Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 4 (தக்ஷ ஸ்துதி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தக்ஷ ஸ்துதி

ஸ்கந்தம் 6: அத்யாயம் 4

 

श्री-राजा उवाच
देव-असुर-नृणां सर्गः नागानां मृग-पक्षिणाम्।
सामासिकः त्वया प्रोक्तो यः तु स्व-आयम्भु-वेऽन्तरे ॥ १ ॥

तस्यैव व्यासं इच्छामि ज्ञातुं ते भगवन् यथा।
अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥ २ ॥

श्री-सूत उवाच
इति सम्प्रश्नं आकर्त्य राजर्षेः बादरायणिः।
प्रतिनन्द्य महा-योगी जगाद मुनि-सत्तमाः ॥ ३ ॥

श्री-शुक उवाच
यदा प्रचेतसः पुत्राः दश प्राचीन-बर्हिषः।
अन्तः-समुद्रात् उन्मग्ना ददृशुर्गां द्रुमैः वृताम् ॥ ४ ॥

द्रुमेभ्यः क्रुध्य-मानाः ते तपो-दीपित-मन्यवः।
मुखतो वायुं अग्निं च ससृजुस्तद्-धिक्षया ॥ ५ ॥

ताभ्यां निर्दह्यमानाः तान् उपलभ्य कुरू-उद्धः।
राजो-उवाच महान् सोमो मन्युं प्रशमयन् निव ॥ ६ ॥

मा द्रुमेभ्यः महा-भागा दीनेभ्यः द्रोग्धु-मार्थ।
विवर्धयिषवः यूयं प्रजानां पतयः स्मृताः ॥ ७ ॥

अहो प्रजा-पति-पतिः भगवान् हरि-रव्ययः।
वन-स्पती-नोषधिश् च ससर्जोर्जमिषं विभुः ॥ ८ ॥

अन्नं चराणाम् अचरा ह्यपदः पाद-चारिणाम्।
अहस्ता हस्त-युक्तानां द्वि-पदां च चतु-ष्पदः ॥ ९ ॥

यूयं च पित्रान्वादिष्टा देव-देवेन च अनघाः।
प्रजा-सर्गाय हि कथं वृक्षान् निर्दग्धुं अर्हथ ॥ १० ॥

आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम्।
पित्रा पितामहेन अपि जुष्टं वः प्र-पितामहैः ॥ ११ ॥

तो-का-नाम् पितरौ बन्धू दृष्टः पक्ष्म स्त्रियाः पतिः।
पतिः प्रजानां भिक्षूणां गृह्य-ज्ञानां बुधः सुहृत् ॥ १२ ॥

अन्तर्-देहेषु भूतानामात्माऽस्ते हरि-ईश्वरः।
सर्वं तद्-धिष्णु-मीक्षध्वम् एवं वत्सोषितो ह्यसौ ॥ १३ ॥

यः समुत्पतितं देह आकाशात् मन्यु-मुल्बणम्।
आत्म-जिज्ञासया यच्छेत् स गुणान-ति-वर्तते ॥ १४ ॥

अलं दग्धैः द्रुमैः दीनेभ्यः खिलानां शिवमस्तु वः।
वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ १५ ॥

इति आमन्त्र्य वर-रोहां कन्याम् आप्सरसीं नृप।
सोमो राजा ययौ दत्त्वा ते धर्मेण उपये-मिरे ॥ १६ ॥

तेभ्यः तस्यां समभवद्दक्षः प्राचेतसः किल।
यस्य प्रजा-विसर्गेण लोका आपूरितास्त्रयः ॥ १७ ॥

यथा ससर्ज भूतानि दक्षः दुहितृ-वत्सलः।
रेतसा मनसा चैव तन्ममावहितः शृणु ॥ १८ ॥

मनसा एवासृजत् पूर्वं प्रजा-पतिः इमाः प्रजाः।
देव-असुर-अनुष्य-आदि नभः-स्थल-जल-औकसः ॥ १९ ॥

तम् अबृंहित-मालोक्य प्रजा-सर्गं प्रजा-पतिः।
विन्ध्य-पादानुपव्रज्य सोऽचरद्-दुष्करं तपः ॥ २० ॥

तत्र-आघ-मर्षणम् नाम तीर्थम् पाप-हरम् परम्।
उप-स्पृश्य-अनुसवनम् तपसा-तोषयद्धरिम् ॥ २१ ॥

अस्तौषीत् धंस-गुह्येन भगवन् तम् अधो-क्षजम्।
तुभ्यं तद् अभिधास्यामि कस्यात् उष्यद्यथा हरिः ॥ २२ ॥

श्री-प्रजापति- उवाच
नमः पराया-ऽवितथानुभूतये
गुण-त्रय-आभास-निमित्त-बन्धवे।
अदृष्ट-धाम्ने गुण-तत्त्व-बुद्धिभि-
र्निवृत्त-मानाय दधे स्वयम्भुवे ॥ २३ ॥

न यस्य सख्यं पुरुषः अवैति सख्युः
सखा वसन् संवसतः पुरेऽस्मिन्।
गुणः यथा गुणिनो व्यक्त-दृष्टे-
स्तस्मै महेशाय नमस्करोमि ॥ २४ ॥

देहः असवः अक्षाः मनः भूत-मात्राः
नात्मानं अन्यं च विदुः परं यत्।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञः
न वेद सर्वज्ञ-अनन्तम् इडे ॥ २५ ॥

यद् ऊपरामो मनसो नाम-रूप-
रूपस्य दृष्ट-स्मृति-सम्प्रमोषात्।
य ईयते केवलया स्व-संस्थया
हंसाय तस्मै शुचि-सद्मने नमः ॥ २६ ॥

मनीषिणः अन्तः-हृदि सन्निवेशितम्
स्व-शक्तिभिः नवभिः त्रिवृद्भिः।
वह्निं यथा दारुणि पाञ्च-दश्यं
मनीषया निष्कर्षन्ति गूढम् ॥ २७ ॥

स वै मम आशेष-विशेष-माया
निषेध-निर्वाण-सुखानुभूतिः।
स सर्व-नामा स च विश्व-रूपः
प्रसीदताम् अनिरुक्त-आत्म-शक्तिः ॥ २८ ॥

यद्यन्निरुक्तम् वचसा निरूपितम्
धियाक्षभिर्वा मनसा वोत यस्य।
मा भूत्वा स्वरूपं गुण-रूपं हि तत्तत्
स वै गुण-अपाय-विशर्ग-लक्षणः ॥ २९ ॥

यस्मिन् यतो येन च यस्य यस्मै
यद् यो यथा कुरुते कार्यते च।
परावरेषां परमं प्राक् प्रासिद्धम्
तद् ब्रह्म तद्धेतुर अनन्य-एकम् ॥ ३० ॥

यच्छक्तयः वदतां वादिनां वै
विवाद-संवाद-भुवो भवन्ति।
कुर्वन्ति चैषां मुहुरात्म-मोहं
तस्मै नमोऽनन्त-गुणाय भूम्ने ॥ ३१ ॥

अस्तीति नास्तीति च वस्तु-निष्ठयो-
रेकस्थयोः भिन्न-विरुद्ध-धर्मयोः।
अवेक्षितं किञ्चन योग-साङ्ख्ययोः
समं परं ह्यनुकूलं बृहत्तत् ॥ ३२ ॥

योऽनुग्रह-आर्थं भजतां पाद-मूल-
मनाम-रूपो भगवान् अनन्तः।
नामानि रूपाणि च जन्म-कर्म-भि-
र्भेजे स मह्यं परमः प्रसीदतु ॥ ३३ ॥

यः प्राकृतैः ज्ञान-पथैः जनानां
यथाशयं देह-गतो विभाति।
यथा अनिलः पार्थिवम् आश्रितो गुणं
स ईश्वरो मे कुरुतान् मनोरथम् ॥ ३४ ॥

श्री-शुक उवाच
इति स्तुतः संस्तुवतः स तस्मिन् नघ-मर्षणे।
आविरासीत् कुरु-श्रेष्ठ भगवान् भक्तवत्सलः ॥ ३५ ॥

कृत-पादः सुपर्णांसे प्रलम्ब-आठ-महाभुजः।
चक्र-शङ्खा-सि-चर्मेषु धनुः-पाश-गदाधरः ॥ ३६ ॥

पीत-वासा घन-श्यामः प्रसन्न-वदनेक्षणः।
वन-माला-निवीताङ्गो लस-श्री-वात्स-कौस्तुभः ॥ ३७ ॥

महाकिरीट-कटकः स्फुरन्मकर-कुण्डलः।
काञ्च्य-अंगुली-यवलय-नूपुर-आङ्ग-दभूषितः ॥ ३८ ॥

त्रैलोक्य-मोहनं रूपं बिभ्रत् त्रि-भुवनेश्वरः।
वृतो नारद-नन्दाद्यैः पार्षदैः सुर-यूथ-पैः ॥ ३९ ॥

स्तूयमानः अनुगाय-इद्भिः सिद्ध-गन्धर्व-चारणैः।
रूपं तन्महद् आश्चर्यं विचक्ष्य आगत-साध्वस् ॥ ४० ॥

न-नाम दण्ड-वद् भूमौ प्रहृष्ट-आत्मा प्रजापतिः।
न किञ्चन ओदीरयितुम् अशकत् तीव्र-या मुदा।
आपूर्तम् मनो-द्वारैः हृदि-न्य इव निर्झरैः ॥ ४१ ॥

तं तथावनतं भक्तम् प्रजा-कामं प्रजापतिम्।
चित्त-ज्ञः सर्व-भूतानाम् इदम् आह जनार्दनः ॥ ४२ ॥

श्री-भगवान् उवाच
प्राचेतस् महा-भाग संसिद्ध-तपसा भवान्।
यत् श्रद्धया मत् परया मयि भावं परं गतः ॥ ४३ ॥

प्रीतः अहम् ते प्रजा-नाथ यत् तेऽस्य उद्बृंहणं तपः।
मम ऐष कामः भूतानां यत् भूयासुः विभूतयः ॥ ४४ ॥

ब्रह्मा भवः भवन्तश्च मनवः विबुध-ईश्वराः।
विभूतयः मम हि एता भूतानां भूति-हेतवः ॥ ४५ ॥

तपो मे हृदयं ब्रह्मं स्तनुः विद्या क्रियाऽकृतिः।
अङ्गानि क्रतवः जाताः धर्म आत्मा-असवः सुराः ॥ ४६ ॥

अहं एव असमेव आग्रे नान्यत् किञ्च अन्तरं बहिः।
संज्ञान मात्रम् अव्यक्तम् प्रसुप्तम् इव विश्वतः ॥ ४७ ॥

मयि अनन्त-गुणेऽनन्ते गुणतः गुण-विग्रहः।
यदाऽसीत् तत् एव अद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥

स वै यदा महा-देवो मम वीर्य-उपबृंहितः।
मेने खिलम् इव आत्मानम् उद्यतः सर्ग-कर्मणि ॥ ४९ ॥

अथ मेऽभिहितो देवः तपोऽतप्यत दारुणम्।
नव विश्व-सृजो युष्मान् येन आदाव सृजद् विभुः ॥ ५० ॥

एषा पञ्च-जनस्याङ्ग दुहिता वै प्रजापतेः।
असिक्नी नाम पत्नीत्वे प्रजेश् प्रतिगृह्यताम् ॥ ५१ ॥

मिथुन-व्यवाय-धर्मः त्वम् प्रजा-सर्गम् इमं पुनः।
मिथुन-व्यवाय-धर्मिण्याम् भूरिशो भावयिष्यसि ॥ ५२ ॥

त्वत्तोऽधः तात् प्रजाः सर्वा मिथुनी-भूय मायया।
मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३ ॥

श्री-शुक उवाच
इति उक्त्वा मिषतस् तस्य भगवान् विश्व-भावनः।
स्वप्न-उपलब्धार्थ इव तत्र एव अन्तर-दधे हरिः ॥ ५४ ॥

इति श्री-मद्भागवते महा-पुराणे पार-महंस्यां संहितायां
षष्ठ-स्कन्धे चतुर्थः अध्यायः ॥ ४ ॥

No comments: