Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 1 (அஜாமிளன் வாழ்க்கை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அஜாமிளன் வாழ்க்கை

ஸ்கந்தம் 6: அத்யாயம் 1

 

राजो-वाच
निवृत्ति-मार्गः कथितः आदौ भगवता यथा।
क्रम-योगोपलब्धेन ब्रह्मणा यत् असंसृतिः ॥ १ ॥

प्रवृत्ति-लक्षणः च एव त्रैगुण्य-विषयः मुने।
योऽसा अवलीन-प्रकृतेर् गुण-सर्गः पुनः पुनः ॥ २ ॥

अधर्म-लक्षणाः नाना नरकाः चानुवर्णिताः।
मन्वन्तरः च व्याख्यातः आद्यः स्वायम्भुवो यतः ॥ ३ ॥

प्रिय-व्रतः उत् तानपदोर्वंशः तच्चरितानि च।
द्वीप-वर्ष-समुद्राद् रिनद्य-उद्यान-वनस्पतीन् ॥ ४ ॥

धरा-मण्डल-संस्थानं भाग-लक्षण-मानतः।
ज्योतिषां विवराणां च यथेतद् असृजद् विभुः ॥ ५ ॥

अधुने ह महाभाग यथैव नरकान् नरः।
नाना-ग्रयातनान् नेयात् तन्मे व्याख्यातुम् अर्हसि ॥ ६ ॥

श्री-शुक उवाच
न चेद् इह एव अपचितिं यथांहसः
कृतस्य मनौक्त-पाणिभिः।
ध्रुवं स वै प्रेत्य नरकान् उपैति
ये कीर्तिता मे भवतस्तिग्म-यातनाः ॥ ७ ॥

तस्मात् पुरैव अश्विह पाप-नि:कृतौ
यतेत् मृत्योर् अविपद्यत् आत्मना।
दोषस्य दृष्ट्वा गुरु-लाघवं यथा
भिषक् चिकित्सेत् रुजां निदान-वित् ॥ ८ ॥

श्री-राजो-वाच
दृष्ट-श्रुताभ्यां यत् पापं जानन् अपि आत्मनोऽहितम्।
करोति भूयो विवशः प्रायश्चित्तम् अथो कथम् ॥ ९ ॥

क्वचिन् निवर्ततेऽभद्रात् क्वचि चरति तत् पुनः।
प्रायश्चित्तम् अथोऽपार्थं मन्ये कुञ्जर-शौचवत् ॥ १० ॥

श्री-शुक उवाच
कर्मणा कर्म-निर्हारः न ह्यात्यन्तिक इष्यते।
अविद्वद् अधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥ ११ ॥

न अश्नतः पथ्यम् एव अन्नं व्याधयः अभिभवन्ति हि।
एवं नियम-कृत-राजन् शनैः क्षेमाय कल्पते ॥ १२ ॥

तपसा ब्रह्म-चर्येण शमेन च दमेन च।
त्यागेन सत्य-शौचाभ्यां यमेन नियमेन वा ॥ १३ ॥

देह-वाग्-बुद्धि-जं धीरा धर्म-ज्ञाः श्रद्धया अन्विताः।
क्षिपन्त्यघं महद् अपि वेणु-गुल्म-मिव अनलः ॥ १४ ॥

केचित् केवलया भक्त्या वासुदेव-परायणाः।
अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ १५ ॥

न तथा ह्य-घवान् राजन् पूयेत् तप आदिभिः।
यथा कृष्णार्पित-प्राणः तत् पुरुष-निषेवया ॥ १६ ॥

सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः।
सुशीलाः साधवो यत्र नारायण-परायणाः ॥ १७ ॥

प्रायश्चित्तानि चीर्णानि नारायण-पराङ् मुखम्।
न निष्पुनन्ति राजेन्द्र सुरा-कुम्भमिव आपगाः ॥ १८ ॥

सकृन्मनः कृष्ण-पदा-रविन्दयो-
निवेशितं तद् गुण-रागि यैरिह।
न ते यमं पाश-भृतश्च तद् भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्ण-नि:कृताः ॥ १९ ॥

अत्र चोदाहरन्तीम् अमितिहासं पुरातनम्।
दूतानां विष्णु-यमयोः संवादस्तं निबोध मे ॥ २० ॥

कान्यकुब्जे द्विजः कश्चिद् दासी-पतिर् अजामिलः।
नाम्ना नष्ट-सदाचारः दास्याः संसर्ग-दूषितः ॥ २१ ॥

बन्ध्य-शकैत-वैश्चौर्यैर्गर्हितां वृत्ति-मास्थितः।
बिभ्रत् कुटुम्बम् अशुचिर्यातयामास देहिनः ॥ २२ ॥

एवं निवसतस् तस्य लालयानस् तत् सुतान्।
कालः अत्यगान् महाः राजन् नष्टाशीत्यायुषः समाः ॥ २३ ॥

तस्य प्रवयसः पुत्राः दश तेषां तु योऽवमः।
बालः नारायणो नाम्ना पित्रोः च दयितो भृशम् ॥ २४ ॥

स बद्ध-हृदयः तस्मिन् नर्भके कलभाषिणि।
निरीक्षमाणः तल्लीलां मुमुदे जरठो भृशम् ॥ २५ ॥

भुञ्जानः प्रपिबन् खादन् बालक-स्नेह-यन्त्रितः।
भोजयन् पाययन् मूढो न वेद् आगतम् अन्तकम् ॥ २६ ॥

स एवं वर्तमानोऽज्ञो मृत्यु-काल उपस्थिते।
मतिं चकार तनये बाले नारायण-ाह्वये ॥ २७ ॥

स पाश-हस्तांश् त्रि-न्दृष्ट्वा पुरुषान् भृश-दारुणान्।
वक्र-तुण्डान् ऊर्ध्व-रोम्ण आत्मानं नेतुम् आगतान् ॥ २८ ॥

दूरे क्रीड-नकासक्तं पुत्रं नारायण-ाह्वयम्।
प्लावितेन स्वर-एणोच्चैर् आजुहावाकुलेन्द्रियः ॥ २९ ॥

निशम्य म्रियमाणस्य ब्रुवतो हरि-कीर्तनम्।
भर्तुः नाम महाराजः पार्षदाः सहसाऽपतन् ॥ ३० ॥

विकर्षतः अन्तर्-हृदयात् दासी-पतिम् अजामिलम्।
यम-प्रेष्याः विष्णु-दूता वारयामासुरोजसा ॥ ३१ ॥

ऊचुर्निषेधितास्तांस्ते वैवस्वत-पुरःसराः।
के यूयं प्रतिषेध-धारः धर्म-राजस्य शासनम् ॥ ३२ ॥

कस्य वा कुत् आयाताः कस्माद् अस्य निषेधः।
किं देवा उपदेवा या यूयं किं सिद्ध-सत्तमाः ॥ ३३ ॥

सर्वे पद्म-पलाश-ाक्षाः पीत-कौशेय-वाससः।
किरिटिनः कुण्डलिनः लसत् पुष्कर-मालिनः ॥ ३४ ॥

सर्वे च नूत्‍न-वयसः सर्वे चारु-चतुर्भुजाः।
धनुः निषङ्गासिगदाशङ् ख-चक्राम्बुज-श्रियः ॥ ३५ ॥

दिशो वितिमिर-आलोकाः कुर्वन्तः स्वेन रोचिषा।
किमर्थं धर्म-पालस्य किङ्करान् नो निषेधः ॥ ३६ ॥

श्री-शुक उवाच
इति उक्ते यम-दूतैः तैः वासुदेव-उक्त-कारिणः।
तान् प्रत्यूचुः प्रहस्येऽदम् मेघ-निः-ह्रादया गिरा ॥ ३७ ॥

श्री-विष्णु-दूता ऊचुः
यूयं वै धर्म-राजस्य यदि निर्देश-कारिणः।
ब्रूत धर्मस्य न तत्त्वं यच्च धर्मस्य लक्षणम् ॥ ३८ ॥

कथम् स्विद् ध्रियते दण्डः किं वास्य स्थानम् ईप्सितम्।
दण्ड्याः किं कारिणः सर्वे आहोस्वित् कतिचिन्नृणाम् ॥ ३९ ॥

यम-दूता ऊचुः
वेद-प्रणिहितः धर्मो ह्यधर्मस्तद् विपर्ययः।
वेदो नारायणः साक्षात् स्वयम्भू रिति शुश्रुम् ॥ ४० ॥

येन स्व-धाम्न्य् अमी भावा रजः-सत्त्व-तमो-मयाः।
गुण-नाम-क्रिया-रूपैः विभाव्यन्ते यथातथम् ॥ ४१ ॥

सूर्यः अग्निः खं मरुद्-गावः सोमः सन्ध्या-हनी दिशः।
कं कुः कालः धर्म इति ह्येते दैह्यस्य साक्षिणः ॥ ४२ ॥

एतैः अधर्मः विज्ञातः स्थानं दण्डस्य युज्यते।
सर्वे कर्मानुरोधेन दण्डं अर्हन्ति कारिणः ॥ ४३ ॥

सम्भवन्ति हि भद्राणि विपरीतानि च अनघाः।
कारिणां गुण-सङ्गोऽस्ति देहवान् न ह्य्-अकर्मकृत् ॥ ४४ ॥

येन यावान् यथा-धर्मो धर्मः वेह समीहितः।
स एव तत् फलं भुङ्क्ते तथा तावद् मुत्‌र वै ॥ ४५ ॥

यथेह देव-प्रवराः त्रैविध्यं उपलभ्यते।
भूतेषु गुण-वैचित्र्यात् तथान्यत्र अनुमीयते ॥ ४६ ॥

वर्तमानोऽन्ययोः कालो गुण-भिज्ञापकः यथा।
एवं जन्मा-न्ययोरेतद्धर्म-अधर्म-नि-दर्शनम् ॥ ४७ ॥

मनसा एव पुरे देवः पूर्व-रूपं विपश्यति।
अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८ ॥

यथा-ज्ञस्तमसा युक्त उपास्ते व्यक्तम् एव हि।
न वेद पूर्वम् अपरं नष्ट-जन्म-स्मृतिः तथा ॥ ४९ ॥

पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाः पञ्चभिः।
एकस्तु षोडशेन त्रीन् स्वयं सप्त-दशोऽश्नुते ॥ ५० ॥

तदेतत् षोडश-कलं लिङ्गं शक्ति-त्रयं महत्।
धत्तेऽनु-संसृतिं पुंसि हर्ष-शोक-भय-आर्तिदाम् ॥ ५१ ॥

देह्यज्ञोऽजित-षड्वर्गो नेच्छन् कर्माणि कार्यते।
कोशकार इव आत्मानं कर्मणाऽच्छाद्य मुह्यति ॥ ५२ ॥

न हि कश्चित् क्षणम् अपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैः बलात् ॥ ५३ ॥

लब्ध्वा निमित्तम् अव्यक्तं व्यक्त-व्यक्तं भवति उत्।
यथा-योनि यथा-बीजं स्वभावेन बलीयसा ॥ ५४ ॥

एष प्रकृति-सङ्गेन पुरुषस्य विपर्ययः।
आसीत् स एव न चिरा-दीश-सङ्गाद् विलीयते ॥ ५५ ॥

अयं हि श्रुत-सम्पन्नः शील-वृत्त-गुणालयः।
धृत-व्रतो मृदुर्दान्तः सत्यवान् मन्त्र-विच्छुचिः ॥ ५६ ॥

गुर्व-ज्ञ्य-तिथिवृद्धानां शुश्रूषुर्निरहङ्‌कृतः।
सर्व-भूत-सुहृत् साधुर्मित-वाग-नसूयकः ॥ ५७ ॥

एक-दासौ वनं यातः पितृ-सन्देश-कृद् द्विजः।
आदाय तत् आवृत्तः फल-पुष्प-समित् कुशान् ॥ ५८ ॥

ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया।
पीत्वा च मधु मैरेयं मद-आघूर्णित-नेत्रया ॥ ५९ ॥

मत्तया विश्लथन्नीव्या व्यपेतं निर-पत्रपम्।
क्रीडन्तम् अनु गायन्तं हसन्तम् अनयान्तिके ॥ ६० ॥

दृष्ट्वा तां काम-लिप्तेन बाहुना परि-रम्भिताम्।
जगाम हृच्छय-वशं सहसैव विमोहितः ॥ ६१ ॥

स्तम्भयन् आत्मनाऽऽत्मानं यावत् सत्त्वं यथा श्रुतम्।
न शशाक समाधातुं मनो मदन-वепितम् ॥ ६२ ॥

तन्निमित्त- स्मर-व्यास-ग्रह-ग्रस्तो विचेतनः।
तामेव मनसा ध्यायन् स्व-धर्मात् विरराम ह ॥ ६३ ॥

तामेव तोषयामास पित्र्येणार्थेन यावता।
ग्राम्यैः मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४ ॥

विप्रां स्व-भार्यां अप्रौढां कुले महति लम्भिताम्।
विससर्जा चिरात् पापः स्वैरिण्या पाङ्ग-विद्ध-धीः ॥ ६५ ॥

यतस्ततश्च उपनिन्ये न्यायतः अन्यायतः धनम्।
बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्द-धीरयम् ॥ ६६ ॥

यदसौ शास्त्र-मुल्लङ्‌घ्य स्वैर-चार्य-ति-गर्हितः।
अवर्तत चिरं काल-मघा-युर अशुचिर्मलात् ॥ ६७ ॥

तत् एनं दण्ड-पाणेः सकाशं कृत-किल्बिषम्।
नेष्यामः अकृत-निर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८ ॥

॥ इति श्री-मद्-भागवते महा-पुराणे पार-महंस्यां संहिता-यां
षष्ठ-स्कन्धे अजामिलो-पाख्याने प्रथमोऽध्यायः ॥ १ ॥

No comments: