விஷ்ணு பார்ஷதர்கள் வருகை
ஸ்கந்தம் 6: அத்யாயம் 2
श्री-शुक उवाच
एवं ते भगवद्-दूता यम-दूताभि-भाषितम्।
उप-धार्याः तान् राजन् प्रत्याहुर्नयक-विदाः ॥ १ ॥
श्री-विष्णु-दूता ऊचुः
अहो कष्टं धर्म-दृशाम् अधर्मः स्पृशते सभाम्।
यत्रादण्ड्येषु अपापेषु दण्डो यैः ध्रियते वृथा ॥ २ ॥
प्रजानां पितरः ये च शास्तारः साधवः समाः।
यदि स्यात् तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ ३ ॥
यद्यदाचरति श्रेयान् अन्यतस्तत् दीहते।
स यत् प्रमाणं कुरुते लोकः तद् अनु-वर्तते ॥ ४ ॥
यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः।
स्वयम् धर्म-अधर्मं वा न हि वेद यथा पशुः ॥ ५ ॥
स कथं न्यर्पित आत्मानं कृत-मैत्रं अचेतनम्।
विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ ६ ॥
अयं हि कृत-निर्वेशो जन्मकोट्यं हसामपि।
यद् व्याज-हार विवशो नाम् स्वस्त्ययनं हरेः ॥ ७ ॥
एतेनैव ह्यघोनोऽस्य कृतं स्याद् घनि-ष्कृतम्।
यदा नारायणाय एति जगाद् चतु-ऋक्षरम् ॥ ८ ॥
स्तेनः सुरापो मित्र-ध्रुग् ब्रह्म-हा गुरुतल्पगः।
स्त्री-राज-पितृ-गोहन्ता ये च पातक-िनोऽपरे ॥ ९ ॥
सर्वेषाम् अप्य-घवताम् इदमेव सु-निष्कृतम्।
नाम-व्याहरणं विष्णोः यतस्तद् विषयाः मतिः ॥ १० ॥
न निष्कृतेर् उदितैः ब्रह्म-वादिभिः
स्तथा विशुद्ध्यति घवान् व्रतादिभिः।
यथा हरेः नाम-पदैर् उदाहृतैः
स्तद् उत्तम-श्लोक-गुणोपलम्भकम् ॥ ११ ॥
नैकान्तिकं तद्धि कृतेऽपि निष्कृते
मनः पुनः धावति चेदसत् पथे।
तत् कर्म-निर्हारम् अभ्यप्सतां हरेः
गुणानु-वादः खलु सत्त्व-भावनः ॥ १२ ॥
अथ एतं मापनयत् कृत-आशेष-घनि-ष्कृतम्।
यदसौ भगवन् नाम म्रियमानः समग्र-हित् ॥ १३ ॥
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनम् एव वा।
वैकुण्ठ-नाम-ग्रहणम् अशेष-घ-हरम् विदुः ॥ १४ ॥
पतितः स्खलितः भग्नः सन्दष्टः तप्त आहतः।
हरिर् इति अवशेनाह पुमान् नार्हति यातनाम् ॥ १५ ॥
गुरूणां च लघूनां च गुरूणि च लघूनि च।
प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १६ ॥
तैः तानि घानि पूयन्ते तपो-दन-जपादिभिः।
नाधर्मजं तद्धृदयं तद् अपि शाङ्-घ्रि-सेवया ॥ १७ ॥
अज्ञानात् अथवा ज्ञानात् उत्तम-श्लोक-नाम यत्।
सङ्कीर्तितम् घं पुंसो दहे देधो यथा अनलः ॥ १८ ॥
यथा गदं वीर्य-तमम् उपयुक्तं यदृच्छया।
अजानतोऽपि आत्म-गुणं कुर्यात् मन्त्रः अपि उदाहृतः ॥ १९ ॥
श्री-शुक उवाच
ते एवं सुविनिर्णीय धर्मं भागवतं नृप।
तं याम्यपाशान् निर्मुच्य विप्रं मृत्योर् अमूमुचन् ॥ २० ॥
इति प्रत्युदिता याम्या दूता यात्वा यम-आन्तिके।
यम-राज्ञे यथा सर्वम् आचक्षुर् अरिन्दम् ॥ २१ ॥
द्विजः पाशाद् विनिर्मुक्तः गत-भीः प्रकृतिं गतः।
ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥ २२ ॥
तं विवक्षुम् अभिप्रेत्य महापुरुष-किङ्कराः।
सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३ ॥
अजामिलोऽपि अथाकर्ण्य दूतानाम् यम-कृष्णयोः।
धर्मं भागवतं शुद्धं त्रैवेद्यं च गुण-आश्रयम् ॥ २४ ॥
भक्तिमान् भगवत्याः शु माहात्म्य-श्रवणात् धरेः।
अनुतापः महानासीत् स्मरतः अशुभम् आत्मनः ॥ २५ ॥
अहो मे परमं कष्टम् अभूद् अविजित-आत्मनः।
येन विप्लावितं ब्रह्म वृषल्यां जायताऽऽत्मना ॥ २६ ॥
धिङ्-माम् विगर्हितं सद्भिर्दुष्कृतं कुल-कज्जलम्।
हित्वा बालां सतीं योऽहं सुरापाम् असतीं अगाम् ॥ २७ ॥
वृद्ध-आवनाथौ पितरौ नान्य-बन्धू तपस्विनौ।
अहो मया अधुना त्यक्तौ अकृतज्ञेन नीचवत् ॥ २८ ॥
सोऽहं व्यक्तं पतिष्यामि नरके भृश-दारुणे।
धर्म-घ्नाः कामिनो यत्र विन्दन्ति यम-आयतनाः ॥ २९ ॥
किमिदं स्वप्न आहो स्वित् साक्षात् दृष्टम् इह अद्भुतम्।
क्व याता अद्य ते ये मां व्यकर्षन् पाश-पाणयः ॥ ३० ॥
अथ ते क्व गताः सिद्धाश्चत्वारश् चारु-दर्शनाः।
व्यामोचयन् नीयमानं बद्ध्वा पाशैर् अधो भुवः ॥ ३१ ॥
अथापि मे दुर्भगस्य विबुध- उत्तम-दर्शनॆ।
भवितव्यं मङ्गलेन येन आत्मा मे प्रसीदति ॥ ३२ ॥
अन्यथा म्रियमानस्य नाशु चेर्वृषल-इपतेः।
वैकुण्ठ-नाम ग्रहणं जिह्वा वक्तुम् इह आर्हति ॥ ३३ ॥
क्व च अहं कितवः पापो ब्रह्म-घ्नो निर-पत्रपः।
क्व च नारायणेत्येतत् भगवन् नाम मङ्गलम् ॥ ३४ ॥
सोऽहं तथा यतिष्यामि यत् चित्तेन्द्रिय- अनिलः।
यथा न भूयः आत्मानं अन्धे तमसि मज्जये ॥ ३५ ॥
विमुच्य तमिम् बन्धम् अविद्या-काम-कर्मजम्।
सर्व-भूत-सुहृच्छान्तः मैत्रः करुण आत्मवान् ॥ ३६ ॥
मोचये ग्रस्तम् आत्मानं योषिन् मय्याऽऽत्म-मायया।
विक्रीडितो ययैव अहं क्रीडा-मृग इव अधमः ॥ ३७ ॥
मम आहम् इति देहादौ हित्वा अमिथ्यर्थ-धीः मतिम्।
धास्ये मनो भगवति शुद्धं तत् कीर्तनादिभिः ॥ ३८ ॥
श्री-शुक उवाच
इति जात-सुनिर्वेदः क्षण-सङ्गेन् साधुषु।
गङ्गा-द्वारम् उपेयाय मुक्त-सर्वान्-उबन्धनः ॥ ३९ ॥
स तस्मिन् देव-सदन आसीनः योगम् आश्रितः।
प्रत्याहृत-इन्द्रिय- ग्रामो युयोज मन आत्मनि ॥ ४० ॥
ततो गुणेभ्यः आत्मानं वियुज्य आत्म-समाधिना।
युयुजे भगवन् धाम्नि ब्रह्मणि अनुभव-आत्मनि ॥ ४१ ॥
यत् हि उपारत-धीः तस्मिन् न दृष्टः पुरुषान् पुरः।
उपलभ्य उपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ ४२ ॥
हित्वा कलेवरम् तीर्थे गङ्गायां दर्शनात् अनु।
सद्यः स्वरूपं जगृहे भगवत् पार्श्व-वर्तिनाम् ॥ ४३ ॥
साकं विहायसा विप्रो महापुरुष-किङ्करैः।
हैमं विमानं आरुह्य ययौ यत्र श्रियः पतिः ॥ ४४ ॥
एवं स विप्लावित सर्व-धर्मा
दास्याः पतिः पतितः गर्ह्य-कर्मणा।
निपात्यमानो निरये हत-व्रतः
सद्यः विमुक्तः भगवन् नाम गृह्णन् ॥ ४५ ॥
न अतः परं कर्म-निबन्ध-कृत्नं
मुमुक्षतां तीर्थ-पदान् अनुकीर्तनात्।
न यत् पुनः कर्मसु सज्जते मनः
रजः-तमोभ्यां कलिलं ततः अन्यथा ॥ ४६ ॥
य एवं परमं गुह्यं इतिहास-मघा-पहम्।
श्रृणुयात् श्रद्धया युक्तः यश्च भक्त्या अनुकीर्तयेत् ॥ ४७ ॥
न वै स नरकं याति नेक्षितः यम-किङ्करैः।
यद्यपि मङ्गलो मर्त्यो विष्णु-लोके महीयते ॥ ४८ ॥
म्रियमानो हरेर्नाम गृणन् पुत्रोप-चारितम्।
अजामिलोऽपि अगाद्धाम किं पुनः श्रद्धया गृणन् ॥ ४९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे अजामिलोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥

No comments:
Post a Comment