Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 3 (யமதர்மன் ஆணை) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

யமதர்மன் ஆணை

ஸ்கந்தம் 6: அத்யாயம் 3

 

श्री-राजा उवाच
निशम्य देवः स्व-भट-उपवर्णितं
प्रत्याह किं तान् प्रति धर्म-राजः।
एवं हत-आज्ञो विहतान् मुुरारे-
र्नैदेशिकैः यस्य वशे जनः अयम् ॥ १ ॥

यमस्य देवस्य न दण्ड-भङ्गः
कुतश्चनर्षे श्रुत-पूर्व आसीत्।
एतत् मुने वृश्चति लोक-संशयं
न हि त्वद् अन्य इति मे विनिश्चितम् ॥ २ ॥

श्री-शुक उवाच
भगवत् पुरुषैः राजन् याम्याः प्रतिहतः उद्यमाः।
पतिं विज्ञापयामासुर्यम् संयम-नीपतिम् ॥ ३ ॥

यम-दूता ऊचुः
कति सन्तीह शास्तारः जीव-लोकस्य वै प्रभो।
त्रैविध्यं कुर्वतः कर्म-फल- अभिव्यक्ति-हेतवः ॥ ४ ॥

यदि स्युः बहवो लोके शास्तारः दण्ड-धारिणः।
कस्य स्यातां न वा कस्य मृत्युश्च अमृतमेव वा ॥ ५ ॥

किंतु शास्तृ-बहुत्वे स्याद् बहूनाम् इह कर्मिणाम्।
शास्तृत्वम् उपचारः हि यथा मण्डल-वर्तिनाम् ॥ ६ ॥

अतः त्वम् एको भूतानां सेश्वराणाम् अधीश्वरः।
शास्ता दण्ड-धरो नृणां शुभ- अशुभ-विवेचनः ॥ ७ ॥

तस्य ते विहितो दण्डो न लोके वर्तते अधुना।
चतुर्भिर अद्भुतैः सिद्धैराज्ञा ते विप्र-लम्भिता ॥ ८ ॥

नीयमानं तव आदेशात् अस्माभिः यातना-गृहान्।
व्यामोचयन् पातकं छित्त्वा पाशान् प्रसह्य ते ॥ ९ ॥

तान् ते वेदितुम् इच्छामो यदि नो मन्यसे क्षमम्।
नारायणेत्य अभिहिते मा भैरित्य आययुर्द्रुतम् ॥ १० ॥

श्री-शुक उवाच
इति देवः स आपृष्टः प्रजा-संयम-नो यमः।
प्रीतः स्व-दूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ ११ ॥

यम उवाच
परो मदन्यो जगत् स्थतुषः श्च
ओतं प्रोतं पटवद्यत्र विश्वम्।
यद् अंशतोऽस्य स्थिति-जन्म-नाशा
नस्योतवद् यस्य वशे च लोकः ॥ १२ ॥

यो नामभिः वाचि जन-निजायां
बध्नाति तन्त्याम् इव दामभिः गाः।
यस्मै बलिं त इमे नाम-कर्म-
निबन्ध-बद्धाश्चकिता वहन्ति ॥ १३ ॥

अहं महेन्द्रः निरृतिः प्रचेताः
सोमः अग्निर ईशः पवनः अर्कः विरिञ्चः।
आदित्यः विश्वे वसवोऽथ साध्याः
मरुद्-गणा रुद्र-गणाः स-सिद्धाः ॥ १४ ॥

अन्ये च ये विश्व-सृजोऽमरेशाः
भृग्वादयः अस्पृष्ट-रजस् तमस्काः।
यस्ये हितं न विदुः स्पृष्ट-मायाः
सत्त्व-प्रधाना अपि किं ततोऽन्ये ॥ १५ ॥

यं वै न गोभिः मनसा-सुभिर्वा
हृदा गिरा वासु-भृतो विचक्षते।
आत्मानम् अन्तर-हृदि सन्त-आत्मना
चक्षुर् यथैव आकृतयः ततः परम् ॥ १६ ॥

तस्य आत्म-तन्त्रस्य हरेः अधीशितुः
परस्य मायाधिपतेर्महात्मनः।
प्रायेण दूता इह वै मनो-हरा-
श्चरन्ति तद् रूप-गुण-स्वभावाः ॥ १७ ॥

भूतानि विष्णोः सुर-पूजितानि
दुर्दर्श-लिङ्गानि महाद्भुतानि।
रक्षन्ति तद् भक्तिमतः परेभ्यः
मत्तश्च मर्त्यान् अथ सर्वतश्च ॥ १८ ॥

धर्मं तु साक्षात् भगवत् प्रणीतम्
न वै विदुर् ऋषयो न अपि देवाः।
न सिद्ध-मुख्या असुरा मनुष्याः
कुतश्च विद्याधर-चारणादयः ॥ १९ ॥

स्वयम्भूः नारदः शम्भुः कुमारः कपिलो मनुः।
प्रह्लादो जनकः भीष्मः बलिर्वैयासकिर्वयम् ॥ २० ॥

द्वादशैते विजानीमः धर्मं भागवतं भटाः।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वा अमृतम् अश्नुते ॥ २१ ॥

एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः।
भक्तियोगः भगवति तन्नाम-ग्रहणादिभिः ॥ २२ ॥

नाम-उच्चारण-माहात्म्यम् हरेः पश्यत पुत्रकाः।
अजामिलोऽपि येनैव मृत्युपाशात् अमुच्यत ॥ २३ ॥

एतावता-लमघ-निर्हरणाय पुंसां
सङ्कीर्तनं भगवतो गुण-कर्म-नाम्नाम्।
विक्रुश्य पुत्र-मघवान् यद् अजामिलोऽपि
नारायणेति म्रियमाण इयाय मुक्तिम् ॥ २४ ॥

प्रायेण वेद तदिदं न महा-जनः अयं
देव्या विमोहित-मतिर्बत् माय-यालम्।
त्रय्याम् जड़ीकृत-मतिर्मधु-पुष्पितायां
वैतानिके महति कर्मणि युज्यमानः ॥ २५ ॥

एवं विमृश्य सुधियो भगवत्य अनन्ते
सर्व-आत्मना विदधते खलु भाव-योगम्।
ते मे न दण्डमर्हन्ति यथ यमि षां
स्यात् पातकं तदपि हन्त्युरुगा-यवादः ॥ २६ ॥

ते देव-सिद्ध-परिगीत-पवित्र-गाथा
ये साधवः समदृशो भगवत् प्रपन्नाः।
तान् नोपसीदत हरेर्गद-याभिगुप्तान्
न एषां वयं न च वयः प्रभवाम् दण्डे ॥ २७ ॥

तान् अनय-ध्वम् असतो विमुखान् मुकुन्द-
पाद-आरविन्द-मकरन्द-रसादजस्रम्।
निष्किञ्चनैः परमहंस-कुलैः रस-ज्ञैः
र्जुष्टाद् गृहें निरय-वर्त्मनि बद्ध-तृष्णान् ॥ २८ ॥

जिह्वा न वक्ति भगवद् गुण-नामधेयं
चेतश्च न स्मरति तच्चरण-आरविन्दम्।
कृष्णाय नो नमति यच्छिर एकदापि
तान् अनय-ध्वम् असतोऽकृत-विष्णु-कृत्यान् ॥ २९ ॥

तत् क्षम्यतां स भगवान् पुरुषः पुराणः
नारायणः स्व-पुरुषैः यद् असत्कृतं नः।
स्वानाम् हो न विदुषां रचिताञ्जलीनां
क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥ ३० ॥

तस्मात् सङ्कीर्तनं विष्णोः जगत्-मङ्गलम् अंशम्।
महताम् अपि कौरव्य विद्ध्यैकान्तिक-निष्कृतम् ॥ ३१ ॥

शृण्वतां गृणतां वीर्याणि उद्दामानि हरेः मुहुः।
यथा सुजातया भक्त्या शुद्ध्येत् नात्मा व्रतादिभिः ॥ ३२ ॥

कृष्णाङ्घ्रि-पद्म-मधुलिण् न पुनः विसृष्ट-
माया-गुणेषु रमते वृजिनाव-हेषु।
अन्यस्तु काम-हत आत्म-रजः प्रमार्ष्टुम्
ईहेत् कर्म यत् एव रजः पुनः स्यात् ॥ ३३ ॥

इति स्व-भर्तृ-गदितम् भगवन् महित्वम्
संस्मृत्य विस्मित-धियो यम-किङ्करास्ते।
नैव अच्युत-आश्रयजनं प्रति शङ्कमाना
द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ ३४ ॥

इतिहासम् इमं गुह्यं भगवान् कुम्भ-सम्भवः।
कथयामास मलय आसीनो हरि-मर्चयन् ॥ ३५ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे यम-पुरुष-संवादे तृतीयोऽध्यायः ॥ ३ ॥

No comments: