं विष्णोः जगत्-मङ्गलम् अंशम्।
महताम् अपि कौरव्य विद्ध्यैकान्तिक-निष्कृतम् ॥ ३१ ॥

शृण्वतां गृणतां वीर्याणि उद्दामानि हरेः मुहुः।
यथा सुजातया भक्त्या शुद्ध्येत् नात्मा व्रतादिभिः ॥ ३२ ॥

कृष्णाङ्घ्रि-पद्म-मधुलिण् न पुनः विसृष्ट-
माया-गुणेषु रमते वृजिनाव-हेषु।
अन्यस्तु काम-हत आत्म-रजः प्रमार्ष्टुम्
ईहेत् कर्म यत् एव रजः पुनः स्यात् ॥ ३३ ॥

इति स्व-भर्तृ-गदितम् भगवन् महित्वम्
संस्मृत्य विस्मित-धियो यम-किङ्करास्ते।
नैव अच्युत-आश्रयजनं प्रति शङ्कमाना
द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ ३४ ॥

इतिहासम् इमं गुह्यं भगवान् कुम्भ-सम्भवः।
कथयामास मलय आसीनो हरि-मर्चयन् ॥ ३५ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे यम-पुरुष-संवादे तृतीयोऽध्यायः ॥ ३ ॥

ஸ்கந்தம் 6: அத்யாயம் 2 (விஷ்ணு பார்ஷதர்கள் வருகை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

விஷ்ணு பார்ஷதர்கள் வருகை

ஸ்கந்தம் 6: அத்யாயம் 2

 

श्री-शुक उवाच
एवं ते भगवद्-दूता यम-दूताभि-भाषितम्।
उप-धार्याः तान् राजन् प्रत्याहुर्नयक-विदाः ॥ १ ॥

श्री-विष्णु-दूता ऊचुः
अहो कष्टं धर्म-दृशाम् अधर्मः स्पृशते सभाम्।
यत्रादण्ड्येषु अपापेषु दण्डो यैः ध्रियते वृथा ॥ २ ॥

प्रजानां पितरः ये च शास्तारः साधवः समाः।
यदि स्यात् तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ ३ ॥

यद्यदाचरति श्रेयान् अन्यतस्तत् दीहते।
स यत् प्रमाणं कुरुते लोकः तद् अनु-वर्तते ॥ ४ ॥

यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः।
स्वयम् धर्म-अधर्मं वा न हि वेद यथा पशुः ॥ ५ ॥

स कथं न्यर्पित आत्मानं कृत-मैत्रं अचेतनम्।
विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ ६ ॥

अयं हि कृत-निर्वेशो जन्मकोट्यं हसामपि।
यद् व्याज-हार विवशो नाम् स्वस्त्ययनं हरेः ॥ ७ ॥

एतेनैव ह्यघोनोऽस्य कृतं स्याद् घनि-ष्कृतम्।
यदा नारायणाय एति जगाद् चतु-ऋक्षरम् ॥ ८ ॥

स्तेनः सुरापो मित्र-ध्रुग् ब्रह्म-हा गुरुतल्पगः।
स्त्री-राज-पितृ-गोहन्ता ये च पातक-िनोऽपरे ॥ ९ ॥

सर्वेषाम् अप्य-घवताम् इदमेव सु-निष्कृतम्।
नाम-व्याहरणं विष्णोः यतस्तद् विषयाः मतिः ॥ १० ॥

न निष्कृतेर् उदितैः ब्रह्म-वादिभिः
स्तथा विशुद्ध्यति घवान् व्रतादिभिः।
यथा हरेः नाम-पदैर् उदाहृतैः
स्तद् उत्तम-श्लोक-गुणोपलम्भकम् ॥ ११ ॥

नैकान्तिकं तद्धि कृतेऽपि निष्कृते
मनः पुनः धावति चेदसत् पथे।
तत् कर्म-निर्हारम् अभ्यप्सतां हरेः
गुणानु-वादः खलु सत्त्व-भावनः ॥ १२ ॥

अथ एतं मापनयत् कृत-आशेष-घनि-ष्कृतम्।
यदसौ भगवन् नाम म्रियमानः समग्र-हित् ॥ १३ ॥

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनम् एव वा।
वैकुण्ठ-नाम-ग्रहणम् अशेष-घ-हरम् विदुः ॥ १४ ॥

पतितः स्खलितः भग्नः सन्दष्टः तप्त आहतः।
हरिर् इति अवशेनाह पुमान् नार्हति यातनाम् ॥ १५ ॥

गुरूणां च लघूनां च गुरूणि च लघूनि च।
प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १६ ॥

तैः तानि घानि पूयन्ते तपो-दन-जपादिभिः।
नाधर्मजं तद्धृदयं तद् अपि शाङ्-घ्रि-सेवया ॥ १७ ॥

अज्ञानात् अथवा ज्ञानात् उत्तम-श्लोक-नाम यत्।
सङ्कीर्तितम् घं पुंसो दहे देधो यथा अनलः ॥ १८ ॥

यथा गदं वीर्य-तमम् उपयुक्तं यदृच्छया।
अजानतोऽपि आत्म-गुणं कुर्यात् मन्त्रः अपि उदाहृतः ॥ १९ ॥

श्री-शुक उवाच
ते एवं सुविनिर्णीय धर्मं भागवतं नृप।
तं याम्यपाशान् निर्मुच्य विप्रं मृत्योर् अमूमुचन् ॥ २० ॥

इति प्रत्युदिता याम्या दूता यात्वा यम-आन्तिके।
यम-राज्ञे यथा सर्वम् आचक्षुर् अरिन्दम् ॥ २१ ॥

द्विजः पाशाद् विनिर्मुक्तः गत-भीः प्रकृतिं गतः।
ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥ २२ ॥

तं विवक्षुम् अभिप्रेत्य महापुरुष-किङ्कराः।
सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३ ॥

अजामिलोऽपि अथाकर्ण्य दूतानाम् यम-कृष्णयोः।
धर्मं भागवतं शुद्धं त्रैवेद्यं च गुण-आश्रयम् ॥ २४ ॥

भक्तिमान् भगवत्याः शु माहात्म्य-श्रवणात् धरेः।
अनुतापः महानासीत् स्मरतः अशुभम् आत्मनः ॥ २५ ॥

अहो मे परमं कष्टम् अभूद् अविजित-आत्मनः।
येन विप्लावितं ब्रह्म वृषल्यां जायताऽऽत्मना ॥ २६ ॥

धिङ्-माम् विगर्हितं सद्भिर्दुष्कृतं कुल-कज्जलम्।
हित्वा बालां सतीं योऽहं सुरापाम् असतीं अगाम् ॥ २७ ॥

वृद्ध-आवनाथौ पितरौ नान्य-बन्धू तपस्विनौ।
अहो मया अधुना त्यक्तौ अकृतज्ञेन नीचवत् ॥ २८ ॥

सोऽहं व्यक्तं पतिष्यामि नरके भृश-दारुणे।
धर्म-घ्नाः कामिनो यत्र विन्दन्ति यम-आयतनाः ॥ २९ ॥

किमिदं स्वप्न आहो स्वित् साक्षात् दृष्टम् इह अद्भुतम्।
क्व याता अद्य ते ये मां व्यकर्षन् पाश-पाणयः ॥ ३० ॥

अथ ते क्व गताः सिद्धाश्चत्वारश् चारु-दर्शनाः।
व्यामोचयन् नीयमानं बद्ध्वा पाशैर् अधो भुवः ॥ ३१ ॥

अथापि मे दुर्भगस्य विबुध- उत्तम-दर्शनॆ।
भवितव्यं मङ्गलेन येन आत्मा मे प्रसीदति ॥ ३२ ॥

अन्यथा म्रियमानस्य नाशु चेर्वृषल-इपतेः।
वैकुण्ठ-नाम ग्रहणं जिह्वा वक्तुम् इह आर्हति ॥ ३३ ॥

क्व च अहं कितवः पापो ब्रह्म-घ्नो निर-पत्रपः।
क्व च नारायणेत्येतत् भगवन् नाम मङ्गलम् ॥ ३४ ॥

सोऽहं तथा यतिष्यामि यत् चित्तेन्द्रिय- अनिलः।
यथा न भूयः आत्मानं अन्धे तमसि मज्जये ॥ ३५ ॥

विमुच्य तमिम् बन्धम् अविद्या-काम-कर्मजम्।
सर्व-भूत-सुहृच्छान्तः मैत्रः करुण आत्मवान् ॥ ३६ ॥

मोचये ग्रस्तम् आत्मानं योषिन् मय्याऽऽत्म-मायया।
विक्रीडितो ययैव अहं क्रीडा-मृग इव अधमः ॥ ३७ ॥

मम आहम् इति देहादौ हित्वा अमिथ्यर्थ-धीः मतिम्।
धास्ये मनो भगवति शुद्धं तत् कीर्तनादिभिः ॥ ३८ ॥

श्री-शुक उवाच
इति जात-सुनिर्वेदः क्षण-सङ्गेन् साधुषु।
गङ्गा-द्वारम् उपेयाय मुक्त-सर्वान्-उबन्धनः ॥ ३९ ॥

स तस्मिन् देव-सदन आसीनः योगम् आश्रितः।
प्रत्याहृत-इन्द्रिय- ग्रामो युयोज मन आत्मनि ॥ ४० ॥

ततो गुणेभ्यः आत्मानं वियुज्य आत्म-समाधिना।
युयुजे भगवन् धाम्नि ब्रह्मणि अनुभव-आत्मनि ॥ ४१ ॥

यत् हि उपारत-धीः तस्मिन् न दृष्टः पुरुषान् पुरः।
उपलभ्य उपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ ४२ ॥

हित्वा कलेवरम् तीर्थे गङ्गायां दर्शनात् अनु।
सद्यः स्वरूपं जगृहे भगवत् पार्श्व-वर्तिनाम् ॥ ४३ ॥

साकं विहायसा विप्रो महापुरुष-किङ्करैः।
हैमं विमानं आरुह्य ययौ यत्र श्रियः पतिः ॥ ४४ ॥

एवं स विप्लावित सर्व-धर्मा
दास्याः पतिः पतितः गर्ह्य-कर्मणा।
निपात्यमानो निरये हत-व्रतः
सद्यः विमुक्तः भगवन् नाम गृह्णन् ॥ ४५ ॥

न अतः परं कर्म-निबन्ध-कृत्नं
मुमुक्षतां तीर्थ-पदान् अनुकीर्तनात्।
न यत् पुनः कर्मसु सज्जते मनः
रजः-तमोभ्यां कलिलं ततः अन्यथा ॥ ४६ ॥

य एवं परमं गुह्यं इतिहास-मघा-पहम्।
श्रृणुयात् श्रद्धया युक्तः यश्च भक्त्या अनुकीर्तयेत् ॥ ४७ ॥

न वै स नरकं याति नेक्षितः यम-किङ्करैः।
यद्यपि मङ्गलो मर्त्यो विष्णु-लोके महीयते ॥ ४८ ॥

म्रियमानो हरेर्नाम गृणन् पुत्रोप-चारितम्।
अजामिलोऽपि अगाद्धाम किं पुनः श्रद्धया गृणन् ॥ ४९ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे अजामिलोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥

ஸ்கந்தம் 6: அத்யாயம் 1 (அஜாமிளன் வாழ்க்கை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அஜாமிளன் வாழ்க்கை

ஸ்கந்தம் 6: அத்யாயம் 1

 

राजो-वाच
निवृत्ति-मार्गः कथितः आदौ भगवता यथा।
क्रम-योगोपलब्धेन ब्रह्मणा यत् असंसृतिः ॥ १ ॥

प्रवृत्ति-लक्षणः च एव त्रैगुण्य-विषयः मुने।
योऽसा अवलीन-प्रकृतेर् गुण-सर्गः पुनः पुनः ॥ २ ॥

अधर्म-लक्षणाः नाना नरकाः चानुवर्णिताः।
मन्वन्तरः च व्याख्यातः आद्यः स्वायम्भुवो यतः ॥ ३ ॥

प्रिय-व्रतः उत् तानपदोर्वंशः तच्चरितानि च।
द्वीप-वर्ष-समुद्राद् रिनद्य-उद्यान-वनस्पतीन् ॥ ४ ॥

धरा-मण्डल-संस्थानं भाग-लक्षण-मानतः।
ज्योतिषां विवराणां च यथेतद् असृजद् विभुः ॥ ५ ॥

अधुने ह महाभाग यथैव नरकान् नरः।
नाना-ग्रयातनान् नेयात् तन्मे व्याख्यातुम् अर्हसि ॥ ६ ॥

श्री-शुक उवाच
न चेद् इह एव अपचितिं यथांहसः
कृतस्य मनौक्त-पाणिभिः।
ध्रुवं स वै प्रेत्य नरकान् उपैति
ये कीर्तिता मे भवतस्तिग्म-यातनाः ॥ ७ ॥

तस्मात् पुरैव अश्विह पाप-नि:कृतौ
यतेत् मृत्योर् अविपद्यत् आत्मना।
दोषस्य दृष्ट्वा गुरु-लाघवं यथा
भिषक् चिकित्सेत् रुजां निदान-वित् ॥ ८ ॥

श्री-राजो-वाच
दृष्ट-श्रुताभ्यां यत् पापं जानन् अपि आत्मनोऽहितम्।
करोति भूयो विवशः प्रायश्चित्तम् अथो कथम् ॥ ९ ॥

क्वचिन् निवर्ततेऽभद्रात् क्वचि चरति तत् पुनः।
प्रायश्चित्तम् अथोऽपार्थं मन्ये कुञ्जर-शौचवत् ॥ १० ॥

श्री-शुक उवाच
कर्मणा कर्म-निर्हारः न ह्यात्यन्तिक इष्यते।
अविद्वद् अधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥ ११ ॥

न अश्नतः पथ्यम् एव अन्नं व्याधयः अभिभवन्ति हि।
एवं नियम-कृत-राजन् शनैः क्षेमाय कल्पते ॥ १२ ॥

तपसा ब्रह्म-चर्येण शमेन च दमेन च।
त्यागेन सत्य-शौचाभ्यां यमेन नियमेन वा ॥ १३ ॥

देह-वाग्-बुद्धि-जं धीरा धर्म-ज्ञाः श्रद्धया अन्विताः।
क्षिपन्त्यघं महद् अपि वेणु-गुल्म-मिव अनलः ॥ १४ ॥

केचित् केवलया भक्त्या वासुदेव-परायणाः।
अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ १५ ॥

न तथा ह्य-घवान् राजन् पूयेत् तप आदिभिः।
यथा कृष्णार्पित-प्राणः तत् पुरुष-निषेवया ॥ १६ ॥

सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः।
सुशीलाः साधवो यत्र नारायण-परायणाः ॥ १७ ॥

प्रायश्चित्तानि चीर्णानि नारायण-पराङ् मुखम्।
न निष्पुनन्ति राजेन्द्र सुरा-कुम्भमिव आपगाः ॥ १८ ॥

सकृन्मनः कृष्ण-पदा-रविन्दयो-
निवेशितं तद् गुण-रागि यैरिह।
न ते यमं पाश-भृतश्च तद् भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्ण-नि:कृताः ॥ १९ ॥

अत्र चोदाहरन्तीम् अमितिहासं पुरातनम्।
दूतानां विष्णु-यमयोः संवादस्तं निबोध मे ॥ २० ॥

कान्यकुब्जे द्विजः कश्चिद् दासी-पतिर् अजामिलः।
नाम्ना नष्ट-सदाचारः दास्याः संसर्ग-दूषितः ॥ २१ ॥

बन्ध्य-शकैत-वैश्चौर्यैर्गर्हितां वृत्ति-मास्थितः।
बिभ्रत् कुटुम्बम् अशुचिर्यातयामास देहिनः ॥ २२ ॥

एवं निवसतस् तस्य लालयानस् तत् सुतान्।
कालः अत्यगान् महाः राजन् नष्टाशीत्यायुषः समाः ॥ २३ ॥

तस्य प्रवयसः पुत्राः दश तेषां तु योऽवमः।
बालः नारायणो नाम्ना पित्रोः च दयितो भृशम् ॥ २४ ॥

स बद्ध-हृदयः तस्मिन् नर्भके कलभाषिणि।
निरीक्षमाणः तल्लीलां मुमुदे जरठो भृशम् ॥ २५ ॥

भुञ्जानः प्रपिबन् खादन् बालक-स्नेह-यन्त्रितः।
भोजयन् पाययन् मूढो न वेद् आगतम् अन्तकम् ॥ २६ ॥

स एवं वर्तमानोऽज्ञो मृत्यु-काल उपस्थिते।
मतिं चकार तनये बाले नारायण-ाह्वये ॥ २७ ॥

स पाश-हस्तांश् त्रि-न्दृष्ट्वा पुरुषान् भृश-दारुणान्।
वक्र-तुण्डान् ऊर्ध्व-रोम्ण आत्मानं नेतुम् आगतान् ॥ २८ ॥

दूरे क्रीड-नकासक्तं पुत्रं नारायण-ाह्वयम्।
प्लावितेन स्वर-एणोच्चैर् आजुहावाकुलेन्द्रियः ॥ २९ ॥

निशम्य म्रियमाणस्य ब्रुवतो हरि-कीर्तनम्।
भर्तुः नाम महाराजः पार्षदाः सहसाऽपतन् ॥ ३० ॥

विकर्षतः अन्तर्-हृदयात् दासी-पतिम् अजामिलम्।
यम-प्रेष्याः विष्णु-दूता वारयामासुरोजसा ॥ ३१ ॥

ऊचुर्निषेधितास्तांस्ते वैवस्वत-पुरःसराः।
के यूयं प्रतिषेध-धारः धर्म-राजस्य शासनम् ॥ ३२ ॥

कस्य वा कुत् आयाताः कस्माद् अस्य निषेधः।
किं देवा उपदेवा या यूयं किं सिद्ध-सत्तमाः ॥ ३३ ॥

सर्वे पद्म-पलाश-ाक्षाः पीत-कौशेय-वाससः।
किरिटिनः कुण्डलिनः लसत् पुष्कर-मालिनः ॥ ३४ ॥

सर्वे च नूत्‍न-वयसः सर्वे चारु-चतुर्भुजाः।
धनुः निषङ्गासिगदाशङ् ख-चक्राम्बुज-श्रियः ॥ ३५ ॥

दिशो वितिमिर-आलोकाः कुर्वन्तः स्वेन रोचिषा।
किमर्थं धर्म-पालस्य किङ्करान् नो निषेधः ॥ ३६ ॥

श्री-शुक उवाच
इति उक्ते यम-दूतैः तैः वासुदेव-उक्त-कारिणः।
तान् प्रत्यूचुः प्रहस्येऽदम् मेघ-निः-ह्रादया गिरा ॥ ३७ ॥

श्री-विष्णु-दूता ऊचुः
यूयं वै धर्म-राजस्य यदि निर्देश-कारिणः।
ब्रूत धर्मस्य न तत्त्वं यच्च धर्मस्य लक्षणम् ॥ ३८ ॥

कथम् स्विद् ध्रियते दण्डः किं वास्य स्थानम् ईप्सितम्।
दण्ड्याः किं कारिणः सर्वे आहोस्वित् कतिचिन्नृणाम् ॥ ३९ ॥

यम-दूता ऊचुः
वेद-प्रणिहितः धर्मो ह्यधर्मस्तद् विपर्ययः।
वेदो नारायणः साक्षात् स्वयम्भू रिति शुश्रुम् ॥ ४० ॥

येन स्व-धाम्न्य् अमी भावा रजः-सत्त्व-तमो-मयाः।
गुण-नाम-क्रिया-रूपैः विभाव्यन्ते यथातथम् ॥ ४१ ॥

सूर्यः अग्निः खं मरुद्-गावः सोमः सन्ध्या-हनी दिशः।
कं कुः कालः धर्म इति ह्येते दैह्यस्य साक्षिणः ॥ ४२ ॥

एतैः अधर्मः विज्ञातः स्थानं दण्डस्य युज्यते।
सर्वे कर्मानुरोधेन दण्डं अर्हन्ति कारिणः ॥ ४३ ॥

सम्भवन्ति हि भद्राणि विपरीतानि च अनघाः।
कारिणां गुण-सङ्गोऽस्ति देहवान् न ह्य्-अकर्मकृत् ॥ ४४ ॥

येन यावान् यथा-धर्मो धर्मः वेह समीहितः।
स एव तत् फलं भुङ्क्ते तथा तावद् मुत्‌र वै ॥ ४५ ॥

यथेह देव-प्रवराः त्रैविध्यं उपलभ्यते।
भूतेषु गुण-वैचित्र्यात् तथान्यत्र अनुमीयते ॥ ४६ ॥

वर्तमानोऽन्ययोः कालो गुण-भिज्ञापकः यथा।
एवं जन्मा-न्ययोरेतद्धर्म-अधर्म-नि-दर्शनम् ॥ ४७ ॥

मनसा एव पुरे देवः पूर्व-रूपं विपश्यति।
अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८ ॥

यथा-ज्ञस्तमसा युक्त उपास्ते व्यक्तम् एव हि।
न वेद पूर्वम् अपरं नष्ट-जन्म-स्मृतिः तथा ॥ ४९ ॥

पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाः पञ्चभिः।
एकस्तु षोडशेन त्रीन् स्वयं सप्त-दशोऽश्नुते ॥ ५० ॥

तदेतत् षोडश-कलं लिङ्गं शक्ति-त्रयं महत्।
धत्तेऽनु-संसृतिं पुंसि हर्ष-शोक-भय-आर्तिदाम् ॥ ५१ ॥

देह्यज्ञोऽजित-षड्वर्गो नेच्छन् कर्माणि कार्यते।
कोशकार इव आत्मानं कर्मणाऽच्छाद्य मुह्यति ॥ ५२ ॥

न हि कश्चित् क्षणम् अपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैः बलात् ॥ ५३ ॥

लब्ध्वा निमित्तम् अव्यक्तं व्यक्त-व्यक्तं भवति उत्।
यथा-योनि यथा-बीजं स्वभावेन बलीयसा ॥ ५४ ॥

एष प्रकृति-सङ्गेन पुरुषस्य विपर्ययः।
आसीत् स एव न चिरा-दीश-सङ्गाद् विलीयते ॥ ५५ ॥

अयं हि श्रुत-सम्पन्नः शील-वृत्त-गुणालयः।
धृत-व्रतो मृदुर्दान्तः सत्यवान् मन्त्र-विच्छुचिः ॥ ५६ ॥

गुर्व-ज्ञ्य-तिथिवृद्धानां शुश्रूषुर्निरहङ्‌कृतः।
सर्व-भूत-सुहृत् साधुर्मित-वाग-नसूयकः ॥ ५७ ॥

एक-दासौ वनं यातः पितृ-सन्देश-कृद् द्विजः।
आदाय तत् आवृत्तः फल-पुष्प-समित् कुशान् ॥ ५८ ॥

ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया।
पीत्वा च मधु मैरेयं मद-आघूर्णित-नेत्रया ॥ ५९ ॥

मत्तया विश्लथन्नीव्या व्यपेतं निर-पत्रपम्।
क्रीडन्तम् अनु गायन्तं हसन्तम् अनयान्तिके ॥ ६० ॥

दृष्ट्वा तां काम-लिप्तेन बाहुना परि-रम्भिताम्।
जगाम हृच्छय-वशं सहसैव विमोहितः ॥ ६१ ॥

स्तम्भयन् आत्मनाऽऽत्मानं यावत् सत्त्वं यथा श्रुतम्।
न शशाक समाधातुं मनो मदन-वепितम् ॥ ६२ ॥

तन्निमित्त- स्मर-व्यास-ग्रह-ग्रस्तो विचेतनः।
तामेव मनसा ध्यायन् स्व-धर्मात् विरराम ह ॥ ६३ ॥

तामेव तोषयामास पित्र्येणार्थेन यावता।
ग्राम्यैः मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४ ॥

विप्रां स्व-भार्यां अप्रौढां कुले महति लम्भिताम्।
विससर्जा चिरात् पापः स्वैरिण्या पाङ्ग-विद्ध-धीः ॥ ६५ ॥

यतस्ततश्च उपनिन्ये न्यायतः अन्यायतः धनम्।
बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्द-धीरयम् ॥ ६६ ॥

यदसौ शास्त्र-मुल्लङ्‌घ्य स्वैर-चार्य-ति-गर्हितः।
अवर्तत चिरं काल-मघा-युर अशुचिर्मलात् ॥ ६७ ॥

तत् एनं दण्ड-पाणेः सकाशं कृत-किल्बिषम्।
नेष्यामः अकृत-निर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८ ॥

॥ इति श्री-मद्-भागवते महा-पुराणे पार-महंस्यां संहिता-यां
षष्ठ-स्कन्धे अजामिलो-पाख्याने प्रथमोऽध्यायः ॥ १ ॥